TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसविद्या - भाग ६

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग ६
देहवेधक्रमः

प्रणम्य शिरसा शम्भुं पप्रच्छ गिरिजात्मजा ।
श्रीभैरवी ।
देहवेधस्त्वया पूर्वं संक्षेपात् कथितः प्रभो ॥१॥

तं देहवेधम् आचक्ष्व सम्यक् जानाम्यहं यथा ।
श्रीभैरवः ।
देवि प्रवक्ष्यामि देवानामपि दुर्लभम् ॥२॥

योगिनां भोगयुक्तानां देहवेधं सुरेश्वरि ।
पाचनादि प्रकुर्वीत पञ्चकर्मविधानतः ॥३॥

पञ्चकर्माणि॑ १. पाचनम्

लवणादिसमुत्क्लिष्टान् दोषान् संशोधयेत् क्रमात् ।
ततो जीर्णरसं चाद्यात् क्रमाद् एवं सुरेश्वरि ॥४॥

लघ्वाहारो दिवा भूत्वा क्षुद्राधान्याकनागरम् ।
एतत्त्रयं पलोन्मेयम् उदकेष्ववलोडयेत् ॥५॥

अष्टावशिष्टं संक्वाथ्य प्रतिरात्रं पिबेत्त्र्यहम् ।
अनन्तरं वराक्वाथं पूर्ववत् त्रिदिनं पिबेत् ॥६॥

इति पाचनम् आतन्याद् अथ स्नेहनम् आचरेत् ।

२. स्नेहनम्

घृतौदनं छागरसं दिवा भुञ्जीत मात्रया ॥७॥

आज्यान्नं वा मुद्गरसं लघ्वाशी स्याद्दिने सुधीः ।
रात्रौ पिबेद्घृतं गव्यं सैन्धवेन समन्वितम् ॥८॥

निष्कमेकं सैन्धवं च घृतं निष्कचतुष्टयम् ।
भृङ्गामलकतैलेन सर्वाङ्गम् अभिषेचयेत् ॥९॥

एवं सप्तदिनं कुर्यात् स्नेहनं परमं हितम् ।

३. स्वेदनम्

मत्स्यमांसं माषतिलयवजामलसक्तवः ॥१०॥

सर्वम् एतद् भवेत् प्रस्थम् एकाष्ठीलागरूबला ।
रास्ना व्याघ्री घनापत्रं कौशिकातिविषा निशा ॥११॥

सर्वमेतद्द्वयपलं तक्रक्षीराम्बुकांजिकम् ।
द्व्याढके निक्षिपेत् सर्वं मृत्पात्रे क्वाथयेत् सुधीः ॥१२॥

कुर्यात् तस्योष्मणा गात्रं स्विन्नं द्विघटिकावधि ।
एवं सप्तदिनं कुर्यात् स्वेदनं परमं हितम् ॥१३॥

४ वमनम्

मदनस्य फलं चैकं पाठा षोडशिकं जलम् ।
पादावशिष्टं संक्वाथ्य तज्जले वस्त्रशोधिते ॥१४॥

पिप्पलीन्द्रयवा यष्टिलवणं कर्षमात्रकम् ।
निक्षिपेच्च पिबेत् प्रातर् वान्तिः स्यात् सर्वरोगहा ॥१५॥

५. विरेचनम्

सूतटङ्कणगन्धाश्म त्रिकटुं त्रिफलां समम् ।
एतैः समं तु जेपालं श्लक्ष्णं तत् परिमर्दयेत् ॥१६॥

गुञ्जाद्वितयमात्रं तु गुडेन सह भक्षयेत् ।
विरेचनम् इति प्रोक्तं सर्वव्याधिविनाशनम् ॥१७॥

पञ्चकर्मेति कथितं क्रमात् कुर्याद् विरेचने ।

दोषशोधकयोगाः

केतकीस्तनजम्बीरं प्रत्यहं कुडुवं पिबेत् ॥१८॥

सप्तवासरपर्यन्तं प्रातर् लवणदोषहृत् ।
सलिले षोडशपले त्रिफलैकपलं क्षिपेत् ॥१९॥

क्वाथयेत् पादशेषं तत् तस्मिन् शीते मधोः पलम् ।
पिबेत् प्रभाते त्रिदिनं क्षारदोषहरं परम् ॥२०॥

