TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसविद्या - भाग २६

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग २६
यन्त्राणि

रसो नियन्त्र्यते येन यन्त्रं तदिति कथ्यते ।

१. खल्वयन्त्रम्

खल्वयन्त्रं द्विधा प्रोक्तं मर्दनादिककर्मणि ॥१॥

खल्वं लोहमयं देवि पाषाणोत्थमथापि वा ।
खल्वयोग्या शिला नीला श्यामा स्निग्धा दृढा गुरुः ॥२॥

खल्वयन्त्रं द्विधा प्रोक्तं रसादिमुखमर्दने ।
षोडशाङ्गुलिकोत्सेधा नवाङ्गुलिसुविस्तरा ॥३॥

चतुर्विंशाङ्गुलीदीर्घघर्षणी द्वादशाङ्गुला ।
विंशत्यङ्गुलदीर्घा वा स्यादुत्सेधे दशाङ्गुला ॥४॥

खल्वप्रमाणं तज्ज्ञेयं श्रेष्ठं स्याद्रसमर्दने ।
षोडशाङ्गुलविस्तारः खल्वो भवति वर्तुलः ॥५॥

चतुरङ्गुलनिम्नं च मध्ये ऽतिमसृणीकृतम् ।
मर्दनी चिपिटाधस्तात् सुग्रहा च शिखोपरि ॥६॥

अयं हि वर्तुलः खल्वो मर्दनेऽतिसुखप्रदः ।
अयसा कान्तलोहेन लोहखल्वमपीदृशम् ॥७॥

अधस्ताद् द्रोणिका कार्या वह्निप्रज्वालनोचिता ।
उत्सेधेन नवाङ्गुलः खलु कलातुल्याङ्गुलायामवान् विस्तारेण नवाङ्गुलो रसमितैर् निम्नैस्तथैवाङ्गुलैः ।
कण्ठे द्व्यङ्गुलविस्तरोऽतिमसृणो द्रोणार्धचन्द्राकृतिर् घर्षश्चैव दशाङ्गुलश्च तदिदं खल्वाख्ययन्त्रं मतम् ॥८॥

अस्मिन्पञ्चपलः सूतो मर्दनीयो विशुद्धये ॥९॥

तत्तदौचित्ययोगेन खल्वेष्वन्येषु शोधयेत् ।

तप्तखल्वः

लोहे नवाङ्गुलः खल्वो निम्नश्चैव षडङ्गुलः ॥१०॥

मर्दकोऽष्टाङ्गुलश्चैव तप्तखल्वाभिधो ह्ययम् ।
कृत्वा खल्वाकृतिं चुल्लीमङ्गारैः परिपूर्य ताम् ॥११॥

तस्मिन्निवेश्य तं खल्वं पार्श्वे भस्त्रिकया धमेत् ।
तस्मिन्विमर्दिता पिष्टिः क्षाराम्लैश्च सुसंयुता ॥१२॥

प्रद्रवत्यतिवेगेन स्वेदिता नात्र संशयः ।
कृतः कान्तायसा सोऽयं भवेत्कोटिगुणो रसः ॥१३॥

२. खवलभीयन्त्रम् (वलभीयन्त्रं वा)

यन्त्रे लोहमये पात्रे पार्श्वयोर्वलयद्वयम् ।
तादृक् स्वल्पतरं पात्रं वलयद्योतकोष्ठकम् ॥१४॥

पूर्वपात्रोपरि न्यस्य स्वल्पपात्रोपरि क्षिपेत् ।
रसं संमूर्छितं स्थूलपात्रमापूर्य काञ्जिकैः ॥१५॥

द्वियामं स्वेदयेदेवं रसोत्थापनहेतवे ।
तत्स्यात् खवलभीयन्त्रं रससाद्गुण्यकारकम् ॥१६॥

सूक्ष्मकान्तमये पात्रे रसः स्याद्गुणवत्तरः ।

३. ऊर्ध्वपातनयन्त्रम्

अष्टाङ्गुलमिता सम्यक् वर्तुला चिपिटा तले ॥१७॥

चतुरङ्गुलतः कण्ठादधो द्रोण्या समन्विता ।
चतुरङ्गुलविस्तारा निम्नया दृढबद्धया ॥१८॥

तद्विधा च घटी मूले षोडशाङ्गुलविस्तृता ।
नवाङ्गुलकविस्तारकर्णेन च समन्विता ॥१९॥

पूर्वे घटे रसं क्षिप्त्वा न्युब्जां दद्यात्परां घटीम् ।
सोर्ध्वं निम्ना च परितो दृढपालिकयान्विता ॥२०॥

पाल्यां द्रोण्यां क्षिपेत्तोयं पावकं ज्वालयेदधः ।
ऊर्ध्वपातनयन्त्रं हि नन्दिना परिकीर्तितम् ॥२१॥

४. अधःपातनयन्त्रम्

उपरिष्टात्तु तत्स्थाल्यां क्षिपेदन्यामधोमुखीम् ।
स्थालिकां चिपिटीभूतां तलान्तर्लिप्तपारदाम् ॥२२॥

क्षिप्त्वा तत्पङ्किले गर्ते ज्वालयेन्मूर्ध्नि पावकम् ।
अधःपातनयन्त्रं हि तदेतत्परिकीर्तितम् ॥२३॥

५. तिर्यक्पातनयन्त्रम्

क्षिपेद्रसं घटे दीर्घे नताधोनालसंयुते ।
तन्नालं निक्षिपेदन्यघटकुक्ष्यन्तरे खलु ॥२४॥

तत्र रुद्ध्वा मृदा सम्यग्वदने घटयोरधः ।
अधस्ताद्रसकुम्भस्य ज्वालयेत्तीव्रपावकम् ॥२५॥

इतरस्मिन् घटे तोयं प्रक्षिपेत्स्वादुशीतलम् ।
तिर्यक्पातनमेतद्धि वार्तिकैरभिधीयते ॥२६॥

पातनात्रितयस्योक्तं यन्त्राणां त्रितयं खलु ।
पातनैश्च विना सूतो नितरां दोषमृच्छति ॥२७॥

त्रिभिरेवोर्ध्वपातैः स कस्माद्दोषैर्न मुच्यते ।
द्विविभागेन विपाकेन द्रव्यान् अन्योन्ययोगतः ॥२८॥

पात्रान्तरपरिक्षेपाद्गुणाः स्युर् विविधाः खलु ।
खण्डान्युलूखलांभोभिस् तण्डुलास्युर्जलोज्झिताः ॥२९॥

पातनैव महाशुद्धिस्तण्डुली परिकीर्तिता ।

६. कच्छपयन्त्रम्

विशालवदने भाण्डे तोयपूर्णे निवेशयेत् ॥३०॥

अपरं पृथुलं सम्यक् प्रतरस्तस्य मध्यमे ।
आलवालं बिडैः कृत्वा तन्मध्ये पारदं क्षिपेत् ॥३१॥

