TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसविद्या - भाग २५

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग २५
परिभाषां प्रवक्ष्यामि शृणु त्वं सावधानतः ।

वैद्यभागः

अर्धं सिद्धरसं देवि त्रिष्वेकं हेमभस्म च ॥१॥

पादांशकं रूप्यभस्म षष्ठांशं ताम्रभस्म च ।
अष्टमांशं हि कान्ताभ्रं कलांशं नवरत्नकम् ॥२॥

रसेश्वरं समुद्दिश्य रसवैद्याय धीमते ।
रसाचार्याय सिद्धाय दद्यादिष्टार्थसिद्धये ॥३॥

कज्जली पङ्करसश्च

धातुभिर्गन्धकाद्यैश्च निर्द्रवैर्मर्दितो रसः ।
सुश्लक्ष्णः कज्जलाभोऽसौ कज्जली साभिधीयते ॥४॥

सद्रवे मर्दितः सोऽपि इति पाकरसः स्मृतः ।

पिष्टी

अर्कांशतुल्याद्रसतोऽथ गन्धान्निष्कार्धतुल्यात्त्रुटिशोऽपि खल्वे ।
अर्कातपे तीव्रतरे विमर्द्यात्पिष्टिर्भवेत्सा नवनीतरूपा ॥५॥

खल्वे विमर्द्य गन्धेन दुग्धेन सह पारदम् ॥६॥

पेषणात्पिष्टितां याति सा पिष्टीति मता परैः ।

पातनपिष्टी

चतुर्थांशसुवर्णेन रसेन कृतपिष्टिका ॥७॥

भवेत्पातनपिष्टी सा तथा रूप्यादिभिः कृता ।

हेमपिष्टी तारपिष्टी च

रूप्यं वा जातरूपं वा रसगन्धादिभिर्हतम् ॥८॥

समुत्थितं च बहुशः सा कृष्टी हेमतारयोः ।
कृष्टीं क्षिप्त्वा सुवर्णान्ते न वर्णो हीयते तया ॥९॥

स्वर्णकृष्ट्या कृतं बीजं रसस्य परिरञ्जनम् ।

लोहकम्

ताम्रं तीक्ष्णसमायुक्तं द्रुतं निक्षिप्य भूरिशः ॥१०॥

सगन्धे लिकुचद्रावे निर्गतं वरलोहकम् ।

हेमरक्ती ताररक्ती च

तेन रक्तीकृतं स्वर्णं हेमरक्तीत्युदाहृता ॥११॥

निक्षिप्ता सा द्रुते स्वर्णे वर्णोत्कर्षविधायिनी ।
तारस्य रञ्जनी चापि बीजरागविधायिनी ॥१२॥

एवमेव प्रकर्तव्या ताररक्ती मनोहरा ।
रञ्जनी खलु रूप्यस्य बीजानामपि रञ्जनी ॥१३॥

चन्द्रानलदलम्

मृतेन वा बद्धरसेन वान्यलोहेन वा साधितमन्यलोहम् ।
सितं हि पीतत्वमुपागतं तद्दलं हि चन्द्रानलयोः प्रसिद्धम् ॥१४॥

आभासमृतबन्धेन रसेन सह योजितम् ।
साधितं वान्यलोहेन सितं पीतं हि तद्दलम् ॥१५॥

अयोनागम्

ताप्येन निहतं कान्तं सप्तवारं समुत्थितम् ।
तद्द्वयं द्विपलं वाथ ताम्रभस्म पलद्वयम् ॥१६॥

सर्वं निक्षिप्य मूषायां सप्तवारं धमेद्दृढम् ।
तदयोनागमित्युक्तं साधकं देहलोहयोः ॥१७॥

रसेन सारणायन्त्रे तदीया गुलिका कृता ।
सा धृता वदने हन्ति मेहरोगानशेषतः ॥१८॥

कुरुते दन्तदार्ढ्यं च दृशौ गृध्रदृशाविव ।
तथान्यान् क्षेत्रजान्रोगान् रोगाञ् जत्रूर्ध्वसंभवान् ॥१९॥

शुल्वनागम्

माक्षिकेण हतं ताम्रं दशवारं समुत्थितम् ।
तद्वद्विशुद्धनागं हि द्वितयं तच्चतुष्पलम् ॥२०॥

