रसविद्या - भाग २४

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


महारसैरुपरसैर्लोहैश्च रसस्य वेधोपयोगिनो बन्धाः

श्रीभैरवः ।
महारसैरुपरसैर् लोहैश्च परमेश्वरि ।
आज्ञापय समस्तं तं रसराजस्य बन्धनम् ॥१॥

वैक्रान्तबन्धाः॑ प्रथमः प्रकारः

वैक्रान्तस्य तु भागैकमष्टभागं तु सूतकम् ।
कनकस्य तु सप्तांशं द्विपदीरसटङ्कणम् ॥२॥

नष्टपिष्टं च शुष्कं च ध्मातं खोटो भवेत्प्रिये ।
सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा तु शोधयेत् ॥३॥

समहेम्नि समावर्त्य मूषागतं ततः ।
समांशभक्षणं तत्तु शुद्धसूतेन कारयेत् ॥४॥

वैक्रान्तं षोडशांशेन पूर्वयोगेन धामयेत् ।
दशसङ्कलिकायोगाद्वेधो दशगुणोत्तरः ॥५॥

द्वितीयः प्रकारः

पुनरन्यं प्रवक्ष्यामि प्रयोगं भुवि दुर्लभम् ।
वैक्रान्तसत्त्वं देवेशि पारदेन समन्वितम् ॥६॥

जारितं समहेम्ना तु शिलाभाण्डे निधापयेत् ।
मासमात्रोषितं भूमौ समुद्धृत्य प्रयत्नतः ॥७॥

एष देवि रसो दिव्यो देहद्रव्यकरो भवेत् ।

तृतीयः प्रकारः

वैक्रान्तकास्तु ये केचित् त्रिफलाया रसेन च ॥८॥

एकैकं देवि सप्ताहं स्वेदिता मर्दितास्तथा ।
सुध्माता मूकमूषायां खोटो भवति चाक्षयः ॥९॥

कान्तं रूप्यं च कनकं पारदं चैव योजयेत् ।
शुल्बं तृतीयभागं तु स्रोतोञ्जनसमन्वितम् ॥१०॥

तद्ध्मातं खोटतां यातं देहलोहकरं भवेत् ।

चतुर्थः प्रकारः श्वेतवैक्रान्तसिद्धः

श्वेतवैक्रान्तचूर्णं तु हयमूत्रेण मर्दयेत् ॥११॥

आदौ सुस्विन्नमादाय पले पलशतं क्षिपेत् ।
तारस्य जायते भस्म विशुद्धस्फटिकाकृति ॥१२॥

तद्भस्म मेलयेत्सूते समभागं विचक्षणः ।
चारयेद्रजतं सूते हयमूत्रेण मर्दयेत् ॥१३॥

पुटयेदन्धमूषायां क्रमेण मृदुवह्निना ।
अहोरात्रं त्रिरात्रं वा भवेदग्निसहो रसः ॥१४॥

स्पर्शनात्सर्वलोहानि रजतं च करिष्यति ।

पञ्चमः प्रकारः रक्तवैक्रान्तसिद्धः

रक्तस्य वक्ष्यते कर्म जरादारिद्र्यनाशनम् ॥१५॥

सप्तधा भावयेत्तस्य व्याघ्रीकन्दांभसा रजः ।
पलं तस्य पलं हेम्नः पलं शुद्धरसस्य च ॥१६॥

शुद्धभस्म भवेत्सर्वं पुनर्हेम्नः शतं क्षिपेत् ।
तद्भस्म जायते सर्वं शुद्धहेमसमप्रभम् ॥१७॥

तद्भस्म रसराजे तु पुनर्हेम्ना तु मेलयेत् ।
भवेदग्निसहो देवि ततो रसवरो भवेत् ॥१८॥

सर्ववेधी भवेत्सूतः कोटिवेधी महारसः ।

षष्ठः प्रकारः

रक्तवैक्रान्तसत्त्वं तु हेम्ना तु सह मेलयेत् ॥१९॥

समं तु जारयेत्सूते सारयित्वा समेन तु ।
सहस्रांशेन लोहानि वेधयेन्नात्र संशयः ॥२०॥

सप्तमः प्रकारः कृष्णवैक्रान्तसिद्धः

कृष्णवैक्रान्तभागैकं शुद्धसूतं शतांशकम् ।
एकत्र मर्दयेत् खल्वे चूर्णं भवति तद्द्वयम् ॥२१॥

अस्य चूर्णस्य भागैकं हेमभागसहस्रकम् ।
एकत्र मर्दयेत्तावद्यावद्भस्म तु जायते ॥२२॥

धमेत्तदन्धमूषायां यावत्खोटो भविष्यति ।
समांशभक्षणं तस्य पीठिकां तस्य कारयेत् ॥२३॥

वेधयेत्सर्वलोहानि स्पर्शमात्रेण हेमताम् ।
तच्चूर्णमभ्रकं चैव रसेन सह मर्दयेत् ॥२४॥

स्वेदयेज्जारयेच्चैव ततो वह्निसहो भवेत् ।
स रसश् चारितश्चैव सर्वलोहानि विध्यति ॥२५॥