विडङ्गं सवचाकुष्ठं केतकीस्तनसंयुतम् ।
क्वथितं त्रिदिनं पीतमम्लदोषहरं पिबेत् ॥२१॥

अथवा तिन्त्रिणीक्षारसलिलं पलमात्रकम् ।
यवक्षारसिताकर्षं संयोज्य त्रिदिनं पिबेत् ॥२२॥

अम्लदोषविनाशो ऽयं कथितश्च रसायने ।
वचाबिडालपालाशबीजजन्तुघ्नकर्षकम् ॥२३॥

कर्षं गुडं च तत् सर्वं भक्षयेद् उष्णवारि च ।
पिबेत् प्रातस्त्रिदिवसं भवेत् तत् क्रिमिपातनम् ॥२४॥

श्यामावह्निविडङ्गानि वाशा त्र्यूषं फलत्रयम् ।
सैन्धवं देवदारुं च मुस्ता चैतत्समं समम् ॥२५॥

घृतैः कर्षं लिहेत् प्रातः सप्ताहात् सर्वरोगजित् ।
एवं कृत्वा देहशुद्धिं शाल्यन्नं क्षीरभोजनम् ॥२६॥

सम्यग्जातबलो भूत्वा ततः कुर्याद् रसायनम् ।

रसायनोपयोगः

क्षीराज्यामलकरसक्षौद्रैः सुरतरूद्भवम् ॥२७॥

तैलं निर्मथ्य तत्सर्वं द्विपलं प्रत्यहं पिबेत् ।
मासेन कान्तिर्मेधा च भवत्येव न संशयः ॥२८॥

द्वितीयमासि पूर्वोक्तं तत् पिबेत् तच्चतुःपलम् ।
तेन शाम्यन्ति दोषाश्च विकारा नेत्रसम्भवाः ॥२९॥

पुनस्तृतीये मासे तु सेव्यं षट्पलमात्रकम् ।
तेनामरवपुर् भूयान्महातेजा भवेद् ध्रुवम् ॥३०॥

आरोटरससेवाक्रमः

अथारोटरसः सेव्यः क्रमेण परमेश्वरि ।
अयःशुल्बाभ्रताप्येभ्यः पातितो मारितः क्रमात् ॥३१॥

अयमारोटकरसो देहसिद्धिकरः परः ।
स्वेदनाद्यैश्च संस्कारैः सप्तभिः संस्कृतो रसः ॥३२॥

मूर्छितो रञ्जितो देवि सूतस् त्वारोटकः स्मृतः ।
रसायने रोगशान्त्यां श्रेष्ठः सर्वगुणप्रदः ॥३३॥

कान्ताभ्रसत्वारोटाश्च समं गुञ्जाद्वयोन्मितम् ।
मध्वाज्यत्रिफलाभिश्च मासमेकं भजेदिति ॥३४॥

एवं क्रमेण संसेव्यं द्वित्रिवेदेषुषट्क्रमात् ।
एवं षोडशमासान्तं गुञ्जाषोडशमात्रकम् ॥३५॥

आरोटकरसे चेत्थं कुर्यान्मत्प्राणवल्लभे ।
वलीपलितनिर्मुक्तो जीवेच्च शरदः शतम् ॥३६॥

आरोटरसः

कान्तसत्त्वाभ्रसत्त्वं च स्वर्णजीर्णरसस्तथा ।
सर्वमेतत् समीकृत्य भजेद् आरोटकं तथा ॥३७॥

क्षेत्रीकरणमेतद्धि सहस्रायुष्यकारकम् ।
अभूमौ योजितः सूतो न प्ररोहति कुत्रचित् ॥३८॥

तस्मात्क्षेत्रमकृत्वैव योजयेद् यस्तु सूतकम् ।
न प्ररोहेदस्य शुभं बीजम् इवोषरे ॥३९॥

खोटबद्धरससेवाक्रमः

पूर्वोक्तखोटबद्धस्य सूतस्य विधिम् उत्तमम् ।
क्रामणं च क्रमाद्वक्ष्ये तथा विधिनिषेधनम् ॥४०॥

शृणु पार्वति यत्नेन त्वत्प्रीत्या कथयाम्यहम् ।
कान्ताभ्रस्वर्णवज्राणि रसस्य क्रामणं परम् ॥४१॥

क्रामणेन विना सूतो न सिध्येद् देहलोहयोः ।
गुञ्जामात्रं खोटबद्धं क्रामणक्षौद्रसंयुतम् ॥४२॥