नीलाञ्जनहतं भूयः सप्तवारं समुत्थितम् ।
इति संसिद्धमेतद्धि शुल्बनागं प्रकीर्तितम् ॥२१॥

साधितस्तेन सूतेन्द्रो वदने विधृतो नृणाम् ।
निहन्ति मासमात्रेण मेहव्यूहमशेषतः ॥२२॥

पथ्याशनस्य वर्षेण पलितं वलिभिः सह ।
गृध्रदृष्टिर् लसद्दृष्टिः सर्वारोग्यसमन्वितः ॥२३॥

पिञ्जरी

लोहं लोहान्तरे क्षिप्तं ध्मातं निर्वापितं द्रवे ।
पाण्डुपीतप्रभं जातं पिञ्जरीत्यभिधीयते ॥२४॥

चन्द्रार्कम्

भागाः षोडश तारस्य तथा द्वादश भास्वतः ।
एकत्रावर्तितास्ते तु चन्द्रार्कमिति कथ्यते ॥२५॥

निर्वापहणम्

धार्यलोहे ऽन्यलोहश्चेत्प्रक्षिप्तो वङ्कनालतः ।
निर्वापणं तु तत्प्रोक्तं वैद्यैर्निर्वाहणं खलु ॥२६॥

क्षिपेन्निर्वाहणं द्रव्ये निर्वाह्ये समभागिकम् ।
आवाप्यं वापनीयं च भागे दृष्टे च दृष्टवत् ॥२७॥

वार्तितर (डेf.)

मृतं तरति यत्तोये लोहं वारितरं हि तत् ।

रेखापूर्ण (डेf.)

अङ्गुष्ठतर्जनीघृष्टं यत्तद्रेखान्तरे विशेत् ॥२८॥

मृतं लोहं तदुद्दिष्टं रेखापूर्णाभिधानतः ।

निरुत्थभस्मलक्षणम्

गुडगुञ्जासुखस्पर्शमध्वाज्यैः सह योजितम् ॥२९॥

न याति प्रकृतिं ध्मानादपुनर्भवमुच्यते ।

निरुत्थ

लोहेन सह संयुक्तं ध्मातं रूप्येण चेल् लिहेत् ॥३०॥

तदा निरुत्थमित्युक्तं लोहं तदपुनर्भवम् ।
एवं रूप्यं सताम्रं चेद्ध्मातं ताम्रे लगेन्न हि ॥३१॥

तदा निरुत्थं मन्तव्यं रजतं च भिषग्वरैः ।

बीजम्

निर्वाहणविशेषेण तद्वद्वर्णं भवेद्यदा ॥३२॥

मृदुलं चित्रसङ्काशं तद् बीजमिति कथ्यते ।

उत्तारणम्

इदमेव हि निर्दिष्टं वैद्यैरुत्तारणं खलु ॥३३॥

संसृष्टलोहयोरेकलोहस्य परिनाशनम् ।

ताडनम्

प्रध्मातं वङ्कनालेन तत्ताडनमुदाहृतम् ॥३४॥

धान्याभ्रम्

चूर्णाभ्रं शालिसंयुक्तं वस्त्रबद्धं हि काञ्जिके ।
निर्यातं मर्दनाद्वस्त्राद्धान्याभ्रमिति कथ्यते ॥३५॥

सत्त्वम्

क्षाराम्लद्रावकैर्युक्तं ध्मातमाकरकोष्ठके ।
यस्ततो निर्गतः सारः सत्त्वम् इत्यभिधीयते ॥३६॥

एककोलीसकः

कोष्ठिकाशिखरापूर्णैः कोकिलाध्मानयोगतः ।
मूषाकर्णम् अनुप्राप्तैर् एककोलीशको मतः ॥३७॥

स्वेदनाद्यर्हाः कोकिलाः

शिखित्राः पावकोच्छिष्टा मृताङ्गाराश्च कोकिलाः ।
कृष्णाङ्गाः कोकिलाश्चेति पर्यायास्ते परस्परम् ॥३८॥

