TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसविद्या - भाग २१

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग २१
योगसिद्धिदकुटीनिर्माणविधिः

श्रीभैरवी ।
कुटी प्रोक्ता त्वया पूर्वं कथं कार्या च कीदृशी ।
तत्र कालं कियच्छंभो वस्तव्यं ब्रूहि मे प्रभो ॥१॥

श्रीभैरवः ।
वक्ष्यामि तां कुटीं सम्यक् शृणु त्रिपुरसुन्दरि ।
मेदिनीम् उन्नतीकृत्य पुनस्तां सुहृदं प्रिये ॥२॥

स्तंभांश्च क्रमशः षट् षट् पङ्क्तिशः स्थापयेदृजून् ।
तुला उपरि चारोप्य दारूणि सुदृढानि च ॥३॥

स्थापयेदिष्टकाः पश्चात्सुधया सान्द्रमालिपेत् ।
परितो वलभिं कृत्वा भित्तिं त्रिवलयां शुभाम् ॥४॥

कुर्यात्कुटीं च तन्मध्ये तृतीयावरणैः पुनः ।
निखनेच्चतुरश्रं च दशप्रादेशमात्रकम् ॥५॥

पञ्चप्रादेशमात्रे च त्वधोनिम्नं तथोर्ध्वतः ।
एवं दशवितस्त्याभिर् अचिन्त्यां तां मनोहराम् ॥६॥

प्राग्द्वारं बाह्यवलये द्वितीये वलये शिवे ।
याम्यद्वारं तृतीये तु प्रत्यग्द्वारं विधीयते ॥७॥

द्वाराणां च प्रमाणं हि वितस्तिद्वयमुच्यते ।
सकवाटं प्रतिद्वारमच्छिद्रं चार्गलान्वितम् ॥८॥

सुधाप्रलेपितं कुर्याद्भित्तिं श्लक्ष्णतरं स्थलम् ।
दक्षिणे चोत्तरे चैव कुट्यन्तर्वेदिकाद्वयम् ॥९॥

सार्धत्रयं वितस्तीनां विशालं चायतं दश ।
प्रादेशमात्रम् उत्सेधं मध्यं प्रादेशिकत्रयम् ॥१०॥

तत्र गोमयसम्भूतं भस्म वस्त्रेण गालितम् ।
पूरयेच्च कुटीभित्तौ चित्रं बहु सुविस्तरम् ॥११॥

भैरवं कालमेघाभं ज्वलदूर्ध्वशिरोरुहम् ।
फालाक्षं वक्रदंष्ट्रं च नागकुण्डलमण्डितम् ॥१२॥

नागयज्ञोपवीतं च किङ्किणीमुण्डमालिनम् ।
दिगम्बरं तु काकोटीभूषिताङ्घ्रिशिरोरुहम् ॥१३॥

हारकेयूरकटकमुद्रिकादिविभूषितम् ।
दशहस्तं च डमरुमङ्कुशं खड्गशूलकम् ॥१४॥

वरदं सव्यहस्ताब्जैर् नागं पाशं च घण्टिकाम् ।
मधुपत्रं भयहरं बिभ्राणं वामबाहुभिः ॥१५॥

कृष्णाङ्गरागमालाढ्यं सर्वव्याधिविनाशनम् ।
व्याधिभूताहिशत्रुघ्नं क्ष्वेलादिभयनाशनम् ॥१६॥

ततो मृत्युञ्जयं शान्तं वटुकं विलिखेत्प्रिये ।
पारदेन्दुहिमश्वेतं बालं द्विभुजशोभितम् ॥१७॥

किङ्किणीमालया बद्धकर्णनूपुरशोभितम् ।
बालं कुण्डलसच्छोभं त्रिनेत्रं नग्नरूपिणम् ॥१८॥

श्वेतमाल्यानुलेपं च पूर्णपात्रं च वामतः ।
दण्डं दक्षिणहस्तेन दधानं मृत्युनाशनम् ॥१९॥

मायाबीजं च वटुकं ह्येनं प्रथममुच्चरेत् ।
आपदुद्धारणायेति लिखेत्पञ्चाक्षरद्वयम् ॥२०॥

वटुकायेति मायां च वटुकस्य मनुः स्मृतः ।
मूर्तिद्वयोरयं मन्त्रः कथितः सुरवन्दिते ॥२१॥