अष्टमः प्रकारः पीतवर्णवैक्रान्तसिद्धः

पीतवर्णेऽपि वैक्रान्ते रक्तकृष्णविधिः स्मृतः ।
पीतवैक्रान्तचूर्णं तु हेमचूर्णसमन्वितम् ॥२६॥

पीताभ्रकस्य चूर्णं तु मेलयित्वा महारसः ।
स्वेदितो मर्दितश्चैव मासादग्निसहो भवेत् ॥२७॥

नीलवैक्रान्तभस्मरसायनम्

नीलवर्णं तु वैक्रान्तं म्रियते रससंयुतम् ।
कृष्णाभ्रकेण सहितं मधुसर्पिर्युतं च तत् ॥२८॥

भक्षयेन्मण्डलं देवि जीवेच्चन्द्रार्कतारकम् ।
यस्य यस्य हि यो योगस्तस्य तस्य प्रयोगतः ॥२९॥

मेलयित्वा रसं गुञ्जामानं त्रिमधुसंयुतम् ।
खादेत् क्षीराज्यशाल्यन्नं भोज्यमन्यच्च वर्जयेत् ॥३०॥

नवमः प्रकारः

वैक्रान्तसत्वसंयुक्तं लुङ्गाम्ले मर्दयेद्रसम् ।
तापयेद् उष्णतोयेन जलेन परिपूरयेत् ॥३१॥

सत्त्वं सूतं च संमिश्रं धमेत्स्याद्रसबन्धनम् ।
बद्धं रसं मुखे क्षिप्त्वा भूमिच्छिद्राणि पश्यति ॥३२॥

दशमः प्रकारः

निष्कमेकं रसं क्रान्तमश्वमूत्रेण मर्दयेत् ।
दिनमेकमिदं देवि मर्दयित्वा मृतो भवेत् ॥३३॥

चतुर्दिनमिदं कृत्वा समसूतं समं नयेत् ।
मर्दनं स्वेदनं चैव पूर्ववच्छुद्धमानसः ॥३४॥

सप्तद्वन्द्वजमेकैकं सप्तमेऽष्टपलं भवेत् ।
शल्याविशल्यामूलस्य वारिणा मर्दयेद्दिनम् ॥३५॥

भूधरीयन्त्रमध्यस्थं पुटं सप्तदिनं ददेत् ।
तद्भस्म शुद्धं सेव्यं स्याद्गुञ्जामात्रं तु मण्डलम् ॥३६॥

एकाद्यं पञ्चमं मध्यं पुनरेकं प्रशस्यते ।
पूर्ववद्बन्धनं देवि कोटिवेधी भवेद्रसः ॥३७॥

कान्तबन्धः

रक्तवर्णमयस्कान्तं लाक्षारससमप्रभम् ।
भिन्नस्त्रीरक्तसंकाशं तच्चूर्णं सूतसंयुतम् ॥३८॥

मर्दयेच्छागरक्तेन ध्मातं खोटो भवेत्प्रिये ।
स सूतः शतवेधी तु स तु व्याधिहरो भवेत् ॥३९॥

गुलिकां धारयेद्वक्त्रे जीवेद्वर्षसहस्रकम् ।
पीतवर्णमयस्कान्तं भिन्नहेमसमप्रभम् ॥४०॥

वेधयेत् स्पर्शमात्रेण स तु लोहानि सुन्दरि ।

चपलबन्धः॑ प्रथमः प्रकारः

लाङ्गलीं करवीरं च चित्रकं गिरिकर्णिकाम् ॥४१॥

स्त्रीस्तन्यटङ्कसौवीरं मूषालेपं तु कारयेत् ।
चपलाद्द्विगुणं सूतं सूताद्द्विगुणकाञ्चनम् ॥४२॥

नष्टपिष्टं च तत्कुर्यादन्धमूषागतं धमेत् ।
तत्र स्थितो रसेन्द्रोऽयं खोटो भवति शोभनः ॥४३॥

शतांशं वेधयेन्नागं गुञ्जावर्णस्तु जायते ।
तेन नागशतांशेन शुल्बं रक्तनिभं भवेत् ॥४४॥

तेन शुल्बशतांशेन तारं विध्यति काञ्चनम् ।

द्वितीयः प्रकारः

चपलस्य तु षड्भागास् तारभागास्तु सप्त च ॥४५॥

अष्टौ कनकभागास्तु नव भागा रसस्य च ।
त्रिंशद्भागा मिलित्वा तु भवन्ति सुरवन्दिते ॥४६॥

चित्रकं कणवीरं च लाङ्गली गृध्रविट् तथा ।
मर्दितं मातुलुङ्गाम्लैर्मूषालेपं तु कारयेत् ॥४७॥

अन्धयित्वा धमेद्देवि खोटो भवति शोभनः ।
तेन खोटदशांशेन विद्धो नागोऽरुणो भवेत् ॥४८॥

तेन नागेन विद्धं तु शुल्बं गुञ्जारुणं भवेत् ।
तेन शुल्बेन तारं तु विद्धं भवति काञ्चनम् ॥४९॥

तृतीयः प्रकारः

हेमाभ्रं चपलं देवि पारदार्धेन संयुतम् ।
पारदेन कनकं दत्त्वा कुनट्या मर्दयेत्क्षणम् ॥५०॥