छर्चोअल् > wओओद्

द्रावणे सत्त्वपाते च माधूकाः खादिराः शुभाः ।
दुर्द्रावे वंशजापेस्तु स्वेदने बादराः शुभाः ॥३९॥

हिङ्गुलाकृष्टरसः

विद्याधराख्ययन्त्रस्थाद् आर्द्रकद्रवमर्दितात् ।
समाकृष्टो रसो योऽसौ हिङ्गुलाकृष्ट उच्यते ॥४०॥

घोषाकृष्टं वङ्गम्

स्वल्पतालयुतं कांस्यं वङ्कनालेन ताडितम् ।
मुक्तवङ्गं हि तत्ताम्रं घोषाकृष्टमुदाहृतम् ॥४१॥

गुह्यनागम्

पलविंशति नागस्य शुद्धस्य कृतचक्रिकम् ।
रूपिकादुग्धसम्पिष्टशिलायां परिलेपितम् ॥४२॥

शरावसंपुटे रुद्ध्वा पचेत् क्रोडपुटेन ताम् ।
तावद्वारं पचेद्यत्नाद्यावद्भस्म प्रजायते ॥४३॥

गुडगुग्गुलुगुञ्जाज्यटङ्कणैः परिमर्द्य तम् ।
मूषामध्ये निरुध्याथ ध्मानादुत्थापितं पुनः ॥४४॥

चक्रीं तेन पुनः कृत्वा पलप्रमितपारदैः ।
लिप्त्वा लिम्पेत्सितार्कस्य पयसा शिलयापि च ॥४५॥

पचेद्गजपुटैरेवं वाराणां खलु विंशतिः ।
पुटे पुटे च नागस्य कुर्यादुत्थापनं खलु ॥४६॥

नीलज्योतिर्द्रवैः सम्यग्दशवाराणि ढालयेत् ।
इति सिद्धं हि तत् सीसं कर्षमात्रावशेषितम् ॥४७॥

गुह्यनागाख्यया प्रोक्तं श्रेष्ठं रसरसायने ।
निष्कमात्रं तु नागेऽस्मिन् लोहाख्ये या द्रुते सति ॥४८॥

स्वतो लक्षगुणां हैमीं शलाकां ग्रसते ध्रुवम् ।
लगेत्तैलप्रतप्तं तत्स्वर्णमुद्गिरति ध्रुवम् ॥४९॥

गुह्यनागोऽयमुद्दिष्टः शक्तिस्वच्छन्दभैरवः ।

वरनागम्

तीक्ष्णं नीलाञ्जनोपेतं ध्मातं हि बहुशो दृढम् ॥५०॥

मृदु कृष्णं द्रुतद्रावं वरनागं तदुच्यते ।

उत्थापनम्

मृतस्य पुनरुद्भूतिः सा प्रोक्तोत्थापनाख्यया ॥५१॥

ढालनम्

द्रुतद्रव्यस्य निक्षेपो द्रवे तत् ढालनं मतम् ।

चपलः

त्रिंशत्पलमितं नागं भानुदुग्धेन मर्दितम् ॥५२॥

विमृद्य पुटयेत् तावद् यावत् कर्षावशेषकम् ।
न तत्पुटसहस्रेण क्षयमायाति सर्वदा ॥५३॥

चपलोऽयं समादिष्टो वार्तिकैर्नागसम्भवः ।
इत्थं हि चपलः कार्यो वङ्गस्यापि न संशयः ॥५४॥

तत्स्पृष्टहस्तसंस्पृष्टः केवलो बध्यते रसः ।
स रसो धातुवादेषु शस्यते न रसायने ॥५५॥

अयं हि कर्पणाख्येन लोकनाथेन कीर्तितः ।
भ्रामकाश्मरजः सूक्ष्मं पञ्चमांशसमन्वितम् ॥५६॥

कुमारीमूलतोयेन मर्दयेदेकवासरम् ।
शार्ङ्गेरीस्वरसे वापि दिनमेकमनारतम् ॥५७॥

एवं भूनागधौतं च मर्दयेद्दिवसद्वयम् ।
अथैकपलनागेन तावता त्रपुणापि च ॥५८॥

दशनिष्करसेन्द्रेण श्लक्ष्णपिष्टं समाचरेत् ।
योजयित्वाद्यकल्केन यथापूर्वं विमर्दयेत् ॥५९॥