मन्त्रस्यास्य च यद्यन्त्रं तद्यन्त्रं तत्र संलिखेत् ।
रमां च भुवनेशीं च कामं चिन्तामणिं क्रमात् ॥२२॥

कर्णिकायां लिखेत्पूर्वं वटुकायेति वीप्सितम् ।
अष्टपत्रे लिखेच्छेषाण्यक्षराण्यष्टपत्रके ॥२३॥

बहिः षोडशपत्रेषु विलिखेत्षोडश स्वरान् ।
द्वात्रिंशद्दलके कादिसान्तद्वात्रिंशदक्षरान् ॥२४॥

अन्ये दले हलक्षांश्च विलिखेद्भूपुरं बहिः ।
आपदुद्धारणं यन्त्रमपमृत्युनिवारणम् ॥२५॥

रक्षाकरं ग्रहार्तानां सर्वेषां प्राणिनामपि ।
स्त्रीवश्यं राजवश्यं च पुंवश्यं पशुवश्यकम् ॥२६॥

नानासिद्धिप्रदं नित्यं सर्वरोगविषापहम् ।
हारकेयूररुचिरं कान्त्या विश्वविमोहनम् ॥२७॥

महामृत्युञ्जयं देवं भावयेन्मृत्युजिद्भवेत् ।
एवं द्वितीयवर्गस्य तृतीयं पञ्चमेन च ॥२८॥

स्वरेण बिन्दुना युक्तं सोन्तं साध्यपदं ततः ।
रक्षशब्दयुगं पश्चात्पूर्वं बीजत्रयं पुनः ॥२९॥

प्रतिलोमं समुच्चार्य मन्त्रं मृत्युञ्जयं जपेत् ।
तारं मध्ये ससाध्याख्यं दिग्दले भं समालिखेत् ॥३०॥

आग्नेयादिदलेष्वन्त्यमक्षरं क्रमशो लिखेत् ।
बाह्ये भूपुरमालिख्य दिक्षु सान्द्रं समालिखेत् ॥३१॥

चतुष्कोणे ठकारं च यन्त्रं मृत्युञ्जयात्मकम् ।
अपमृत्युज्वरव्याधिक्ष्वेलमोहविनाशनम् ॥३२॥

तत्र चिन्तामणिं देवं चिन्तितार्थप्रदं लिखेत् ।
नीलप्रवालरुचिरं त्रिणेत्रं रुचिराननम् ॥३३॥

पाशारुणोत्पलं वामे दक्षे शूलकपालकौ ।
दधानम् इन्दुमकुटं ध्यायेदर्धाम्बिकेश्वरम् ॥३४॥

वह्निप्रथमवर्गादिषमरेफाः क्रमात्ततः ।
प्राणसद्यान्तसहितः षष्ठस्वरसबिन्दुकः ॥३५॥

इदं चिन्तामणेर् मन्त्रं चिन्तितार्थप्रदं शुभम् ।
षोडशस्वरसंवीतं चिन्तामणिमभीष्टदम् ॥३६॥

ठकारावेष्टितं कुर्याज्ज्वरापस्मृतिमृत्युहम् ।
ततश्च शारदादेवीम् आलिखेत् सिद्धिदायिनीम् ॥३७॥

शङ्खकुन्देन्दुधवलां मकुटेन्दुकलाधराम् ।
सुधाकुम्भं वराक्षस्रक्संविन्मुद्रां करांबुजैः ॥३८॥

बिभ्राणां श्वेतवसनां मौक्तिकाभरणोज्ज्वलाम् ।
वाग्बीजं भुवनेशीं च वदवाक्यद्वयं ततः ॥३९॥

वाग्वादिनीं ससम्बुद्धिम् अग्निपत्नीं समुच्चरेत् ।
एष श्रीमातृकामन्त्रः प्रोक्तः सारस्वतप्रदः ॥४०॥

आदिबीजद्वयं हित्वा शेषं पूर्ववद् उच्चरेत् ।
दशार्णशारदामन्त्रो वाग्विलासप्रदायकः ॥४१॥

वियद्वर्णसुकारं च सद्यान्तं सविसर्गकम् ।
कर्णिकायां लिखेत्पूर्वं किञ्जल्केषु स्वरानपि ॥४२॥

अष्टच्छदेष्व् अष्टवर्गान्य् अशहाद्यैः परैस्त्रिभिः ।
काद्यैश्च पञ्चभिर्वर्णैरष्टवर्गाः समीरिताः ॥४३॥

