TransLiteral Foundation

रसविद्या - भाग ७

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग ७
पद्मरागादिरत्नोत्पत्तिः

पुरा कैलासशिखरे गह्वरेऽद्रिसुतेश्वरौ ।
चिरमास्तां क्रीडमानौ जिगूषू तौ परस्परम् ॥१॥

तदा रेतः सूतरूपप्रवाहोऽभूत्तयोर्महान् ।
तत्प्रवाहप्रभावेन वेधिता दृषदोऽभवन् ॥२॥

पद्मरागादिमणयो लोहा हेमादयस्तथा ।
गन्धकाद्याश्च पाषाणा दिव्या ओषधयो लताः ॥३॥

नानावर्णा बहुविधा नानासिद्धिप्रदायकाः ।
पूर्वोक्तानां समस्तानां वज्रं श्रेष्ठतमं महत् ॥४॥

तज्जातिलक्षणं देवि संस्कारं भजनं फलम् ।
क्रमाद्वक्ष्यामि ते देवि सावधानं शृणु प्रिये ॥५॥

वज्रलक्षणं वज्रभेदांश्च

द्विजन्मानश्च राजन्या ऊरव्या वृषलाः क्रमात् ।
शुभ्रशोणहरिद्राभाः काला नानाविधास्तथा ॥६॥

स्त्रीपुंनपुंसकाश्चैव ज्ञातव्यास्ते क्रमात्प्रिये ।
शुक्लाः फलकसम्पूर्णा ज्योतिष्मन्तो महत्तराः ॥७॥

पुमांसस्ते तु विज्ञेया रेखाबीजविवर्जिताः ।
बलाढ्याः सत्वसहिता लोहक्रमणहेतवः ॥८॥

रसबन्धकराः क्षिप्रं सर्वेषां सिद्धिदायकाः ।
रसायनकराः स्थूला ह्यष्टसिद्धिप्रदायकाः ॥९॥

षट्कोणबीजरेखाभिरुज्ज्वलास्ताः स्त्रियः स्मृताः ।
देहज्योतिःप्रजनना भोगकान्तिसुखप्रदाः ॥१०॥

दीर्घास्त्र्यस्राश्च तनवो निबोद्धव्या नपुंसकाः ।
क्षीणसत्वाः स्वल्पवीर्याः क्रामकाः सुरनायिके ॥११॥

क्लीबा नपुंसके स्त्रीणां स्त्रियः सर्वहिता नराः ।
जात्यानुरूपाश्चोत्साहं यथा सत्वं तथा गुणम् ॥१२॥

यथा कान्तिस्तथा शीलं कुर्वन्त्येवं द्विजातयः ।
वलीपलितरोगघ्नाः क्षत्रिया मृत्युहारिणः ॥१३॥

देहस्थैर्यकरा वैश्या लोहानां वेधकारिणः ।
वयःस्तंभकराः शूद्रा नानामयविनाशनाः ॥१४॥

वज्रसंस्कारः

वज्रसंस्कारमधुना कथयामि शृणु प्रिये ।
श्यामा शमी मेघनादा वर्षाभूधूर्तकोद्रवाः ॥१५॥

मेषशृङ्ग्याखुकर्णी च कुलुत्थं चाम्लवेतसः ।
मदनागस्त्यनिर्गुण्डी चैतेषां स्वरसैर्युते ॥१६॥

डोलायन्त्रे पाचयेच्च व्याघ्रीकन्दगतं दिनम् ।
उद्धृत्य माहिषशकृल्लिप्तं कारीषवह्निना ॥१७॥

दहेद्रात्रौ चतुर्यामं रात्र्यन्ते परिषेचयेत् ।
हयमूत्रस्नुहीक्षीरकुलत्थकरसैस्तथा ॥१८॥

पाचयेद्दाहयेदेवं सेचयेत्सप्तवारकम् ।
एवं द्विजातिजातीयाः शोधिताः स्युश्च सिद्धिदाः ॥१९॥

वज्ररसायनम्

रसायनार्हं वक्ष्यामि वज्रभस्म सुरेश्वरि ।
वैक्रान्तताप्यगन्धाश्मशिलामाक्षिकतालकम् ॥२०॥

कान्तास्यटङ्कणक्षारकुलीरास्थीनि पेषयेत् ।
स्तन्येन गोलके क्षिप्त्वा मूषायां निक्षिपेत् ततः ॥२१॥

धमेद्दृढतरं पूर्वं पश्चाद्गजपुटे पचेत् ।
तदेव वज्रमादाय तस्मिन्षोडशमात्रके ॥२२॥

एकांशं पारदं तस्मिन् पक्वबीजेन जारितम् ।
स्तन्येन मर्दयेत्तौ द्वौ पुनर् गजपुटे पचेत् ॥२३॥

एवं तत्षोडशपुटाद्बीजजीर्णरसान्वितम् ।
दृढं कुर्वीत तद्वज्रं भवेद्भस्म रसायनम् ॥२४॥