लाङ्गली चित्रकं चैव स्त्रीस्तन्यं कणवीरकम् ।
गृध्रविष्ठा तथा सर्वं मूषालेपं तु कारयेत् ॥५१॥

तन्मध्ये तु स्थितं ध्मातं खोटो भवति शोभनः ।
पूर्वोक्तं वेधयेदेतन्निर्बीजं कनकं भवेत् ॥५२॥

सुतप्तलोहपात्रे च क्षिपेच्चपलचूर्णकम् ।
सबीजं पारदं कृत्वा चपलस्य तु वापयेत् ॥५३॥

लाक्षाभो बध्यते सूतोऽङ्कुशेनेव महागजः ।

गन्धकबन्धः॑ प्रथमः प्रकारः

शुद्धसूतपलैकं च पलैकं गन्धकस्य च ॥५४॥

एकीकृत्याथ संमर्द्य धुत्तूरकरसेन च ।
मारयेच्चक्रयोगेन भस्मीभवति सूतकः ॥५५॥

अन्धमूषागतो ध्मातः खोटो भवति शोभनः ।
सितं हेम च नागं च चन्द्रार्कं चापि वेधयेत् ॥५६॥

द्वितीयः प्रकारः

पलैकं शुद्धसूतस्य कर्षैकं गन्धकस्य च ।
मर्दयेत्स्निग्धखल्वेन देवदालीरसप्लुतम् ॥५७॥

मर्दयेत्तु कराङ्गुल्या गन्धपिष्टिस्तु जायते ।
जम्बीरस्य रसेनैव दिनमेकं तु मर्दयेत् ॥५८॥

पञ्चद्रावकसंयुक्तां वटिकां कारयेच्छुभाम् ।
पलाशमूलकल्केन वटिकां तां प्रलेपयेत् ॥५९॥

धमेत् खोटो भवेच्छ्वेतकाचटङ्कणयोगतः ।
शोधयेत्तं प्रयत्नेन यावन्निर्मलतां व्रजेत् ॥६०॥

स खोटो जायते देवि त्रिगुणं पन्नगं ततः ।
शतशो रञ्जयेत्पश्चाच्छुल्बाभ्रककपालिना ॥६१॥

शुल्बे तारे च खोटोऽयं सहस्रांशेन वेधकः ।

तृतीयः प्रकारः

गन्धकेन हते सूते मृतलोहानि वाहयेत् ॥६२॥

पुनर्हेम समावर्त्य समांशं भक्षणं कुरु ।
सारितः शुल्बतारैर् घोषं विध्यति सूतकः ॥६३॥

चतुर्थः प्रकारः

रसं हेमसमं कृत्वा पिष्टिकार्धेन गन्धकम् ।
द्विपदीरजसा युक्तं मर्दयेट्टङ्कणान्वितम् ॥६४॥

नष्टपिष्टं च शुष्कं च ध्मातः खोटो भवेत्ततः ।
चन्द्रार्कषोडशांशेन विद्धं भवति काञ्चनम् ॥६५॥

हेमार्धमिलितं तं तु मातृकासमतां व्रजेत् ।
कुर्यात्सङ्कलिकायोगाद्वेधो दशगुणोत्तरः ॥६६॥

यथा हेम्नि तथा तारे व्याटिबीजेन योजितम् ।
तृतीयसङ्कलाबद्धं षट्शते नागवेधकम् ॥६७॥

चतुर्गुणेन तेनैव सहस्रांशेन काञ्चनम् ।
अनेन क्रमयोगेन सप्त सङ्कलिका यदि ॥६८॥

कुरुते काञ्चनं दिव्यमष्टलोहानि पार्वति ।
तं पुनश्चूर्णयित्वा तु पुटयेद्भस्म जायते ॥६९॥

सर्वव्याधिजयो देवि पलैकेन सुभक्षिते ।
द्विपले ब्राह्ममायुष्यं त्रिपले वैष्णवं भवेत् ॥७०॥

चतुष्पले च पञ्चत्वमीशः पञ्चपले भवेत् ।
षट्पले भक्षिते देवि सदाशिवतनुर्भवेत् ॥७१॥

पञ्चमः प्रकारः

सूतकं गन्धकं तारं मेषवल्लीवसा समा ।
त्रिदिनं मर्दयेल्लक्षं वङ्गं पादेन लेपयेत् ॥७२॥

अन्धमूषागतं ध्मातं वङ्गं स्तम्भयति क्षणात् ।

षष्ठः प्रकारः, गन्धपिष्टिविधिः

चूर्णितं गन्धकं देवि मर्कटीरसभावितम् ॥७३॥

भावयेच्छतवाराणि जीवभस्म तु गच्छति ।
दापयेन्मृण्मये पात्रे रसेन सह संयुतम् ॥७४॥

तापयेद्रवितापेन मर्कटीरससंयुतम् ।
गन्धकं ग्रसते सूतः पिष्टिका भवति क्षणात् ॥७५॥

तिलपर्णीरसेनैव गन्धकं भावयेत्ततः ।
सप्तवारांस्तु देवेशि छायाशुष्कं पुनःपुनः ॥७६॥

शोधितं पातितं सूतं पलैकप्रमितं प्रिये ।
मूषामध्ये विनिक्षिप्य नरेन्द्रीरससंयुतम् ॥७७॥

