TransLiteral Foundation

रसविद्या - भाग ३

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग ३
रसदीक्षाक्रमः

अथ दीक्षां प्रवक्ष्यामि सर्वसिद्धिप्रदायिनीम् ।
सा च पञ्चविधा प्रोक्ता समयादिविभेदतः ॥१॥

समया प्रथमा दीक्षा साधकाख्या द्वितीयका ।
निर्वाणाख्या तृतीया च चतुर्थ्याचार्यसंज्ञका ॥२॥

पञ्चमी सिद्धसंज्ञा च प्रायशो दुर्लभा नृणाम् ।
पूर्वोक्तलक्षणोपेतः शिष्यो भक्तिनतः शुचिः ॥३॥

गुरुं प्रणम्य चाष्टाङ्गं स्तुत्वा च बहुधा ततः ।
अनुगृह्णीष्व मे दीक्षामिति विज्ञापयेद्गुरुम् ॥४॥

दीक्षां च विधिवत्प्राप्य शिष्यः सर्वार्थदृग्भवेत् ।

दीक्षायोग्याः शुभतिथ्यादयः

अश्विनीमूलरेवत्यो मृगः पुण्यः पुनर्वसुः ॥५॥

रोहिणी श्रवणो मैत्रं हस्तः स्यादुत्तरात्रयम् ।
मघाश्विनी श्रेष्ठतमा दीक्षाकर्मणि तारकाः ॥६॥

तृतीया पञ्चमी चैव सप्तमी च चतुर्दशी ।
अष्टमी पौर्णमासी च दशमी च त्रयोदशी ॥७॥

एतास्तु तिथयो मुख्याः सौम्येन्दुगुरुभार्गवाः ।
आदित्य इति वारेषु रसदीक्षा सुशोभना ॥८॥

समयादीक्षाक्रमः

शुक्लपक्षे सुयोगे च करविष्टिविवर्जिते ।
चन्द्रताराबलोपेतविषुवायनसंक्रमे ॥९॥

ग्रहणे शिवरात्रे च जन्मर्क्षे सुमुहूर्तके ।
शुभग्रहे सिद्धयोगे दद्याद्दीक्षां गुरूत्तमः ॥१०॥

रसशालां प्रविश्याथ सर्वोपकरणोज्ज्वलाम् ।
पुष्पमालासमाकीर्णामुत्तोरणपताकिनीम् ॥११॥

नित्यपूजाग्निकार्यं च कृत्वा दीक्षाक्रमं भजेत् ।
देवस्य दक्षिणे पार्श्वे विस्तरे तण्डुलान् श्रितान् ॥१२॥

चतुरश्रं च तन्मध्ये क्षिपेत्प्रस्थं सुतण्डुलम् ।
तदूर्ध्वं विन्यसेत्कुम्भं सितसूत्रेण वेष्टितम् ॥१३॥

वासोभ्यां वेष्टितं सूतपञ्चरत्नसमन्वितम् ।
पञ्चमृत्पल्लवत्वग्भिः पावितं जलपूरितम् ॥१४॥

दूर्वागन्धोत्तमतिलहेमदर्भाक्षतान्वितम् ।
शिवसंज्ञमिदं कुम्भं शिवरूपं विचिन्तयेत् ॥१५॥

तद्वामभागे संस्थाप्य वर्धनीसंज्ञकं घटम् ।
शक्तिरूपं च पूर्वोक्तसर्वद्रव्यसमन्वितम् ॥१६॥

परितः सर्वतोभद्रं श्रीगौरीतिलकं लिखेत् ।
नन्द्यावर्तं स्वस्तिकं च पञ्चवर्णविराजितम् ॥१७॥

प्रक्षाल्य पादौ पाणी च समाचम्य गुरूत्तमः ।
निजासनं समासाद्य प्राणायामत्रयं तथा ॥१८॥

शिष्यस्यास्यायुरारोग्यसंपत्संतानवृद्धये ।
मुक्तये चाष्टसिद्ध्यै च संकल्प्याभ्यर्चयेच्छिवम् ॥१९॥

गन्धपुष्पाक्षैर्धूपैर्दीपैर्नैवेद्यदर्शनैः ।
शिवकुम्भं वर्धनीं च पूजयेत्सोपचारकम् ॥२०॥

रसाङ्कुशीं मूलमन्त्रं प्रजपेच्च सहस्रकम् ।
तद्दशांशं हुनेत्कुण्डे त्रिकोणे लक्षणान्विते ॥२१॥