शृणु रुद्राणि वक्ष्यामि दिव्यं वज्ररसायनम् ।
पूर्वोक्तवत्प्रकुर्वीत देहशुद्ध्यादिकं विधिम् ॥२५॥

शुभर्क्षे सुमुहूर्ते च चन्द्रताराबलान्विते ।
शिवाग्निगुरुगोविप्रभिषजः पूजयेत्पुरा ॥२६॥

ततः सेवेत तद्भस्म यवमात्रं वरानने ।
कान्ताभ्रसत्त्वं सौवर्णभस्म गुञ्जैकमात्रकम् ॥२७॥

त्रिफलामधुसर्पिर्भिः प्रातः शुद्धवपुर् लिहेत् ।
एवं षोडशमासान्तम् एकद्वित्रिचतुष्टयम् ॥२८॥

प्रतिमासं वर्धयित्वा यावद्यावकषोडशम् ।
कान्तादिभस्मत्रितयं गुञ्जावृद्धिक्रमे तथा ॥२९॥

द्विनिष्कं त्रिफलाचूर्णं सर्पिर्मधु यथासुखम् ।
पूर्वोक्तवद्विधिं त्याज्यं प्रकुर्यान्मम वल्लभे ॥३०॥

सेवितं पलमात्रं तु वज्रभस्म दिनं क्रमात् ।
वलीपलितरोगघ्नं शतायुष्यं ददाति च ॥३१॥

द्विपलं च सहस्रायुर् अयुतं त्रिपलं तथा ।
चतुष्पलं लक्षमायुर् दशलक्षं च पञ्चमम् ॥३२॥

कोट्यायुष्यं षट्पलं च सुरेन्द्रायुश्च सप्तमम् ।
ब्रह्मायुष्यं चाष्टपलं विष्णुत्वं नवमं पलम् ॥३३॥

रुद्रत्वं दशमं देवि ईश्वरत्वं ततः परम् ।
सदाशिवत्वं द्वादश्यां वज्रभस्म ददात्यलम् ॥३४॥

सर्वज्ञत्वं सर्वगत्वं स्वेच्छाविहरणं तथा ।

वज्रौदनम्

वज्रौदनं प्रवक्ष्यामि रसायनहितं परम् ॥३५॥

पूर्ववच्छोधिते वज्रे मृदुकर्म समारभेत् ।
मातृवाहकमध्यस्थं तित्तिरीमांसवेष्टितम् ॥३६॥

तीक्ष्णकान्ताननरसैः पुनस् तत् परिवेष्टयेत् ।
कुलत्थत्रिफलानीरकोद्रवेषु पृथक्पृथक् ॥३७॥

त्रिदिनं पाचयेद् एवं तद्वज्रं वेष्टयेद्दलैः ।
त्रिवर्षारूढताम्बुल्यास् तथा कार्पासकस्य वा ॥३८॥

चेष्टितं जानुमध्यस्थं वज्रं यामद्वयान्मृदु ।
वज्रौदनम् इदं प्रोक्तं वज्रद्रुतिर् अथोच्यते ॥३९॥

वज्रद्रुतिः

त्रिक्षारं चणकाम्लं च रामठं चाम्लवेतसम् ।
ज्वालामुखी चेक्षुरकं स्थलकुम्भीरसेन च ॥४०॥

पिष्ट्वा स्नुह्यर्कयोः क्षीरैस् तद्गोले मृदु हीरकम् ।
निक्षिपेत्तच्च जम्बीरे दोलायन्त्रे त्र्यहं पचेत् ॥४१॥

एवं कृते हीरकस्य द्रुतिर् भवति सूतवत् ।

अन्यद्रुत्यतिदेशः

पद्मरागादिरत्नानां द्रुतिर् एवं कृते भवेत् ॥४२॥

अभ्रकादिमपाषाणा द्रवन्त्येवं कृते ध्रुवम् ।
द्रवन्ति रसरत्नानि मौक्तिकं चाम्लवेतसम् ॥४३॥

सप्ताहं भावयेद् घर्मे क्षिपेज्जम्बीरके ततः ।
धान्यराशौ त्रिसप्ताहं पुटपाके द्रवत्यलम् ॥४४॥

वज्रभस्मगुणाः

वज्रभस्म यथा तद्वद् द्रुतिमार्दवयोरपि ।
भवेद् भस्म वरारोहे जरादारिद्र्यमृत्युजित् ॥४५॥

रसायने भवेत्सौख्यं भस्म द्रुतिमृदूद्भवम् ।
रसायने तु स्त्रीपुंसौ क्रामणे तु नपुंसकः ॥४६॥

षड्रसं हिमवीर्यं च सर्वामयविनाशनम् ।
सर्वदोषप्रशमनं सर्वसौख्यं रसायनम् ॥४७॥

विद्युत्प्रभां देहदार्ढ्यं स्वच्छं स्निग्धं च लेखनम् ।
सौन्दर्यं बलमायुष्यं ग्रहालक्ष्मीविनाशनम् ॥४८॥

