TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसविद्या - भाग २०

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग २०
योगरसायनम्

श्रीभैरवी ।
देवदेव कृपाम्भोधे कालकन्दर्पनाशन ।
अष्टमूर्ते महामूर्ते पञ्चकृत्यपरायण ॥१॥

प्रपञ्चितं जगत्सर्वं त्र्यम्बक त्रिपुरान्तक ।
जटाकलितभोगीन्द्रफूत्कारक्लान्तचन्द्रमः ॥२॥

सूर्येन्दुवह्निनयन स्मेरपञ्चानन प्रभो ।
कुण्डलाहिफणारत्नद्योतमानकपोलभूः ॥३॥

कुन्दाग्रदन्तसुभगपल्लवाधरशोभित ।
हालाहलासितगल सप्तभोगीन्द्रभूषण ॥४॥

महाहिवलयप्रोद्यदष्टादशभुजोज्ज्वल ।
सर्वदिव्यायुधोपेत वरव्याघ्राजिनांबर ॥५॥

नमत्सुरासुराधीशमकुटोत्पलरश्मिभिः ।
नीराजितपदद्वन्द्व योगिजन्मजरापह ॥६॥

सच्चिदानन्दविभव प्रसन्न करुणाम्बुधे ।
ओङ्कारगम्य विमलातर्क्याचिन्त्याप्रमेय भोः ॥७॥

स्तोता स्तुत्यः स्तुतिस्त्वं हि कर्ता कार्यं च कारकः ।
सर्वोऽपि हि त्वमेवासि प्रसीद परमेश्वर ॥८॥

त्वन्मायया जगत्सर्वं सृष्टं त्रातं हतं तथा ।
त्वं भूस्त्वमापस्त्वं वह्निस्त्वं वायुस्त्वं नभः शशी ॥९॥

रविस्त्वं परमात्मा त्वं गुणास्त्वं प्रकृतिस्तथा ।
पुरुषस्त्वं मनस्त्वं च बुद्धिश्चित्तमहंकृतिः ॥१०॥

रसायनं च सकलमाख्यातुं च सविस्तरम् ।
आज्ञापयाहं यदि ते हृद्या प्राणप्रिया विभो ॥११॥

जीवन्मुक्तिः कथं नाथ योगरूपं च कीदृशम् ।
अनुगृह्णीष्व देवेश सुखोपायं भवापहम् ॥१२॥

श्रुत्वा स्तुतिं स्मितमुखो भैरवः परया मुदा ।
उवाच देवीं कल्याणीं पर्वताधिपनन्दिनीम् ॥१३॥

श्रीभैरवः ।
साधु साधु महामाये सर्वं वेत्सि सनातने ।
तथापि पृच्छसीशानि लोकानां हितकाम्यया ॥१४॥

प्रवक्ष्यामि समासेन सावधानं शृणु प्रिये ।
त्वत्तोऽन्या वल्लभा का मे रहस्यार्थविभाषणे ॥१५॥

जीवन्मुक्तलक्षणम्

शृणु वक्ष्यामि देवेशि जीवन्मुक्तस्य लक्षणम् ।
कामं क्रोधं भयं लोभं मदं मोहं च मत्सरम् ॥१६॥

मानं लज्जां कुलं शीलं कुत्सां दम्भं च वञ्चनाम् ।
अविद्यां जडतां गर्वं शीतमुष्णं तथातपम् ॥१७॥

वातं सुखं च दुःखं च पापं पुण्यं हिताहितम् ।
तापत्रयं पुत्रमित्रकलत्रादीनि यस्त्यजेत् ॥१८॥

न सक्तः सर्वविषये तत्त्वचिन्तापरायणः ।
पद्मपत्रम् इवाम्भोभिर् निर्लिप्तहृदयो भवेत् ॥१९॥

मैत्रीकृतातटोपेक्षामदैतैर् मण्डिताशयः ।
ऐहिकामुष्मिकसुखप्राप्तिकार्याविरक्तधीः ॥२०॥

नित्यानित्यविवेकज्ञो ह्यन्तःकरणनिग्रहः ।
जरामरणहीनश्च शिवसामरसात्मवान् ॥२१॥

जीवन्मुक्तः स विज्ञेयस्तीर्णसंसारसागरः ।
देवदैत्यादिभिर्वन्द्यः स सेव्यः स गुरुः शिवः ॥२२॥

यथाहं सर्वलोकेषु पूजनीयो महेश्वरि ।
तथासौ सर्वलोकेषु सर्वैः सम्पूज्यते सदा ॥२३॥

देहान्तेषु तु मुक्तिर्या प्राणिनां साप्रयोजना ।
देहान्ते देहिनः सर्वे मुक्तिं यान्ति न संशयः ॥२४॥

भगसंद्रावणान्मुक्तिर् भवेच्चेद् गर्दभादयः ।
पक्षिणो वृषभा मेषाः किं मुक्तास्त्रिपुराम्बिके ॥२५॥