जारयेद्वालुकायन्त्रे भावितं गन्धकं पुनः ।
त्रुटि त्रुटि प्रदातव्यं गन्धकं च पुनः पुनः ॥७८॥

अनेन क्रमयोगेन जायते गन्धपिष्टिका ।
गन्धपाषाणचूर्णं तु कनकस्य रसेन तु ॥७९॥

भावयेत्सप्तवारांस्तु स्त्रीरजेन तु सप्तधा ।
शुद्धसूतपलैकं च खर्परे दापयेत्ततः ॥८०॥

भावितं गन्धकं दद्यान्नरपित्तेन संयुतम् ।
दोलयेद् रवितापेन पिष्टिका भवति क्षणात् ॥८१॥

गन्धकं सूक्ष्मचूर्णं तु चणकाम्लेन पार्वति ।
भावयेत्सप्तवाराणि स्त्रीपुष्पेण च सप्तधा ॥८२॥

द्रुतसूतकमध्ये तु कर्पूरं गन्धकं रसम् ।
दापयेन्निक्षिपेद् गोष्ठे सप्ताहाद् गन्धपिष्टिका ॥८३॥

गन्धकपिष्टीस्तंभनं वेधश्च

कटुकोशातकीबीजं चाण्डालीकन्दमेव च ।
स्तन्यक्षीरेण संपेष्य पिष्टिकां तेन लेपयेत् ॥८४॥

पुटयेद्भूधरे यन्त्रे स्तम्भते नात्र संशयः ।
हेमसम्पुटमध्ये तु समावर्तं तु कारयेत् ॥८५॥

अष्टमांशेन तेनैव नागवेधं प्रदापयेत् ।
षोडशांशेन तेनैव तारवेधं प्रदापयेत् ॥८६॥

सप्तमः प्रकारः

गन्धपिष्टिपलैकं तु नागपिष्टिपलाष्टकम् ।
लेपयेन्नागपत्राणि छायायां शोषयेत्ततः ॥८७॥

आटरूषकपिण्डेन नागपत्राणि लेपयेत् ।
आरण्योत्पलकैर्देवि दापयेच्च पुटत्रयम् ॥८८॥

तन्नागं म्रियते दिव्यं सिन्दूरारुणसप्रभम् ।
तन्नागं पलमेकं तु शुल्बचूर्णपलाष्टकम् ॥८९॥

वासकस्य रसेनैव प्रहरैकं तु मर्दयेत् ।
मारयेत्पातनायन्त्रे शुल्बं तन्म्रियते क्षणात् ॥९०॥

षोडशांशेन तेनैव तारवेधं प्रदापयेत् ।
जायते कनकं दिव्यं देवाभरणभूषणम् ॥९१॥

या काचिद्गन्धपिष्टी तु आदौ नागं तु मारयेत् ।
नागेन वेधयेच्छुल्बं शुल्बे तारं तु वेधयेत् ॥९२॥

कनकं जायते दिव्यं सिद्धयोग उदाहृतः ।

अष्टमः प्रकारः

गन्धकं मधुसंयुक्तं हरबीजेन मर्दितम् ॥९३॥

भूमिस्थं मासमेकं तु तारमायाति काञ्चनम् ।
उद्वर्तनेन तेनैव सर्वकुष्ठविनाशनम् ॥९४॥

घनेन सह संयुक्तं व्रणरोगविनाशनम् ।
संवत्सरप्रयोगेण सहस्रायुर्भवेन्नरः ॥९५॥

तालकबन्धः

शुद्धसूतपलैकं तु पलैकं तालकस्य च ।
एकीकृत्याथ संमर्द्य उन्मत्तकरसेन च ॥९६॥

मारयेच्चक्रयन्त्रेण भस्मीभवति सूतकः ।
अन्धमूषागतं ध्मातं खोटो भवति शोभनः ॥९७॥

वङ्गं तारं च शुल्बं च क्रमशो वेधयेद्रसः ।
शुद्धवङ्गपलैकं च पलैकं सूतकस्य च ॥९८॥

द्वे पले तालकं चैतद् उन्मत्तरसमर्दितम् ।
मारयेत्पातनायन्त्रे धमनात्खोटतां नयेत् ॥९९॥

श्वेताभ्रकस्य सत्त्वं च तारं तीक्ष्णं च माक्षिकम् ।
अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात् ॥१००॥

तत्खोटपलमेकं च पलैकं सूतकस्य च ।
तालकस्य पलं सर्वमेकीकृत्याथ मर्दयेत् ॥१०१॥

मारयेत्पातनायन्त्रे धमनात् खोटतां नयेत् ।

अन्ये लघुबन्धाः

शुद्धसूतपलैकं च पलैकं पन्नगस्य च ॥१०२॥

पलद्वयं कुनट्याश्च सर्वमेकत्र मर्दयेत् ।
मारयेत्पातनायन्त्रे धमनात् खोटतां नयेत् ॥१०३॥