शुद्धिर्मृदुद्रुतीभस्म वैक्रान्तस्य तु वज्रवत् ।

स्वर्णं तद्भेदाः

अथ वक्ष्ये श्रेष्ठतमं शृणु हेमरसायनम् ॥४९॥

हेमोत्पत्तिः पुरा प्रोक्ता तथापि त्रिविधा भवेत् ।
रसवेधाद् भवेच्चैकम् इतरत्क्षेत्रसम्भवम् ॥५०॥

लोहसङ्करजं चान्यच्छ्रेष्ठमध्यकनीयसः ।
क्रमेण पीतरक्ते च पीतरक्तं च वर्णतः ॥५१॥

निकर्षछेददाहेषु कुङ्कुमश्वेतशोणितम् ।

स्वर्णशुद्धिः

दिव्यम् एवंविधं स्वर्णं पट्टकं कणशः कृतम् ॥५२॥

हलिनीकञ्चुकीकन्दस्नुह्यर्काग्निकरञ्जकम् ।
धूर्तगुञ्जेङ्गुदीचीरमूलतालाश्वगन्धिकाः ॥५३॥

पिष्ट्वेन्द्रवारुणी चैषा मूलानि मथितेन वै ।
लेपयेत्स्वर्णपट्टानि तापयेज्जातवेदसि ॥५४॥

मूत्रे मथिते तैले कुलुत्थाम्भसि काञ्जिके ।
जम्बीरार्कपयोमध्ये प्रत्येकं सप्तधा क्षिपेत् ॥५५॥

लेपयेत्तापयेत्सिञ्च्याद्भूयो भूयोऽपि सप्तधा ।
वल्मीकमृद्धूमसारम् इष्टकापटुगैरिकम् ॥५६॥

पिष्ट्वा जम्बीरनीरेण लिप्त्वा पत्रं पुटीकृतम् ।
चतुर्वर्णाभ्रकं ताप्यं दरदं तालकं शिलाम् ॥५७॥

कान्तकङ्कुष्ठरसकविमलासूतभूलताः ।
पिष्ट्वाम्लेन वटीः कुर्यान्निष्कमात्राः सुरेश्वरि ॥५८॥

पलादूनं न कर्तव्यम् अधिकं च चतुष्पलात् ।
पुटितं हेम शुल्बं च द्रावयेच्च समीकृतम् ॥५९॥

तन्मध्ये तद्द्रवीभूते चैकैकां वटिकां क्षिपेत् ।
स्वर्णाद् दशगुणा वाह्या वटिकाः शोषिताः क्रमात् ॥६०॥

यावच्छेषं भवेत् स्वर्णं तावद् एवं धमेच्छनैः ।
शुद्धं तज्जायते दिव्यं जरामरणरोगहृत् ॥६१॥

स्वर्णभस्म

चिञ्चापत्रनिभं स्वर्णं पत्रं शुद्धं च पारदम् ।
एकान्तं मर्दयेद् अम्लैस् तत्पिष्टिम् अपि लेपयेत् ॥६२॥

समगन्धकताप्याभ्यां पिष्टिं मूषागतां धमेत् ।
षोडशांशं सूतभस्म हेमचूर्णे विनिक्षिपेत् ॥६३॥

अम्लेन मर्दयेद् गाढं पचेत् तद्भूधरे पुटे ।
एवं षोडशपर्यन्तं रसं प्रतिपुटं क्षिपेत् ॥६४॥

निरुत्थं हेमभस्मेदं जायते सर्वसिद्धिदम् ।

हेमरसायनम्

विरेकवमनाद्यैश्च शुद्धदेहः शुभे दिने ॥६५॥

अर्चयेदीशविप्राग्निगुरुवैद्यपुरःसरान् ।
सेवेत शुद्धहृदयो दिव्यं हेमरसायनम् ॥६६॥

कान्ताभ्रयोः सत्त्वभस्म चैकगुञ्जाप्रमाणकम् ।
माषोन्मितं हेमभस्म वरामध्वाज्ययुग्लिहेत् ॥६७॥

पूर्वोक्तवद् वज्रमासषोडशिकावधि ।
पूर्वोक्तवद् विधिं त्याज्यं प्रकुर्वीत रसायनी ॥६८॥

शृणु चित्रां गिरिसुते सेवां हेमरसायने ।
पलमात्रोपयोगेन सर्वरोगविवर्जितः ॥६९॥

ततो द्विपलयोगेन वलीपलितवर्जितः ।
वाक्सिद्धिर्दिव्यदृष्टिश्च त्रिपलेन भवेत्प्रिये ॥७०॥

चतुःपलोपयोगेन विषव्याघ्राहिभीर्न हि ।
तथा पञ्चपलेनैव दिव्यात्मज्ञानिता भवेत् ॥७१॥

देवि षट्पलयोगेन सिद्धसाध्यपदं भवेत् ।
तथा सप्तपलेनापि विद्याधरपदं भवेत् ॥७२॥

तथाष्टपलयोगेन स्वेच्छाविहरणे पटुः ।
पलेन नवमेनापि चाष्टैश्वर्यगुणान्वितः ॥७३॥

तथा दशपलेनापि महेन्द्रत्वम् अवाप्नुयात् ।
एकादशपलैर् देवि ब्रह्मत्वं नात्र संशयः ॥७४॥