ऊर्ध्वाधश्च बिडं दत्त्वा मल्लेनारुध्य यत्नतः ।
पुटमौचित्ययोगेन दीयते तन्निगद्यते ॥३२॥

यन्त्रं कच्छपसंज्ञं हि तदुक्तं रसजारणे ।

७. आन्तरालिकयन्त्रम्

कृत्वा लोहमयीं मूषां वर्तुलाधारकारिणीम् ॥३३॥

वितस्त्या समितां कान्तलोहेन परिनिर्मिताम् ।
मुण्डलोहोद्भवां वापि कण्ठाधो द्व्यङ्गुलादधः ॥३४॥

द्व्यङ्गुलं वलयं दद्यान्मध्यदेशे च कण्ठतः ।
पिधानधारकं चिञ्चापत्रविस्तीर्णकङ्कणम् ॥३५॥

पिधानमन्तराविष्टं सशिखं श्लिष्टसन्धिकम् ।
तले प्रविहतच्छिद्रं भाण्डं कृत्वा ह्यधोमुखम् ॥३६॥

यन्त्रेणालम्बयेन्मूर्ध्नि निरुध्य च विशोष्य च ।
स्थालीकण्ठं ततो दद्यात्पुटानलविधारणम् ॥३७॥

एवंरूपं भवेद्यन्त्रम् आन्तरालिकसंज्ञकम् ।
अनेन जारयेद्गन्धं द्रुतिं गर्भकृतामपि ॥३८॥

८. तापिकायन्त्रम्

तापीमूषां मृदा कृत्वा दृढां चारत्निमात्रिकाम् ।
सुदृढां मध्यदेशे च द्व्यङ्गुलच्छिद्रसंयुताम् ॥३९॥

कान्तलोहमयीं खारीं दद्याद्द्रव्यस्य चोपरि ।
तापिकां पूरयेच्छुद्धसिकताभिः समन्ततः ॥४०॥

तां च चुल्ल्यां समारोप्य क्षेपं क्षेपं बिडद्रवम् ।
पादाङ्गुष्ठमितां ज्वालां ज्वालयेदनलं ततः ॥४१॥

लोहाभ्रकादिकं सर्वं रसस्योपरि जारयेत् ।
तापिकायन्त्रमित्युक्तं सुकरं रसजारणे ॥४२॥

९. गर्भयन्त्रम्

स्थाल्यां विनिक्षिप्य रसादिवस्तु स्वर्णादि खोर्यां प्रविधाय भूयः ।
अम्लेन चोर्ध्वं लवणानि दत्त्वा चुल्ल्यां पचेत्तत्प्रतिगर्भयन्त्रम् ॥४३॥

गर्भयन्त्र

खोरीमल्लं ततः स्थालीं निरुन्ध्याद् अतियत्नतः ।
स्थाल्यां मल्लेन वा खोर्यां क्षिप्त्वा वस्तु निरुध्य च ॥४४॥

क्षिप्त्वा पट्टादिकं रुद्ध्वा पाकः स्याद्गर्भयन्त्रकम् ।

१०. पालिकायन्त्रम्

चषकं वर्तुलं लोहं विनताग्रोर्ध्वदण्डकम् ॥४५॥

एतद्धि पालिकायन्त्रं बलिजारणहेतवे ।

११. घटीयन्त्रम्

चतुःप्रस्थजलाधारं चतुरङ्गुलकाननम् ॥४६॥

घटीयन्त्रमिदं प्रोक्तं तदाप्यायनके स्मृतम् ।

१२. इष्टिकायन्त्रम्

विधाय वर्तुलं गर्तं मल्लमत्र निधाय च ॥४७॥

विनिधायेष्टकां तत्र मध्यगर्तवतीं शुभाम् ।
गर्तस्य परितः कुर्यात्पालिकामङ्गुलोच्छ्रयाम् ॥४८॥

तत्र सूतं विनिक्षिप्य गर्तास्ये वसनं क्षिपेत् ।
निक्षिपेद्गन्धकं तत्र मल्लेनास्यं निरुध्य च ॥४९॥

मल्लपालिकयोर्मध्ये मृदा सम्यङ्निरुध्य च ।
वनोत्पलैः पुटं देयं कपोताख्यं न चाधिकम् ॥५०॥

इष्टिकायन्त्रम् एतत्स्याद्गन्धकं तेन जारयेत् ।

१३. विद्याधरयन्त्रम्

स्थालिकोपरि विन्यस्य स्थालीं सम्यङ्निरुध्य च ॥५१॥

ऊर्ध्वस्थाल्यां जलं क्षिप्त्वा वह्निं प्रज्वालयेदधः ।
एतद्विद्याधरं यन्त्रं हिङ्गुलाकृष्टिहेतवे ॥५२॥

१४. डमरुकयन्त्रम्

यन्त्रं स्थाल्युपरि स्थालीं न्युब्जां दत्त्वा निरुध्यते ।
यन्त्रं डमरुकाख्यं तद्रसबन्धकृते हितम् ॥५३॥

१५. नाभियन्त्रम्

मल्लमध्ये चरेद्गर्तं तत्र सूतं सगन्धकम् ।
गर्तस्य परितः कुड्यं प्रकुर्यात्त्र्यङ्गुलोच्छ्रितम् ॥५४॥

ततश्चाच्छादयेत्सम्यग्गोस्तनाकारमूषया ।
सम्यक्तोयमृदा रुद्ध्वा सम्यगत्रोच्यमानया ॥५५॥

जलमृत्स्ना

लेहवत् कृतबर्बूरक्वाथेन परिमिश्रितम् ।
जीर्णकिट्टरजः सूक्ष्मं गुडचूर्णैः समन्वितम् ॥५६॥

इयं हि जलमृत्प्रोक्ता दुर्भेद्या सलिलैः खलु ।

वह्निमृत्स्ना

खटिकापटुकिट्टैश्च महिषीदुग्धमर्दितैः ॥५७॥

वह्निमृत्सा भवेद्घोरवह्नितापसहा खलु ।
एतयोर्मृत्स्नयो रुद्धो न गन्तुं क्षमते रसः ॥५८॥

नाभियन्त्र (चोन्त्.)