रेतोविण्मूत्रसेवायां यदि मुक्तिर्भवेत्प्रिये ।
कपिश्च सूकराद्याश्च कथं मुक्ता भवन्ति ते ॥२६॥

न केवलामरत्वाच्च न शिवत्वाद्भवेत्तथा ।
तद्द्वयोर् मेलनाच्च स्याज्जीवन्मुक्तिरियं स्मृता ॥२७॥

सर्वस्मिन्समये शास्त्रे मुक्तिरस्त्यन्तकालजा ।
न दृश्यते करान्तस्थमणिवत्सा च शाम्भवि ॥२८॥

अतिगोप्यमवाच्यं यद्देवानामपि दुर्लभम् ।
कथयिष्यामि देवेशि देहस्थैर्यं सदातनम् ॥२९॥

जीवन्मुक्तिसाधकशरीरस्थैर्यसंपादनोपायः॑ योगसिद्धिः

शिवत्वं खेचरत्वं च सर्वसिद्धिप्रदं शुभम् ।
देहं विना न किंचित् स्याद्देहोऽयं सर्वसाधनम् ॥३०॥

तस्माद्देहं प्रयत्नेन रक्षयेत्सर्वतः सदा ।
देहपाते धर्मनाशो धर्मनाशे क्रियाच्युतिः ॥३१॥

क्रियाच्युतौ कुतो योगो योगभ्रंशे न चिद्भवेत् ।
चिदभावे कुतो मोक्षो मोक्षे भ्रष्टे न किंचन ॥३२॥

अन्योपायशतेनापि न देहो धार्यते सदा ।
पारदः पवनश्च स्यात्सर्वसिद्धिद उत्तमः ॥३३॥

संमूर्छितौ मृतौ बद्धावुभौ पवनपारदौ ।
क्रमाद्रोगहरौ नित्यं मृत्युघ्नौ खेचरप्रदौ ॥३४॥

रसः पूर्वं मया ख्यातोऽधुना वायुः प्रशस्यते ।
वायोः संधारणाज्ज्ञानं ज्ञानान्मोक्षः प्रजायते ॥३५॥

सर्वेषां देहमूलं स्यात्तत्स्थैर्ये पवनः प्रभुः ।
परस्मादक्षरात्तस्मादाकाशं समभूत्ततः ॥३६॥

वायुस्तस्माच्च दहनस्तस्मादापस्ततो मही ।
एतेषां पञ्चभूतानामक्षरं कारणं परम् ॥३७॥

व्योम शब्दात्मकं वायुः शब्दस्पर्शात्मको भवेत् ।
वह्निः शब्दस्पर्शरूपमयः सलिलमुच्यते ॥३८॥

शब्दरूपस्पर्शरसात्मकं भूमिर्विशेषतः ।
शब्दरूपरसस्पर्शगन्धरूपा भवेत् प्रिये ॥३९॥

भूवाय्वग्न्यनिलाकाशाधिष्ठात्र्यश्चैव देवताः ।
ब्रह्मा विष्णुश्च रुद्रश्च महेश्वरसदाशिवौ ॥४०॥

भूमिर् नष्टाम्बुसंमग्ना ताश्च ग्रस्ता महाग्निना ।
स च चण्डसमीरेण शमितः सोऽपि पार्वति ॥४१॥

व्योम्नि लीनः क्रमात् तस्माद् आकाशाद् उद्भवन्ति ते ।
अन्तर्बहिः स्थितं व्याप्तं निराधारं निराश्रयम् ॥४२॥

आकाशं चेतसा ध्यायन् प्रच्छिन्द्याद् भवबन्धनम् ।
जगत्प्राणमयं वायुं चिदानन्दप्रदं जलम् ॥४३॥

निश्चलीकुरुते युक्त्या वायुवत्स्यात्स खेचरः ।
अनन्तार्काग्निसंदीप्तं दहन्तं जगतां त्रयम् ॥४४॥

तेजो ध्यात्वा स्वहृदये नाग्निना स तु बाध्यते ।
सुधातरङ्गनिकरप्लाव्यमानमहीतलम् ॥४५॥

अप्तत्त्वं भावयन् स्वान्ते वारि तं न हि बाधते ।
अभूतलचराक्रान्तं भूतलं भूतसंप्लवम् ॥४६॥

हृदये भावयन्नित्यं तस्य नो पार्थिवं भयम् ।
यद्यद्भावयते चित्ते तत्तद्रूपम् अवाप्नुयात् ॥४७॥

यथाग्नित्वं व्रजेत् काष्ठः कीटो भ्रमरतां यथा ।

योगाङ्गानि

आसनं प्राणनियमः प्रत्याहारश्च धारणा ॥४८॥

ध्यानं समाधिः षोढा स्युर्योगाङ्गानि क्रमेण च ।

१. आसनविधिः

चतुरशीतिलक्षाणि ह्यासनानि भवन्ति हि ॥४९॥

तेषु मुख्यासने द्वे च सिद्धपद्मासने स्मृते ।

सिद्धासनम्

स्वयोनिं पादमूलेन चैकेन घटयेद् दृढम् ॥५०॥

अन्यच्चरणमूलं च मेहनोपरि विन्यसेत् ।
अवक्राङ्गः समासीनो वशीभूतेन्द्रियः प्रिये ॥५१॥