द्वादशभिः पलैः कान्ते विष्णुत्वं समुपैति च ।
त्रयोदशपलेनापि रौद्रं पदम् अवाप्नुयात् ॥७५॥

तथा चतुर्दशपलैर् ऐश्वरं लभते पदम् ।
पलैः पञ्चदशैर् एति सदाशिवपदं परम् ॥७६॥

तथा स्यात् षोडशपलैः सच्चिदानन्दविग्रहः ।
सर्वज्ञः सर्वकर्ता च हर्ता गोप्ता स सर्वगः ॥७७॥

हेमद्रुतिः

हेमद्रुतिं प्रवक्ष्यामि शृणु संप्रति पार्वति ।
फलपांशुर् देवदाल्याः शक्रगोपोऽश्वलालिका ॥७८॥

टङ्कणं जालिनीनीरैर् भावयेद्बहुधा प्रिये ।
द्रावयेत्काञ्चनं तत्र वपेत्सूतसमा द्रुतिः ॥७९॥

इमां द्रुतिं काञ्चनवद् भस्म सेवां च कल्पयेत् ।
स्वादु तिक्तं कषायं च शीतम् उष्णं रसायनम् ॥८०॥

हृद्यं कान्तिप्रदं शुद्धं चक्षुष्यं गुरु लेखनम् ।
धृतिस्मृत्यायुरारोग्यनयवाक्सिद्धिदायकम् ॥८१॥

क्षयोन्मादादिरोगाणां नाशनं दोषशान्तिकृत् ।
स्निग्धं रुच्यं दीप्तिं वीर्यकृद्बलवर्धनम् ॥८२॥

कान्तम् तद्भेदा लक्षणञ्च

अथ कान्ते प्रवक्ष्यामि कान्तं कान्तरसायनम् ।
दिव्या औषधयः सन्तु सर्वसिद्धिप्रदायिकाः ॥८३॥

तेभ्यः कान्तं श्रेष्ठतमं वलीरुक्पलितापहम् ।
कल्पान्ते ताण्डवं शंभुः शर्वाणीसहितः स्वयम् ॥८४॥

उच्चण्डं व्यतनोत्तत्र संजाताः स्वेदबिन्दवः ।
तत्र तत्र गतास्तेऽपि ह्ययस्कान्तत्वमाययुः ॥८५॥

जाङ्गले बहवो जाता देशे साधारणे क्वचित् ।
जलप्रायेऽस्ति वा नास्ति जात्या पञ्चविधाः स्मृताः ॥८६॥

भ्रामकं चुम्बकं देवि कर्षकं द्रावकं तथा ।
रोमकं च तथैकद्वित्रिचतुः सर्वतोमुखाः ॥८७॥

तेषां पञ्चविधानां तु पीतं कृष्णं च शोणितम् ।
मिश्रं पृथक्पृथक्तेषां क्रमात्स्युरधिदेवताः ॥८८॥

ब्रह्मविष्ण्वीशभूतात्ममातृकाः परिकीर्तिताः ।
पीतवर्णं स्पर्शवेधि कृष्णं श्रेष्ठं रसायने ॥८९॥

रसबन्धकरं रक्तं मिश्रं सर्वरुजापहम् ।
रोमकं ग्रहभीतिघ्नं द्रावकं चोत्तमोत्तमम् ॥९०॥

उत्तमं मध्यमं नीचं कर्षकं चुम्बकं क्रमात् ।
भ्रामकं लक्षणं वच्मि लोहं तु भ्रामयेत्ततः ॥९१॥

तस्माद्भ्रामकमित्युक्तं चुम्बकं लोहचुम्बकम् ।
कर्षकं कर्षयेल्लोहं द्रावकं द्रावयेद्यतः ॥९२॥

स्फुटनाद्रोमजननं तद्रोमकमुदाहृतम् ।
अत्युत्तमं बहुमुखं चतुःपञ्चास्यमुत्तमम् ॥९३॥

मध्यमं स्याद्द्वित्रिमुखं नीचमेकमुखं भवेत् ।
भ्रामकं चुम्बकं सर्वरोगाणां नाशने हितम् ॥९४॥

कर्षकं द्रावकं श्रेष्ठं रसयोगे रसायने ।
रसद्विपाङ्कुशमिदं कान्तं पञ्चविधं प्रिये ॥९५॥

समीरणातपस्पृष्टं न ग्राह्यं तत्कदाचन ।
हस्तद्वयं समुत्खाय कान्तं ग्राह्यं वरानने ॥९६॥

कान्तसत्त्वपातनम्

आदौ सम्पूज्य दुर्गां च गणेशं भैरवं प्रिये ।
तीव्राग्निना दहेत्कान्तं सेचयेत्त्रिफलाम्बुना ॥९७॥

तत्कान्तं चूर्णयेत्सूक्ष्मं काचसामुद्रटङ्कणैः ।
लाक्षागुग्गुलुगुञ्जाभिर् ऊर्णाज्यमधुसिक्थकैः ॥९८॥

