TransLiteral Foundation

रसविद्या - भाग १०

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग १०
घुटिकासिद्धिः

प्रणम्य परया भक्त्या भैरवं भैरवी शिवम् ।
उवाच विनयेनेदं लोकानां हितकांक्षिणी ॥१॥

श्रीभैरवी ।
देवदेव कृपामूर्ते सर्वानुग्राहक प्रभो ।
त्वत्प्रसादान्मया ज्ञातं रहस्यम् अतिदुर्लभम् ॥२॥

कान्ताभ्रहेमकुलिशरसभस्म रसायनम् ।
अतः परं महादेव श्रोतुमिच्छामि भैरव ॥३॥

एतैर् घनाद्यै रचितघुटिकानां रसायनम् ।
श्रुत्वा सविनयं वाक्यं भैरव्यास्त्वादिभैरवः ॥४॥

स्थित्वेत्युवाच वचनं तद्वक्ष्यामि रसायनम् ।
श्रीभैरवः ।

१. सञ्जीवनी घुटिका

शृणु पार्वति यत्नेन सावधानेन साम्प्रतम् ॥५॥

प्रथमं जारणं कार्यं पश्चात्पारदबन्धनम् ।
तस्माज्जारणबीजानि घनादीनां वदामि ते ॥६॥

गन्धतालशिलातुत्थखर्परीहिङ्गुलामलाः ।
भूनागताप्यकासीसनृपावर्ताभ्रगैरिकम् ॥७॥

कान्तत्रिक्षारवैक्रान्तास्त्वेते चूर्णसमांशकः ।
सिद्धचूर्णमिदं ख्यातं श्रेष्ठं स्याद् बीजकर्मणि ॥८॥

द्वन्द्वमेलोपलिप्तायां मूषायां निक्षिपेत्प्रिये ।
कृष्णसत्वाभ्रसत्वं च द्रावयेत्समशुल्बकम् ॥९॥

समित्रपञ्चकं तस्मिन्सिद्धचूर्णं मुहुर्मुहुः ।
घनाद्दशगुणं क्षेप्यं धमेद्गाढं वरानने ॥१०॥

घनसत्वावशिष्टं स्याद्धमनीयं च तावता ।
कालेनेदं व्योमसत्वबीजं जार्यं रसायने ॥११॥

समुखे पारदे बीजं चतुःषष्ट्यंशके क्षिपेत् ।
तप्तखल्वेऽम्लवर्गेण मर्दयेद् दिवसत्रयम् ॥१२॥

तं सूतं कच्छपे यन्त्रे सबिडे जारयेत्प्रिये ।
ततो द्वात्रिंशदंशं च षोडशांशं रसस्य तु ॥१३॥

अष्टमांशं चतुर्थांशं द्व्यंशं चैव समांशकम् ।
पारदे जारयेदेवं क्रमाद्बीजं सुरेश्वरि ॥१४॥

सूतमेवंविधं व्योमसत्वं बीजसमं प्रिये ।
तप्तखल्वेऽम्लवर्गेण मर्दयेदेकवासरम् ॥१५॥

पिष्टिं पारदराजं तं जम्बीरान्तर्विनिक्षिपेत् ।
दोलायन्त्रेऽम्लयुक्ते तं विपचेत्सप्तवासरम् ॥१६॥

तमादाय बलिं क्षिप्त्वा सिद्धचूर्णेन पार्वति ।
ततस्तं भूधरे यन्त्रे पचेल्लघुपुटेन च ॥१७॥

यावत्कठिनतां याति तावत्कार्यं मुहुर्मुहुः ।
दोलापाकं सिद्धचूर्णलेपं भूधरके पुटम् ॥१८॥

मृतसञ्जीवनी नाम्ना घुटिका सर्वसिद्धिदा ।
वक्त्रान्तरे गले मूर्ध्नि बाहौ कर्णेऽथवा वहेत् ॥१९॥

हेम्ना सुवेष्टिता सम्यग्वलीपलितनाशिनी ।
वक्त्रस्था मृत्युहा वर्षाद्विषविग्रहनाशिनी ॥२०॥