हेमपिष्टिपलैकं च पलैकं गन्धकस्य तु ।
एकीकृत्याथ संमर्द्य धुत्तूरकरसेन च ॥१०४॥

मारयेत्पातनायन्त्रे धमनात् खोटतां नयेत् ।
कृष्णाभ्रकस्य सत्वं च कान्तं तीक्ष्णं च हाटकम् ॥१०५॥

शुद्धं तारं च माक्षीकं समभागानि कारयेत् ।
अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात् ॥१०६॥

तत्खोटपलमेकं तु पलैकं सूतकस्य च ।
पलद्वयं कुनट्याश्च सर्वमेकत्र मर्दयेत् ॥१०७॥

मारयेत्पातनायन्त्रे धमनात् खोटतां नयेत् ।
कृष्णाभ्रकपलैकं तु रसकस्य पलं तथा ॥१०८॥

सूतकस्य पलैकं तु सर्वमेकीकृतं प्रिये ।
उन्मत्तकरसेनैव मर्दयेत्प्रहरद्वयम् ॥१०९॥

मर्दयेद्दिनमेकं वा टङ्कणेन समन्वितम् ।
घुटिकां कारयेत्पश्चाच्छायाशुष्कं तु कारयेत् ॥११०॥

महावर्तिगतं ध्मातं खोटं भवति सूतकः ।
तं खोटं शोधयेत्काचटङ्कणद्रवयोगतः ॥१११॥

हेम्ना सह समावर्त्य सारणात्रयसारितम् ।
सहस्रांशेन तेनैव शुल्बवेधं प्रदापयेत् ॥११२॥

अनेन क्रमयोगेन कोटिवेधी भवेद्रसः ।
बीजद्वयं पलाशस्य पलमेकं तु सूतकम् ॥११३॥

जम्बीराम्लेन संमर्द्य छायाशुष्कं तु कारयेत् ।
तुम्बीका मेघनादी च काकजङ्घा च भूलिका ॥११४॥

स्तन्यं च तैः प्रलिप्तायां मूषायां चैव निक्षिपेत् ।
धमयेत्खदिराङ्गारैः खोटो भवति चाक्षयः ॥११५॥

पलाशतैले संमर्द्यं यावत् स्याद् द्रवपिष्टिका ।
अन्धमूषागतं ध्मातं खोटो भवति तत्क्षणात् ॥११६॥

पूर्वशुद्धेन सूतेन समहेम्ना च पार्वति ।
गोलकं कारयेत्तेन मर्दयित्वा दृढं कृतम् ॥११७॥

ब्रह्मवृक्षस्य बीजानि कार्पासास्थि विभीतकम् ।
यवचिञ्चा च वन्ध्या च राजिका च समन्वितम् ॥११८॥

सूक्ष्मपिण्डीकृतं सर्वं तेन लिप्त्वा तु गोलकम् ।
पुटनैः सप्तभिर् देवि पिष्टिकास्तम्भनं भवेत् ॥११९॥

बृहत्पुटं ततो दत्त्वा मूषायां तु धमेत्ततः ।
समावर्त्य तु तं सूतं समहेम्ना नियोजितम् ॥१२०॥

शतांशेन तु चन्द्रार्कं वेधयेत् सुरवन्दिते ।
पुनस्तेनैव योगेन पिष्टीस्तंभं तु कारयेत् ॥१२१॥

सारयित्वा ततो हेम्ना वेधश्चैव सहस्रकः ।
एवं लक्षाणि कोटिं च वेधयेत्क्रमयोगतः ॥१२२॥

सप्तसंकलिकादूर्ध्वं कृत्वा वक्त्रं तु गोलकम् ।
वर्षेणैकेन स भवेद्वलीपलितवर्जितः ॥१२३॥

चाण्डालीराक्षसीपुष्पैरथ मध्वाज्यटङ्कणैः ।
महारसाष्टमध्ये तमभ्रकं वापि योजयेत् ॥१२४॥

नागवङ्गसमं सूतं हेमतारमथापि वा ।
अभ्रकं द्रुतिसत्त्वं वा मर्दयेत्प्रहरद्वयम् ॥१२५॥

छायाशुष्कं ततो गोलं मूकमूषागतं प्रिये ।
दत्त्वा लघुपुटं ध्मातः खोटो भवति शोभनः ॥१२६॥

रंभा वीरा स्नुहीक्षीरं कञ्चुकी यवचिञ्चिका ।
दीनारी चैव गोरम्भा मीनाक्षी काकमाचिका ॥१२७॥

एभिर्मर्दितसूतस्य पुनर्जन्म न विद्यते ।
पूर्ववत् क्रमयोगेन खोटो भवति शोभनः ॥१२८॥

विष्णुक्रान्ता च वक्राङ्काबला च तुलसी तथा ।
महासोमाहिवल्ली च सूर्यावर्तं च सुन्दरि ॥१२९॥

एभिस्तु मर्दितः सूतः पूर्ववत्खोटतां नयेत् ।
स्नुहीक्षीरं च काञ्जीरं बीजानि कनकस्य च ॥१३०॥

कञ्चुकी लाङ्गली चेन्द्रवारुणी विषमुष्टिका ।
पालाशमूलतोयं च मर्दयेत्तेन सूतकम् ॥१३१॥