शशास्थिक्षुद्रमीनैश्च भल्लाततिलकल्ककैः ।
सर्जक्षारयवक्षाररालैश् चिरगुलैस् तथा ॥९९॥

न्यङ्कुसैरिभदन्तीनां विषाणैश्च समांशकैः ।
एतत्समांशं तत्कान्तमजाक्षीरेण मर्दयेत् ॥१००॥

मेलयेत् पञ्चमाहिष्यैर् दध्याद्यैर् गोमयान्तकैः ।
श्लक्ष्णं पिष्ट्वा वटीः कुर्यात् कर्षमात्राः सुरेश्वरि ॥१०१॥

कोष्ठीयन्त्रे वङ्कनाले खदिराङ्गारकैर् दृढम् ।
पञ्च पञ्च वटीस्तत्र निक्षिपेच्च शनैः शनैः ॥१०२॥

त्रियाममथनादेव कान्तात्सत्वं पतेच्छुचि ।
तत्सर्वं कणशः कृत्वा काचाद्यैरौषधैः समैः ॥१०३॥

मूषागतं धमेत्तीव्रमेवं धाम्यं त्रिधा प्रिये ।
एवं कृतं तु तत्कान्तसत्वं सत्त्वतमं भवेत् ॥१०४॥

कान्तस्वरूपम्

कान्तलोहस्य पात्रस्थजले तैलस्य बिन्दवः ।
न सर्पन्ति चणास्त्वेताः कृष्णाः स्युर् नात्र संशयः ॥१०५॥

घृष्टहिङ्गोर्न गन्धः स्यात् क्षीरोर्मिः शिखराकृतिः ।
न कदाचिद् भुवि पतेच्छिवा मुञ्चति तिक्तताम् ॥१०६॥

तल्लोहक्षिप्तम् उष्णाम्बु शीतलं भवति क्षणात् ।

लोहशुद्धिः

ऊनं पञ्चपलान्नैव नोर्ध्वं पञ्चदशात् पलात् ॥१०७॥

त्रिफला षोडशपला तच्चतुर्गुणमम्बु च ।
क्वाथयेत् पादशेषं तु तस्मिन्पत्राणि ढालयेत् ॥१०८॥

शशरक्तप्रलिप्तानि शोषयेदातपे पुनः ।
तापितानि पुनस्तक्रतैलसौवीरसर्पींषि ॥१०९॥

क्षौद्रार्कक्षीरजम्बीरकुलत्थकरसेष्वपि ।
लेपनं शोषणं दाहं सेचनं च क्रमात्प्रिये ॥११०॥

प्रत्येकं सप्तधा कुर्याद् गिरिदोषं त्यजेदयः ।

लोहसंस्कारमन्त्राः

आदौ मन्त्रस्ततः कर्म कर्तव्यो मन्त्र उच्यते ॥१११॥

उद्भवोद्भवशब्दः स्याच्चतुर्थ्यन्तो ऽमृतात् परः ।
स्वाहान्तः प्रणवश्चादौ मन्त्रोऽयं मर्दने स्थितः ॥११२॥

ओं अमृतोद्भवोद्भवाय स्वाहा ।
रक्षायै लोहनरयोरयमेकोद्भवो मनुः ।
विना स्वाहापदं स्थाने फडन्तं यः समुच्चरेत् ॥११३॥

ओं अमृतोद्भवाय फट् प्रणवोर्ध्वं नमश्चण्डवज्रपाणय इत्यपि ।
ततः परं महायक्षसेनाधिपतये नमः ॥११४॥

द्विरुक्तं सुरुशब्दस्य महाविद्याबलाय च ।
ततः स्वाहेति मन्त्रोऽयं बलिकर्मणि कीर्तितः ॥११५॥

ओं नमश्चण्डवज्रपाणये महायक्षसेनाधिपतये नमः सुरु सुरु महाविद्याबलाय स्वाहा ।

लोहभस्म

एतानि लोहपत्राणि सूक्ष्मं संचूर्णयेत्ततः ।
अयःपात्रे कान्तचूर्णं निक्षिप्य त्रिफलारसैः ॥११६॥

सेचयेत्तदयोदर्व्या चालयन्पाचयेदिति ।
पिण्डीभूतं तदादाय मृत्तिकापटले शुभे ॥११७॥

संपुटे निक्षिपेत्सम्यक् षोडशाङ्गुलगर्तके ।
निधायारण्यकारीषमध्यगं कारिषं दहेत् ॥११८॥

अहोरात्रं प्रकुर्वीत वातातपविवर्जितम् ।
पुनः प्रातः समादाय वराक्वाथेन मर्दयेत् ॥११९॥

स्थालीसंपुटयोरेवं कुर्यात्पाकपुटैः क्रमात् ।
एवं विदध्यात्सप्ताहं तस्मिन्क्षेप्यं च हिङ्गुलम् ॥१२०॥

लोहस्य षोडशांशं च नारीस्तन्येन मर्दयेत् ।
स्थाल्यां पाकं संपुटे च पुटं कुर्वीत षोडश ॥१२१॥