ततो जलं विनिक्षिप्य वह्निं प्रज्वालयेदधः ।
नाभियन्त्रमिदं प्रोक्तं नन्दिना तत्त्ववेदिना ॥५९॥

अनेन जीर्यते सूते निर्धूमः शुद्धगन्धकः ।

१६. ग्रस्तयन्त्रम्

मूषा मूषोदराविष्टा आद्यन्तसमवर्तुला ॥६०॥

चिपिटा च तले प्रोक्तं ग्रस्तयन्त्रं मनीषिभिः ।
सूतेन्द्रबन्धनार्थं हि रसविद्भिरुदीरितम् ॥६१॥

१७. तुलायन्त्रम्

वृन्ताकाकारमूषे द्वे तयोः कण्ठादधः खलु ।
प्रादेशमात्रां नलिकामृज्वीं लग्नां सगन्धकाम् ॥६२॥

तत्रैकस्यां क्षिपेत्सूतमन्यस्यां गन्धचूर्णकम् ।
निरुध्य मूषयोर्वक्त्रं वालुकायन्त्रके क्षिपेत् ॥६३॥

अधोऽग्निं ज्वालयेदेतत्तुलायन्त्रमुदाहृतम् ।
शिलातालकगन्धाश्मजारणाय प्रकीर्तितम् ॥६४॥

१८. स्थालीयन्त्रम्

स्थाल्यां ताम्रादि निक्षिप्य मल्लेनास्यं निरुध्य च ।
पच्यते स्थालिसंस्थं यत्स्थालीयन्त्रमिति स्मृतम् ॥६५॥

१९ कोष्ठिकायन्त्रम्

स्थूलभाण्डोदरस्यान्तर्वालुकां निक्षिपेच्छुभाम् ।
वितस्तिप्रमितोत्सेधां ततस्तत्र निवेशयेत् ॥६६॥

सुपक्वां मृण्मयीं कोष्ठीं द्वादशाङ्गुलकोच्छ्रयाम् ।
षडङ्गुलकविस्तीर्णां मध्येऽतिमसृणीकृताम् ॥६७॥

पञ्चाङ्गुलपिधानं च तीक्ष्णाग्रं मुकुलीकृतम् ।
न न्यूनं नाधिकं कोष्ठे कण्ठतो मसृणा बहिः ॥६८॥

कोष्ठ्यां च निक्षिपेद्गन्धं षट्पलं श्लक्ष्णचूर्णितम् ।
ततस्त्रैपादिकीं लौहीं निवेश्य च स्थिरीकृताम् ॥६९॥

तस्यां च विन्यसेत्खोरीं लौहीं वा कान्तलोहजाम् ।
तस्यां सूतं क्षिपेच्छुद्धं पलविंशतिमानतः ॥७०॥

टङ्कगन्धकसूतं च भावयेल्लशुनद्रवैः ।
अधःशिखेन पूर्वोक्तपिधानेन पिधाय च ॥७१॥

संधिबन्धं प्रकुर्वीत सुधामृत्स्नागुडादिभिः ।
सन्धिबन्धे विशुष्के च क्षिपेदुपरि वालुकाम् ॥७२॥

भाण्डवक्त्रं निरुध्याथ ज्वालयेत्तदधोऽनलम् ।
एवं यामत्रयं यावत्ततो गन्धकसम्भवः ॥७३॥

पिधानलग्नधूमोऽसौ गलित्वा निपतेद्रसे ।
एवं च षड्गुणं गन्धं भुक्त्वा सूतो ऽरुणो भवेत् ॥७४॥

करोति कल्पनिर्दिष्टान्विशिष्टानखिलान्गुणान् ।
कोष्ठिकायन्त्रमेतद्धि नन्दिना परिकीर्तितम् ॥७५॥

२०. वालुकायन्त्रम्

पञ्चाढवालुकाचूर्णं भाण्डे निक्षिप्य यत्नतः ।
पच्यते रसगोलाद्यं वालुकायन्त्रकं हि तत् ॥७६॥

२१. लवणयन्त्रम्

एवं लवणनिक्षेपात्प्रोक्तं लवणयन्त्रकम् ।

२२. धूपयन्त्रम्

विधायाष्टाङ्गुलं पात्रं लोहमष्टांगुलोच्छ्रयम् ॥७७॥

कण्ठाधो द्व्यङ्गुले देशे जाताधारं च तत्र च ।
तिर्यग्लोहशलाकां च तस्मिंस्तिर्यग्विनिक्षिपेत् ॥७८॥

तनूनि स्वर्णपत्राणि तस्यामुपरि विन्यसेत् ।
पात्राधो निक्षिपेद्धूपं वक्ष्यमाणमिहैव हि ॥७९॥

तत्पात्रं न्युब्जपात्रेण छादयेदपरेण हि ।
मृदा विलिप्य सन्धिं च वह्निं प्रज्वालयेदधः ॥८०॥

तेन कृष्णानि पत्राणि हतान्युक्तविधानतः ।
रसश्चरति वेगेन द्रुतिं गर्भे द्रवन्ति च ॥८१॥

गन्धालकशिलानां हि कज्जल्या वा मृताहिना ।
धूपनं स्वर्णपत्राणां परमं परिकीर्तितम् ॥८२॥

तारार्थं तारपत्राणि मृतवङ्गेन धूपयेत् ।
धूपयेच्च यथायोगं रसैरुपरसैरपि ॥८३॥

धूपयन्त्रमिदं प्रोक्तं जारणाद्रव्यशोधने ।

२३. कन्दुकयन्त्रम्

स्थूलस्थाल्यां द्रवं क्षिप्त्वा वासो बद्ध्वा मुखे दृढम् ॥८४॥

तत्र स्वेद्यं विनिक्षिप्य मृदास्यं प्रपिधाय च ।
अधस्ताज्ज्वालयेदग्निं यन्त्रं तत्कन्दुकाह्वयम् ॥८५॥

२४. ढेकीयन्त्रम्

भाण्डकण्ठादधश्छिद्रे वेणुनालं विनिक्षिपेत् ।
कान्तकांस्यपात्रद्वयं कृत्वा सम्पुटं जलगर्भितम् ॥८६॥

नालास्यं तत्र संयोज्यं दृढं तच्चापि कारयेत् ।
युक्तद्रव्यैर् विनिक्षिप्तः पूर्वं तत्र पुटे रसः ॥८७॥

अग्निना तापितो नालात्तोये तस्मिन्पतत्यधः ।
यावदुष्णं भवेत्सर्वं भाजनं तावदेव हि ॥८८॥

जायते रससंधानं ढेकीयन्त्रमिदं भवेत् ।

२५. सोमानलयन्त्रम्

ऊर्ध्वं वह्निरधश्चापो मध्ये तु रससङ्ग्रहः ॥८९॥

सोमानलमिदं प्रोक्तं जारयेद्गगनादिकम् ।

२६. नालिकायन्त्रम्

लोहनालगतं सूतं भाण्डे लवणपूरितम् ॥९०॥

निरुद्धं विपचेदेतन्नालिकायन्त्रमीरितम् ।

२७. पातालयन्त्रम्

सुसंधिसंधितं कृत्वा दिव्यभाण्डे तु सम्मुखम् ॥९१॥

अष्टाङ्गुलमुखं तं तु दीर्घं स्यात्षोडशाङ्गुलम् ।
सुसंधिसंधितं कृत्वा वस्त्रमृत्तिकालेपनम् ॥९२॥