निश्चलाक्षो भ्रुवोर्मध्यं पश्यन्निश्चलमानसः ।
सिद्धासनमिदं ज्ञेयं मुक्तिमार्गप्रदायकम् ॥५२॥

पद्मासनम्

दक्षिणोरौ पदं वामं वामोरौ दक्षिणं पदम् ।
विन्यस्य करयुग्मेन पृष्ठभागगतेन च ॥५३॥

विपरीतेन चाङ्गुष्ठं वामं वामकरेण च ।
दक्षिणं दक्षिणेनैव दृढं धृत्वा निजोरसि ॥५४॥

विन्यस्य चुबुकं ध्यायेन्नासाग्रं संयतेन्द्रियः ।
एतत्पद्मासनं ख्यातं सर्वरोगनिबर्हणम् ॥५५॥

२. प्राणायामः॑ अजपामुद्रा

आधारं तु गुदस्थाने चतुर्दलसरोरुहम् ।
वादिसान्ताक्षरोपेतं बालारुणसमप्रभम् ॥५६॥

स्वाधिष्ठानं षड्दलाब्जं बादिलान्ताक्षरान्वितम् ।
विद्युत्प्रभं ततो देवि रत्नाभं मणिपूरकम् ॥५७॥

डादिफान्तार्णसंयुक्तं नाभौ दलशतात्मकम् ।
अनाहतं सुवर्णाभं द्वादशच्छदपङ्कजम् ॥५८॥

हृदये कादिठान्तार्णं विशुद्धिस्तु प्रशस्यते ।
षोडशारं महापद्मं षोडशस्वरभूषितम् ॥५९॥

आज्ञाचक्रं द्वयदलं पद्महस्तविराजितम् ।
श्वेतमेवं क्रमाद्देवि षट्चक्रं समुदाहृतम् ॥६०॥

नाभेर् अधस्तान्मेढ्रस्योपरिष्टात् कन्द उच्यते ।
विहंगमाण्डसङ्काशस्तत्र नाडीसमुद्भवः ॥६१॥

सप्ततिद्विसहस्राः स्युस्तासु मुख्या दश स्मृताः ।
इडा च प्रथमा नाडी पिङ्गला च द्वितीयका ॥६२॥

सुषुम्ना च तृतीया स्याद्गान्धारी च चतुर्थिका ।
पञ्चमी हस्तिजिह्वा स्यात्षष्ठी पूषा तरस्विनी ॥६३॥

सप्तम्यलम्बुषा नाडी चाष्टमी च कुहूः स्मृता ।
नवमी शङ्खिनी चैव दशमी च क्रमेण हि ॥६४॥

एतास्तु प्राणवाहिन्यो वायवस्तु जपाः स्मृताः ।
प्राणापानौ तथा व्यानोदानौ चैव समानकः ॥६५॥

नागः कूर्मश्च कृकलो देवदत्तो धनञ्जयः ।
सर्वेषु नाडीचक्रेषु वर्तन्ते दश वायवः ॥६६॥

वामदक्षिणमार्गाभ्यामध ऊर्ध्वं च चञ्चलाः ।
प्राणापानवशो जीवः प्रधावति न दृश्यते ॥६७॥

हस्ताभ्यामाहतो भूमौ कन्दुको न स्थिरो यथा ।
प्राणापानपरिक्षिप्तस्तथा जीवोऽपि न स्थिरः ॥६८॥

प्राणापानसमाकर्षे तथा प्राणमपानतः ।
बहिर्गच्छद्धकारेण सकारेणान्तराविशेत् ॥६९॥

हंसः सोऽहं मनुममुं सदा जीवो जपेत् प्रिये ।
एकविंशत्सहस्रं च षट्शताधिकमीश्वरि ॥७०॥

हंसमन्त्रस्य संख्या स्यादहोरात्रेण सर्वदा ।
हंसाख्योऽयं महामन्त्रो ह्यजपेति प्रकीर्तितः ॥७१॥

जपाख्येयं च गायत्री यमिकैवल्यदायिनी ।
एतत्समं तपो ज्ञानं जपः पुण्यं न किंचन ॥७२॥

अनुच्चार्या ह्यवर्णा च कुण्डलिन्याः समुद्भवा ।
प्राणसंचारिणी ह्येषा ज्ञातव्या योगिभिः सदा ॥७३॥

माता कुण्डलिनी शक्तिः कन्दादूर्ध्वं प्रतिष्ठिता ।
अष्टधा परिवृत्ता च प्रसुप्तभुजगाकृतिः ॥७४॥

