TransLiteral Foundation

रसविद्या - भाग १३

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग १३
गन्धकः

श्रीभैरवी ।
प्रणम्य शिरसा शम्भुमस्तौषीत्परमेश्वरी ।
श्रुतं तव प्रसादेन दिव्यं सर्वरसायनम् ॥१॥

उत्पत्तिं गन्धकस्यापि जातिं संशोधनं तथा ।
सेवां रसायनफलं क्रमाद्ब्रूहि महेश्वर ॥२॥

श्रीभैरवः ।
देवि शृणु प्रवक्ष्यामि गन्धकस्य रसायनम् ।
श्वेतद्वीपे पुरा देवि लताकल्पद्रुमोज्ज्वले ॥३॥

नानामणिगणाकीर्णे नानापुष्पफलाकुले ।
सिद्धविद्याधरस्त्रीभिः किन्नर्यप्सरसां गणैः ॥४॥

अनेकनिर्जरस्त्रीभिः क्रीडन्ती त्वं मदोल्लसा ।
वेणुवीणाविनोदेन वाद्यनादैर्मनोहरैः ॥५॥

तालैर् झल्लरिकाढक्कानिनादैः करतालकैः ।
अत्यानन्देन देवेशि नृत्यन्ती त्वं सुरार्चिते ॥६॥

तदा ऋतुमती जाता सुस्राव च रजो महत् ।
सुगन्धिना तद्रजसा त्वद्वस्त्रं रक्ततां ययौ ॥७॥

विहाय तद्रक्तवस्त्रं स्नात्वा क्षीरमहोदधौ ।
अनेकामरकान्ताभिर् वृता कैलासमाव्रजः ॥८॥

वायुना तद्रजोवस्त्रं क्षिप्तं क्षीरमहोदधौ ।
मग्नं तत्रैव तद्वस्त्रं चिरकालं सुरेश्वरि ॥९॥

मथ्यमानान्महाम्भोधेर् अमृतेन सहोद्भवम् ।
श्लाघ्येन निजगन्धेन मोदयन्नसुरान्सुरान् ॥१०॥

तेनैव नाम्ना ऊचुस्ते शक्राद्याः सुरपुङ्गवाः ।
गन्धकोऽयं भवत्वस्य नाम्ना जातं तु मत्प्रिये ॥११॥

चतुर्विधं शोणितं ते दिव्यं बलकरं परम् ।
समर्थोऽयं गन्धकस्तु रसबन्धे च जारणे ॥१२॥

रसेन्द्रे ये गुणाः सन्ति ते गुणाः सन्ति गन्धके ।
इत्यूचुर् इन्द्रप्रमुखा हृष्टा गन्धकगन्धतः ॥१३॥

तदा प्रभृति लोकेऽस्मिन्ख्यातोऽयं गन्धकः प्रिये ।
जपाकुसुमसङ्काशः क्षत्रियश्चोत्तमः प्रिये ॥१४॥

पीतो वैश्यो मध्यमः स्याच्छ्वेतो विप्रोऽधमः स्मृतः ।
कृष्णवर्णो भवेच्छूद्रः प्रिये स्यादधमाधमः ॥१५॥

रक्तवर्णं लोहवेधि पीतवर्णं रसायनम् ।
श्वेतवर्णं च भैषज्ये कृष्णं कुष्ठादिलेपने ॥१६॥

गन्धकशुद्धिः

अथ वक्ष्ये गन्धकस्य शोधनं सिद्धिदायकम् ।
तिलपर्ण्यजमोदाश्च ब्राह्मी भृङ्गी च धुत्तुरः ॥१७॥

एतेषां च रसैर् भाव्यं चूर्णितं गन्धकं दिनम् ।
कान्तपात्रे विनिक्षिप्य समांशाज्येन पाचयेत् ॥१८॥

मृद्वग्निना तु तत्पक्त्वा ह्यजाक्षीरे विनिक्षिपेत् ।
गोक्षीराज्यैः किंचिदूनं स्थाल्या वक्त्रं तु बन्धयेत् ॥१९॥

स्वच्छांशुकेन बद्धस्य चूर्णं तदुपरि क्षिपेत् ।
तदूर्ध्वं श्रावकं रुद्ध्वा तत्स्थाप्यं गर्तकान्तरे ॥२०॥

वनोत्पलैर् मृदुपुटं दत्त्वा द्रवति गन्धकम् ।
पुनश्च तिलपर्ण्याद्यैर्भावयेच्छोषयेत् त्रिधा ॥२१॥