ततः शाणरसेन्द्रेण सत्त्वेन रसकस्य च ।
पिष्टीं कृत्वा तु पूर्वेण पूर्वकल्कैश्च योजयेत् ॥६०॥

अथ प्रक्षाल्य सोष्णेन काञ्जिकेन प्रशोषयेत् ।
पलार्धं शुद्धसस्येन अष्टगुञ्जारसेन च ॥६१॥

विमर्द्य काञ्जिकैः कुर्यान्मरिचप्रमिता वटीः ।
निरुध्य वज्रमूषायां सन्धिबन्धं विधाय च ॥६२॥

शिखित्रैर् नवभिः सम्यग्भस्त्राभ्यां प्रधमेत्खलु ।
ततो मूषागतं सत्त्वं समादाय समन्ततः ॥६३॥

धमेत्प्रकटमूषायां वङ्कनालेन शोधयेत् ।
दशशाणं हि तत्सत्वं भस्मना लवणेन च ॥६४॥

सकाञ्जिकेन संपेष्य पुटयोगेन शोधयेत् ।
त्रिनिष्कप्रमिते तस्मिन्पूर्वप्रोक्तेन भस्मना ॥६५॥

अशीतिगुणितं नागं ध्मात्वा निर्वाहयेत् खलु ।
इयता पूर्वसूतोऽसौ क्षीयते न कथंचन ॥६६॥

चपलोऽयं समुद्दिष्टो लोकनाथेन शम्भुना ।
अनेनापि रसः शीघ्रं पूर्ववद् बध्यते सुखम् ॥६७॥

कारवल्लीजटाचूर्णैर्दशधा पुटितो हि सः ।
भवेन्नागविनिर्मुक्तो ग्रासं गृह्णात्यशेषतः ॥६८॥

सुखं प्रकटमूषायां भवेच् चातिगुणोत्तरः ।
जीर्णग्रासो रसो ह्येषां देहलोहकरो भवेत् ॥६९॥

भूनागधौतम्

भूभुजङ्गशकृत्तोयैः प्रक्षाल्यापहृतं मलम् ।
कृष्णवर्णं हि तत्प्रोक्तं धौताख्यं रसवादिभिः ॥७०॥

द्वन्द्वानम्

द्रव्ययोर्मेलनं ध्मानाद् द्वंद्वानं परिकीर्तितम् ।

भञ्जनी

भागाद्रूप्याधिके क्षेपमनुवर्णसवर्णकम् ॥७१॥

दलैर्वा वर्णिकाग्रासो भञ्जनी वादिनिर्मिता ।

फुल्लिका

पतङ्गीकल्कतो जाता लोहे तारत्वहेमता ॥७२॥

दिनानि कतिचित् स्थित्वा यात्यसौ फुल्लिका मता ।

पतङ्गीरागः

रञ्जितार्धरसाल्लोहादन्यद्वा चिरकालतः ॥७३॥

विनिर्याति स निर्दिष्टः पतङ्गीरागसंज्ञकः ।

आवापः

द्रुते द्रव्यान्तरक्षेपाल्लोहाद्यैः क्रियते हि यः ॥७४॥

स आवापः प्रतीवापस्तदेवाच्छादनं मतम् ।

अभिषेकः

द्रुते वह्निस्थिते लोहे विरम्याष्टनिमेषकम् ॥७५॥

सलिलस्य परिक्षेपः सोऽभिषेक इति स्मृतः ।
नागं वा वङ्गं वा प्रद्राव्य निषेचयेच्छतं वारान् ॥७६॥