ब्रह्मद्वारमुखं सा तु स्वमुखेन पिधाय च ।
तां च प्रबोधयेदादौ वह्नियोगेन पार्वति ॥७५॥

वायुना मनसा सार्धं मध्यनाड्या व्रजेच्छिवे ।
हठादाकुञ्चनाद् ब्रह्मद्वारम् उद्घाटयेत्तु सा ॥७६॥

यथा नयेद्गुणं सूची तद्वद् ब्रह्मबिलं तु सा ।
सुखं पद्मासनासीनः पाणी चोत्तानितौ प्रिये ॥७७॥

अङ्कमध्ये निधायैव चुबुकं वक्षसि न्यसेत् ।
दृढं गुदमुखं गाढम् आकुञ्च्यापानरन्ध्रकम् ॥७८॥

मुहुर्मुहुर्वायुमूर्ध्वं चालयेत्त्वरितं प्रिये ।
प्राणं मुञ्चन्कुण्डलिन्याः प्रभावान्मोक्षवर्त्मजम् ॥७९॥

उपैति सत्प्रबोधं च देवानामपि दुर्लभम् ।
तदोद्भूतैः श्रमजलैः स्वाङ्गानि परिमार्जयेत् ॥८०॥

क्षीराहारी मितान्नाशी कट्वम्ललवणं त्यजेत् ।
जितेन्द्रियो ब्रह्मचारी कुटीस्थः कर्मवर्जितः ॥८१॥

एवमभ्यासनिरतो वत्सरात्सिद्धिमेति सः ।

प्राणायामे मुद्राः

जालन्धरं मूलबन्धम् ओड्डीयाणं च खेचरीम् ॥८२॥

महामुद्रां च यः कुर्यात्स भवेद्देहसिद्धिभाक् ।
एषां वक्ष्ये लक्षणानि गोप्यानि तव शाम्भवि ॥८३॥

जालन्धरबन्धः

जालन्धरं कण्ठसिरासमूहानां च बन्धनम् ।
कृत्वाधो नमयित्वा कं तदा स्यन्दति मूर्धतः ॥८४॥

नभस्तः स्यन्दमाना च सुधा दोग्धौ पतेन्न च ।
न धावति मरुत्तत्र कर्णसंकोचने कृते ॥८५॥

कर्णामयसमूहघ्नं मृत्युघ्नं तत्परं भवेत् ।

मूलबन्धः

मूलबन्धं पार्ष्णिभागाद्योनिस्थानं प्रपीडयेत् ॥८६॥

गुदमाकुञ्चयेद्योगी नयेदूर्ध्वम् अपानकम् ।
एवं कृते मूलबन्धे क्षीयते मलमूलकम् ॥८७॥

प्राणापानौ च संयुक्तौ स्यातां वृद्धोऽपि यौवनम् ।
प्राप्नुयान्मूलबन्धेन मृत्युथोपि विवस्वताम् ॥८८॥

ओड्याणबन्धः

ओड्डियाणे नाभिविवरमूर्ध्वं जठरे दृढम् ।
आकृष्य पश्चिमं तानं बन्धयेत्पवनस्तदा ॥८९॥

विश्रान्तः स्यान्महामाये चोड्याणो ऽयं प्रकीर्तितः ।
मृत्युदावानलो दीप्तो जरारोगाब्धिवाडबः ॥९०॥

खेचरीमुद्रा

आस्यान्तर्विवरे जिह्वां तालुरन्ध्रे प्रवेशयेत् ।
विपरीतां भ्रुवोर्मध्ये पश्येन्निश्चलया दृशा ॥९१॥

एषा हि खेचरी मुद्रा गोपनीयातिदुर्लभा ।
जिह्वा तु खगता यस्मान्मनश्चरति खे ततः ॥९२॥

खेचरीति प्रसिद्धेयं मृत्युरोगजरापहा ।
निद्रा क्षुधा तृषा नास्ति खेचर्या मुद्रितस्य च ॥९३॥

मूर्च्छा भवति साध्वी च कर्मबन्धभयं न हि ।
रमण्या संगतस्यापि रेतो न पतति ध्रुवम् ॥९४॥

यावच्छुक्रं स्थिरं देहे तावत्कालभयं न हि ।
येन बद्धा नभोमुद्रा बीजस्तस्य न गच्छति ॥९५॥

यदि गच्छेत्तस्य बीजो हुताशनमुपैति हि ।
स बीजश्चोर्ध्वमायाति शक्त्या प्रतिहतः स्वयम् ॥९६॥

योनिमुद्रानिबद्धः सन्सा मुद्रा तेन दुर्लभा ।
बीजस्तु द्विविधः प्रोक्तः शुक्रं चैव महारजः ॥९७॥

शिरःस्थानगतं शुक्रं योनिस्थानगतं रजः ।
शुक्रं तु श्वेतवर्णं स्यात्प्रवालाभं रजः स्मृतम् ॥९८॥