तत्र पातालयन्त्रे तु सूतकादि निपातयेत् ।

२८. दीपिकायन्त्रम्

कच्छपयन्त्रान्तर्गतमृण्मयपीठस्थदीपिकासंस्थः ॥९३॥

यस्मिन्निपतति सूतः प्रोक्तं तद् दीपिकायन्त्रम् ।

२९. गङ्गासागर(भट्टी)यन्त्रम्

द्वादशाङ्गुलमुत्सेधं षोडशाङ्गुलमायतम् ॥९४॥

ताम्रीयं मृण्मयं वाथ सुश्लक्ष्णं चिपिटं शुभम् ।
पात्रं कर्णादधो द्रोणीं द्व्यङ्गुलोत्सेधमात्रकाम् ॥९५॥

द्रोण्यां पात्रं न्यसेद् अन्यत्तावन्मात्रं सुसंधितम् ।
न्युब्जं सन्धौ तयोर्नालं कुर्याद्गोमुखसन्निभम् ॥९६॥

पाच्यद्रव्यमधः पात्रे द्रवद्रव्येण योजितम् ।
क्षिप्त्वा निधाय मृत्संधिं यन्त्रोर्ध्वे जलसेचनम् ॥९७॥

चुल्ल्यामारोप्य तद्यन्त्रं चण्डाग्निं ज्वालयेदधः ।
तस्मान्नान्यद्विनिर्याति तत्तद्द्रव्याश्रितो रसः ॥९८॥

गङ्गासागरयन्त्रं हि भट्टियन्त्रमिदं स्मृतम् ।
गुडपुष्पफलादीनाम् आहरेद् द्रुतिमुत्तमाम् ॥९९॥

३०. डो(दो)लायन्त्रम्

द्रवद्रव्येण भाण्डस्य पूरितार्धोदरस्य च ।
मुखे तिर्यक्कृते दण्डे रसं सूत्रेण लम्बितम् ॥१००॥

स्वेदयेत्तत्तलगतं डोलायन्त्रमिति स्मृतम् ।

३१. कोष्ठीयन्त्रम्

चुल्लीं चतुर्मुखीं कृत्वा तत्र भाण्डं निवेशयेत् ॥१०१॥

तत्रौषधं विनिक्षिप्य रुद्ध्वा तद्भाण्डकाननम् ।
कोष्ठीयन्त्रमिदं नाम्ना तत्रत्यैः परिकीर्तितम् ॥१०२॥

३२. गर्भयन्त्रम्

त्र्यङ्गुलां परिणाहेन दैर्घ्येण चतुरङ्गुलाम् ।
मृण्मयीं सुदृढां मूषां वर्तुलं कारयेन्मुखम् ॥१०३॥

लोणस्य विंशतिं भागान्भागमेकं तु गुग्गुलोः ।
सुश्लक्ष्णं पेषयित्वा तु वारं वारं पुनः पुनः ॥१०४॥

मूषालेपं दृढं कृत्वा लवणार्धमृदा बुधः ।
कारीषे वा तुषाग्नौ वा भूमौ तु स्वेदयेन्मृदु ॥१०५॥

अहोरात्रं त्रिरात्रं वा रसेन्द्रो भस्मतां व्रजेत् ।
गर्भयन्त्रमिदं प्रोक्तं पिष्टिकाभस्मकारकम् ॥१०६॥

३३. हंसपाकयन्त्रम्

खर्परं सिकतापूर्णं कृत्वा तस्योपरि न्यसेत् ।
अपरं खर्परं तत्र शनैर्मृद्वग्निना पचेत् ॥१०७॥

पञ्चक्षारैस्तथा मूत्रैर्लवणैश्च बिडं ततः ।
हंसपाकः समाख्यातो यन्त्रं तद्वार्तिकोत्तमैः ॥१०८॥

३४. मूषायन्त्रम्

लोहमूषाद्वयं कृत्वा द्वादशाङ्गुलमानतः ।
मूषयोर् मुखयोर्नालं दत्त्वा सम्यङ्निरोधयेत् ॥१०९॥

एकस्यां सूतकं शुद्धमन्यस्यां शुद्धगन्धकम् ।
देयं जलं सूतकाधो वह्निं गन्धोपरि क्षिपेत् ॥११०॥

जारयेत्षड्गुणं गन्धम् अनेनैव क्रमेण हि ।
मूषायन्त्रमिदं ज्ञेयं सिद्धनागार्जुनेरितम् ॥१११॥

३५. स्तनयन्त्रम्

कान्तलोहमयं पात्रमायतं द्वादशाङ्गुलम् ।
दीर्घमष्टाङ्गुलं देवि पात्राधस्त्र्यङ्गुलं शुभम् ॥११२॥

निम्नं पात्रं पिधानीं च लोहोत्थां चिपिटां शुभाम् ।
स्तनयन्त्रमिदं सूतपिष्टीनां जारणे वरम् ॥११३॥

३६. नागमायूरयन्त्रम्

वृन्ताकमूषायुगलं पद्मवर्तलोहेन कारयेत् ।
एकस्यां निक्षिपेत्सूतमन्यस्यां गरलं क्षिपेत् ॥११४॥

नागाकारं वक्त्रनालं विषमूषामुखे न्यसेत् ।
मयूराकारनालं हि रसमूषामुखे न्यसेत् ॥११५॥

मयूरवदने नागमुखं संयोजयेत्सुधीः ।
सन्धित्रयं वज्रमृदा लेपं कुर्याद्यथा दृढम् ॥११६॥

सलिलं रसमूषाधो विषाधोऽङ्गारपावकः ।
नागमायूरयन्त्रं हि विषधूपे वरं प्रिये ॥११७॥

३७. चक्रयन्त्रम्

हस्तमात्रायतं गर्तं वितस्तिद्वयनिम्नकम् ।
कोष्ठीं गर्तस्य मध्ये तु द्वादशांगुलमायताम् ॥११८॥

वितस्तिद्वयम् उत्सेधां कोष्ठ्यामापूरयेच्छुभाम् ।
वालुकां तद्बहिश्छाणवह्निं कोष्ठ्यां रसं प्रिये ॥११९॥

चक्रयन्त्रमिदं सूतभस्मकर्मणि शस्यते ।

३८. खेचरयन्त्रम्

सुस्थाल्यां कदलीपुष्पनिभां सच्छिद्रमूषिकाम् ॥१२०॥

अधोमुखीं प्रकुर्वीत लिपेद्वज्रमृदा दृढम् ।
उपरिष्टाद् अधोवक्त्रां स्थालीमन्यां सुसंधिताम् ॥१२१॥