निरुत्थं तद्भवेद्भस्म देवि योज्यं रसायने ।

ल्होहभस्मनोऽमृतीकरणम्

यावत्स्यात्त्रिफला तस्माद् भवेद्वारि चतुर्गुणम् ॥१२२॥

अष्टावशेषं क्वाथयेत् क्वाथस्य सदृशं घृतम् ।
घृततुल्यं कान्तभस्म ताम्रपात्रे पचेत्प्रिये ॥१२३॥

लोहदर्व्या प्रचलयन् यावच्छुष्यति तद्रसः ।
तावन्मृद्वग्निना पाच्यं लोहतुल्यां सितां क्षिपेत् ॥१२४॥

अमृतीकरणमित्युक्तं सर्वयोगवहं परम् ।

लोहपाकभेदाः

लोहपाकं प्रवक्ष्यामि तद्भवेत्त्रिविधं प्रिये ॥१२५॥

मृदुमध्यखराः प्रोक्ता जम्बीरसदृशो मृदुः ।
मध्यमः पिण्डसदृशो वालुकासदृशः खरः ॥१२६॥

कान्तलोहरसायनसेवाक्रमः

अथ सेवां प्रवक्ष्यामि कान्तलोहस्य भस्मनः ।
सुमुहूर्ते शुभदिने पूजितेशादिदेवतः ॥१२७॥

सेवेत सिद्धिदं दिव्यं कान्तभस्म रसायनम् ।
शुद्धदेहो विरेकाद्यैरभ्रभस्म पुरा प्रिये ॥१२८॥

मासमेकं तु सेवेत तस्माच्छुद्धवपुर्भवेत् ।
माषमात्रं कान्तभस्म गुञ्जामात्राभ्रभस्म च ॥१२९॥

द्विनिष्कं त्रिफलाचूर्णं मधुसर्पिःसमन्वितम् ।
लिहेत् प्रातर् विशुद्धात्मा स्नानदानादिकर्मभिः ॥१३०॥

अनुपेयं ततो लोहाद् गव्यं षष्टिगुणं पयः ।
धारोष्णं तदभावे तु कृत्वा क्षीरं समाम्बुकम् ॥१३१॥

यावत्क्षीणजलं क्वाथ्यं क्षीरं चानुपिबेत्प्रिये ।
तदसात्म्ये वराक्वाथं गुडूच्या वा कषायकम् ॥१३२॥

इत्येकमासं सेवेत क्रमाद्द्वित्रिचतुष्टयम् ।
प्रतिमासं माषगुञ्जावृद्धिः कान्ताभ्रभस्मनोः ॥१३३॥

एवं षोडशमासान्तं वृद्धिः षोडशमात्रकाः ।
पूर्वोक्तवद्विधिं त्याज्यं कुर्यात्सिद्धिमवाप्नुयात् ॥१३४॥

अस्य वत्सरयोगेन क्षुद्रामयविनाशनम् ।
एतद्द्विवर्षयोगेन महारोगप्रणाशनम् ॥१३५॥

त्रिवर्षात्पलितं हन्ति चतुर्वर्षाद्वलिं हरेत् ।
पञ्चमादपमृत्युघ्नं षष्ठे स्यादायुषः शतम् ॥१३६॥

सप्ताब्दे सूर्यवद्दीप्तिं दशमे सिद्धिमेलनम् ।
वैद्याधरं समाप्नोति वर्षे चैकादशे प्रिये ॥१३७॥

त्रयोदशाब्दे देवत्वम् इन्द्रत्वं च चतुर्दशे ।
तथा पञ्चदशाब्दे च सर्वलोकप्रियो भवेत् ॥१३८॥

षोडशाब्देऽष्टसिद्धिः स्यात्सत्यं सत्यं महेश्वरि ।

कान्तद्रुतिक्रमः

सुवर्णद्रुतिवत्कान्तद्रुतिः स्यात्पूर्ववत्प्रिये ॥१३९॥

कान्तद्रुतिर्भवेद्भस्म कान्तलोहस्य भस्मवत् ।

लोहभेदास्तद्गुणाश्च

किट्टं मुण्डं तथा तीक्ष्णं कान्तं पूर्वोत्तरोत्तरम् ॥१४०॥

गुणाढ्याः स्युर् दशशतसहस्रं लक्षकं क्रमात् ।
शताधिको भवेत् कान्तस्त्वौषधानां रसायनम् ॥१४१॥

त्रिदोषशमनं दिव्यं सर्वरोगापहारकम् ।
कान्तिं रुच्यं च चक्षुष्यं हृद्यम् आयुष्यदं शुचि ॥१४२॥

स्थैर्यं दार्ढ्यं च धातूनां बलवच्च रसायनम् ।

अभ्रकोत्पत्तिः तद्भेदा लक्षणञ्च

अथाभ्रकं प्रवक्ष्यामि तदुत्पत्त्यादिकं क्रमात् ॥१४३॥

पुरादिशक्तिर् भवती श्वेतद्वीपे मनोरमे ।
इन्द्राणीकमलावाणीगायत्रीप्रमुखैः सह ॥१४४॥