शुद्धं गन्धं कर्षमात्रं गव्यं क्षीरं पलं पिबेत् ।
अनेन क्रमणेनैव सूतः संक्रमते तनुम् ॥२१॥

२. दिव्या घुटिका

कान्तम्लेच्छमुखं रूप्यं लिप्तमूषान्तरे समम् ।
द्रावयित्वा सिद्धचूर्णं कान्ताद्दशगुणं शनैः ॥२२॥

वहेन्मुहुर्मुहुर्द्राव्यं यावत्कान्तोऽवशिष्यते ।
कान्तबीजमिदं प्रोक्तं श्रेष्ठं जार्यं रसायने ॥२३॥

समुखे पारदे चेदं बीजं चार्यं च पूर्ववत् ।
चतुःषष्ट्यंशकं पूर्वं समांशं तं क्रमेण वै ॥२४॥

एवंविधं सूतराजं कान्तबीजं द्वयं समम् ।
मर्दयेत्तप्तखल्वे च साम्लवर्गे दिनत्रयम् ॥२५॥

पिष्टीभूतं च जम्बीरे क्षिप्त्वाम्लगणपूरिते ।
दोलायन्त्रे पचेत्सम्यगेवम् आ सप्तवारकम् ॥२६॥

तमादाय लिहेद्बाह्ये सिद्धचूर्णेन भैरवि ।
ततो दिव्यौषधैर्लिप्ते संपुटे भूधरे पचेत् ॥२७॥

यावत्कठिनतां याति तावत्कुर्यात्क्रमेण च ।
दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ॥२८॥

पुटे तौ जारयेद् दिव्यनाम्नाथ परमेश्वरि ।
वक्त्रान्तरे गले मूर्ध्नि बाहौ कर्णेऽथवा वहेत् ॥२९॥

हेम्ना सुवेष्टितं धार्यं वलीपलितनाशनम् ।
पूर्ववत्फलदा पुण्या धार्या यत्नेन मानवैः ॥३०॥

पूर्ववत्क्रामणं कार्यं देहे संक्रमते रसः ।

३. कामेश्वरी घुटिका

समुखे पारदे व्योमकान्तबीजं च मारयेत् ॥३१॥

प्रत्येकं पारदसमं पूर्ववच्च शनैः शनैः ।
चतुःषष्ट्यंशकं चादौ समांशं तं क्रमाद्रसे ॥३२॥

अस्य सूतस्य तुल्यांशं कान्तबीजाभ्रबीजकम् ।
तप्तखल्वेऽम्लवर्गेण मर्दयेद्वासरत्रयम् ॥३३॥

पिष्टीकृतं च जम्बीरे क्षिप्त्वा दोलागतं पचेत् ।
पुनरादाय तां पिष्टिं सिद्धचूर्णेन लेपयेत् ॥३४॥

दिव्यौषधिगणैर्लिप्ते संपुटे भूधरे पचेत् ।
यदा कठिनतां याति द्विधा कुर्यात्क्रमेण तु ॥३५॥

दोलास्वेदं चूर्णलेपं कृत्वा भूधरपाचनम् ।
कामेश्वरीयं घुटिका वक्त्रस्था सर्वसिद्धिदा ॥३६॥

पूर्ववत्क्रामणं कार्यं रसेन्द्रः क्रामते तनुम् ।

४. हेमसुन्दरी घुटिका

स्वर्णं रूप्यं म्लेच्छमुखं कान्तसत्वाभ्रसत्वकम् ॥३७॥

द्वन्द्वमेलोपलिप्तायां मूषायां तद्विनिक्षिपेत् ।
तस्मिन्द्रुते सिद्धचूर्णं स्वर्णाद्दशगुणं क्षिपेत् ॥३८॥

यावत्स्वर्णावशेषं स्यात्तावद्द्राव्यं शनैः शनैः ।
हेमबीजम् इदं ख्यातं श्रेष्ठं रसरसायने ॥३९॥

समुखे पारदे देवि बीजं रससमं क्रमात् ।
जारयेत् पूर्ववद्देवि चतुःषष्ट्यंशकादिकम् ॥४०॥