मूषायां वत्सनाभं तु निक्षिपेद् ऊर्ध्वभाजने ।
रसं विलेपयेद्युक्त्या यन्त्रोर्ध्वं कैतवो रसः ॥१२२॥

अधो मृद्वग्निना पाकस्त्वेतत् खेचरयन्त्रकम् ।
प्रायः सिद्धरसेन्द्रस्य विषधूपे वरं प्रिये ॥१२३॥

३९. कापालियन्त्रम्

स्थाल्यां सूतादिकान्क्षिप्त्वा हेमरूप्यादि खोरिकाम् ।
न्युब्जां सन्धिं मृदा लिप्त्वा वालुकां खोरिकान्तगाम् ॥१२४॥

कृत्वा मृद्वग्निना पाकस्त्वेतत् कापालियन्त्रकम् ।

४०. वालुकायन्त्रम्

सरसां गूढवक्त्रां च मृद्वस्त्राङ्गुलसंयुताम् ॥१२५॥

शोषितां काचकलशीं पूरयेत्त्रिषु भागयोः ।
भाण्डे वितस्तिगम्भीरे वालुकासु प्रतिष्ठिता ॥१२६॥

भागस्य पूरयित्रीभिर् अन्याभिर् अवकुण्ठयेत् ।
भाण्डवक्त्रं मणिकया सन्धिं लिम्पेन्मृदा पचेत् ॥१२७॥

चुल्ल्यां तृणस्य चादाहान्मणिकापृष्ठवर्तिनः ।
एतद्धि वालुकायन्त्रं रसगोलादिकान्पचेत् ॥१२८॥

४१. लवणयन्त्रम्

एवं लवणनिक्षेपात्प्रोक्तं लवणयन्त्रकम् ।
अन्तःकृतरसालेपताम्रपात्रमुखस्य च ॥१२९॥

लिप्त्वा मृल्लवणेनैव सन्धिं भाण्डतलस्य च ।
तद्भाण्डं पटुनापूर्य क्षारैर्वा पूर्ववत्पचेत् ॥१३०॥

४२. भूधरयन्त्रम्

वालुकागूढसर्वाङ्गां यन्त्रे मूषां रसान्विताम् ।
दीप्तोत्पलैः संवृणुयाद्यन्त्रं तद्भूधराह्वयम् ॥१३१॥

४३. नालिकायन्त्रम्

कुम्भस्य पार्श्वे सुषिरं कुर्यादङ्गुष्ठमात्रकम् ।
तावत् स्थूलम् अयोनालं वेणुनालमथापि वा ॥१३२॥

छिद्रे संयोजयेन्नालं नालाग्रे घटिकां न्यसेत् ।
कुम्भे सर्जादिनिर्यासं क्षिप्त्वा वक्त्रं निरोधयेत् ॥१३३॥

अधोऽग्निं ज्वालयेदेतन्नालिकायन्त्रमुच्यते ।

४४. पुटयन्त्रम्

शरावसम्पुटान्तस्थं करीषेष्वग्निमानवित् ॥१३४॥

पचेत चुल्ल्यां यामं वा रसं तत्पुटयन्त्रकम् ।

४५. पातालयन्त्रम्

विशालवदनां स्थालीं गर्ते सजलगोमये ॥१३५॥

विन्यस्य वदनान्तश्च पूरयेदपरं घटम् ।
पञ्चसच्छिद्रसहितां स्थालीं वक्त्रे निवेशयेत् ॥१३६॥

तद्घटं पूरयेत् तैलपात्यंद्रव्यैर् निरोधयेत् ।
भाण्डवक्त्रं शरावेण पुटं दद्यात्समन्ततः ॥१३७॥

छिद्रेभ्यः पतितं तैलं तत्तद्योगेषु योजयेत् ।
इदं पातालयन्त्रं हि सर्वतैलं निपातयेत् ॥१३८॥

काष्ठत्वग्बीजमांसास्थिवंशतलं समाहरेत् ।

४६. धूपयन्त्रम्

स्थाल्यां लद्दिं खरादीनां क्षिप्त्वास्ये कांस्यपात्रकम् ॥१३९॥

सजलं विन्यसेद्देवि वह्निं प्रज्वालयेदधः ।
कान्तपात्रस्थितं तैलं सर्वव्रणविरोपणम् ॥१४०॥

धूपयन्त्रमिदं देवि नन्दिना परिकीर्तितम् ।

४७. अधःपातनयन्त्रम्

वृत्तालाबुसमस्थूलं दीर्घनालं सरन्ध्रकम् ॥१४१॥

तस्मिन्क्षिपेत्तैलपात्यद्रव्यं बीजादिकं प्रिये ।
तन्मुखे निक्षिपेत्केशान्विन्यसेत्तदधोमुखम् ॥१४२॥

सच्छिद्रे च घटे नालं भाण्डच्छिद्रे निवेशयेत् ।
घटमध्ये पुटं दद्यान्नालाधो घटिकां न्यसेत् ॥१४३॥

अधःपातनयन्त्रं हि श्रेष्ठं स्यात्तैलपातने ।

४८. अन्यत् अधःपातनयन्त्रम्

विशालकांस्यपात्रान्तर्न्यसेदुत्तम्भनं समम् ॥१४४॥

तदूर्ध्वे मृण्मयं पात्रं सुदृढं चतुरङ्गुलम् ।
विन्यसेदपरं पात्रं संतप्तं पूर्वपात्रके ॥१४५॥

विन्यस्य तस्मिन् श्रीखण्डकृष्णागरुमधुप्लुतम् ।
एवं द्वितीयं पात्रं तु तृतीयमपि तद्विधम् ॥१४६॥

उपर्युपरि विन्यस्य तदूर्ध्वं मृत्कटाहकम् ।
न्युब्जं न्यसेत्कांस्यपात्रे कटाहं मार्जयेज्जलैः ॥१४७॥

अधःपातनयन्त्रं हि गन्धतैलं निपातयेत् ।

मूषा

मूषा हि क्रौञ्चिका प्रोक्ता कुमुदी करहाटिका ॥१४८॥

पाचनी वह्निमित्रा च रसवादिभिरिष्यते ।
मुष्णाति दोषान्मूषेयं सा मूषेति निगद्यते ॥१४९॥

उपादानं भवेत्तस्या मृत्तिका लोहमेव च ।
मूषामुखविनिष्क्रान्ता वरम् एकापि काकिनी ॥१५०॥