समहेम्नि समं सूतं पिष्टिकां कारयेद्बुधः ।
महारसान्पिष्टिकार्धं मर्दयेद् ओषधीरसैः ॥१३२॥

यामत्रयं मर्दयित्वा गोलकं कारयेद्बुधः ।
पिष्टिकां बन्धयित्वा तु गन्धतैले विपाचयेत् ॥१३३॥

अन्धमूषागतं गोलं छायाशुष्कं तु कारयेत् ।
ततो लघुपुटं दत्त्वा खदिराग्नौ तु धामयेत् ॥१३४॥

खोटवज्जायते देवि सह हेम्ना तु धामयेत् ।
अक्षीणो मिलते हेम्नि समावर्तश्च जायते ॥१३५॥

तत्क्षणादेव सूतस्य दिव्यदेहो भवेन्नरः ।
वेधयेत्सर्वलोहानि रञ्जितः क्रामितो रसः ॥१३६॥

समांशभक्षणे सूते मर्दयेदोषधीरसैः ।
नष्टपिष्टं तु तं कृत्वा पूर्वयोगेन धामयेत् ॥१३७॥

खोटस्तु जायते दिव्यः षोडशांशेन वेधकः ।
बद्धः सङ्कलिकायोगाद् विध्येद् दशगुणोत्तरम् ॥१३८॥

अथवा चूर्णबद्धस्तु विध्येद्दशगुणोत्तरम् ।
मृगदूर्वा चन्द्रवल्ली पक्वबिम्बा तथैव च ॥१३९॥

काङ्क्षीला करवीरं च बीजं चोन्मत्तकस्य च ।
काकाण्डीपलसंयुक्तं मर्दयेत्सुरसुन्दरि ॥१४०॥

समहेम्नि समं सूतं पिष्टिकां कारयेद्बुधः ।
अथवा सारयित्वा तु समेन समसूतकम् ॥१४१॥

महारसपिष्टिकां च मर्दयेदोषधीरसैः ।
यामत्रयं मर्दयित्वा गोलकं कारयेद्बुधः ॥१४२॥

अन्धमूषागतं गोलं छायाशुष्कं तु कारयेत् ।
ततो लघुपुटं दत्त्वा ध्मातः खोटो भवेत्प्रिये ॥१४३॥

मृगदूर्वोत्तमासोमारसैः सूतकसारणम् ।
मूलैस्त्रयाणां लाङ्गल्या रामठेन च हन्यते ॥१४४॥

समेन हेम्ना संयुक्तं पिष्टिकां कारयेद्बुधः ।
अथवा तारपिष्टिं च समसूतेन कारयेत् ॥१४५॥

पूर्ववत्क्रमयोगेन खोटो भवति शोभनः ।
अन्धमूषागतं भूमौ स्वेदयेत्कर्षकाग्निना ॥१४६॥

अहोरात्रं त्रिरात्रं वा चूर्णबन्धं भवेत्ततः ।
तच्चूर्णबन्धं कुरुते वेधं दशगुणोत्तरम् ॥१४७॥

शूलिनीरससूतं च स्रोतोञ्जनसमन्वितम् ।
पूर्ववत्पिष्टिकायोगात् खोटो भवति शोभनः ॥१४८॥

स्रोतोञ्जनं सतगरं सृष्टित्रययुतं रसम् ।
भवेद्वह्निसहः क्षिप्रं सूतकः सर्वकर्मकृत् ॥१४९॥

हेमाभ्रं चैव ताराभ्रं शुल्बाभ्रं चाभ्रतीक्ष्णकम् ।
वङ्गाभ्रं चैव नागाभ्रं सह सूतेन बन्धयेत् ॥१५०॥

यथालाभौषधीघृष्टं महारससमन्वितम् ।
हेम्ना तारेण शुल्वेन तीक्ष्णवङ्गोरगैस्तथा ॥१५१॥

एभिर्व्यस्तैः समस्तैर्वा पिष्टिं कृत्वा समे समाम् ।
मारयेत्पूर्वविधिना गर्भयन्त्रे तुषाग्निना ॥१५२॥

समांशं सूतकं दत्त्वा वारं वारं पुनः पुनः ।
जायते विविधः खोटः कान्तबद्धो महारसः ॥१५३॥

भवेत्सङ्कलिकायोगाद्वेधो दशगुणोत्तरः ।

निगलबन्धः

खोटः पोटस्तथा भस्म धूलीकल्पश्च पञ्चमः ॥१५४॥

एते निगलयोगाभ्यां सर्वबन्धफलोदयः ।
स्नुह्यर्कसंभवं क्षीरं बन्धबीजानि गुग्गुलुः ॥१५५॥

सैन्धवं द्विगुणं दत्त्वा मर्दयेत विचक्षणः ।
पिष्टिकाबन्धनं कृत्वा कल्केनानेन सुन्दरि ॥१५६॥

बिल्वप्रमाणं कृत्वा तु मूषामतिदृढां शुभाम् ।
ऊर्ध्वाधो लवणं दत्त्वा मूषामध्ये रसं क्षिपेत् ॥१५७॥