एतद्रसं हेमबीजं समं खल्वे च तापिते ।
मर्दयेद् अम्लवर्गेण त्र्यहात् पिष्टिर् भवेद्रसः ॥४१॥

पिष्टिं जम्बीरजां कृत्वा दोलायन्त्रेऽम्लपूरिते ।
षडहं पाचयेद्देवि सिद्धचूर्णप्रलेपनम् ॥४२॥

तथा संपुटलेपं च तथा भूधरपाचनम् ।
यावत् कठिनतां याति तावत्कुर्याच्च पूर्ववत् ॥४३॥

इयं तु घुटिका दिव्या विख्याता हेमसुन्दरी ।
वक्त्रस्था सिद्धिदा न्ःणां जरामृत्युविषापहा ॥४४॥

पूर्ववत् क्रामणं कार्यं सूतः संक्रमते पुनः ।

५. मदनसुन्दरी घुटिका

मुखीकृते रसे व्योमबीजं हाटकबीजकम् ॥४५॥

समं समं क्रमाज्जार्यं चतुःषष्ट्यंशकादिकम् ।
इत्येवं जारितं सूतं बीजं गगनरुक्मयोः ॥४६॥

मर्दयेत् पारदसमं तप्तखल्वेऽम्लवर्गतः ।
त्रिदिनाज्जायते पिष्टिः पुनर् जम्बीरगाम् कुरु ॥४७॥

दोलायन्त्रेऽम्लभरिते पचेत्तां सप्तवासरम् ।
लेपनं सिद्धचूर्णस्य तथा संपुटलेपनम् ॥४८॥

तथा भूधरपाकश्च यावत्कठिनतां व्रजेत् ।
सिद्धिदा घुटिका ह्येषा नाम्ना मदनसुन्दरी ॥४९॥

आस्यान्तरस्थिता कुर्यात् सर्वसिद्धीश् चिरायुषः ।
व्यालव्याघ्रगजादीनां राज्ञां वश्यं स्त्रियामपि ॥५०॥

पूर्ववत् क्रामणं कार्यं कायम् आक-रामते रसः ।

६. खेचरी घुटिका

मुखीकृते रसे कान्तहेमबीजं समं समम् ॥५१॥

रसोन्मिते पृथक् जार्यं चतुःषष्ट्यंशकादिकम् ।
इत्थं जीर्णं रसं बीजं कान्तहेम्नो रसोन्मितम् ॥५२॥

पूर्ववत् पिष्टिकां कृत्वा दोलायन्त्रे च पाचनम् ।
यावत् कठिनतां याति तावत् कार्यं मुहुर्मुहुः ॥५३॥

घुटिका जायते नाम्ना खेचरी सर्वसिद्धिदा ।
पूर्ववत् क्रामणं कार्यं सुगन्धं गोपयः पिबेत् ॥५४॥

तेन संक्रमते देहं घुटिकान्तर्गतो रसः ।

७. वज्रेश्वरी घुटिका

समुखे पारदे व्योमकान्तहेम्नां समं समम् ॥५५॥

बीजं पृथक्पृथक् जार्यं चतुःषष्ट्यंशकादिकम् ।
इत्थंभूतस्य सूतस्य समं व्योमादिबीजकम् ॥५६॥

त्रयं तापितखल्वेन त्र्यहमम्लेन मर्दयेत् ।
स सूतः पिष्टिम् आप्नोति तां पिष्टिं पूर्ववत्प्रिये ॥५७॥

दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ।
यावत्कठिनतां याति तावत्कार्यम् अतन्द्रितैः ॥५८॥

वज्रेश्वरीति घुटिका वक्त्रस्था सर्वसिद्धिदा ।
पूर्ववत्क्रामणं कार्यं गात्रं व्याप्नोति पारदः ॥५९॥

८. महावज्रेश्वरी घुटिका

शुद्धं स्वर्णं वज्रभस्म लोहचूर्णाभ्रसत्वकम् ।
एतच्चतुःसमं नागं मूषायां चान्ध्रितं धमेत् ॥६०॥

द्वन्द्वमेलोपलिप्तायां पुनरादाय तं प्रिये ।
एकीभूतं च मूषायां प्रकटं च धमेत्पुनः ॥६१॥