दुर्जनप्रणिपातेन धिग्लक्षमपि मानिनाम् ।

संधिलेप

मूषापिधानयोर्बन्धे रन्ध्राणं सुविलेपयेत् ॥१५१॥

अन्ध्रणं रन्धनं चैव संश्लिष्टं सन्धिबन्धनम् ।

मूषार्थे श्रेष्ठा मृत्

मृत्तिका पाण्डुरस्थूलशोणपाण्डुरमूषरा ॥१५२॥

चिराध्मानसहा सा हि मूषार्थमतिशस्यते ।
तदभावे च वाल्मीकी कौलाली वा समीर्यते ॥१५३॥

या मृत्तिका दग्धतुषैः शणेन शिखित्रकैर्वा हयलद्दिना च ।
लोहेन दण्डेन च कुट्टिता सा साधारणा स्यात्खलु मूषिकार्थम् ॥१५४॥

श्वेताश्मानस्तुषा दग्धाः शिखित्राः शणकर्पटम् ।
लद्दिकिट्टं यथायोगं संयोज्या मूषिकामृदि ॥१५५॥

वज्रमूषा

मृदस्त्रिभागं शणलद्दिभागौ नागश्च निर्दग्धतुषोपलादेः ।
किट्टार्धभागं परिखण्ड्य वज्रमूषां विदध्यात्खलु सत्त्वपाते ॥१५६॥

योगमूषा

दग्धाङ्गारतुषोपेतमृत्स्ना वल्मीकसम्भवा ।
तत्तद्बिडसमायुक्ता तत्तद्बिडविलेपिता ॥१५७॥

तया या विहिता मूषा योगमूषेति कथ्यते ।
अनया साधितः सूतो जायते गुणवत्तरः ॥१५८॥

वज्रद्रावणमूषा

गारभूनागधौताभ्यां शणैर्दग्धतुषैरपि ।
समैः समा च मूषामृन्महिषीदुग्धसंयुता ॥१५९॥

क्रौञ्चिका वक्ष्यमाणा हि बहुधा परिकीर्तिता ।
तया विरचिता मूषा वज्रद्रावणके हिता ॥१६०॥

यामयुग्मपरिध्मानान्नासौ द्रवति वह्निना ।

गारमूषा

दग्धषड्गुणगाराढ्या किट्टाङ्गारशणान्विता ॥१६१॥

कृष्णमृद्भिः कृता मूषा गारमूषेत्युदाहृता ।

वज्रमूषा

वस्त्राङ्गारतुषास् तुल्यास् तच्चतुर्गुणमृत्तिका ॥१६२॥

गाराश्च मृत्तिका तुल्या सर्वैरेतैर्विनिर्मिता ।
वज्रमूषेति निर्दिष्टा याममग्निं सहेत सा ॥१६३॥

स्वर्ण(वर)मूषा

रक्तवर्गरजोयुक्ता रक्तवर्गाम्बुसाधिता ।
वरमूषेति निर्दिष्टा स्वर्णमूषेत्युदाहृता ॥१६४॥

वर्णमूषा

मृण्मया साधिता मूषा क्षितिखेचरलेपिता ।
वर्णमूषेति सा प्रोक्ता वर्णोत्कर्षे नियुज्यते ॥१६५॥

रूप्यमूषा

एवं हि श्वेतवर्गेण रूप्यमूषा समीरिता ।

बिडमूषा

तत्तद्बिडमृदोद्भूता तत्तद्बिडविलेपिता ॥१६६॥

देहलोहार्थयोगार्थं बिडमूषेत्युदाहृता ।
सहतेऽग्निं चतुर्यामं द्रवेण व्यथिता सती ॥१६७॥

मूषाप्यायनम्

द्रवीभावम् उपेयोश्च मूषायां ध्मानयोगतः ।
क्षणमुद्धरणं यत् तन्मूषाप्यायनम् उच्यते ॥१६८॥

वृन्ताकमूषा

वृन्ताकाकारमूषायां नालं द्वादशकाङ्गुलम् ।
धुत्तूरपुष्पवच्चोर्ध्वं सुदृढं श्लिष्टसन्धिकम् ॥१६९॥

अष्टाङ्गुलं च सच्छिद्रं सा स्याद् वृन्ताकमूषिका ।
अनया खर्परादीनां मृदूनां सत्त्वमाहरेत् ॥१७०॥

गोस्तनी मूषा

मूषा या गोस्तनाकारा शिखायुक्तपिधानका ।
सत्त्वानां द्रावणे शुद्धौ मूषा सा गोस्तनी भवेत् ॥१७१॥

मल्लमूषा

निर्दिष्टा मल्लमूषा या मल्लद्वितयसम्पुटात् ।
पर्पट्यादिरसादीनां स्वेदनाय प्रकीर्तिता ॥१७२॥

पक्वमूषा

कुलालभाण्डरूपा या दृढा च परिपाचिता ।
पक्वमूषेति सा प्रोक्ता पोट्टल्यादिविपाचने ॥१७३॥

गोलमूषा

निर्वक्त्रा गोलकाकारा पुटनद्रव्यगर्भिणी ।
गोलमूषेति सा प्रोक्ता गत्वरद्रव्यरोधिनी ॥१७४॥

मञ्जुमूषा

तले या कूर्पराकारा क्रमादुपरि विस्तृता ।
स्थूलवृन्ताकवत्स्थूला मञ्जुमूषेति संस्मृता ॥१७५॥

सा चायोऽभ्रकसत्वादेः पुटाय द्रावणाय च ।

मञ्जूषामूषा

मञ्जूषाकारमूषा या निम्नतायामविस्तरा ॥१७६॥

षडङ्गुलप्रमाणेन मूषा मञ्जूषासंज्ञका ।
भूमौ निखन्य तां मूषां दद्यात्पुटमथोपरि ॥१७७॥

मुसलमूषा

मूषा या चिपिटा मूले वर्तुलाष्टाङ्गुलोच्छ्रया ।
मूषा सा मुसलाख्या च चक्रिबद्धरसे तथा ॥१७८॥

अन्या वज्रमूषा

दग्धाङ्गारस्य षड्भागा गैरिकं कृष्णमृत्तिका ।
गारम् अङ्गारकिट्टं च वज्रमूषा प्रकीर्तिता ॥१७९॥

गारा दग्धास्तुषा दग्धा वल्मीकमृत्तिका ।
शणत्वक् च समायुक्ता मूषा वज्रोपमा मता ॥१८०॥

अन्धमूषा प्रकाशमूषा च

प्रकाशा चान्ध्रमूषा च मूषा च द्विविधा स्मृता ।
प्रकाशमूषा विज्ञेया शरावाकारसंयुता ॥१८१॥

द्रव्यनिर्वहणे सा च वार्तिकैस्तु प्रशस्यते ।
अन्ध्रमूषा च कर्तव्या गोस्तनाकारसन्निभा ॥१८२॥