उक्तद्रव्ये तद्द्रवताडनमेतद्धि सोऽभिषेकस्तु ।

निर्वाप

तप्तस्याप्सु परिक्षेपो निर्वापस्तपनं च तत् ॥७७॥

प्रतिवाप्यादिकं कार्यं द्रुतलोहे सुनिर्मले ।

शुद्धावर्तः

यदा हुताशो दीप्तार्चिः शुक्लोत्थानसमन्वितः ॥७८॥

शुद्धावर्तस्तदा ज्ञेयः स कालः सत्त्वनिर्गमे ।

रेखावर्तः

द्राव्यद्रव्यनिभा ज्वाला दृश्यते धमने यदा ॥७९॥

द्रवस्योन्मुखता सेयं रेखावर्तः स कथ्यते ।

स्वाङ्गशीतं वह्नि(बहिः)शीतं च

वह्निस्थमेव शीतं यत्तदुक्तं स्वाङ्गशीतलम् ॥८०॥

अग्नेराकृष्टशीतं यद्वह्निशीतं तदीरितम् ।

स्वेदनम्

क्षाराम्लैर् औषधैर्वापि डोलायन्त्रे स्थितस्य हि ॥८१॥

पचनं स्वेदनाख्यं स्यान्मलशैथिल्यकारकम् ।

मर्दनम्

उद्दिष्टैरौषधैः सार्धं सर्वाम्लैः काञ्जिकैरपि ॥८२॥

पेषणं मर्दनाख्यं स्याद्बहिर्मलविनाशनम् ।

मूर्छनम्

मर्दनादिष्टभैषज्यैर् नष्टपिष्टित्वकारकम् ॥८३॥

तन्मूर्च्छनं हि वार्यद्रिभूजकञ्चुकनाशनम् ।

नष्टपिष्टिः

स्वरूपस्य विनाशेन पिष्टित्वापादनं हि यत् ॥८४॥

विवृद्धिर् जितसूतेन नष्टपिष्टिः स उच्यते ।

उत्थापनम्

स्वेदतापादियोगेन स्वरूपापादनं पुनः ॥८५॥

तदुत्थापनमित्युक्तं मूर्च्छाव्यापत्तिनाशनम् ।

पातनम्

उक्तौषधैर्मर्दितपारदस्य यन्त्रस्थितस्योर्ध्वमधश्च तिर्यक् ।
निर्यापनं पातनसंज्ञयोक्तं वङ्गाहिसंपर्कजकञ्चुकघ्नम् ॥८६॥

रोधनम्

जलसैन्धवयुक्तस्य रसस्य दिवसत्रयम् ॥८७॥

स्थितिराप्यायिनी कुम्भे योऽसौ रोधनमुच्यते ।

नियमनम्

रोधनाल्लब्धवीर्यस्य चपलत्वनिवृत्तये ॥८८॥

क्रियते यो घटे स्वेदः प्रोक्तं नियमनं हि तत् ।

दीपनम्

धातुपाषाणमूलाद्यैः संयुक्तो घटमध्यतः ॥८९॥

ग्रासार्थं त्रिदिनं स्वेदो दीपनं तन्मतं बुधैः ।

ग्रासमानम्

इयन्मानस्य सूतस्य भोज्यद्रव्यात्मिका मितिः ॥९०॥

इयतीत्युच्यते योऽसौ ग्रासमानमितीरितम् ।

जारणा

ग्रासस्य चारणं गर्भद्रावणं जारणं तथा ॥९१॥

इति त्रिरूपा निर्दिष्टा जारणा वरवार्तिकैः ।
ग्रासः पिण्डः परीणामस्तिस्रश्चाख्याः पराः पुनः ॥९२॥

समुखा निर्मुखा चेति जारणा द्विविधा मता ।
निर्मुखा जारणा प्रोक्ता बीजादानेन भागतः ॥९३॥

समुखजारणा

शुद्धं स्वर्णं च रूप्यं च बीजमित्यभिधीयते ।
चतुःषष्ट्यंशतो बीजप्रक्षेपो मुखमुच्यते ॥९४॥

एवं कृते रसो ग्रासलोलुपो मुखवान् भवेत् ।
कठिनान्यपि लोहानि क्षमो भवति भक्षितुम् ॥९५॥

इयं हि समुखी प्रोक्ता जारणामृतजारणा ।

निर्मुखचारणा

दिव्यौषधिसमायोगात् स्थितः प्रकटकोष्ठिषु ॥९६॥

भुङ्क्ते निखिललोहाद्यान्योऽसौ राक्षसवक्त्रवान् ।

चारणा

रसस्य जठरे ग्रासक्षेपणं चारणा मता ॥९७॥

गर्भद्रुतिः

ग्रस्तस्य द्रावणं गर्भे गर्भद्रुतिरुदाहृता ।

बाह्यद्रुतिः

बहिरेव द्रुतीकृत्य घनसत्वादिकं खलु ॥९८॥

जारणाय रसेन्द्रस्य सा बाह्यद्रुतिर् उच्यते ।

द्रुति (सुब्स्तन्चे)