धौतसत्त्वं माक्षिकं च स्वल्पं स्वल्पं मुहुः क्षिपेत् ।
वज्रहेमावशेषं तु यावत्स्यात् तत उद्धरेत् ॥६२॥

एतस्मिन् व्योमसत्वायश्चूर्णनागांश्च पूर्ववत् ।
द्वन्द्वमेलोपलिप्तायाम् अन्ध्रयित्वा दृढं धमेत् ॥६३॥

एकीभूतं समादाय मूषायां प्रकटं धमेत् ।
हेमवज्रावशेषं स्याद् यावत् तत् पुनराहरेत् ॥६४॥

व्योमसत्वम् अयश्चूर्णं नागं वाह्यं पुनः पुनः ।
पूर्ववत् क्रमयोगेन माक्षिकं धौतसत्त्वकम् ॥६५॥

मुहुः क्षिप्य धमेत्तं तु बाह्यमेवं तु षड्गुणम् ।
वज्रबीजमिदं श्रेष्ठं जार्यं रसरसायने ॥६६॥

समुखे पारदे जार्यं वज्रबीजं रसोन्मितम् ।
चतुःषष्ट्यंशकाद्यं च क्रमात् संक्रामयेत् प्रिये ॥६७॥

इत्थं जारितसूतस्य समं कुलिशबीजकम् ।
तप्तखल्वेऽम्लवर्गेण मर्दयेद् दिवसत्रयम् ॥६८॥

स पिष्टिर् जायते सूतस्तां पिष्टीं च समाहरेत् ।
दोलापाकः सिद्धचूर्णलेपः सम्पुटभूधरम् ॥६९॥

कुर्वीत पूर्ववत् सर्वं यावत् कठिनतां व्रजेत् ।
महावज्रेश्वरी नाम्ना घुटिका सिद्धिदायिनी ॥७०॥

वक्त्रस्था क्रामणं कार्यं पूर्ववत् क्रामते रसः ।

९. वज्रखेचरी घुटिका

मुखीकृते रसे व्योमवज्रबीजं रसोन्मितम् ॥७१॥

पृथक् पृथक् जारणीयं चतुःषष्ट्यंशकादिकम् ।
अमुष्य जीर्णसूतस्य समं वज्राभ्रबीजकम् ॥७२॥

तप्तखल्वेऽम्लवर्गेण त्रिदिनं मर्दयेद्दृढम् ।
स रसो जायते पिष्टिस्तां पुनः पूर्ववत्प्रिये ॥७३॥

दोलास्वेदं सिद्धचूर्णलेपं भूधरपाचनम् ।
यावत् कठिनतां यति तावद् एवं मुहुर्मुहुः ॥७४॥

घुटिका जायते दिव्या नाम्नेयं वज्रखेचरी ।
वक्त्रस्था सिद्धिदा नृणां पूर्ववत् क्रामणं प्रिये ॥७५॥

१०. कालविध्वंसिनी घुटिका

मुखीकृते रसे कान्तवज्रबीजं रसोन्मितम् ।
पृथक्पृथग् जारणीयं चतुःषष्ट्यंशकादिकम् ॥७६॥

अस्य जीर्णस्य सूतस्य समं कुलिशकान्तयोः ।
बीजं संतप्तखल्वे ऽम्लवर्गे मर्द्यं दिनत्रयम् ॥७७॥

पिष्टिर् भवत्येष सूतः पिष्टिं तां पुनराहरेत् ।
दोलास्वेदः सिद्धचूर्णलेपः संपुटभूधरम् ॥७८॥

यावत् कठिनतां याति तावदेवं मुहुर्मुहुः ।
कालविध्वंसिनी नाम्ना घुटिका जायते शुभा ॥७९॥

मुखस्था सिद्धिदा दिव्या पूर्ववत् क्रामणं पिबेत् ।

११. गगनेश्वरी घुटिका

मुखीकृते सूतराजे वज्रकान्ताभ्रबीजकम् ॥८०॥

पृथक्पृथक्सूतराजे चतुःषष्ट्यंशकादिकम् ।
रसस्य तस्य सदृशं वज्रबीजाभ्रबीजकम् ॥८१॥

तप्तखल्वेऽम्लवर्गेण त्र्यहात् पिष्टिः सुमर्दनात् ।
दोलापाकः सिद्धचूर्णलेपः संपुटभूधरम् ॥८२॥