अरुन्धतीमुखैर् दिव्यमुनिदारैश्च संयुता ।
संचिक्रीडे महामाया चित्सदानन्दरूपिणी ॥१४५॥

आनन्दाश्रुकणाः क्षौमे न्यपतन्बहवो दृशोः ।
तदा ऋतुमती जाता ततः स्वादु सरित्पतेः ॥१४६॥

तीरे त्यक्त्वा च तद्वस्त्रं स्नात्वा कैलासमाययौ ।
वात्यावशेन तद्वस्त्रं क्षीराब्धौ न्यपतत्तदा ॥१४७॥

देवासुरैर् मथ्यमानात् तस्मात् क्षीराम्बुधेस्तदा ।
समभूत् तद्रजोवस्त्रं चतुर्धाभ्रकसंज्ञकम् ॥१४८॥

कृष्णाभ्रकं साञ्जनाभं पीतं देव्यङ्गलेपनात् ।
रक्तं तस्य रजोरूपं क्षौमं श्वेतम् अभूदिति ॥१४९॥

चतुर्विधं तदालोक्य रसबन्धनकारणम् ।
रसायनं रोगहरं सर्वसिद्धिप्रदायकम् ॥१५०॥

इत्यूचिरे सुराः सर्वे साक्षादमृतसंमितम् ।
श्वेतं रजतकार्येषु त्रयमन्यत्सुवर्णके ॥१५१॥

सर्वं रसायने योज्यं रक्तपीतसितासितम् ।
श्वेताच्छतगुणं रक्तं रक्तात्पीतं सहस्रकम् ॥१५२॥

पीताल्लक्षगुणं कृष्णं ज्ञेयं लोहे रसायने ।
प्रत्येकं तानि जायन्ते चतुर्धा जातितः क्रमात् ॥१५३॥

पिनाकं दर्दुरं नागं वज्रं चेति चतुर्विधम् ।
वज्रं समाहरेन्मुख्यं त्रीण्यन्यानि विवर्जयेत् ॥१५४॥

पिनाकमग्निनिक्षिप्तं मुञ्चते दलसंचयम् ।
तत्सेवितं मलं बद्ध्वा मारयेद्रोगकारणम् ॥१५५॥

दर्दुरं वह्निनिक्षिप्तं कुरुते भेकनिःस्वनम् ।
तदुत्पादयते रोगमश्मर्याख्यम् असाध्यकम् ॥१५६॥

नागमग्नौ विनिक्षिप्तं फूत्कारं वितनोति यत् ।
तत्सेवया महाकुष्ठं मण्डलाख्यं भवेद्ध्रुवम् ॥१५७॥

ग्राह्यलक्षणम्

एतत्त्रितयसेवाभिर्जायते रोगसंचयः ।
वह्निस्थितं तु वज्राभ्रं विकारान्नाचरेत्क्वचित् ॥१५८॥

तस्माद्वज्राभ्रकं सेव्यं वलीपलितमृत्युजित् ।
राजहस्तात्परं ग्राह्यं खनित्रेन तदाकरात् ॥१५९॥

वज्राभ्र॒॒ परीक्षा॒॒ बद् ॠउअलित्य्

भारयुक्तं पृथुदलं स्निग्धं मोच्यदलं सुखम् ।
काचचन्द्रककिट्टाभं न योज्यं तत्कदाचन ॥१६०॥

धान्याभ्रकम्

पूर्वोक्तलक्षणयुतं वज्राभ्रं धमयेद् दृढम् ।
अर्कक्षीरारनाले च गोमूत्रे त्रिफलारसे ॥१६१॥

मेघनादरसे चेत्थं निक्षिपेत्तेषु तत्त्रिधा ।
सम्यग्दलं मोचयित्वा मेघनादाम्लयोर् द्रवैः ॥१६२॥

भावयेद् आतपे तीव्रे श्लक्ष्णं पिष्ट्वाथ वस्त्रके ।
निक्षिप्य धान्यसहितं बद्ध्वा तत्काञ्जिके पुनः ॥१६३॥

कराभ्यां घट्टयेद् गाढं सूक्ष्मं तत्काञ्जिके स्रवेत् ।
तत् कुर्याद् आतपे शुष्कम् एतद् धान्याभ्रकं स्मृतम् ॥१६४॥

अभ्रकसत्वपातनम्

कान्तवत्सत्वपतनमभ्रकस्य भवेत्प्रिये ।
हेम रूप्यं माक्षिकं च वैक्रान्तं मधु टङ्कणम् ॥१६५॥

गुञ्जा गुडं घृतं भल्लम् एकैकं दशनिष्ककम् ।
पिष्ट्वार्कपयसा कार्या वटिकाः कर्षमात्रकाः ॥१६६॥

शतनिष्के ऽभ्रसत्वे ऽस्मिन् विद्रुते वटिकाः क्षिपेत् ।
एकैकघटिकामात्रं वट्यः क्षेप्याः शनैः शनैः ॥१६७॥

