TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसविद्या - भाग १

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग १
कूर्दयतु अत्र : सुचलनम्, अन्वेषणम्

कैलासशिखरासीनं कालकन्दर्पनाशनम् ।
प्रसन्नं परमेशानं जगदानन्दकारणम् ॥१॥

प्रणम्य परया भक्त्या भैरवी स्तुतिमातनोत् ।
देवदेव महादेव जन्मदारिद्र्यनाशन ॥२॥

प्रसीद करुणामूर्ते प्रसन्न परमेश्वर ।
दिव्यागमरहस्यानि कुलकौलादिकानि च ॥३॥

जाने तव प्रसादेन मायामङ्गलविग्रह ।
श्रोतुमिच्छामि सर्वेश तव दिव्यरसायनम् ॥४॥

जराजन्मामयघ्नं च खेचरत्वादिसिद्धिदम् ।
दारिद्र्यदुःखशमनं ब्रह्मत्वादिवरप्रदम् ॥५॥

ईश्वर उवाच ।
साधु साधु महाभागे सर्वलोकोपकारिणि ।
तत्सर्वं जायते सूताच्छुद्धात्मप्राणवल्लभे ॥६॥

सर्वलोकोपकारार्थं गुह्यात् गुह्यतमं हितम् ।
रसेन्द्रस्य समुत्पत्तिं लक्षणं च सुरार्चिते ॥७॥

तत्सर्वं सम्प्रवक्ष्यामि शृणु भैरवि सम्प्रति ।

रसोत्पत्तिः

सुरेन्द्रैर् मुनिभिर् दिव्यैः गन्धर्वोरगकिंनरैः ॥८॥

प्रार्थितो भवत्यां तु कुमारोत्पत्तिम् इच्छद्भिः ।
तारकासुरनाशाय लोकानां रक्षणाय च ॥९॥

तदा हिमालयगिरेः गुहायां सुचिरं प्रिये ।
संक्रीडमानयोः कालो गतो नः पुत्रलिप्सया ॥१०॥

त्रिजगत्क्षोभि सुरतं त्यजितुं प्रेषितः सुरैः ।
कपोतरूपमास्थाय वह्निः प्रागाद् गवाक्षतः ॥११॥

तं दृष्ट्वा लज्जया देवि विसृष्टं सुरतं मया ।
निक्षिप्तं वदने वह्नेरावयोस्तेज उज्ज्वलम् ॥१२॥

तेन दन्दह्यमानोऽग्निर्गङ्गायां तन्न्यमज्जयत् ।
तेन गङ्गापि संतप्ता तद्बहिर् विससर्ज च ॥१३॥

तत् द्विधाभूद्बहिः प्राप्य चैकं स्कन्दप्रसूतये ।
अन्यच्छुद्धरसो जातो ह्यापदंबुधिपारदः ॥१४॥

शतयोजननिम्नेषु पञ्चकूपेषु संस्थितः ।
तन्मला धातवो जाता मणयो दिव्यवस्तु च ॥१५॥

तत्तत्क्षेत्रविशेषेण नामवर्णादिकान् गुणान् ।
भिन्नः प्राप्तो रसेन्द्रोऽयं जन्मदारिद्र्यभञ्जनः ॥१६॥

ते कूपाः प्रलये पञ्च संज्ञा जातादि वै मुखाः ।
ससंचवर्णां निवृत्त्या निक्षिप्ता नियुतानि हि ॥१७॥

पञ्चवर्णानि देवेशि सर्वसत्त्वयुतानि च ।
पूर्वस्यां पारदः श्वेतो नानावर्णैर्गदापहः ॥१८॥

चञ्चलो दक्षिणस्यां तु रसेन्द्रो नीलवर्णवान् ।
दोषहीनोऽतिरूक्षश्च सुतरां चपलः प्रिये ॥१९॥

तेन जाता भुजङ्गेन्द्रा जराजन्मगदोषोज्झिताः ।
पश्चिमस्यां तु सूताख्यः पीतवर्णो ऽतिरूक्षकः ॥२०॥

सर्वदोषयुतोऽसौ तु शुद्धोऽष्टादशकर्मभिः ।
सर्वसिद्धिप्रदो देवि देहलोहादिसिद्धिदः ॥२१॥