निर्लेपित्वं द्रवत्वं च तेजस्त्वं लघुता तथा ॥९९॥

असंयोगश्च सूतेन पञ्चधा द्रुतिलक्षणम् ।

द्रुति (प्रोचेस्स्)

औषधाज्यादियोगेन लोहधात्वादिकं सदा ॥१००॥

उत्तिष्ठते द्रवाकारा सा द्रुतिः परिकीर्तिता ।

जारणा

द्रुतग्रासपरीणामो बिडयन्त्रादियोगतः ॥१०१॥

जारणेत्युच्यते तस्याः प्रकाराः सन्ति कोटिशः ।

विडम्

क्षारैरम्लैश्च गन्धाद्यैर्मूत्रैः सपटुभिस्तथा ॥१०२॥

रसग्रासस्य जीर्णार्थं तद्बिडं परिकीर्तितम् ।

रञ्जनम्

संसिद्धबीजसत्त्वादिजारणेन रसस्य हि ॥१०३॥

पीतादिरागजननं रञ्जनं समुदीरितम् ।

सारणा

सूते सतैलयन्त्रस्थे स्वर्णादिक्षेपणं हि यत् ॥१०४॥

वेधाधिक्यकरं लोहे सारणा सा प्रकीर्तिता ।

वेधः

व्यवायिभेषजोपेतो द्रव्ये क्षिप्तो रसः खलु ॥१०५॥

वेध इत्युच्यते तज्ज्ञैः स चानेकविधः स्मृतः ।

वेधभेदाः

लेपः क्षेपश्च कुन्तश्च शब्दाख्यो धूमसंज्ञकः ॥१०६॥

लेपवेधः

लेपेन कुरुते लोहं स्वर्णं वा रजतं तथा ।
लेपवेधः स विज्ञेयः पुटमत्र च सौकरम् ॥१०७॥

क्षेपवेधः

प्रक्षेपणं द्रुते लोहे वेधः स्यात्क्षेपसंज्ञकः ।

कुन्तवेधः

संदंशधृतसूतेन द्रुतद्रव्याहतिश्च यः ॥१०८॥

सुवर्णत्वादिकरणः कुन्तवेधः स उच्यते ।

धूपवेधः

वह्नौ धूमायमाने ऽन्तःप्रक्षिप्तरसधूमतः ॥१०९॥

स्वर्णाद्यापादनं लोहे धूमवेधः स ईरितः ।

शब्दवेधः

मुखस्थिते रसे नाल्या लोहस्य धमनात्खलु ॥११०॥

स्वर्णरूप्यत्वजननं शब्दवेधः स कीर्तितः ।

उत्पाटनम्

पिण्डद्रव्यस्य सूतेन कालुष्यादिनिवारणम् ॥१११॥

प्रकाशनं च वर्णस्य तदुत्पाटनमीरितम् ।

स्वेदनम्

क्षाराम्लैरौषधैः सार्धं भाण्डे रुद्ध्वातियत्नतः ॥११२॥

भूमौ निखन्यते यत्तत्स्वेदनं समुदीरितम् ।

संन्यासः

रसस्यौषधयुक्तस्य भाण्डे रुद्धस्य यत्नतः ॥११३॥

सदाग्नियुतचुल्ल्यन्तःक्षेपः संन्यास उच्यते ।

स्वेदनसंन्यासगुणाः

द्वावेतौ स्वेदसंन्यासौ रसराजस्य निश्चितम् ॥११४॥

गुणप्रभावजननौ शीघ्रव्याप्तिकरौ तथा ॥११५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:48.1170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पुडी फोडणें

  • बातमी बाहेर फोडणें 
  • भोभाटा करणें 
  • वार्ता पसरविणें. 
RANDOM WORD

Did you know?

आषाढी एकादशीला "देवशयनी एकादशी" का म्हणतात?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.