पिधानेन समायुक्ता किंचिद् उन्नतमस्तका ।
पत्रलेपे तथा रङ्गे द्वन्द्वमेलापके हितम् ॥१८३॥

सैव छिद्रान्विता नन्दगम्भीरा सारणोचिता ।

भस्ममूषा

तिलभस्म द्विरंशं तु इष्टकांशसमन्वितम् ॥१८४॥

भस्ममूषेति विज्ञेया तारसंशोधने हिता ।

अन्या वज्रमूषा

तुषं वस्त्रं समं दग्धं मृत्तिका चतुरंशिका ॥१८५॥

कूपीपाषाणसंयुक्ता वज्रमूषा प्रकीर्तिता ।

मूषावङ्कनालकोष्ठिकोपयुक्तमृल्लक्षणम्

कृष्णा रक्ता च पीता च शुक्लवर्णा च मृत्तिका ॥१८६॥

आद्या श्रेष्ठा कनिष्ठान्त्या मध्यमे मध्यमे मते ।
गजाश्वानां मलं दग्ध्वा यावत्कृष्णत्वतां गतम् ॥१८७॥

वाशा वज्रलता पत्रं वल्मीकस्य मृदा सह ।
पेषयेद्वज्रतोयेन यावच्छुक्लत्वतां गतम् ॥१८८॥

मर्दयेत्तेन बध्नीयाद्वङ्कनालं च कोष्ठिकाम् ।
वल्मीकमृत्तिकालोहकिट्टश्वेताश्मनां पृथक् ॥१८९॥

एकांशौ द्वौ तु दग्धस्य तुषस्य स्त्रीशिरोरुहाम् ।
समांशस्तत्समस्तं तु छागीदुग्धेन मर्दयेत् ॥१९०॥

यामद्वयं दृढं तेन कुर्यान्मूषां च सम्पुटम् ।
शोषयित्वा रसं क्षिप्त्वा तत्र कंसं निरोधयेत् ॥१९१॥

वज्रमूषादिकं प्रोक्तं सम्यक्सूतस्य मारणे ।
मोक्षक्षारस्य भागौ द्वाव् इष्टिककांशसंयुतौ ॥१९२॥

यत्कृतौ सा तु मूषा स्यादुत्तमा तारशोधने ।
रक्तवर्गेण संमिश्रा रक्तवर्गपरिप्लुता ॥१९३॥

रक्तवर्गकृतालेपा समुक्ता स्वर्णकर्मसु ।
शुक्लवर्गेण संमिश्रा शुक्लवर्गपरिप्लुता ॥१९४॥

शुक्लवर्गकृतालेपा शुक्लशुद्धिषु शस्यते ।
विड्वर्गेण तु संमिश्रा विड्वर्गेण परिप्लुता ॥१९५॥

विड्वर्गेण कृतालेपा मूषा स्याद्द्रुतिजारणे ।
क्षारवर्गेण संमिश्रा क्षारवर्गपरिप्लुता ॥१९६॥

क्षारवर्गकृतालेपा मूषा निर्वहणे हिता ।

मूषायामावर्तनविधिः॑ वर्णपुट (!)

विषटङ्कणगुञ्जाभिर् मूषालेपं तु कारयेत् ॥१९७॥

प्रकाशायां प्रकुर्वीत यदि वाङ्गारलेपनम् ।
तस्यां विन्यस्य मूषायां द्रव्यमावर्तयेद्बुधः ॥१९८॥

लेपवर्णे पुटे योज्या रक्तमृत्पटुभूखगाः ।

आवर्तितद्रव्यस्वरूपम्

आवर्तमाने कनके पीता तारे सितप्रभा ॥१९९॥

शुल्बे जलनिभा तीक्ष्णे शुक्लवर्णा प्रशस्यते ।
यन्त्रम् एवौषधीभ्यः स्याच्छ्रेष्ठं सूतस्य यन्त्रणे ॥२००॥

ओषधीसहितेऽप्येषां रसो यन्त्रेण बध्यते ।

कोष्ठी

सत्त्वानां पातनार्थाय पतितानां विशुद्धये ॥२०१॥

कोष्ठिका विविधाकारास्तासां लक्षणमुच्यते ।

आकरकोष्ठी अङ्गारकोष्ठी वा

राजहस्तसमुत्सेधा तदर्धायामविस्तरा ॥२०२॥

चतुरश्रा च कुड्येन वेष्टिता मृण्मयेन सा ।
एकभित्तौ चरेद्द्वारं वितस्त्याभोगसंयुतम् ॥२०३॥

द्वारं सार्धवितस्त्या च संमितं सुदृढं शुभम् ।
दोहल्यधो विधातव्यं धमनाय यथोचितम् ॥२०४॥

प्रादेशप्रमिता भित्तिरुत्तराङ्गस्य चोर्ध्वतः ।
द्वारं चोपरि कर्तव्यं प्रादेशप्रमितं खलु ॥२०५॥

ततश्चेष्टिकया रुद्ध्वा द्वारसन्धिं विलिप्य च ।
शिखित्रैस्तां समापूर्य धमेद्भस्त्राद्वयेन च ॥२०६॥

शिखित्राधमनद्रव्यम् ऊर्ध्वद्वारेण निक्षिपेत् ।
सत्त्वपातनगोलांश्च पञ्च पञ्च पुनः पुनः ॥२०७॥

भवेद् आकरकोष्ठीयं खराणां सत्त्वपातने ।

पातालकोष्ठी

दृढभूमौ चरेद्गर्तं वितस्त्या संमितं शुभम् ॥२०८॥

वर्तुलं चाथ तन्मध्ये गर्तमन्यं प्रकल्पयेत् ।
चतुरङ्गुलविस्तारनिम्नत्वेन समन्वितम् ॥२०९॥

गर्ताद्धरणिपर्यन्तं तिर्यग्दलसमन्वितम् ।
किंचित् समुन्नतं बाह्यगर्ताभिमुखनिम्नकम् ॥२१०॥

मृच्चक्रीं पञ्चरन्ध्राढ्यां गर्भगर्तोपरि क्षिपेत् ।
आपूर्य कोकिलैः कोष्ठीं प्रधमेदेकभस्त्रया ॥२११॥

पातालकोष्ठिका ह्येषा मृदूनां सत्त्वपातने ।
ध्मानसाध्यपदार्थानां नन्दिना परिकीर्तिता ॥२१२॥

गारकोष्ठी

द्वादशाङ्गुलनिम्ना या प्रादेशप्रमिता तथा ।
चतुरङ्गुलतश्चोर्ध्वं वलयेन समन्विता ॥२१३॥

भूरिच्छिद्रवतीं चक्रीं वलयोपरि निक्षिपेत् ।
शिखित्रांस्तत्र निक्षिप्य प्रधमेद्वङ्कनालतः ॥२१४॥

वङ्कनालम्

मूषामृद्भिः प्रकर्तव्यम् अरत्निप्रमितं दृढम् ।
अधोमुखं च तद्वक्त्रे नालं पञ्चाङ्गुलं खलु ॥२१५॥

वङ्कनालमिति प्रोक्तं दृढाध्मानाय कीर्तितम् ।

गारकोष्ठी (चोन्त्.!)