शुक्रं चन्द्रगतं नित्यं रजः सूर्येण सङ्गतम् ।
शुक्रं शिवो रजः शक्तिस्तया योगः सुदुर्लभः ॥९९॥

मरुता शक्तिचारेण रजश्चोर्ध्वं प्रणीयते ।
ऐक्यं तद्बिन्दुना याति तदा दिव्यं वपुर्भवेत् ॥१००॥

महामुद्रा

वामाङ्घ्रिमूलभागेन योनिस्थानं प्रपीडयेत् ।
दक्षिणाङ्घ्रिं च विततं हस्ताभ्याम् अभिधारयेत् ॥१०१॥

हनुं वक्षसि निक्षिप्य वायुना जठरं ततः ।
आपूर्य रेचयेद्देवि स्थित्वा बद्धासनो यमी ॥१०२॥

एषा ख्याता महामुद्रा मलसंशोधनी वरा ।
सूर्येन्दू घटयेज्जिह्वाशोषणी पापनाशिनी ॥१०३॥

तथा दक्षिणपादेन योनिस्थानं प्रपीडयेत् ।
वितत्य वामपादं च कराभ्यां धारयेत्प्रिये ॥१०४॥

शेषं पूर्वोक्तवत् कुर्यादेवं सव्यापसव्ययोः ।
भागयोः समकालः स्यादभ्यासस्तां विवर्जयेत् ॥१०५॥

तस्य पथ्यमपथ्यं च षड्रसा नीरसा अपि ।
घोरं विषं वातिसुखं पीयूषमिव जीर्यते ॥१०६॥

गुल्मोदावर्तकुष्ठाद्या रोगा नश्यन्त्यसंशयम् ।
सिद्धिदेयं महामुद्रा कालं हन्ति जराभयम् ॥१०७॥

न प्रकाश्या न देया च यस्मै कस्मैचन प्रिये ।

३. प्रत्याहारः

मुक्तासनस्थितो योगी ऋज्वङ्गग्रीवमस्तकः ॥१०८॥

घोणाग्रलोचनः स्वस्थः कुटीस्थः प्रणवं जपेत् ।
त्रिलोकश्च त्रिकालश्च त्रिदेवास्त्रीश्वरा अपि ॥१०९॥

त्रिज्योतींषीन्दुमुख्यानि त्रिवेदाश्चाग्नयस्त्रयः ।
शक्तित्रयं त्रिपदवी ब्राह्मी चैन्द्री च वैष्णवी ॥११०॥

वर्णत्रयं च भासन्ते यत्र तज्ज्योतिरोमिति ।
तम् ओंकारं च मनसा वचसा कर्मणा तु यः ॥१११॥

ध्यायेज्जपेदभ्यसेच्च स मुक्तो भवबन्धनात् ।
गच्छंस् तिष्ठञ्जपञ्जाग्रच्छुचिर् वाप्यशुचिर् यदि ॥११२॥

न कर्मणा च लिप्तः स्याज्जलेनाब्जदलं यथा ।
वायौ चलति सर्वेऽपि चलन्तीन्द्रियधातवः ॥११३॥

स्थिते वायौ स्थिरे सर्वं वपुःप्रभृति शाम्भवि ।
तस्माद्वायुं निबध्नीयात्स्थिरे वाते स्थिरं मनः ॥११४॥

स्थिरे मनसि जीवश्च स्थिरो भवति भैरवि ।
यावत्संयमितो वायुर्यावच्चेतोऽपि सुस्थिरम् ॥११५॥

बीजं यावद्भ्रुवोर्मध्ये तावत्कालभयं न हि ।
षट्त्रिंशद्व्यङ्गुलं नित्यं ततः प्राणः प्रकीर्तितः ॥११६॥

बद्धपद्मासने स्थित्वा ऋज्वङ्गः स्थिरमानसः ।
वामनासापुटेनैव पूरयेत्प्राणमारुतम् ॥११७॥

यावत्षोडशमात्रं च कुम्भयेद् द्वादश प्रिये ।
रेचयेद्दशमात्रं च दक्षनासापुटेन च ॥११८॥

पुनश्च सूर्यमार्गेण पूरयेत् पूर्ववत्प्रिये ।
कुम्भयित्वा रेचयेच्च वामनासापुटेन च ॥११९॥

प्राणायामविधिः प्रोक्तस्त्रिविधो योगिवन्दिते ।
अधमो मध्यमो देवि ह्युत्तमोऽपि यथाक्रमम् ॥१२०॥

प्रोक्तो ऽयम् अधमस् तस्माद् द्विगुणो मध्यमः स्मृतः ।
उत्तमस्त्रिगुणः प्रोक्तः प्राणायामोऽयमीश्वरि ॥१२१॥

यदा तु वामनासायां पूरयेच्चन्द्रमक्षरम् ।
ध्यायेदमृतवारीशमध्यस्थं क्षीरसन्निभम् ॥१२२॥

यदा तु दक्षनासायां पूरयेत् सूर्यमक्षरम् ।
ज्वलज्ज्वलनसङ्काशं नाभिस्थं चिन्तयेत्सदा ॥१२३॥