लिखेद्भूपुरकोणेषु ठकारान्दिक्षु विन्यसेत् ।
इदं हि मातृकायन्त्रं विषमृत्युगदापहम् ॥४४॥

अघोरं विलिखेद्देवि नीलजीमूतसन्निभम् ।
क्रूरदंष्ट्रं त्रिणेत्रं च नागेन्द्राष्टविभूषितम् ॥४५॥

रक्ताङ्गरागवसनं रक्तमालाविराजितम् ।
परश्वथुं च डमरुं खड्गं खेटम् इषुं धनुः ॥४६॥

त्रिशूलं पूर्णपात्रं च बिभ्राणं चाष्टबाहुभिः ।
भुवनेशीं स्फुरद्वन्द्वं ततः प्रस्फुरवीप्सितम् ॥४७॥

घोरं ततोऽघोरतरं तनुरूपं चटद्वयम् ।
प्रकटद्विगुणं चैव कहशब्दयुगं ततः ॥४८॥

वमशब्दद्वयं देवि बन्धशब्दं च वीप्सितम् ।
घातयद्वितयं देवि कवचं च फडन्तकम् ॥४९॥

एकोत्तरोऽयं पञ्चाशदर्णो ऽघोरः स्मृतो मनुः ।
वश्यार्थं तप्तहेमाभं पूर्वोक्ताकृतिसंयुतम् ॥५०॥

मुक्तौ मृत्युञ्जयार्थे तु श्वेतं पूर्वोक्तविग्रहम् ।
सर्वार्थसिद्धिदं शान्तमघोरास्त्रं लिखेत्प्रिये ॥५१॥

मायाबीजं ससाध्यं स्यान्मध्ये च स्वरसंयुतम् ।
तद्बहिःकेसरेष्वेवं विलिखेदष्टवर्गकम् ॥५२॥

ततस्त्वष्टदले मन्त्रवर्णान्गुणमितान् लिखेत् ।
अग्रशेषेषु तद्वत् तत्षट्कोणे कवचास्त्रकौ ॥५३॥

तद्बहिर्भूपुरं लेख्यम् एनदाघोरयन्त्रकम् ।
स्फुरद्वयावृतं मध्ये शक्तिबीजं लिखेत्ततः ॥५४॥

षट्कोणे प्रस्फुरयुगं ततश्चाष्टदले क्रमात् ।
षड्भिश्चतुर्भिर्वेदैश्च रसैर्वस्त्रैश्च गोपदैः ॥५५॥

ऋतुभिः शिष्टमन्त्रार्णैर् अमीभिर् विलिखेत्ततः ।
षट्कोणे वह्निचास्त्राभ्याम् उद्धृतं वीतकोणकम् ॥५६॥

भूपुरेणावृतं यन्त्रमघोरं विलिखेत्प्रिये ।
व्यालारिचोरक्षुद्रापस्मारभूतग्रहापहम् ॥५७॥

अथो महागणपतिं लिखेद्विद्रुमसन्निभम् ।
कोटीरचन्द्रशकलं गजास्यं लोचनत्रयम् ॥५८॥

तुन्दिलं रक्तवसनं रक्तमालानुलेपनम् ।
दशदोर्दण्डसुभगं वामोरुस्थितयोषितम् ॥५९॥

हारकेयूरकटकमुद्रिकाकुण्डलोज्ज्वलम् ।
फलपूरं गदाम् इक्षुकोदण्डं च त्रिशूलकम् ॥६०॥

चक्रं सरसिजं पाशमुत्पलं शालिमञ्जरीम् ।
स्वदन्ततुण्डया रत्नकलशं दशभिः करैः ॥६१॥

बिभ्राणं पद्मकरया वामोरुस्थितया श्रिया ।
आलिङ्गितं भक्तलोकचिन्तितार्थसुरद्रुमम् ॥६२॥

प्रणवं कमलां मायां कामराजं वसुंधराम् ।
क्रमाद्गणपतेर्बीजं महागणपतिं ततः ॥६३॥

चतुर्थ्यन्तं ससंबुद्धिं वरं च वरदं तथा ।
ततः सर्वजनं मे च वशमानय शब्दकम् ॥६४॥

अग्निपत्नीं समालिख्य चाष्टाविंशतिवर्णकम् ।
मन्त्रं महागणपतेर् मृत्युदारिद्र्यनाशनम् ॥६५॥

त्रिकोणे बीजमालिख्य सतारे च गणेशितुः ।
दिक्षु श्रीशक्तिमदनभूबीजानि बहिर्लिखेत् ॥६६॥