यावत् कठिनतां याति तावत् कुर्यान्मुहुर्मुहुः ।
गगनेश्वरीयं घुटिका वक्त्रस्था सर्वसिद्धिदा ॥८३॥

पूर्ववत् क्रामणं कार्यं देहे क्रामति सूतकः ।

१२. वज्रघण्टेश्वरी घुटिका

मुखीकृते सूतराजे बीजं वज्रसुवर्णयोः ॥८४॥

पृथक्पृथक्समं जार्यं चतुःषष्ट्यंशकादिकम् ।
अस्य सूतस्य सदृशं हेम्नो वज्रस्य बीजकम् ॥८५॥

तप्तखल्वेऽम्लवर्गेण त्र्यहात् पिष्टिर् भवेद्रसः ।
तां पिष्टिं पुनरादाय पूर्ववत् परिकल्पयेत् ॥८६॥

दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ।
यावत् कठिनतां याति तावत् कुर्यान्मुहुर्मुहुः ॥८७॥

वज्रघण्टेश्वरी ह्येषा घुटिका सिद्धिदायिनी ।
मुखस्था सिद्धिदा दिव्या पूर्वोक्तं क्रामणं पिबेत् ॥८८॥

१३. वज्रभैरवी घुटिका

मुखीकृते सूतराजे हेमवज्राभ्रबीजकम् ।
पृथक्पृथक्समं जार्यं चतुःषष्ट्यंशकादिकम् ॥८९॥

अस्य सूतस्य सदृशं हेमवज्राभ्रबीजकम् ।
मर्दयेद् अम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥९०॥

पिष्टिर्भवेत् पुनस्तां च समादाय ततः प्रिये ।
दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ॥९१॥

यावत् कठिनतामेति तावत्कार्यं मुहुर्मुहुः ।
घुटिका जायते दिव्या नाम्नेयं वज्रभैरवी ॥९२॥

मुखस्थिता सिद्धकरी क्रामणं पूर्ववत्प्रिये ।

१४. त्रिपुरभैरवी घुटिका

मुखीकृते रसे कान्तवज्रहाटकबीजकम् ॥९३॥

जार्यं पृथक्सूतसमं चतुःषष्ट्यंशकादिकम् ।
जीर्णसूतसमं कान्तवज्रकाञ्चनबीजकम् ॥९४॥

तप्तखल्वेऽम्लवर्गेण मर्दयेद्दिवसत्रयम् ।
जायते पारदः पिष्टिः पूर्ववत्तां समाहरेत् ॥९५॥

दोलापाकं सिद्धचूर्णलेपं भूधरपाचनम् ।
यावत् कठिनताम् एति तावत्कार्यं मुहुर्मुहुः ॥९६॥

घुटिका जायते दिव्या नाम्ना त्रिपुरभैरवी ।
मुखस्था सिद्धिदा ह्येषा पूर्ववत् क्रामणं प्रिये ॥९७॥

१५. महाभैरवी घुटिका

मुखीकृते रसे कान्तवज्राभ्रस्वर्णबीजकम् ।
पृथक्सूतसमं जार्यं चतुःषष्ट्यंशकादिकम् ॥९८॥

अस्य सूतस्य जीर्णस्य समं व्योमादिबीजकम् ।
मर्दयेद् अम्लवर्गेण तप्तखल्वे दिनत्रयम् ॥९९॥

पिष्टिर् भवति सूतेन्द्रस्तां पिष्टिं पुनराहरेत् ।
दोलापाकं सिद्धचूर्णलेपं संपुटभूधरे ॥१००॥

यावत् कठिनतामेति तावत्कार्यं मुहुर्मुहुः ।
नाम्ना महाभैरवीयं घुटिका सर्वसिद्धिदा ॥१०१॥