मूषामध्ये प्रदातव्यं दग्धशङ्खादिचूर्णकम् ।
मुखं तस्य दृढं बद्ध्वा लोणमृत्तिकया बुधः ॥१५८॥

कारयेत्सन्धिलोणं च छायाशुष्कं तु कारयेत् ।
उक्तो निगलबन्धोऽयं पुत्रस्यापि न कथ्यते ॥१५९॥

तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् ।
अहोरात्रं त्रिरात्रं वा पुटं दत्त्वा प्रयत्नतः ॥१६०॥

सुध्मातं खदिराङ्गारै रसेन्द्रं खोटतां नयेत् ।
सौवीरं टङ्कणं काचं दत्त्वा दत्त्वा तु शोधयेत् ॥१६१॥

अक्षीणो मिलते हेम्नि समावर्तश्च जायते ।
समांशभक्षणं तत्तु शुद्धसूतेन कारयेत् ॥१६२॥

धमयेत् पूर्वयोगेन रसेन्द्रं खोटतां नयेत् ।
भवेत्सङ्कलिकायोगाद्वेधो दशगुणोत्तरः ॥१६३॥

पलाशबीजनिर्यासं कोकिलोन्मत्तवारुणी ।
शूलिनीरससंयुक्तं पेषयेत्सैन्धवान्वितम् ॥१६४॥

पिष्टिकावेष्टनं कृत्वा निगलेन तु बन्धयेत् ।
अभ्रकस्य तु पत्रेण वज्रार्कक्षीरसिन्धुना ॥१६५॥

ताप्येन लोहकिट्टेन सिकतामृण्मयेन च ।
एभिस्तु निगले बद्धः पारदीयो महारसः ॥१६६॥

नातिक्रामति मर्यादा वेलामिव महोदधिः ।
तैलार्कक्षीरकतकलाङ्गल्या निगलोत्तमः ॥१६७॥

काकविट् ब्रह्मबीजानि लाङ्गली निगलोऽपरः ।
वाकुची ब्रह्मबीजानि कर्कटास्थीनि सुन्दरि ॥१६८॥

सामुद्रं शाम्बरं चैव लवणं निगलोत्तमः ।
स्नुह्यर्कसम्भवं क्षीरं ब्रह्मबीजानि कारयेत् ॥१६९॥

कनकस्य च बीजानि लोणाष्टेन च मर्दयेत् ।
निगलोऽन्यस्तु गोजिह्वामूलानि स्त्रीरजोऽपरः ॥१७०॥

वाकुची ब्रह्मबीजानि स्नुह्यर्कक्षीरसैन्धवम् ।
ज्वालिनी काकविष्ठा च प्रशस्तो निगलोत्तमः ॥१७१॥

लवणं टङ्कणं क्षारं शिलातालकगन्धकम् ।
तथाम्लवेतसं ताप्यं हिङ्गुलं समभागिकम् ॥१७२॥

स्नुह्यर्कपयसा युक्तं पेषयेन्निगलोत्तमम् ।
पिष्टिकां वेष्टयेदेषामेकेन निगलेन तु ॥१७३॥

लोणमूषागतं प्राग्वत् खोटं कृत्वा तु वेधयेत् ।
द्वितीयं गोलकं वक्ष्ये पिष्टिकास्तम्भमुत्तमम् ॥१७४॥

द्विपदीरजमूत्रेण सैन्धवाभ्रं सगुग्गुलम् ।
पिष्टीं संवेष्ट्य कल्केन मृदा तु पुनरष्टधा ॥१७५॥

तुषकर्षाग्निना भूमौ मृदुस्वेदं तु कारयेत् ।
अहोरात्रं त्रिरात्रं वा पूर्ववत्खोटतां नयेत् ॥१७६॥

वाकुची ब्रह्मबीजानि गगनं विमलं मणिम् ।
सौवर्चलं सैन्धवं च टङ्कणं गुग्गुलुं तथा ॥१७७॥

द्विपदीरजसा मूत्रं सुश्लक्ष्णं तं च मर्दयेत् ।
पिष्टीमावेष्ट्य कल्केन पूर्ववत्खोटतां नयेत् ॥१७८॥

रसमूर्छाविधिः, प्रथमः प्रकारः

अथ मूर्च्छां प्रवक्ष्यामि रसस्य परमेश्वरि ।
बाह्लीकं सैन्धवं कन्या धूशरो लशुनं वचा ॥१७९॥

मेघनादा काकमाची सर्वांशं मर्दयेद्रसम् ।
श्लक्ष्णं तं गोलकं कृत्वा हिंगुना वेष्टयेद्बहिः ॥१८०॥

समेन लोणयन्त्रस्थं कृत्वा तद्विपचेद्दिनम् ।
चण्डाग्निना स्वाङ्गशीतमधः पात्रे स्थितं रसम् ॥१८१॥

चूर्णीभूतं समादाय सान्द्रद्विगुणवाससा ।
बद्ध्वा सोमानले यन्त्रे ह्यथोर्ध्वं गन्धकं समम् ॥१८२॥

दत्त्वा पचेत्पुनर्गन्धमेवं गन्धं तु षड्गुणम् ।
जारयेत्स रसो देवि मूर्छितः सर्वरोगहा ॥१८३॥