द्रावयेत्तत्समादाय मत्स्यपित्तेन सप्तधा ।
भावयेज्जालिनीबीजचूर्णैस् तत् परिपेषयेत् ॥२२॥

ततो भृङ्गद्रवैर्भाव्यं सप्तकृत्वस्तपे खरे ।
जलैः प्रक्षाल्य तत् सम्यक् शोषयेत्तत्पुनः पचेत् ॥२३॥

मृद्वग्निना कान्तपात्रे घृताक्ते तु क्षणं ततः ।
भृङ्गराजद्रवे क्षिप्त्वा शुद्धं तद्गन्धकं भवेत् ॥२४॥

रसे रसायने योगे योज्यं सुखकरं भवेत् ।

गन्धकरसायनम्

पूर्वोक्तवद् देहशुद्धिं कुर्याद्वान्तिविरेचनैः ॥२५॥

सुमुहूर्ते सुनक्षत्रे पूजयित्वा परं शिवम् ।
गणाधिपं क्षेत्रपालं श्रीगुरुं भिषजं क्रमात् ॥२६॥

निष्कैकं त्रिफलाचूर्णं निष्कमेकं च गुग्गुलुम् ।
गुञ्जोन्मेयं शुद्धगन्धं लिहेदेरण्डतैलतः ॥२७॥

गुञ्जावृद्धिक्रमेणैव सेव्यं तत्प्रतिवासरम् ।
दिनषोडशपर्यन्तं गुञ्जाषोडशमात्रकम् ॥२८॥

तदा षोडशघस्रान्ते सेव्यं तत्प्रतिवासरम् ।
गुञ्जाषोडशिकोन्मेयम् अपूर्वं त्रिफलां परम् ॥२९॥

एतस्मादधिका वृद्धिर्न कार्या सिद्धिलिप्सुना ।
एवं मासप्रयोगेण कुष्ठमष्टादशं हरेत् ॥३०॥

तथा प्रमेहान् गुल्मानि कासश्वासक्षयज्वरान् ।
व्रणान्भगन्दरादींश्चाशीतिवातोद्भवान्गदान् ॥३१॥

मासद्वयप्रयोगेण बहुकान्तिं प्रयच्छति ।
सर्वव्याधिप्रशमनं भवेन्मासत्रयात्प्रिये ॥३२॥

ततः षण्मासयोगेन वृद्धो यौवनमाप्नुयात् ।
एवमब्दप्रयोगेण सिद्धो भवति शाम्भवि ॥३३॥

तन्मूत्रमलयोगेन ताम्रं काञ्चनतां व्रजेत् ।
विधिं च प्रतिषेधं च कुर्यात्पूर्वोक्तवत्सुधीः ॥३४॥

रसादि पुण्यममलं यः सेवेत रसायनम् ।
स एव कृतकृत्यः स्याद्दैवतैरपि पूज्यते ॥३५॥

सर्वतीर्थेषु संस्नातः सर्वव्रतफलान्वितः ।
अश्वमेधादियज्ञानां सर्वेषां फलमाप्नुयात् ॥३६॥

धन्यः पुण्यतमः श्रेष्ठः श्लाघनीयो मनीषिभिः ।
स योगविज्ञः सर्वज्ञः सर्वानुग्राहकः प्रभुः ॥३७॥

शुद्धः सर्वगतः शान्तः शूरः सत्वगुणोज्ज्वलः ।
तस्य देहलयो नास्ति ह्यदृश्यः शिवतां व्रजेत् ॥३८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:44.3170000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Main frame computer

  • मेन फेम कम्प्यूटर 
  • मेनफेम कम्प्यूटर का केन्द्रीय प्रसंस्करण यूनिट इस प्रकार बनाया जाता है कि बहुत बडे और व्यापक पैमाने पर प्रसंस्करण कार्य हो सकें, तीन या चार मिनी कम्प्यूटरों को जोडकर भी मेन फेम कम्प्यूटर बनाया जा सकता है 
RANDOM WORD

Did you know?

aatmyathyatmya meaning
Category : Puranic Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Status

  • Meanings in Dictionary: 644,289
  • Dictionaries: 44
  • Hindi Pages: 4,328
  • Total Pages: 38,982
  • Words in Dictionary: 302,181
  • Tags: 2,508
  • English Pages: 234
  • Marathi Pages: 22,630
  • Sanskrit Pages: 11,789
  • Other Pages: 1

Suggest a word!

Suggest new words or meaning to our dictionary!!

Our Mobile Site

Try our new mobile site!! Perfect for your on the go needs.