मासमेकं भजेद् इत्थं पुनर् विधिक्रमेण वै ।
मासषोडशपर्यन्तं यथारोटरसस्तथा ॥४३॥

स शतायुष्यम् आप्नोति सर्वरोगविवर्जितः ।
पलमात्रोपयोगेन व्याधिभिर् नाभिभूयते ॥४४॥

द्वितीये शुक्रवृद्धिः स्यात् तृतीये बलवान् भवेत् ।
चतुर्थे पलितं हन्ति वलिं जयति पञ्चमे ॥४५॥

षष्ठे श्रुतिधरो वाग्मी सप्तमे नेत्ररोगहृत् ।
अष्टमे तार्क्ष्यदृष्टिः स्याद् ब्रह्मायुर्ब्रह्मविक्रमः ॥४६॥

उपयुञ्ज्यान्नवपलं सिद्धिमेलापकं भवेत् ।
विनियुञ्ज्याद् दशपलं द्वितीयः शङ्करो भवेत् ॥४७॥

सहस्रायुष्यकरं सूतं माषमात्रं भजेन्नरः ।
अयुतायुष्करं सूतं यवमात्रं भजेत्प्रिये ॥४८॥

लक्षायुष्यकरं सूतं व्रीहिमात्रं भजेत्सुधीः ।
कोट्यां भजेत् सूतं खादयन् मुद्गमात्रकम् ॥४९॥

एतत् सर्वं रसानां तु क्रामणं पूर्ववद् भवेत् ।
सहस्रायुःप्रदः सूतो ब्रह्मत्वं विदधाति सः ॥५०॥

अयुतायुष्करः सूतो विष्णुतां प्रददाति च ।
लक्षायुष्यकरः सूतो रुद्रत्वम् उपपादयेत् ॥५१॥

कोट्यायुष्यप्रदः सूतः शिवत्वं विदधाति च ।
माक्षीकजीर्णसूतस्तु धनदत्वं ददाति वै ॥५२॥

इन्द्रत्वं विमलाजीर्णस्त्वभ्रजीर्णोऽर्कतां ददेत् ।
ब्रह्मतां शुल्बजीर्णश्च विष्णुतां तारजारितः ॥५३॥

रुद्रता हेमजीर्णे स्यादीशत्वं वज्रजारिते ।
सदाशिवत्वं च ददेत्पारदो द्रुतिजारितः ॥५४॥

सच्चिदानन्दरूपत्वं सूतको बीजजारितः ।
सामान्येन तु तीक्ष्णेन रुद्रत्वं प्राप्नुयान्नरः ॥५५॥

एवं यो लोहजीर्णं तु भक्षयेद् भस्मसूतकम् ।
जलेन जलरूपी स्यात्स्थलेन स्थलतां व्रजेत् ॥५६॥

तेजस्त्वं तेजसा देवि वायुना वायुरूपभाक् ।
कर्ता हर्ता स्वयं साक्षाच्छापानुग्रहकारकः ॥५७॥

यत्र मूत्रपुरीषं तु साधकस्तु परित्यजेत् ।
पाषाणं मृण्मयं तत्र स्पृष्टं भवति काञ्चनम् ॥५८॥

प्रस्वेदात् तस्य गात्रस्य लोहान्यष्टौ च वेधयेत् ।
तत्सर्वं कनकं दिव्यं भक्षिते द्वादशे पले ॥५९॥

अथवा तारजीर्णं तु भक्षयेद् भस्मसूतकम् ।
शुल्बारं वङ्गघोषं च तत्स्वेदात् तारता भवेत् ॥६०॥

अथवा तीक्ष्णजीर्णं तु भक्षयेद् भस्मसूतकम् ।
मूत्रेण तस्य स्पृष्टं तु वङ्गं व्रजति तारताम् ॥६१॥

एकैकेन निषेकेन स्तम्भनं नागवङ्गयोः ।
गुञ्जामात्रं रसं देवि हेमजीर्णं तु भक्षयेत् ॥६२॥

द्विगुञ्जं तारजीर्णस्य रविजीर्णस्य च त्रयम् ।
तीक्ष्णाभ्रकान्तमाषैकं गुंजैका द्वेऽथवा भवेत् ॥६३॥

वज्रवैक्रान्तजीर्णं तु भक्षयेत् सर्षपोन्मितम् ।
नागवङ्गवसाकीटविषोपविषसंयुतम् ॥६४॥