यावत् तत् सत्त्वशेषं स्यात् तावद् धाम्यम् अतन्द्रितैः ।
इदम् अभ्रकसत्त्वं तु देवयोग्यं रसायनम् ॥१६८॥

अभ्रकसत्वभस्म

चूर्णीकृत्याभ्रसत्त्वं तन्मेघनादः पुनर्नवा ।
सूरणोऽर्कदलं मुस्ता जम्बीरस्तालमूलिका ॥१६९॥

त्रिफला वज्रवल्ली च शाङ्गेरी मरिचं तथा ।
अम्लवर्गो वटजटा कार्पासमुनिशिग्रुकम् ॥१७०॥

एकवीरा कोकिलाक्षी सर्पाक्षी तुलसी वचा ।
पेटारी वाकुची कन्या चैकैकस्य रसैः पृथक् ॥१७१॥

मर्दनं घर्मपाकं च स्थालीपाकं पुटं क्रमात् ।
एकैकाहं प्रकुर्वीत ततो दरदमाक्षिके ॥१७२॥

सत्वषोडशभागेन योज्यं पेष्यं वरारसैः ।
पुटषोडशपर्यन्तं कुर्यादेवं हि भैरवि ॥१७३॥

पूर्वोक्तवत् स्याद् अमृतीकरणं कान्तसत्ववत् ।
निरुत्थं भस्म भवति चायुरारोग्यदायकम् ॥१७४॥

अभ्रकसत्वसेवाक्रमः

अथ सेवां प्रवक्ष्यामि घनसत्वरसायने ।
वमनादिविशुद्धात्मा पूजितस्वेष्टदेवतः ॥१७५॥

गुञ्जामात्राभ्रसत्वं च द्विनिष्कं त्रिफलारजः ।
मध्वाज्याभ्यां लिहेत्प्रातरेकमासं भजेदिति ॥१७६॥

एवं षोडशमासान्तं मासवृद्धिक्रमेण वै ।
गुञ्जावृद्धिर्भवेद्देवि सेवेतेत्थं रसायनम् ॥१७७॥

पूर्वोक्तवद्विधिं त्याज्यं प्रकुर्वीत सुरेश्वरि ।
वर्षेण देहशुद्धिः स्याद्द्विवर्षादामयाच्च्युतः ॥१७८॥

त्रिवत्सरान्महारोगनाशनं भवति ध्रुवम् ।
चतुर्वर्षान् महाकान्तिबलवीर्यप्रवर्धनम् ॥१७९॥

पञ्चवर्षाद्देहदार्ढ्यं षष्ठे वाक्सिद्धिमेति हि ।
सप्तमे दिव्यदृष्टिः स्यादष्टमे विषनाशनम् ॥१८०॥

नवाब्दे सिद्धतामेति ततो विद्याधरो भवेत् ।
एकादशाब्दे त्विन्द्रत्वं द्वादशे ब्रह्मता भवेत् ॥१८१॥

त्रयोदशाब्दे विष्णुत्वं रुद्रत्वं च चतुर्दशे ।
ईशत्वं पञ्चदशके षोडशाब्दे सदाशिवः ॥१८२॥

अणिमादियुतः स्वैरी सर्वज्ञः सर्वकृद्भवेत् ।

अभ्रकद्रुतिः

अथाभ्रकद्रुतिं वक्ष्ये कञ्चुकीकन्द एव च ॥१८३॥

कपितिन्दौ केशतैले प्रत्येकं तु त्रिधा वपेत् ।
मूषायां द्रावयित्वा तदभ्रसत्वद्रुतिर्भवेत् ॥१८४॥

भस्मीकुर्यात्प्रयत्नेन द्रुतिमभ्रकसत्ववत् ।

अभ्रकगुणाः

षड्रसः सर्वरोगघ्नस्त्रिदोषशमनः परः ॥१८५॥

वीर्यायुष्यबलप्रज्ञाकान्तिरूपविवर्धनः ।
वपुर्दार्ढ्यस्थैर्ययुक्तो वलीपलितमृत्युहा ॥१८६॥

रुच्यो वृष्यो लघुः शीतो मेध्यः स्निग्धो रसायनम् ।
अभ्रकं दीपनं ग्राहि श्रेष्ठं पारदबन्धनम् ॥१८७॥

पक्षजित्सूतराजस्य भस्मीभूताभ्रसत्वकः ।
अभ्रस्य पत्रं रोगघ्नं तच्च सत्वं दृढंकरम् ॥१८८॥

चेतसत्वं मृदु हरेद्द्रुतिस्तांश्च दरिद्रताम् ॥१८९॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:43.2470000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

अवलणें

  • v t  Row. 
  • उ.क्रि. वल्हविणें ; हांकारणें . ज्ञान वैराग्य भक्ति । हेचि अवलें अवलितीं ॥ [ अवलें = वल्हें . सं . आ + वल = वल्हविणें ] 
RANDOM WORD

Did you know?

कापूर जाळण्यामागची संकल्पना काय? कांही फायदे आहेत काय?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.