एवं बीजद्वयं ध्यात्वा नासारन्ध्रद्वयेन च ।
पूरयेद्यस्तु मतिमान्नाडीशुद्धिरतो भवेत् ॥१२४॥

एवं मासत्रयाभ्यासाद्यथेष्टं वायुधारणम् ।
प्रदीप्तो जाठरो वह्निर्नादव्यक्तिश्च जायते ॥१२५॥

आरोग्यं प्राप्नुयाद्देवि नित्यमभ्यासयोगतः ।
प्रथमेयं न धर्मः स्याद्द्वितीये कम्पते वपुः ॥१२६॥

उत्तिष्ठति तृतीये तु बद्धपद्मासनस्थितेः ।
प्राणायामादिषट्केन प्रत्याहारो भवेच्छिवे ॥१२७॥

तद्द्विषट्केन विधिना धारणा तु प्रशस्यते ।
धारणाद्वादशेन स्याद्ध्यानं तद्द्वादशात्मकः ॥१२८॥

समाधिः कथ्यते देवि तेन दृश्यं परात्परम् ।
तस्मिन्परापरे धाम्नि क्षीयते कर्मसंचयः ॥१२९॥

जन्ममृत्यू न भवतो जरारोगश्च नश्यति ।
युक्तियुक्तेन योगेन चिरायुश्च सुखी भवेत् ॥१३०॥

अयुक्त्याभ्यासनाद्धिक्काकर्णरोगशिरोव्यथा ।
श्वासकासादयो रोगा दोषाः स्युर्बहवस्तथा ॥१३१॥

विपरीतकरणीमुद्रा

सौम्यस्थानात्समायाता द्वाभ्यां चैका तु भुज्यते ।
ततस्तृतीयो यः कश्चित्स स्याज्जन्मजरोज्झितः ॥१३२॥

प्रज्वलज्ज्वलनाकारो नाभिमध्ये स्थितो रविः ।
तालुमध्ये शशी भाति सुधां वर्षत्यधोमुखः ॥१३३॥

तां ग्रसत्यूर्ध्ववदनो भास्करः किरणत्विषा ।
एतस्य विपरीतं यत्करणं विपरीतकम् ॥१३४॥

काकचञ्चुवदास्यं च कृत्वा वायुं ससूत्कृतम् ।
आदाय नासारन्ध्रेण पुनस्तं श्वसनं त्यजेत् ॥१३५॥

शीतलीकरणाख्योऽयं योगस्तु ज्वरपित्तहृत् ।
अमृतं शीतलं तस्य पिबतश्च जरा न हि ॥१३६॥

जिह्वया तालुमूलेन प्राणं यः पिबति प्रिये ।
तस्य षण्मासतः सर्वे रोगा नश्यन्ति योगिनः ॥१३७॥

रसनामूर्ध्वतः कृत्वा सोमं पिबति यः प्रिये ।
सिद्धिर्मासार्ध आयाति रोगास्तस्य न सन्ति हि ॥१३८॥

जिह्वाग्रेण च संपीड्य रसनान्तर्बिलं महत् ।
ध्यात्वामृतझरीमम्बाम् अर्धाब्देन भवेत्कविः ॥१३९॥

अमृताप्लाविततनोर् योगिनो वत्सरत्रयात् ।
रेतश्चोर्ध्वं प्रयात्येव सिध्यन्ति ह्यणिमादयः ॥१४०॥

त्रिविधं गरलं तस्य शरीरे च न संक्रमेत् ।
जरा च मरणं नास्ति दुष्टसत्त्वभयं तथा ॥१४१॥

४. धारणम्

उक्तासनसमारूढः प्राणायामरतः सदा ।
प्रत्याहारप्रसन्नः सन्नभ्यसेद्धारणं ततः ॥१४२॥

चेतसो निश्चलत्वं यद्धारणा सा स्मृता शिवे ।
पृथ्व्यादिपञ्चभूतानां या पृथग्धारणा हृदि ॥१४३॥

चतुरश्रा सुवर्णा सलकारा च हृदि स्थिता ।
ब्रह्मणा सहिता भूमिर्ध्यातव्या पञ्च नाडिकाः ॥१४४॥

प्राणं तत्रैव मनसा धारयेत्सह शांभवि ।
एषा स्तम्भकरी विद्या पृथ्वीजयमवाप्नुयात् ॥१४५॥

अर्धचन्द्रप्रतीकाशं कर्पूरहिमनिर्मलम् ।
कण्ठस्थानगतं नित्यं सुधाप्लुतवकारयुक् ॥१४६॥

जलतत्त्वं च संयुक्तं विष्णुना तत्र धारयेत् ।
प्राणं चित्तेन सहितं ध्यातव्यं पञ्चनाडिकाः ॥१४७॥