मूत्रयुक्तं हठाद् बद्धं त्यजेत् कल्कं रसायने ।
हेमतारप्रवेशेन जातो योऽग्निसहः क्रमात् ॥६५॥

बद्धश्च रसराजोऽयं देहसिद्धिप्रदो भवेत् ।
वज्रायस्कान्तमाक्षीकवैक्रान्ताभ्रककाञ्चनम् ॥६६॥

एतैर्जीर्णो यथालाभं रसः शस्तो रसायने ।
षड् एवोपरसाश्चैव भक्षणार्थं रसायने ॥६७॥

भस्मनस्तीक्ष्णजीर्णस्य पलम् एकं तु भक्षयेत् ।
दशवर्षसहस्राणि वज्रकायः स जीवति ॥६८॥

एवं च द्वादशपलं तीक्ष्णजीर्णस्य भक्षयेत् ।
एवं जीवन्महाकल्पं प्रलयान्ते शिवं व्रजेत् ॥६९॥

भस्मनः शुल्बजीर्णस्य पलेन ब्राह्ममायुषम् ।
द्विपले वैष्णवायुष्यं रुद्रायुस्त्रिपलेन तु ॥७०॥

चतुर्थे तु पले देवि शिवत्वं प्राप्नुयान्नरः ।
हेमजीर्णे भस्मसूते त्रिपले भक्षिते क्रमात् ॥७१॥

अष्टाशीतिसहस्राणि योगिन्यो मददर्पिताः ।
तस्य तिष्ठन्ति किंकर्यः कामरूपी भवेन्नरः ॥७२॥

यद् यद् भावयते रूपं तत्तद्रूपधरो भवेत् ।
यत्र यत्र विलीयन्ते सिद्धिस्तत्रैव लीयते ॥७३॥

मिते पले द्वादशभिर् हेमभस्मनि भक्षिते ।
गुंजैकमात्रं देवेशि ज्ञात्वा चाग्निबलं निजम् ॥७४॥

घृतेन मधुना चाद्यात् ताम्बूलं कामिनीं भजेत् ।
एको हि दोषः सूक्ष्मोऽपि भक्षिते भस्मसूतके ॥७५॥

त्रिःसप्ताहाद्वरारोहे कामान्धो जायते नरः ।
कामिनीनां सहस्रं तु क्षोभयेद् दिवसान्तरे ॥७६॥

नारीसङ्गाद् वरारोहे देहे क्रामति सूतकः ।
नारीसङ्गाद् विना देवि ह्यजीर्णं तस्य जीर्यते ॥७७॥

मैथुनाच्चलिते शुक्ले त्रिसप्ताहाद् अधः कृतात् ।
जायते प्राणसंदेहस् तावन्मैथुनं त्यजेत् ॥७८॥

युवत्या जल्पनं कार्यं युवत्या चाङ्गमर्दनम् ।
यस्याः स्पर्शनमात्रेण रसः क्रामति विग्रहे ॥७९॥

यथा तथा ह्लादयते सुस्त्रीरूपनिरीक्षणम् ।
तथा क्रामति देवेशि सूतकोऽसौ ततः क्षणात् ॥८०॥

अश्वत्थसदृशो यस्या आधारश्च समः शुभः ।
तादृशस्तु भगो देवि भाजने तु रसायने ॥८१॥

निर्मांसश्चैव दीर्घश्च भगः शुष्कशिरास्तथा ।
दुःखदारिद्र्यकर्तारं वर्जयेत्तं रसायने ॥८२॥

पक्षे शुक्ले शुभदिने चन्द्रताराबलान्विते ।
सुमुहूर्ते चिन्त्य शिवानलविप्रगुरून्द्विजः ॥८३॥

संतुष्टः सुमना भूत्वा रसं सेवेत सिद्धिदम् ।
पयसा हेमशुण्ठीभ्यां नस्यं क्रामणमुत्तमम् ॥८४॥

हेमादि षड्लोहकृतम् अञ्जनं क्रामणं परम् ।

रससेवायां पथ्यापथ्यम्

अतः परं प्रवक्ष्यामि रससेवाहिताहितम् ॥८५॥

रक्तशाल्यन्नगोधूमं गव्यं क्षीरं घृतं दधि ।
जाङ्गलं पललं मुद्गं शर्करा मधु सैन्धवम् ॥८६॥