गारगोष्ठीयमादिष्टा सृष्टलोहविनाशिनी ॥२१६॥

कोष्ठी बन्धरसादीनां विधानाय विधीयते ।
द्वादशाङ्गुलकोत्सेधा सा बुध्ना चतुरङ्गुला ॥२१७॥

तिर्यक्प्रधमना या सा मृदुद्रव्यविशोधनी ।
रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् ॥२१८॥

नेष्टो न्यूनाधिकः पाकः सुपाकं हितमौषधम् ।
लोहादेरपुनर्भावो गुणाधिक्यं तथोग्रता ॥२१९॥

अनप्सु मज्जनं रेखापूर्णता पुटतो भवेत् ।
पुटाद्रागो लघुत्वं च शीघ्रं व्याप्तिश्च दीपनम् ॥२२०॥

जारितादपि सूतेन्द्राल्लोहानामधिको गुणः ।
यथाश्मनि विशेद्वह्निर्बहिःस्थः पुटयोगतः ॥२२१॥

चूर्णत्वाद्धि गुणावाप्तिस्तथा लोहेषु निश्चितम् ।
पाच्यमानौषधं क्षिप्त्वा शरावद्वयसम्पुटे ॥२२२॥

रुद्ध्वा गरुण्डपचनं पुटं तदिति कथ्यते ।

महापुटम्

निम्नविस्तरतः कुण्डे द्विहस्ते चतुरश्रके ॥२२३॥

वनोत्पलसहस्रेण पूरिते पुटनौषधम् ।
कोष्ठ्यां रुद्धं प्रयत्नेन पिष्टिकोपरि निक्षिपेत् ॥२२४॥

वनोत्पलसहस्रार्धं कोविकोपरि निक्षिपेत् ।
वह्निं प्रज्वालयेत्तत्र महापुटमिदं स्मृतम् ॥२२५॥

गजपुटम्

राजहस्तप्रमाणेन चतुरश्रं च निम्नकम् ।
पूर्णं चोपलशाठीभिः कण्ठावध्यथ विन्यसेत् ॥२२६॥

विन्यसेत्कुमुदीं तत्र पुटनद्रव्यपूरिताम् ।
पूर्वच्छगणतोऽर्धानि गरुण्डानि विनिक्षिपेत् ॥२२७॥

एतद्गजपुटं प्रोक्तं महागुणविधायकम् ।

वाराहपुटम्

इत्थं चारत्निके कुण्डे पुटं वाराहमुच्यते ॥२२८॥

कुक्कुटपुटम्

पुटं भूमितले यत्तद्वितस्तिद्वितयोच्छ्रयम् ।
तावच्च तलविस्तीर्णं तत्स्यात्कुक्कुटकं पुटम् ॥२२९॥

कपोतपुटम्

यत्पुटं दीयते भूमावष्टसंख्यैर्वनोत्पलैः ।
तद्बालसूतभस्मार्थं कपोतपुटमुच्यते ॥२३०॥

गोर्वरपुटम्

गोष्ठान्तर्गोखुरक्षुण्णं शुष्कं चूर्णितगोमयम् ।
गोर्वरं तत्समादिष्टं वरिष्ठं रससाधने ॥२३१॥

गोवरपुट

गोर्वरैर्वा तुषैर्वापि पुटं यत्र प्रदीयते ।
तद्गोर्वरपुटं प्रोक्तं रसभस्मप्रसिद्धये ॥२३२॥

भाण्डपुटम्

स्थूलभाण्डे तुषापूर्णे मध्ये मूषासमन्विते ।
वह्निना विहिते पाके तद्भाण्डपुटमुच्यते ॥२३३॥

वालुकापुटम्

अधस्तादुपरिष्टाच्च कोविका छाद्यते खलु ।
वालुकाभिः प्रतप्ताभिर्यन्त्रं तद्वालुकापुटम् ॥२३४॥

भूधरपुटम्

वह्निमत्यां क्षितौ सम्यङ्निखन्याद्द्व्यङ्गुलादधः ।
उपरिष्टात्पुटं यन्त्रं पुटं तद्भूधराह्वयम् ॥२३५॥

लावकपुटम्

ऊर्ध्वं षोडशिकामात्रैस्तुषैर्वा गोर्वरैः पुटम् ।
यन्त्रं तल्लावकाख्यं स्यान्मृदुद्रव्यसुसाधने ॥२३६॥

अनुक्तपुटमाने तु साध्यद्रव्यबलाबलात् ।
पुटं विज्ञाय दातव्यमूहापोहविचक्षणैः ॥२३७॥

कूपिकादिस्वरूपम्

काचायोमृद्घटीनां च कूपिका चषकाणि च ।
रूपिका कूपिका सिद्धा गोलं चैव करण्डकम् ॥२३८॥

चषकं च कठोरी च वाटिका खोरिका तथा ।
कञ्चोली ग्राहिका चेति नामान्येकार्थकानि हि ॥२३९॥

रसोपरसलोहानां त्रिधा संस्कारवह्नयः ।
गरुण्डकाष्ठकोलीशसाधनास्ते पृथक्त्रिधा ॥२४०॥

गरुण्डसाधनास्तेषु पुटं कुक्कुटसंज्ञकम् ।
वराहपुटसंज्ञं हि गजसंज्ञं पुटे भवेत् ॥२४१॥

श्रेष्ठा वनोद्भवच्छाणा मध्यमा गोष्ठसम्भवाः ।
अधमा कृत्रिमं काष्ठं खदिरासनसम्भवम् ॥२४२॥

अथवा सारवृक्षोत्थं वितस्तिद्वयदीर्घकम् ।
स्थूलप्रकोष्ठमात्रं तु श्रेष्ठं सूतेन्द्रपाचने ॥२४३॥

मृदुमध्यमचण्डाग्निसंज्ञं स्याद्दारुसाधनम् ।
अङ्गाराः खदिरोद्भूतास् त्रिफलावृक्षसम्भवाः ॥२४४॥

कर्षाः सारतरूद्भूताः श्रेष्ठा धमनकर्मणि ॥२४५॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:48.3430000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

lepidoblastic

  • पत्रीरुह 
  • शल्करोही 
RANDOM WORD

Did you know?

What is Gotra?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.