एषा हि वारुणी विद्या विषपित्तज्वरापहा ।
ग्रसने कालकूटस्य मयैव परिकल्पिता ॥१४८॥

त्रिकोणं तप्तहेमाभं सरेफं रुद्रदैवतम् ।
तालुस्थानगतं ध्यायेद्वह्नितत्त्वं ज्वलत्प्रभम् ॥१४९॥

तत्रैव पञ्चघटिकाः प्राणं च मनसा सह ।
धारयेन्निहितं योगी ह्येषा वैश्वानरी परा ॥१५०॥

विषाग्निभीतिसंहर्त्री वातश्लेष्मादिरोगहृत् ।
वर्तुलं नीलमेघाभं भ्रुवोर्मध्ये प्रतिष्ठितम् ॥१५१॥

सयकारं वायुतत्त्वं नित्यमीश्वरदैवतम् ।
तत्रैव नाडिकाः पञ्च प्राणं च मनसा सह ॥१५२॥

धारयेद्वायवीयैषा विद्या खगतिदायिनी ।
मृगतृष्णाम्बुसङ्काशं हकारेण समन्वितम् ॥१५३॥

सदाशिवादिदैवं च ब्रह्मरन्ध्रगतं सदा ।
व्योमतत्त्वं निराकाशं शान्तं सर्वगतं प्रिये ॥१५४॥

तत्र प्राणं च संयम्य मनसा सह धारयेत् ।
यावत्स्युः पञ्च घटिका नभोविद्येयमीश्वरि ॥१५५॥

कथिता मोक्षदा देवि योगिनां दुःखहारिणी ।
स्तम्भनी पार्थिवी विद्या प्लावनी वारुणी मता ॥१५६॥

ततो वैश्वानरी विद्या दाहिनीति प्रकीर्तिता ।
वायवी भ्रामणी प्रोक्ता शमनी व्योमरूपिणी ॥१५७॥

क्रमशः पञ्चविद्याश्च धारणीयाः पृथक्पृथक् ।
स्वनामकर्मसदृशं फलं ददति योगिनाम् ॥१५८॥

एषा पञ्चविधा देवि धारणा भुवि दुर्लभा ।

५. ध्यानम्

तत्त्वेषु निश्चला चिन्ता या तद्ध्यानं प्रकीर्त्यते ॥१५९॥

ध्यानं द्विधेति विख्यातं सगुणं निर्गुणं प्रिये ।
सगुणं वर्णसहितं निर्गुणं वर्णवर्जितम् ॥१६०॥

लक्षं च वाजपेयानामश्वमेधसहस्रकम् ।
सकृद्ध्यानस्य योगस्य कलां नार्हन्ति षोडशीम् ॥१६१॥

प्रत्यङ्मना बहिर्दृष्टिर् ऋजुः पद्मासनस्थितः ।
ध्यानयोगः स विज्ञेयः सद्यः सिद्धिप्रदः शुभः ॥१६२॥

मूलाधारे सुवर्णाभे चक्रेऽस्मिन्प्रथमे प्रिये ।
ध्यात्वात्मानं च नासाग्रे लक्षयेद्धन्ति किल्बिषम् ॥१६३॥

स्वाधिष्ठाने च रत्नाभे ह्यात्मानं परिचिन्तयेत् ।
नासाग्रलक्षो दुःखेभ्यो मुच्यते योगिसत्तमः ॥१६४॥

बालारुणाभे चात्मानं चक्रेऽस्मिन्मणिपूरके ।
स्मृत्वा नासाग्रदृष्टिः संस्त्रिजगत्क्षोभयेद्यमी ॥१६५॥

विद्युन्मालानिभे चक्रेऽनाहते हृदयस्थले ।
प्राणायामेन बहुधा साधिते परमेश्वरि ॥१६६॥

आत्मानं चिन्तयेद्यस्तु नासाग्रगतलोचनः ।
भवेद्ब्रह्मसमो योगी वशीकृतमनाः प्रिये ॥१६७॥

घण्टिकायां विशुद्धाख्ये स्वर्णचम्पकसन्निभे ।
घ्राणाग्रदृष्टिरात्मानं ध्यात्वानन्दमयो भवेत् ॥१६८॥

लम्बिकायां सुधापूर्णे चन्द्रमण्डलमण्डिते ।
नासाग्रदृष्टिरात्मानं ध्यात्वानन्दमयो भवेत् ॥१६९॥

भ्रुवोर्मध्येऽञ्जनाकारे ध्यायेदात्मानमीश्वरि ।
जितप्राणो भवेद्योगी योगानन्दमयो भवेत् ॥१७०॥

निर्गुणं निरपायं च शिवं शान्तं परात्परम् ।
विश्वतैजसम् आत्मानं ध्यायेद्भ्रूमध्यलोचनः ॥१७१॥

ब्रह्मानन्दमयो योगी भवत्येव न संशयः ।
आज्ञाचक्रमिति ख्यातं परे व्योम्नि निरामये ॥१७२॥