हंसोदकं वास्तुकं च मेघनादः पुनर्नवा ।
पटोलालाबुकदलीधान्यकेक्षुकदाडिमम् ॥८७॥

नालिकेराम्बु विश्वं च सदा ताम्बूलचर्वणम् ।
गन्धसारं कुङ्कुमं च मृगनाभिं विलेपयेत् ॥८८॥

सुरभीणि सुपुष्पाणि मृदुशय्येष्टकामिनीः ।
शिवात्मज्ञानकथनं मृदुभाषा सुखासिका ॥८९॥

दिव्याम्बराणि शुद्धानि छाया चाल्पविपर्यटम् ।
मृत्युञ्जयजपो हर्षो मन्दहासश्च शुद्धता ॥९०॥

नर्तनालोकनं गीतश्रवणं शिवपूजनम् ।
देवाग्निगुरुविप्राणां वन्दनं श्रुतिपालनम् ॥९१॥

समाधिः प्राणिकरुणा सत्यवाक्यं हितं प्रियम् ।
वाग्देहमनसा चेष्टा यथा दुःखनिरोधिनी ॥९२॥

एतत्सर्वं रसेन्द्रस्य क्रामणं कथितं प्रिये ।
अहितं रससेवायाः कथयामि शृणु प्रिये ॥९३॥

अत्यशनं चातिपानम् अतिनिद्रातिजागरम् ।
अकाले भोजनं स्त्रीणामतिसङ्गोऽप्यसङ्गिता ॥९४॥

अस्थानमदहासाश्च हर्षः कोपोऽधिकस्पृहा ।
बहुजल्पो जलक्रीडा दुःखम् अत्यन्तचिन्तनम् ॥९५॥

कलिङ्गं कारवेल्लं च कूष्माण्डः कर्कटी तथा ।
काकमाची कुलत्थं च कार्कोटी च कुसुम्भिका ॥९६॥

तिलातसीतैलमाषकपोतकमसूरकाः ।
तक्रभक्तं च सौवीरं तिक्तकट्वम्ललावणम् ॥९७॥

क्षारं क्षौद्रं पिच्छिलं च पित्तलं च परूषकम् ।
माहिषीः क्षीरविकृतीर् विदरं सहकारकम् ॥९८॥

नारङ्गबिल्वलिकुचशिग्रुनैवेद्यभोजनम् ।
अग्निस्पर्शनम् अङ्घ्रिभ्यां ताडनं गोद्विजन्मनोः ॥९९॥

कुमारीबालतुरगपश्वादीनां च ताडनम् ।
पातकं प्राणिहिंसा च छेदनं भूरुहाम् अपि ॥१००॥

अक्षादिसप्तव्यसनं छायाश्वत्थकपित्थयोः ।
लिङ्गस्त्रीनरखट्वानां तथा द्वीपिविभीतयोः ॥१०१॥

चतुष्पथातिनिर्विक्तस्थाने विण्मूत्रमोचनम् ।
शिवद्विजगुरुस्त्रीणां वीरयोनियतात्मनाम् ॥१०२॥

समयश्रुतिसूतानां नदीतीर्थाम्भसां नृणाम् ।
पलाण्डुहिङ्गुलशुनराजिकाबृहतीद्वयम् ॥१०३॥

निष्पावलङ्घनोद्वर्तिनिशाशाभरणन्दिता ।
सुप्तिर् मद्यासवौ ताम्रचूडश्च जलजामिषम् ॥१०४॥

तीक्ष्णोष्णगुरुविष्टम्भिरूक्षशुष्कामिषं मधु ।
कदलीपत्रकांस्येषु भोजनं घर्मसेवनम् ॥१०५॥

एतानि द्रव्यजालानि निषिद्धानि रसायने ।

अपथ्यजनिता रोगाः

सेवेत चेत्प्रमादेन विकृतिर्जायते क्षणात् ॥१०६॥

रसाजीर्णे भवेत्कान्ते शोषो मूर्च्छा भ्रमो ज्वरः ।
क्लमः कम्पः शकृन्मूत्ररोधनं शूलवेपथुः ॥१०७॥

अनिद्रालस्यहिक्का च कासश्वासविजृम्भिकाः ।
अरोचकातिसारश्च लिङ्गस्तम्भो ऽक्षिकुक्षिषु ॥१०८॥

वक्षःकर्णोदराङ्घ्रौ च मेढ्रे शिरसि सन्धिषु ।
दाहोऽङ्गभङ्गसर्वेऽन्ये व्याधयः सम्भवन्ति वै ॥१०९॥

रसाजीर्णप्रशान्त्यर्थं योगोऽयं कथ्यते मया ।
राजकोशातकी पुङ्खा गरुडी कारवल्लिका ॥११०॥

कार्कोटी काकमाची च देवदाली पराजिता ।
सर्वम् एतच्चैकपलं गोमूत्रे तु चतुष्पले ॥१११॥

क्वाथयेत् पादशेषं तु कार्षिकं स्वच्छसैन्धवम् ।
निक्षिपेत् तत् पिबेत् क्वाथं रसाजीर्णे हितंकरम् ॥११२॥

सुखीभवेत् त्रिदिवसे रसस्य क्रामणं भवेत् ।
रसो व्यथयते तत्तदङ्गं संपरिमर्दयेत् ॥११३॥

वा स्तनेन च तन्वङ्ग्या निर्व्यथः क्रमते रसः ।

सप्तधातुवेधः

त्वग्वेधः प्रथमं देवि रक्तवेधो द्वितीयकः ॥११४॥

तृतीयो मांसवेधः स्यान्मेदोवेधश्चतुर्थकः ।
अस्थिवेधः पञ्चमः स्यात्षष्ठो मज्जात्मको भवेत् ॥११५॥

सप्तमः शुक्लवेधः स्यात् नाडीवेधस्तथाष्टमः ।
नवमश्चक्षुषो वेधो दशमः सर्ववेधकः ॥११६॥

रसवेधेन भुजगः स्वर्णं स्याद् रक्तवेधतः ।
त्रपु स्वर्णं भवेन्मांसवेधात् तीक्ष्णं च काञ्चनम् ॥११७॥

मेदोवेधेन शुल्बं तु स्वर्णं स्यादस्थिवेधतः ।
रूप्यं स्वर्णं भवेन्मज्जवेधाल्लोहानि कांचनम् ॥११८॥

शुक्लवेधेन मृत्पात्रं काञ्चनं भवति प्रिये ।
वज्रजीर्णो वीर्यवेधी मज्जामभ्रकजारितः ॥११९॥

हेमजीर्णस्त्वस्थिवेधी रूप्यजीर्णो रसं प्रिये ।
मेदोवेधी ताप्यजीर्णो मांसवेधी तु पारदः ॥१२०॥

शुल्बजीर्णो रक्तवेधी कान्तजीर्णो रसात्मकः ।
तीक्ष्णबद्धेन नीलाभस् ताम्रेणारुणसप्रभः ॥१२१॥

रजतेनेन्दुसंकाशो हेम्ना काञ्चनसप्रभः ।
धूमावलोकी वक्त्रस्थो मासात्खेचरतां नयेत् ॥१२२॥

स्पर्शवेधी तु वक्त्रस्थो द्विमासात्सिद्धिदायकः ।
शतकोटिस्त्रिभिर्मासैश् चतुर्भिर् दशकोटिकृत् ॥१२३॥

पञ्चभिः कोटिवेधी स्याद् अष्टभिश्चायुतं पुनः ।
साहस्रं नवभिर्मासैर् दशमासे शतं पुनः ॥१२४॥

तस्य मूत्रपुरीषैस्तु श्लेष्मणाङ्गमलैस् तथा ।
लेपाद्धेमत्वम् आयान्ति यानि लोहानि भूतले ॥१२५॥

चतुःषष्ट्यंशतो वेधी मासम् एकादशस्य तु ।
द्वात्रिंशकवेधी तु वर्षाद् देहं तु वेधयेत् ॥१२६॥

सर्वरोगैर् विनिर्मुक्तो वलीपलितवर्जितः ।
नासौ छिद्येत शस्त्रैश्च पावकेन न दह्यते ॥१२७॥

वायुवेगी महातेजाः कामदेव इवापरः ।
इच्छया जायते दृश्योऽप्यदृश्यचैव जायते ॥१२८॥

यस्य संस्पर्शमात्रेण सर्वलोहानि काञ्चनम् ।
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ॥१२९॥

देवा यत्र विलीयन्ते सिद्धस्तत्रैव लीयते ॥१३०॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:43.0900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

पत्तेवार

  • a  Bearing all necessary directions, or intelligence. 
  • ad  With all necessary directions and intelligence. 
RANDOM WORD

Did you know?

स्त्रिया पायात चांदीचे दागिने वापरतात, मग सोन्याचे कां नाही?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site