द्वितीयः प्रकारः

गन्धकं नवसारं च शुद्धसूतसमं समम् ।
यामं संमर्दयेच्छ्लक्ष्णं काचकूप्यां विनिक्षिपेत् ॥१८४॥

सप्तमृत्कर्पटैर् लिप्त्वा कूपीं घर्मे विशोषयेत् ।
कूपिकां वालुकायन्त्रे द्वादशप्रहरं पचेत् ॥१८५॥

स रसो जायते देवि मूर्छितो रञ्जितो भवेत् ।

तृतीयः प्रकारः

रसार्धं गन्धकं मर्द्यं यामयुग्मं खरातपे ॥१८६॥

ततः सितजयन्त्याश्च रसैः संमर्दयेत्त्र्यहम् ।
ततस्तु गोलकं कृत्वा मूषायां संनिरोधयेत् ॥१८७॥

शोषयित्वा धमेत् किंचित् संतप्तां तां जले क्षिपेत् ।
तं रसेन्द्रं समादाय भावयेद्गोक्षुरद्रवैः ॥१८८॥

मूर्छितो जायते सूतः सर्वरोगहरः शुभः ।

बद्धरसलक्षणम्

अक्षयश्च लघुद्रावी तेजस्वी निर्मलो गुरुः ॥१८९॥

स्फुटनः पुनरावर्तो बद्धः सूतः स उच्यते ।

जलूकाबन्धाः॑ मर्दनजलूका

रसस्याष्टमभागं तु स्वर्णं वा नागमेव वा ॥१९०॥

श्लेष्मातकफलं पक्वं कोकिलाक्षकबीजकम् ।
तिलपिण्याकचूर्णं च तप्तखल्वे विमर्दयेत् ॥१९१॥

शाल्मल्याश्चैव पञ्चाङ्गं रसं तत्र विनिक्षिपेत् ।
जलूका जायते यावत्तावन्मर्द्यात्ततः क्षिपेत् ॥१९२॥

कर्पूरं वाकुचीतैलं सैन्धवं टङ्कणं कणाम् ।
कपिकच्छुकरोमाणि तत्सर्वं पेषयेज्जलैः ॥१९३॥

एतत्पूर्वजलूकां त्रिसप्ताहं तप्तखल्वके ।
जलूका जायते दिव्या मर्दनाख्या सुरार्चिते ॥१९४॥

नारीणामृतुकाले तु सा योज्या योनिगह्वरे ।
मददर्पहरा तासां मदविह्वलकारका ॥१९५॥

बाल्ये चाष्टाङ्गुला योज्या यौवने सा दशाङ्गुला ।
द्वादशाङ्गुलिका योज्या प्रगल्भानां जलूकका ॥१९६॥

यस्तु तां धारयेन्मूर्ध्नि वीर्यं तस्य स्थिरं भवेत् ।

मन्मथजलूका

रसेन्द्रस्याष्टमं भागं स्वर्णं वा नागमेव वा ॥१९७॥

शाल्मलीत्वग्घस्तिकन्दनीलामूलमुनिच्छदम् ।
एषां द्रवैस्तप्तखल्वे सर्वं मर्द्यमतन्द्रितः ॥१९८॥

श्लेष्मातकफलं पक्वं कोकिलाक्षकबीजकम् ।
सुपक्वबिल्वमज्जां च तस्मिन्क्षिप्त्वा विमर्दयेत् ॥१९९॥

जलूका जायते यावत् कर्पूराद्यं च पूर्ववत् ।
तस्मिन्क्षिप्त्वा त्रिसप्ताहं मर्दयेत्तप्तखल्वके ॥२००॥

मन्मथाख्या जलूका स्यात्पूर्ववत् फलदायिनी ।

कन्दर्पजलूका

सूतकस्याष्टमं भागं हाटकं सीसमेव वा ॥२०१॥

शुण्ठी भृङ्गी वरा क्षौद्री छागक्षीरघृतं गवाम् ।
मूत्रं त्रिः सप्तदिवसं मर्दयेत्तप्तखल्वके ॥२०२॥

जलूका जायते यावत्कर्पूराद्यं च पूर्ववत् ।
एकविंशद्दिनं मर्द्यं जलूका जायते शुभा ॥२०३॥

कन्दर्पाख्या सुरेशानि पूर्ववत्फलदायिनी ।

मदनजलूका

त्रिदिनं मर्दयेत् खल्वे सूतनिष्कचतुष्टयम् ॥२०४॥

त्रिपलं चाम्रनिर्यासं स्तोकं स्तोकं विनिक्षिपेत् ।
पयश्चैव महाशम्या दातव्यं मर्दनक्षमम् ॥२०५॥

जलूका मदनाख्येयं जायते शुभदा नृणाम् ।
रामाणां मददर्पाणां द्राविकाग्निघृतौ यथा ॥२०६॥

पूर्ववत्क्रमयोगेन वीर्यस्तम्भकरं भवेत् ।
नानावर्णं तथा स्वच्छं धृतं योनौ जलूकवत् ॥२०७॥

बध्यते सूतको यस्तु जलूकाबन्धलक्षणम् ॥२०८॥

N/A

References : N/A
Last Updated : June 24, 2015

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP