TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसविद्या - भाग १६

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग १६
१. अङ्कोलकल्पः

अथ ब्रवीम्यहं देवि कल्पमङ्कोलबीजकम् ।
चतुर्भिः साधकैर् धीरैर्विशुद्धैः शुद्धिकाङ्क्षिभिः ॥१॥

समवेतः साधकेन्द्रैः पुण्यर्क्षेष्वारभेच्च तत् ।
अङ्कोलमूलं वितृणं कृत्वा संमार्ज्य शोधनम् ॥२॥

तत्र लिङ्गं च संस्थाप्य तदग्रे स्थापयेद्घटम् ।
एकसूत्रेण बध्नीयाल्लिङ्गाङ्कोलघटान् प्रिये ॥३॥

गन्धपुष्पादिभिः पूजामघोरेण प्रकल्पयेत् ।
प्रतिमासं दिवा नक्तं पुष्पादि फलितावधि ॥४॥

गृहीत्वा तत्फलं पक्वं पूरयेत्तद्घटं फलैः ।
योगिनीभैरवीप्रीत्यै महापूजां विधाय च ॥५॥

आनीय तद्घटं गेहे शोषयेदातपे फलम् ।
वितुषाणि च बीजानि कुर्यात् तन्मुखघर्षणम् ॥६॥

कुर्यात्ततो विशालास्ये पात्रे मृच्चूर्णलेपनम् ।
एकैकशश्चोर्ध्वमुखं रोपयेद्भुजगाकृति ॥७॥

ततस्तु टङ्कणं तद्वत् तत्तद्वक्त्रेषु लेपयेत् ।
तत्पात्रं कांस्यपात्रे च स्थापयेत् तदधोमुखम् ॥८॥

आतपे धारयेद्धीमान्पललैश्च तिरोदधेत् ।
दिने दिने च्युतं तैलं गृह्णीयाद्दिनपञ्चकम् ॥९॥

तत्तैलं काचकूप्यन्तः स्थापयेच्च समन्त्रकम् ।
अर्धमात्राङ्कोलतैलं द्विगुणं तिलतैलकम् ॥१०॥

नासारन्ध्रद्वये नस्यं जरामृत्युविनाशनम् ।
स जीवेत्त्रिशतं वर्षं सर्वामयविवर्जितः ॥११॥

रोगादिजलपाशाद्यैर् भ्रमाद्यैश्च विषेण च ।
गतासूनां नृणां नस्यं कुर्यात्पुंशुक्लमिश्रितम् ॥१२॥

मृतसूतं च तैलं ते जीवन्ति च न संशयः ।
मृतसंजीवनी विद्या पूर्वोक्ता कथितानघे ॥१३॥

अन्ये रसायनकल्पाः

एलाभया वचा काकतुण्डीफलमरुष्करः ।
सहदेवी निम्बपत्रं लाङ्गलीकन्दमेव च ॥१४॥

समांशं शोषयेद्यन्त्रे पाताले तैलमाहरेत् ।
तत्तैलं नस्यमादद्यात्सप्ताहान्तरितं प्रिये ॥१५॥

एवं वर्षे कृते नस्ये सहस्रायुर्भवेन्नरः ।
नीलिकामूलसंयुक्तं तैलं चार्धपलं पिबेत् ॥१६॥

वत्सराज्जायते सिद्धो वलीपलितवर्जितः ।
जीवेद्ब्रह्मदिनं त्र्यब्दाद्वायुवेगो महाबलः ॥१७॥

भृङ्गीरसं कृष्णजीरं प्रस्थं प्रस्थं प्रकल्पयेत् ।
नीलोत्पलं च मधुकं प्रस्थार्धं च पृथग्भवेत् ॥१८॥

तिलतैलं पञ्चपलं पाचयेत्सर्वमेकतः ।
तैलावशिष्टं तत्तैलं जरा मृत्युश्च नश्यति ॥१९॥

अर्धनिष्कं चैकनिष्कं सार्धनिष्कं क्रमेण च ।
तैलप्रमाणमित्युक्तम् अब्दाञ्जीवेच्छतत्रयम् ॥२०॥

इष्टिकाक्षिपलं क्षिप्त्वा कर्षैकमुदकैः पिबेत् ।
वत्सरात्पलितं हन्ति सहस्रायुर्भवेन्नरः ॥२१॥

सर्पाक्षी काकमाची च सहदेवी च भृङ्गराट् ।
काकतुण्डीफलं निम्बं पर्णं वाकुचिबीजकम् ॥२२॥