धारयेन्मुखमध्ये तत् पूर्ववत् क्रामणं पिबेत् ।

क्रामणानि

त्रिफला मुसली मुण्डी भृङ्गराजश्च वाकुची ॥१०२॥

नीली कन्या काकमाची हयगन्धा शतावरी ।
उत्तरा वारुणी देवदाली चित्रा पुनर्नवा ॥१०३॥

निर्गुण्डी सहदेवी च रुदन्ती गजकर्णिका ।
भूतावरातभल्लातकाकतुण्डामृतालताः ॥१०४॥

पलाशः कुक्कुरूटश्च धात्रीफलरसः पयः ।
पलाशबीजकं तैलं घृतं मधु शिवाम्बु च ॥१०५॥

बिल्वमज्जा च तैलं च तैलं ज्योतिष्मतीभवम् ।
एतानि क्रामणार्हाणि चौषधानि भवन्ति हि ॥१०६॥

एते चाष्टार्धगदिताः क्रामणार्थे प्रयोगतः ।
रसभस्मप्रयोगे च घुटिकानां रसायने ॥१०७॥

पञ्चदशघुटिकाफलम्

प्रिये पञ्चदशानां च घुटिकानां फलं शृणु ।
अभ्रबीजेन रचितघुटिका रससंयुता ॥१०८॥

मुखस्थिता द्वादशाब्दं सर्वरोगविनाशनी ।
स जीवेद्वत्सरशतं पुमांश्च परमेश्वरि ॥१०९॥

कान्तबीजेन रचिता घुटिका रससंयुता ।
आस्यस्था सर्वरोगघ्नी द्वादशाब्दं वरानने ॥११०॥

धातुदार्ढ्यप्रजननी सहस्रायुष्यदायिनी ।
कान्ताभ्रबीजरचिता रसयुग्घुटिका शुभा ॥१११॥

द्वादशाब्दं मुखान्तस्था जरामयविनाशिनी ।
अयुतायुष्यदा दिव्या महाबलविवर्धिनी ॥११२॥

हेमबीजयुता सूतघुटिका मुखमध्यगा ।
आ द्वादशाब्दं देहस्य वलीपलितरोगहा ॥११३॥

आयुष्यप्रदा पुण्या नागायुतबलप्रदा ।
हेमाभ्रबीजघटिता घुटिका युक्तपारदा ॥११४॥

वक्त्रास्थितार्कसंख्याब्दं दशलक्षाब्दजीवदा ।
दिव्यबुद्धिप्रजननी दिव्यसत्वप्रदायिनी ॥११५॥

कान्तकाञ्चनबीजाभ्यां ससूता घुटिका कृता ।
द्वादशाब्दं मुखान्ता कोट्यायुष्यविवर्धिनी ॥११६॥

महातेजःप्रजननी बिलनिध्यादिदर्शिनी ।
कान्ताभ्रहेमघटिता घुटिका रससंयुता ॥११७॥

मुखस्था द्वादशाब्दान्ताद् दशकोट्यब्दजीवदा ।
हालाहलादिसंवर्तखेचरत्वप्रदायिनी ॥११८॥

निर्मुक्तवज्रबीजेन रसयुग्घुटिका शुभा ।
मुखस्था द्वादशाब्दान्तं सर्वलोकगतिप्रदा ॥११९॥

यावद्भूमिः स्थिरतरा तावदायुःप्रवर्धिनी ।
तरुणः सर्वदा कामः कान्तानां सुरतक्षमः ॥१२०॥

वज्राभ्रबीजरचिता घुटिका रसगर्भिता ।
घुटिका रससंख्याब्दं मुखस्था सर्वसिद्धिदा ॥१२१॥

ब्रह्मायुष्यप्रदा पुंसां जगत् सृष्टुं क्रमात् प्रभुः ।
पूज्यते ब्रह्मवद्देवैर् वेदवेदाङ्गपारगः ॥१२२॥

सरस्वत्या च सावित्र्या सेव्यते सर्वलोकगः ।
अष्टाभिः सिद्धिभिर् युक्तो ह्यणिमादिभिर् ईश्वरि ॥१२३॥