षट्कोणे बीजषट्कं च तत्संधिष्वङ्गमन्त्रकम् ।
ततोऽष्टदलमध्येषु मन्त्राणि गणशो लिखेत् ॥६७॥

अन्त्याक्षरे चान्त्यदले मातृकामनुलोमतः ।
लेखे च प्रतिलोमेनाङ्कुशपाशावृतं ततः ॥६८॥

भूमन्दिरेण सुभगं यन्त्रं गणपतेः शुभम् ।
गजान्तं श्रीपदं दिव्यमायुष्यारोग्यवर्धनम् ॥६९॥

एतानि यन्त्रजालानि कुट्यन्तर्देवता लिखेत् ।
कुटीभित्तिबहिर्भागे भैरवं वर्णमालिखेत् ॥७०॥

असिताङ्गं रुरुं चण्डं क्रोधमुन्मत्तभैरवम् ।
कपालिनं भीषणं च संहारं भैरवं क्रमात् ॥७१॥

द्वितीयावरणस्यान्तर् भित्तावेकादश क्रमात् ।
रुद्रांस्त्रिलोचनांश्चन्द्रकलाजूटजटान् लिखेत् ॥७२॥

तद्बाह्ये नव नाथांश्च नव सिद्धांश्च षोडश ।
सनत्कुमारसनकसनन्दादीन् लिखेत्ततः ॥७३॥

तृतीयावरणस्यान्तर् भित्तौ ब्राह्म्यादिमातरः ।
चतुःषष्टिश्च योगिन्यो लेखनीया यथाविधि ॥७४॥

तद्भित्तिबाह्ये देवेन्द्रमुखा दिक्पतयः क्रमात् ।
ग्रहाश्च चन्द्रसूर्याद्या अश्विन्याद्याश्च तारकाः ॥७५॥

मेषाद्या राशयो लेख्याः सालङ्काराश्च सायुधाः ।
कुटीद्वारविपार्श्वे च गणेशं भैरवं लिखेत् ॥७६॥

द्वितीयावरणद्वारपार्श्वे द्वौ शङ्खपद्मकौ ।
गरुत्मन्तं हनूमन्तं तृतीयावरणस्य च ॥७७॥

द्वारस्य पार्श्वयोर्देवि विलिखेद्भयभञ्जनौ ।
यस्मिन्देशे कुटी दिव्या कल्पिता योगिसत्तमैः ॥७८॥

देशो धन्यतरः श्लाघ्यः पुण्यक्षेत्रं च पावनम् ।
तत्रत्याश्च प्रजा धन्याः स्फीतार्थाः पुण्यकर्मिणः ॥७९॥

राष्ट्रं सुभिक्षम् आरोग्यम् अनामयसुखावहम् ।
ईतिहीनं कालवृष्टिसहितं धान्यसङ्कुलम् ॥८०॥

तस्करोपद्रवव्याघ्रसर्पादिभयवर्जितम् ।
तत्र तीर्थानि सर्वाणि गङ्गादीनि वसन्ति च ॥८१॥

इन्द्रादयोऽपि विबुधाः सूर्यचन्द्रादयो ग्रहाः ।
योगिन्यो भैरवाः सिद्धा गणेशगुहमातरः ॥८२॥

तत्रस्थस्य महीपस्य जयार्थावाप्तिरायुषः ।
सम्भवेच्चक्रवर्तित्वं पुनर्नित्योत्सवोज्ज्वलम् ॥८३॥

वन्ध्यानां पुत्रसम्पत्तिः कुटीसंदर्शनाद्भवेत् ।
कुष्ठापस्मारभूतादिमहाव्याधिविनाशनम् ॥८४॥

कुटीगता भवेयुस्ते ये सेवन्ते रसायनम् ।
सिद्धिं यान्ति सुखेनैव देवानामपि दुर्लभाम् ॥८५॥

अमरीकल्पः

देवि चित्रं प्रवक्ष्यामि दिव्यं गुह्यतमं शिवम् ।
अमरीकल्पमनघं सुलभं निजदेहजम् ॥८६॥