शिवम् आत्मानमाचिन्त्य भवेज्ज्ञानमयो वशी ।
गगनाकारममलं मृगतृष्णाम्बुसन्निभम् ॥१७३॥

ध्यात्वात्मानं सर्वगतं मोक्षं व्रजति संयमी ।
अपानमेढ्रौ नाभिश्च हृदयं घण्टिका तथा ॥१७४॥

लम्बिका च भ्रुवोर्मध्यं नभश्च ब्रह्मरन्ध्रकम् ।
तव चक्रमिति ख्यातं देयं स्थानं च योगिनाम् ॥१७५॥

धारणा पञ्चघटिका षण्णाडी ध्यानमुच्यते ।
समाधिर्द्वादशाहं स्यात्प्राणसंयमनात्प्रिये ॥१७६॥

६. समाधिः

जलसैन्धवयोर्योगादेकत्वं च यथा भवेत् ।
चित्तात्मनोः सामरस्यं समाधिः स तु कथ्यते ॥१७७॥

मनः प्रलीयते चान्ते यदा प्राणक्षयो भवेत् ।
सामरस्यं तदा स्याच्च समाधिः स तु कथ्यते ॥१७८॥

प्रणष्टाखिलसङ्कल्पो जीवात्मा परमात्मना ।
यदेकत्वं भजेद्देवि समाधिः स तु कथ्यते ॥१७९॥

परापेक्षोज्झितं चित्तमिन्द्रियेषु प्रवर्तते ।
यदा जीवो गतश्चैक्यं तदा नैवेन्द्रियं मनः ॥१८०॥

शब्दं स्पर्शं च रूपं च रसं गन्धं परं तथा ।
आत्मानं च सुखं दुःखं मानामानं प्रियाप्रिये ॥१८१॥

शीताशीतं तथा वातमातपं यो न वेत्ति च ।
न बाध्यते स्वकर्मौघैर्न कैश्चिदपि बाध्यते ॥१८२॥

न शस्त्रैर्बाध्यते मन्त्रैर्यन्त्रैस्तन्त्रैर्न गृह्यते ।
नाग्निना न जलेनापि वायुना न च पीड्यते ॥१८३॥

अवध्यो देहिभिः सर्वैर् माननीयः सुरैरपि ।
आहारे च विहारे च निद्रायाम् अवबोधने ॥१८४॥

सर्वकर्मसु युक्तः सन्स तत्त्वं वेत्ति योगिनि ।
निरालम्बं निराकारमनाद्यन्तं निराश्रयम् ॥१८५॥

अनालयं निष्प्रपञ्चं निष्क्रियं निर्मलं महत् ।
निश्चलं निर्मलं नित्यं निर्गुणं व्योम चिन्मयम् ॥१८६॥

सदानन्दमनन्तं च सर्वगं विभु संततम् ।
एतद्ब्रह्मपदं तत्त्वं विद्धि त्वं विन्ध्यवासिनि ॥१८७॥

अनामये निरालम्बे निरातङ्के महाद्युतौ ।
निराभासे परे तत्त्वे योगयुक्तः प्रलीयते ॥१८८॥

दुग्धे दुग्धं घृते चाज्यमग्नावग्निर्जले जलम् ।
क्षिप्तं व्रजेत्तन्मयत्वं तथा ब्रह्मणि लीयते ॥१८९॥

योगाभ्यासफलम्

मयोदितमिदं सर्वं दिव्यवायुरसायनम् ।
यः सेवेत स पुण्यात्मा कृतकृत्यो जगत्त्रये ॥१९०॥

सर्वयज्ञफलोपेतः स स्नातः सर्वतीर्थके ।
स यशस्वी स योगीन्द्रः स एवामरवन्दितः ॥१९१॥

स एव सिद्धः शुद्धश्च मम तुल्यो वरानने ।
तस्मिन्स्निह्यति मे चेतस्तच्चित्तं मे निवासभूः ॥१९२॥

सफलं जीवितं तस्य पूतं तदुभयं कुलम् ।
तत्पदन्यासमात्रेण धरित्री पावनीकृता ॥१९३॥

यत्रोषितं क्षणं तेन पुण्यक्षेत्रं हि सा मही ।
धन्या तज्जनयित्री च पुण्यस्तज्जनकः प्रिये ॥१९४॥

तद्दर्शनात्सजीवाः स्युः शूलप्रोतादयः शवाः ।
तद्वाक्येनैव सर्वेऽपि लभन्तेऽपि शुभाशुभम् ॥१९५॥

तन्मूत्रमलसंस्पर्शाल्लोहा यान्ति सुवर्णताम् ।
किं पुनः कथ्यते देवि मम तुल्यपराक्रमः ॥१९६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:47.1270000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

adminiatrative change

  • प्रशासनिक परिवर्तन 
  • प्रशासनिक बदल 
RANDOM WORD

Did you know?

पुष्पे पत्रे, किती काळाने शिळी ( निर्माल्य ) होतात ? पूजेत वापरू नयेत?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site