वज्रकाञ्चनबीजेन ससूता घुटिका कृता ।
मुखस्था द्वादशाब्दान्तं विष्ण्वायुष्यप्रदा नृणाम् ॥१२४॥

स च विष्णुत्वमाप्नोति विष्णुवत् पालितुं क्षमः ।
सेव्यते सनकाद्यैश्च श्रिया युक्तो महाबलः ॥१२५॥

स्वेच्छागतिर् महेन्द्राद्यैर् निर्जरैः सेव्यते सदा ।
हेमाभ्रवज्रबीजेन रचिता घुटिका प्रिये ॥१२६॥

सपारदा मुखान्तःस्था द्वादशाब्दं वरानने ।
रुद्रायुष्प्रदा न्ःणां रुद्रत्वं सा ददाति हि ॥१२७॥

संहर्ता रुद्रवल्लोकं विष्ण्विन्द्राद्यैश्च सेव्यते ।
अणिमाद्यैश्च सहितः सर्वज्ञः सर्वलोकगः ॥१२८॥

सेव्यते प्रमथश्रेष्ठैर् दिव्यशक्त्या समन्वितः ।
योगीन्द्रैर् ध्यायते धीरो महातेजा महाबलः ॥१२९॥

कान्तकाञ्चनवज्राणां बीजैः सूतयुता कृता ।
घुटिका भानुसंख्याब्दं मुखस्था सिद्धिदा नृणाम् ॥१३०॥

ईश्वरायुष्यमाप्नोति खेचरत्वं च मानवः ।
तिरोधत्ते स्वयं लोकाद्ब्रह्मेन्द्राद्यभिवन्दितः ॥१३१॥

कोटिसूर्यप्रतीकाशो महामारुतसत्त्ववान् ।
महाकल्पान्तकालेऽपि विनाशं न व्रजेद्ध्रुवम् ॥१३२॥

योगक्रीडानुषक्तात्मा ध्यायते योगवित्तमैः ।
कान्ताभ्रहेमवज्राणां कृता बीजै रसात्मिका ॥१३३॥

घुटिका रविसंख्याब्दवक्त्रस्था यस्य भैरवि ।
सदाशिवायुः स भवेत् सर्वानुग्राहकः प्रभुः ॥१३४॥

सदाशिवत्वम् आप्नोति देवानामधिपस्तथा ।
वह्नौ वह्निर् जले वारि मारुते मारुतात्मकः ॥१३५॥

पृथिव्यां पृथिवीरूपः शून्ये शून्यात्मको भवेत् ।
तस्याक्षिणीन्दुवह्न्यर्का ब्रह्मेन्द्राद्याश्च सेवकाः ॥१३६॥

गायका नारदाद्याश्च नर्तक्यश्चाप्सरोऽङ्गनाः ।
तदाज्ञयैव ब्रह्मेन्द्राः सृष्टिस्थितिविनाशकाः ॥१३७॥

सच्चिदानन्दकः शक्तः सर्वगः सर्वविच्छिवः ।
पराशक्तियुतः पुण्यो निर्मायो निष्कलः परम् ॥१३८॥

एवं गुणाः प्रकथिता घुटिकानां मया प्रिये ।
शस्त्रस्तम्भकरश्चासां सर्वासाम् अपि विद्यते ॥१३९॥

रसायनस्य सर्वस्य सिद्धिदोऽयं महेश्वरि ।

घुटिकासिद्धौ मन्त्रप्रयोगः

वक्ष्यते मन्त्रराजोऽयं सर्वसिद्धिप्रदायकः ॥१४०॥

ऐं ह्रीं श्रीं क्लीं सौः अमृतेश्वरभैरव अमृतं कुरु अमृतेश्वरभैरवाय हुं ।
सौः क्लीं श्रीं ह्रीं ऐं हुं फट् स्वाहा ।
सौः क्लीं श्रीं ह्रीं ऐं ।
पुमाननेन मन्त्रेण शीघ्रं सिद्धिमवाप्नुयात् ॥१४१॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:43.7870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

average revenue curve

  • सरासरी आयवक्र 
RANDOM WORD

Did you know?

पंचप्राणांना भोजनापूर्वी आहुती का द्यावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.