उत्तरस्यां दिशो रक्तः सर्वदोषविवर्जितः ।
रसायनं तु तेनैव देवा जन्मजरोज्क्षिताः ॥२२॥

मध्ये तु मिश्रको ज्ञेयः सर्ववर्णसमन्वितः ।
बहिश्चन्द्रार्काच्छायो रसो दोषसमन्वितः ॥२३॥

स चाष्टादशसंस्कारैः शुद्धः सिद्धिप्रदो भवेत् ।
अमराणां स्वरूपं तु रसेन्द्रो हि महेश्वरः ॥२४॥

पूरयामासतुस्तौ च स्तोकतो ह्यतिदुर्लभौ ।
अन्येषु सर्वकार्येषु सिद्धदोऽपि हि कर्मभिः ॥२५॥

अष्टादशभिरत्यन्तं शुद्धः सिद्धिप्रदो द्रुतम् ।
रसावतारं यो वेत्ति स तु धार्मिकसत्तमः ॥२६॥

आयुष्यसुखसंतानधनारोग्यमवाप्नुयात् ।

रसपर्यायाः तन्निरुक्तैस्त

जन्मरोगजरामृत्युदारिद्र्यांभोनिधेः परम् ॥२७॥

पारं ददाति तेनैव पारदः परिकीर्तितः ।
रसोपरसलोहादिकर्तृत्वाच्च रसेन्द्रकः ॥२८॥

मम प्रत्यङ्गसूतत्वात् सूत इत्यभिधीयते ।
सूते यस्मात्सर्वसिद्धिं तस्मात्सूत इति स्मृतः ॥२९॥

मम देहरसो यस्मात् रसस्तस्मात्प्रकीर्तितः ।
जरामरणदारिद्र्यरोगनाशाय शस्यते ॥३०॥

तस्माश्रस इति प्रोक्तो धातुत्वाच्च वरानने ।
सर्वधातून्रसत्येषः तस्माच्च रस ईरितः ॥३१॥

मित्रकारी सवर्णत्वात्सर्वसिद्धिप्रदायकः ।
पारदो व्याधिसंहर्ता रसेन्द्रो रसकर्मणि ॥३२॥

धातुकर्मसु सूतः स्याद् रसेन्द्रो रससाधने ।
सर्वकर्मार्हततया सर्वतया प्रिये ॥३३॥

सर्वसिद्धिप्रदो देवि मिश्रकोऽयमुदाहृतः ।

रसगता दोषाः

अमोघसिद्धिममलं सर्वसिद्धिप्रदं रसम् ॥३४॥

आलोक्य त्रिदशाः सर्वे ब्रह्मविष्णुपुरेगमाः ।
मामभिप्रार्थयामासुः स्तोत्रैश्च विविधैः प्रिये ॥३५॥

रसेन्द्रदर्शनादेव नरपक्षिमृगादयः ।
सिद्धिं नानाविधां यान्ति तन्निवारय शंकर ॥३६॥

तस्मात् त्रिधा कञ्चुकाभिर्दोषैश्चासौ नियोजितः ।
तदा प्रभृति दोषैश्च कञ्चुकाभिश्च वर्जितः ॥३७॥

शुद्धोऽष्टादशसंस्कारैः सूतो भवति सिद्धिदः ।

रसावस्थाः

धूमश्चिटिचिटिश्चैव मण्डूकप्लुतिरेव च ॥३८॥

सकंपश्च विकंपश्च पञ्चावस्था रसस्य तु ।

रसगतयः

रसस्य गतयः पञ्च जले स्याज्जलवद्गतिः ॥३९॥

धूमे धूमगतिः सूतः स्तरणे हंसवद्गतिः ।
किट्टे किट्टनिभा देवि पञ्चमो जीववद्गतिः ॥४०॥

चतस्रो गतयो दृश्याः अदृश्या पंचमी गतिः ।
यन्त्रौषधाद्यै रोद्धव्याश्चतस्रो गतयः प्रिये ॥४१॥

ध्यानमन्त्रौषधाद्यैश्च रोद्धव्या पञ्चमी गतिः ।

नैसर्गिका दोषाः

पार्थिवश्च तथैवाप्य आग्नेयश्चानिलस्तथा ॥४२॥

नाभसो गजचर्माख्यः पुण्डरीको विसर्पकृत् ।
हारिद्रो रक्तचर्माख्यो नारङ्गो रक्तबिन्दुकः ॥४३॥

असह्याग्निश्च मण्डूको मला नैसर्गिकाः स्मृताः ।

औपधिका दोषाः

कालिका मलिनी चैव कपोती रक्तकञ्चुका ॥४४॥

सलोमी गिरिजा चैव पिङ्गली सप्त कञ्चुकाः ।
औपाधिका इमा ज्ञेयाः पारदे कीर्तिताः प्रिये ॥४५॥

यौगिका दोषाः

विषं नागश्च वङ्गश्च यौगिकश्च त्रयः स्मृताः ।

दोषाणां स्वरूपम्

भौमः कुष्ठकरश्चाप्यो दोषोद्रेकं करोति सः ॥४६॥

आग्नेयः कुरुते दाहं वायव्यः शूलकृद्भवेत् ।
बाधिर्यं नाभसो दोषो गजत्वग्गजचर्मकृत् ॥४७॥

पुण्डरीको दद्रुकरो विसर्पश्च विसर्पकृत् ।
हारिद्रः पाडुकृत्प्रोक्तो रक्तचर्माक्षिपाटलम् ॥४८॥

नारङ्गो दुम्बरं कुष्ठं रक्तबीजो मसूरिकाः ।
असह्याग्निर् मोहकारी मण्डूकश्चर्मकीलकृत् ॥४९॥

मलो मूर्च्छाकरो देवि ख्याता दोषोद्भवास्तथा ।
कालिका कृष्णवर्णं च मलिनी मलसग्रहम् ॥५०॥

कपोती स्वरसादं च विस्फोटं रक्तकञ्चुका ।
सलोमी वमनं कुर्यात् गिरिजा जाड्यकारिणी ॥५१॥

पिङ्गली नेत्रघ्नी दोषाः कचुकजाः स्मृताः ।
विषं मृत्युप्रदो नागो जाड्यं वङ्गस्सुरार्चिते ॥५२॥

कुरुते पूतिगन्धत्वं गदा यौगिकसम्भवाः ।

रसस्य स्थानान्तरगतिः

प्रथमार्तवसुस्नाता सुरूपा शुभलक्षणा ॥५३॥

शुद्धाम्बरधरा माल्यगन्धन्लिप्ता सुभूषिता ।
उत्तमाश्वसमारूढा रतिसङ्गविवर्जिता ॥५४॥

अभ्यर्च्य गणनाथं च भैरवं च गुरुं पुरा ।
रसेन्द्रभैरवं ध्यात्वा कूपस्थं पारदं प्रिये ॥५५॥

पश्येच्छीघ्रं ततो गच्छेत् न पुनः पृष्ठमीक्षयेत् ।
एषा योजनमात्रोआ कुमारी हयसाधना ॥५६॥

तदानीम् आहरेत्ततु कुमारासंजिघृक्षया ।
कूपमध्यात् समुत्पत्य सोऽनुधावति तां प्रति ॥५७॥

यावद्योजनमागत्य पुनः कूपे विशेत्क्षणात् ।
परितः कृतगर्तेषु तेषु तेषु च संस्थितम् ॥५८॥

तं रसेन्द्रं शुचिर्भूत्वा गृह्णीयाद्रसदेशिकः ।
गौरवादग्निवदनात् पतितो दरदाह्वये ॥५९॥

देशे स सूतो भूलीनः तन्त्रज्ञै रसकोविदः ।
निक्षिप्य मृत्तिकायन्त्रे पातनाख्ये समागतः ॥६०॥

पारदो गृह्यते देवि दोषहीनस्स उच्यते ।
एवमेव तत्र तत्र सिद्धविद्याधरैस्सदा ॥६१॥

निक्षेपितः पारदेन्द्रो विद्यते देवि सिद्धिदः ॥६२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:41.3930000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

method of limits

  • मर्यादा पद्धति 
RANDOM WORD

Did you know?

Do we have copyrights for everything published on this website?
Category : About us!
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site