अणिमाद्यष्टकैश्वर्यदेहलोहादिसिद्धिदम् ।
वमनादिविशुद्धाङ्गो लवणाम्लविवर्जितः ॥८७॥

कुटीगतस्तु देवेशि शिवतोयमुदारधीः ।
स्थूलस्य कतकस्यैव दारुणा पानपात्रकम् ॥८८॥

कुर्याच्च त्रिफलां पिष्ट्वा लेपयेच्चषकान्तरे ।
कर्षं शिवाम्बुना रात्रौ पात्रं चाधोमुखं प्रिये ॥८९॥

स्थापयित्वा पुनः प्रातराद्यन्तं प्रस्रवं त्यजेत् ।
मध्यधाराश्च तत्पात्रे क्षिपेत्तत्त्रिफलां ततः ॥९०॥

लोडयेदमरीयुक्तं पिबेत्प्रागाननः सदा ।
इष्टदेवान्गुरून्वृद्धान् नत्वार्चितगणेश्वरः ॥९१॥

मिताहारो युक्तचेष्टो वातातपविवर्जितः ।
एकमण्डलमात्रेण बाह्यान्तः शुचिभाग् भवेत् ॥९२॥

मण्डलेन द्वितीयेन सर्वकुष्ठविनाशनम् ।
मण्डलेन तृतीयेन चतुर्विधविषापहम् ॥९३॥

मण्डलेन चतुर्थेन नालिकेराम्बुवद् भवेत् ।
आत्मतोयं पञ्चमेन मलदौर्गन्ध्यनाशनम् ॥९४॥

षष्ठमण्डलयोगेन देहदौर्गन्ध्यनाशनम् ।
सप्तमण्डलयोगेन भवेदिन्द्रियपाटवम् ॥९५॥

ततोऽष्टमे मण्डले तु रजनीचूर्णकर्षयुक् ।
सेवेत शिवतोयं च यावद्द्विः सप्तमण्डलम् ॥९६॥

वलीपलितहीनः स्यान्महाविषभयोज्झितः ।
मण्डले पञ्चदशके कर्षांशौ शृङ्गगन्धकौ ॥९७॥

शिवतोयेन सम्मिश्रं प्रपिबेदेकविंशतिम् ।
मण्डलं च तदन्ते स्यात्सिद्धिभाग्देहलोहयोः ॥९८॥

द्वाविंशन्मण्डले देवि चाभ्रकं वरया युतम् ।
एवं भजेद्यमी यावदष्टाविंशतिमण्डलम् ॥९९॥

मत्तहस्तिबलोपेतो गृध्रदृष्टिरनामयः ।
एकोनत्रिंशति प्राप्ते मण्डले वरया युताम् ॥१००॥

सकान्तचूर्णविमलां गोधामपि पिबेत् प्रिये ।
पञ्चत्रिंशन्मण्डलान्तं वज्रकायो भवेन्नरः ॥१०१॥

षट्त्रिंशन्मण्डलादि स्वर्णधात्रीरजोऽन्वितम् ।
आत्मगोधान्वितं पेयं तत्तु यावद्द्व्यधिकम् ॥१०२॥

चत्वारिंशन्मण्डलान्तं सशरीरः खगो भवेत् ।
त्रिचत्वारिंशन्मण्डले तु प्राप्ते पारदसंयुतम् ॥१०३॥

वरायुतं पिबेद् ऊनपञ्चाशन्मण्डलावधिः ।
अणिमादिगुणोपेतो वज्रकायश्च खेचरः ॥१०४॥

सिद्धैर् युक्तो निरातङ्को निरपायो निरञ्जनः ।
यदृच्छया सर्वलोके विहरत्येव सर्वदा ॥१०५॥

आरभ्य प्रथमं देवि मण्डलान्नित्यमाचरेत् ।
आत्मतोयेन धुत्तूररसेन परिलोडयेत् ॥१०६॥

भस्म तेनैव सर्वाङ्गमसकृत्परिमर्दयेत् ।
अन्यकालसमायातम् आत्मतोयं विशेषतः ॥१०७॥

मूर्ध्नि नासापुटे कर्णे दृशि पादकरद्वये ।
शीलयेत्सततं देवि शुद्धदेहो भवेन्नरः ॥१०८॥

कदाचिदप्यात्मगोधां भूमौ न विसृजेत्प्रिये ।
अमरीसेविनः पुंसः शिवतोयेन जायते ॥१०९॥

सर्वलोहं च कनकं दिव्यं मनुजदुर्लभम् ।
विजयासहितां गोधां प्रतिवासरमापिबेत् ॥११०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:47.3470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

भावाला राखी बांधण्यामागील धार्मिक अथवा भावनिक महत्व काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.