फलं त्रिमधुसंयुक्तं ततो गन्धोत्तमान्वितम् ।
क्रमादावृतिदेवांश्च चतुर्थ्यां स्वस्वनामकम् ॥२२॥

स्वाहान्तं प्रणवादिं च समुच्चार्य हुनेद्धविः ।
शिवत्रयं पुरा देवि ततः सिद्धत्रयं यजेत् ॥२३॥

ततो गुरुत्रयं देवि कुलवृद्धान् गुरूत्तमः ।
योगिनीं पूजयित्वा तु लब्धानुज्ञो गुरुस्ततः ॥२४॥

स शक्तिमानन्दशिवमूर्तिमाराधयामि च ।
तथा परानन्दशिवमूर्तिमाराधयामि च ॥२५॥

एवं त्रिसिद्धमूर्तिं च श्रीबीजसहितं यजेत् ।
एवं त्रिगुरुमूर्तिं च मारबीजयुतं यजेत् ॥२६॥

तत्त्वत्रयं गृहीत्वा च पुनर्न्यासं समाचरेत् ।
स्वयं शिवतनुर्भूत्वा शिवोऽहमिति भावयेत् ॥२७॥

हृष्टं शक्तियुतं शिष्यं शिवद्रष्टा विलोकयेत् ।
स्ववामपार्श्वे संस्थाप्य तन्मूर्धनि विनिक्षिपेत् ॥२८॥

मूलाभिमन्त्रितं भस्म तन्नेत्रं वस्त्ररोधितम् ।
कृत्वा तन्मूर्ध्नि संप्रोक्ष्य शिववर्धनिवारिणा ॥२९॥

त्रिधा स्वदक्षिणे हस्ते शिवं सावरणं यजेत् ।
विज्ञेयः शिवहस्तोऽयं भवपाशनिकृन्तनः ॥३०॥

अङ्कुशीमूलमन्त्रं च त्रिवारं च समुच्चरेत् ।
शिष्यदक्षिणकर्णे च कुर्यान्मन्त्रोपदेशकम् ॥३१॥

पूर्वं गणपतेर्मन्त्रं क्षेत्रपालमनुं ततः ।
ऋषिस्तु गणकश्छन्दो न्यृचिद्गायत्रिका स्मृतम् ॥३२॥

देवो गणपतिर्ज्ञेयो न्यासं बीजाक्षरेण च ।
आदिवर्गतृतीयार्णं सार्धचन्द्रं गणाख्यकम् ॥३३॥

पतिं चतुर्थ्या संयुक्तं नमोऽन्तं मनुमुच्चरेत् ।
पाशाङ्कुशं मोदकं च बिभ्राणं स्वविपाणकम् ॥३४॥

गजाननं प्रवालाभं मकुटेन्दुकलाधरम् ।
तुन्दिलं गणनाथं च ध्यात्वा लक्षं जपेन्मनुम् ॥३५॥

दशांशं तर्पणं होमं सगुडं सतिलं हुनेत् ।
कषबिन्दुयुतं क्षेत्रपालं च सचतुर्थिकम् ॥३६॥

नमोऽन्तं मनुमुच्चार्य न्यासं बीजाक्षरेण च ।
छन्दः पङ्क्तिर्मुनिर्ज्ञेयो भृगुर्देवश्च भैरवः ॥३७॥

चतुर्भुजं शूलपात्रवरदाभयशोभितम् ।
कालाम्बुदनिभं नागभूषणं किङ्किणीस्रजम् ॥३८॥

त्रिनेत्रं वक्रदंष्ट्रं च ध्यात्वा लक्षं जपेन्मनुम् ।
दशांशं तर्पणं होमं पायसं त्रिमधुप्लुतम् ॥३९॥

हुनेदिति समादिश्य सामयाचारिकं भजेत् ।
देवतापरिचर्यां च शुश्रूषां च गुरोः कुरु ॥४०॥

अतन्द्रितो जपं कुर्यात् शास्त्रश्रवणमादरात् ।
पूर्वोक्ताचारमार्गेण निरतो भव संततम् ॥४१॥

प्रह्वः कृताञ्जलिर्भूत्वा करिष्यामि तथा प्रभो ।
धन्योऽहं कृतकृत्योऽस्मि श्रीनाथ त्वत्प्रसादतः ॥४२॥

इति विज्ञापयेच्छिष्यः समयाचारबृंहितः ।
प्रातस्तरां समुत्थाप्य गुरूंश्च शिरसि स्मरेत् ॥४३॥

निवेद्यावश्यकं कर्म स्नातः संध्यां समाचरेत् ।
नद्यास्तीर्थे तटाके वा पुष्करिण्यां शुचौ जले ॥४४॥

उपस्पृश्य च संकल्प्य नित्यतर्पणमाचरेत् ।
आदौ शिवत्रयं विघ्ननाथं क्षेत्राधिपं हरिम् ॥४५॥

ब्रह्माणं भास्करादींश्च ग्रहान् दुर्गां च मातृकाः ।
भैरवानसिताङ्गादीन् ततः सिद्धत्रयं वदेत् ॥४६॥

आदिनाथं मीननाथं गोरक्षं कोङ्कणेश्वरम् ।
जालन्ध्रेशं कन्धनीशम् ओड्डीशं चिञ्चिणीश्वरम् ॥४७॥

चौरङ्गिम् एतान् नाथाख्यान्नव संतर्पयेत्ततः ।
चौरङ्गिं चर्पटिं घोडाचूलिं रामद्वयं ततः ॥४८॥

भोलगोविन्दसिद्धं च व्याडिं नागार्जुनं तथा ।
कोरण्डं शूर्पकर्णं च मुक्तायीं रेवणं तथा ॥४९॥

सिद्धं कुक्कुरपादं च शूर्पपादं कणैरिकम् ।
सिद्धं किङ्किणिकाख्यं च सिद्धान् षोडश तर्पयेत् ॥५०॥

ततो गुरुत्रयं तर्प्य मातरं पितरं गुरुम् ।
आचार्यं भ्रातरं मित्रं तर्प्य चान्यान्कुलोद्भवान् ॥५१॥

तर्पयेद्विधिनाचम्य देवताराधनं ततः ।
नद्यास्तीरे तटाके वा गोष्ठे देवालये तथा ॥५२॥

शुचिस्थले वा संस्तीर्य सैकतं वर्तुलाकृतिम् ।
आवाहयेद्दिनाधीशं पाटलं शिवरूपिणम् ॥५३॥

द्विनेत्रपद्मयुगलधारिणं द्विभुजं परम् ।
रक्तस्रगम्बरालेपभूषापद्मासनोज्ज्वलम् ॥५४॥

ध्यात्वार्चयेद्रक्तपुष्पैस्ततो विघ्नेशभैरवौ ।
ध्यात्वा पूर्वोक्तवत्तौ द्वौ रक्तपुष्पैः समर्चयेत् ॥५५॥

अष्टाङ्गदण्डप्रणतिं कुर्यात् द्वादशवारकम् ।
पुनः संस्थापयेत्स्वान्ते सेवायै स्वगुरोर्व्रजेत् ॥५६॥

इत्युक्ता समया दीक्षा साधका कथ्यतेऽधुना ।

साधकदीक्षा

समयाचारनिरतं सच्छिष्यं पक्वमानसम् ॥५७॥

दीक्षयेत्सुदिने लग्ने दीक्षया साधकाख्यया ।
कुर्यान्नैमित्तिकीं पूजां शिष्यमावाहयेद्गुरुः ॥५८॥

स्वयं शिवतनुः शिष्यं गौरीगर्भगतं स्मरेत् ।
भूमौ विभूतिं संस्तीर्य तस्मिन्कोणत्रयं लिखेत् ॥५९॥

तत्रोपवेश्य शिष्यं च बन्धयित्वा विलोचने ।
गर्भाधानं पुंसवनं सीमन्तोन्नयनं ततः ॥६०॥

जातकर्म च दीक्षाङ्गं नामधेयं च कल्पयेत् ।
व्रतकर्मणि सम्प्रोक्ष्य मूलमन्त्रेण भस्मना ॥६१॥

गौरीपुत्रं भावयित्वा तस्य दीक्षां प्रकल्पयेत् ।
शिवदृष्ट्या विलोक्यामुं शिवभस्म च मूर्धनि ॥६२॥

निधाय मूलमन्त्रं च पूजयेद्दशवारकम् ।
तस्य दक्षिणकर्णे च उपदिश्याद् दशाक्षरम् ॥६३॥

रसगायत्री

रसेन्द्रभैरवं मन्त्रं गायत्रीं रससंज्ञिकाम् ।
स बिन्दुहुतभुग्बीजं रसेन्द्रस्य पदं ततः ॥६४॥

भैरवं च चतुर्थ्यन्तं कर्मास्त्रं च दशांशकम् ।
वह्निबीजं दीर्घयुक्तं करन्यासं समाचरेत् ॥६५॥

अघोराख्य ऋषिश्छन्दो विराड्देवो महेश्वरः ।
पूर्वसेवाजपं लक्षं दशांशं होमतर्पणम् ॥६६॥

तिलाज्यव्रीहिभिः कुर्याद्धोमं निश्चलमानसः ।
पूर्वोक्तां रसगायत्रीं जपेल्लक्षं च तर्पणम् ॥६७॥

हुनेद्दशांशमाज्येन सतिलव्रीहिभिः प्रिये ।
दद्याच्छिष्यायाक्षमालां रसलिङ्गं रसागमम् ॥६८॥

पूर्वोक्ताचारवान् भूत्वा रसलिङ्गं समर्चयेत् ।
स्वशास्त्रार्थावगमनं कुर्यात्सूतेन्द्रसंस्कृतिम् ॥६९॥

गुरुसेवारतं नित्यं शिष्यमाज्ञापयेदिति ।
शिष्यो बद्धाञ्जलिर् नम्रस्तवाज्ञाम् आचराम्यहम् ॥७०॥

इत्युक्ता साधका दीक्षा निर्वाणाख्या प्रशस्यते ।

निर्वाणदीक्षा

कृतनित्यक्रियः पूर्वं कृतनैमित्तिकार्चनः ॥७१॥

पूर्ववच्छिवकुम्भादि वर्धनीं स्थापयेत्क्रमात् ।
स्ववामे भस्म संस्तीर्य षट्कोणं भूगृहं लिखेत् ॥७२॥

शिष्यं संवेश्य कुम्भस्थजलैः संप्रोक्षयेद्गुरुः ।
मूलाभिमन्त्रितं भस्म तस्य मूर्ध्नि निक्षिपेत् ॥७३॥

गन्धपुष्पाक्षतं दद्यात् बध्नीयाद्दक्षिणे करे ।
कङ्कणं चरणाङ्गुष्ठब्रह्मरन्ध्रान्तमानकम् ॥७४॥

सूत्रं तन्मूलमन्त्रेण मन्त्रितं सुरभीकृतम् ।
शिवहस्तं च तन्मूर्ध्नि निधाय गुरुसत्तमः ॥७५॥

रसांकुशां द्वादशार्णाम् उपदिश्यान् मनुं परम् ।
रसभैरवदैवत्यं दद्याच्छिष्याय देशिकः ॥७६॥

ऋषिश्छन्दो देवता च न्यासं पूर्वोक्तवत्प्रिये ।
तर्पणं चाथ होमं च ध्यानं कुर्याच्च पूर्ववत् ॥७७॥

उत्थाय च गुरुं नत्वा बहुशः स्तोत्रमुच्चरेत् ।
गुरुः शिष्याय वै दद्याद्व्याघ्रचर्मासनं च यत्र ॥७८॥

भस्त्रिकां वस्त्रसम्पूर्णां दद्याद्भैषज्यभस्त्रिकाम् ।
रसागमं पाठयित्वा भव शिष्य चिकित्सकः ॥७९॥

रुद्ररूपी भवान् जातः सर्वभूतहितो भव ।
इत्यादिशेद्गुरुः शिष्यं शिष्यो हृष्टमनास्ततः ॥८०॥

कृतकृत्योऽस्मि पूतोऽस्मि तीर्णसंसारसागरः ।
इति विज्ञापयेच्छिष्यः स्तुत्वा च बहुधा गुरुम् ॥८१॥

प्रोक्ता निर्वाणदीक्षेयम् अथाचार्याभिषेचनम् ।

आचार्यदीक्षा

निर्वाणदीक्षितस्यास्य शिष्यस्यापि महात्मनः ॥८२॥

आचार्यदीक्षां कुर्वीत यथावद्गुरुसत्तमः ।
यथा निर्वाणदीक्षायास्तथा सर्वं प्रकल्पयेत् ॥८३॥

विशेषाच्छिववर्धन्योः पुरतः स्थापयेद्घटम् ।
रूप्यगन्धादिलोहाशादिव्यौषधगणान्वितम् ॥८४॥

शिवकुम्भवदन्यच्च सर्वमस्मिन् विनिक्षिपेत् ।
गुरुकुम्भं जपेत्स्पृष्ट्वा मूलमष्टोत्तरं शतम् ॥८५॥

गुरुकुम्भमिमं विद्धि गुरुमन्त्रेण पूजयेत् ।
आवाहनासनार्घ्याद्यैर् उपचारैश्च षोडशैः ॥८६॥

शिवादिपङ्क्तिं तत्रैव पूजयेद्गुरुणा सह ।
यथापूर्वं समासीनं शिष्यं चैकाग्रमानसम् ॥८७॥

पूर्ववच्छिववर्धन्योरम्बुना परिषेचयेत् ।
पूर्ववच्छिवहस्तं च मूलमन्त्रोपदेशकम् ॥८८॥

कृत्वा तदुत्तमाङ्गे च गुरुपङ्क्तिं गुरुं तथा ।
आवाहनाद्यैः सम्पूज्य गन्धस्रग्दीपकैः ॥८९॥

फलगन्धोत्तमोपेतैर्नैवेद्यैः पूजयेत्क्रमात् ।
गुरुः कुम्भजलैः कुर्यात्प्रोक्षणं पञ्चपल्लवैः ॥९०॥

मूलमन्त्रेण शतधा शिवपङ्क्त्या त्रिसप्तधा ।
तथैव सिद्धपङ्क्त्या च गुरुपङ्क्त्या तथैव च ॥९१॥

शिष्याय गुरुभक्ताय शक्तियुक्ताय धीमते ।
हारकेयूरकटकमुद्रिकामकुटानि च ॥९२॥

वाहनासनसच्छत्रचामरव्यजनानि च ।
मणिकुण्डलयुग्मं च भूत्याढ्यं पात्रमक्षयम् ॥९३॥

सशिरस्त्राणमुष्णीषं पट्टकूर्पासमुत्तमम् ।
योगपट्टं योगदण्डं तथैवोड्याणबन्धनम् ॥९४॥

दद्यात्तस्मै तथैवाज्ञां त्वमाचार्योऽसि संप्रति ।
ईश्वरोऽस्यद्य धन्योऽसि सर्वेषां देशिको भव ॥९५॥

रसागमानां दिव्यानां व्याख्याता भव तत्त्ववित् ।
इत्यादिशेद्गुरुः शिष्यं प्रणतं गुरुवत्सलम् ॥९६॥

इति चाचार्यदीक्षेयं सिद्धदीक्षाद्य कथ्यते ।

सिद्धदीक्षा

नवं सप्तरात्रं वा पञ्चरात्रं त्रिरात्रकम् ॥९७॥

वीराः शक्तियुताः पूज्याः एकविंशति चान्वहम् ।
तत्संख्या योगिनः पूज्याः कुमाराः कन्यकाः स्त्रियः ॥९८॥

गन्धपुष्पाक्षतैः पुष्पैः फलगन्धोत्तमार्पणैः ।
तोषयित्वा प्रदद्याच्च वस्त्राभरणदक्षिणाः ॥९९॥

अथासनसमासीनं शिष्यं भक्तियुतं शुचिम् ।
स्पृष्ट्वा कराभ्यां तच्छीर्षं दक्षिणे श्रवणे मनुम् ॥१००॥

वह्निं सबीजं शीतांशुं सविसर्गं च दीक्षयेत् ।
मूलाधारात्समुद्भूतं रेफं वह्निशिखोपमम् ॥१०१॥

षडाधाराम्बुजं तीर्त्वा ब्रह्मरन्ध्रान्तगं स्मरेत् ।
ब्रह्मरन्ध्राद्द्रवीभूतं सकारं सोमरूपिणम् ॥१०२॥

आप्लावयन्तं सर्वाङ्गं सिद्धः संचिन्तयेन्मनुम् ।
उच्छ्वासनिश्वासभवं संहारस्थितिकारणम् ॥१०३॥

ज्ञात्वेत्थं मनसा नित्यं सर्वमन्त्रात्मकं सदा ।
सर्वदेवमयं पुण्यं सर्वसिद्धिप्रदायकम् ॥१०४॥

जीवतो मुक्तिदं शुद्धं शिवशक्त्यात्मकं परम् ।
रसमन्त्रमिमं विद्धि चाग्नीषोमात्मकं भज ॥१०५॥

एकविंशतिसाहस्रषट्शताधिकसंख्यकम् ।
प्रवर्तितं दिवारात्रं मनस्तत्र निधेहि च ॥१०६॥

मन्त्रस्यास्य ऋषिर्जीवश् छन्देत्युक्ताः प्रकीर्तिताः ।
रसो देवस्तु रं बीजं सं शक्तिस्तु प्रकीर्तितः ॥१०७॥

रेफदीर्घयुतं कुर्यात्कराङ्गन्यासमाचरेत् ।
ध्यायेद्धृदम्बुजे देवि कोटिसूर्येन्दुसन्निभम् ॥१०८॥

शुद्धस्फटिकसंकाशं रसं संसारपारदम् ।
एवं निष्कलरूपं तं ध्यात्वा तन्मयतां व्रजेत् ॥१०९॥

निष्कलरसस्तोत्रम्

त्वं रसस्त्वं शिवस्त्वं हि शक्तिस्त्वं भैरवेश्वरः ।
त्वं ब्रह्मा त्वं हि रुद्रश्च सूर्यस्त्वं शीतदीधितिः ॥११०॥

त्वं भूस्त्वं सलिलस्त्वं च वह्निस्त्वं च सदागतिः ।
त्वं व्योम त्वं पराकाशः त्वं जीवस्त्वं परा गतिः ॥१११॥

त्वं सिद्धस्त्वं प्रबुद्धस्त्वं सुगन्धस्त्वं च मन्मथः ।
त्वं लोकपालस्त्वं तारा मातृकास्त्वं गजाननः ॥११२॥

त्वं स्कन्दस्त्वं गुरुस्त्वं च त्वं सर्वजनकः शुचिः ।
त्वं यज्वा त्वं हरिस्त्वं च त्रेताग्निस्त्वं च ऋत्विजः ॥११३॥

येन त्वमर्च्यसे तेन पूजिताः सर्वदेवताः ।
त्वयि तुष्टे च संतुष्टा ब्रह्मविष्णुमहेश्वराः ॥११४॥

त्वत्पादोदकपानेन सर्वतीर्थफलं लभेत् ।
यस्त्वां पश्यति सद्भक्त्या तम् आलोकयते शिवः ॥११५॥

यस्त्वां संकीर्तयेत्तस्य सर्वमन्त्रफलं भवेत् ।
यत्र त्वं क्षणमात्रे च पुण्यक्षेत्रं तदुच्यते ॥११६॥

त्वं यं पश्यति सिद्धेन्द्र स ब्रह्मा विष्णुरीश्वरः ।
यत्र भुङ्क्षे ऽन्नकवलं तत्र त्रैलोक्यमति हि ॥११७॥

येन त्वं ध्रियसे नाथ त्वयायं स्त्रियतेक्षणम् ।
स एव चित्सदानन्दः परमात्मा ध्रुवं भवेत् ॥११८॥

एवं निश्चितचित्तस्य सिद्धस्य तव योगिनः ।
वर्णाश्रमसदाचाराः कृत्याकृत्यविवेकतः ॥११९॥

पापं पुण्यं सुखं दुःखं शीतमुष्णं प्रियाप्रिये ।
स्नानास्नानं हानिवृद्धी शुद्धाशुद्धं भयाभयम् ॥१२०॥

ग्राह्याग्राह्यं क्षुधा तृष्णा न किंचिद् इह विद्यते ।
स्वेच्छाहारविहारश्च सुखी संहृष्टमानसः ॥१२१॥

निर्ममः सर्वकार्येषु कलत्रादिषु बन्धुषु ।
एवमाचार्यवचनमङ्गीकृत्य च दीक्षितः ॥१२२॥

अद्य प्रभृति वन्द्यस्त्वं मा कुरु प्रणतिं क्वचित् ।
मत्समानोऽसि सिद्धोऽसि जीवन्मुक्तोऽसि संप्रति ॥१२३॥

इत्युक्त्वाचार्यवर्योऽपि सिद्धमालिङ्ग्य च क्षणम् ।
सिद्धदीक्षेयमाख्याता शिवसायुज्यदायिनी ॥१२४॥

दुर्लभा सर्वतन्त्रेषु तव प्रीत्या प्रकाशिता ।
देवीत्थमेव मन्तव्यं दुर्लभं समयेषु च ॥१२५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:41.8370000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

driven antenna

  • चालित आकाशग 
RANDOM WORD

Did you know?

हल्ली महिला पौरोहित्य करतात हे धर्मसंमत आहे काय?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site