समूलां देवदालीं च ब्राह्मीमूलं फलत्रयम् ।
मूलं च वाजिगन्धाया नीलकोरण्डपत्रकम् ॥२३॥

समं समं कन्यकाया द्रवैश्च परिभावयेत् ।
सप्ताहं शोषयेच्चूर्णं छायायां त्रिमधुप्लुतम् ॥२४॥

द्विकर्षं प्रत्यहं सेव्यं वत्सरेण जरां जयेत् ।
आ चन्द्रतारकं जीवेन्महाबलयुतः सुखम् ॥२५॥

महाकामेश्वरकल्पः

चातुर्जातकचोरचन्दनजलद्राक्षातुगारेणुकं कस्तूरीतगरेन्दुकुङ्कुमजटाकुष्ठाश्वगन्धाब्दकम् ।
कङ्कोलामरदारुचित्रकविषं द्वे जीरके सैन्धवं भार्ङ्गीगोक्षुरदेवपुष्पमुसलीयष्टीबलाफेनकम् ॥२६॥

रंभाकन्दफलत्रयं त्रिकटुकं जातीफलं वाशकं तालीशं कटुकीफलं गजकणा माषामृताशर्करा ।
पिच्छाभृङ्गविदारिकामदनकं बीजं च कच्छूद्भवं शाल्मल्यङ्घ्रिपुनर्नवागरुशतावर्यप्यथो दीप्यकम् ॥२७॥

पादांशं मृतमभ्रकं च विजया तुल्यौषधानां समा सर्वेषां सदृशा सिता च मधुना चाज्येन संयोजिता ।
जातीचम्पककेतकादिकुसुमैः सेवेत संवासितं कर्षार्धं निशि देहसिद्धिदमहाकामेश्वरः कामदः ॥२८॥

पुंसां शुक्रविवृद्धिदार्ढ्यकरणे क्षीरानुपानं हितं शाल्मल्यङ्घ्रिजलानुपानम् अथवाप्यन्यच्च यच्छुक्रलम् ।
प्रौढानां सुदृशां सुखातिसुखदो वश्यो महाद्रावकः सङ्गे भङ्गुरकामकौतुकरसः क्रीडाकलामोददः ॥२९॥

संभोगे स्थविराग्नियोषिति मदे यूनां स्मरे दर्पहा नित्यानन्दनिदानम् आदिपुरुषैर् अप्याहितास्वादनः ।
वाचां सिद्धिकरः प्रकृष्टकवितासंदर्भसंपादनः सौख्यारोग्यविशेषयौवनकलासामग्र्यसंधायकः ॥३०॥

वृद्धत्वं हरते बलं च कुरुते मृत्युं निरस्येत्परं व्याधिव्रातम् अपाकरोति कुरुते कान्तिं नयत्यार्जवम् ।
योगाभ्यासविधौ रतस्य सुलभा सिद्धिं विधत्तेतराम् अंहः संततिसंहृतिं कलयते स्त्रीणाम् अपत्यप्रदः ॥३१॥

रोगाणां निचयं क्षयं क्षपयति क्षिप्रं महारुद्गणं व्याहन्ति श्वसनं लयं गमयते छिन्ते च कासोदयम् ।
दुर्नामानि च षड्भिनत्ति हरते सर्वार्तिरोगोल्बणं मेहौघं च लुनाति शोणितदरं विध्वंसते सेवनात् ॥३२॥

क्षीणे पोषमुपादधाति विपुलं पूर्णातिजीर्णोज्ज्वलं मन्दाग्निं ग्रहणीं निकृन्ततितरां दोषानशेषानपि ।
श्रेष्ठः सर्वरसायनेषु विदुषां भोगार्थिनां योगिनां सिद्धिं सम्यगिहातनोति वपुषः संसेवनाद् अन्वहम् ॥३३॥

मूलिकाकल्पेषु रसाभ्रकादिमेलनातिदेशः

महावृक्षादिकल्पेषु प्रोक्तेष्वेतेषु साधकैः ।
एष साधारणो योगः कर्तव्यः सिद्धिकाङ्क्षिभिः ॥३४॥

गुञ्जामात्रं शुद्धसूतं वाभ्रकं वा पणद्वयम् ।
कान्तलोहं तथैवोपयोजयेद् भक्षयेन्नरः ॥३५॥

रसाभ्रलोहयोगेन सद्यः सिद्धिमवाप्नुयात् ।
जीवहीनो यथा देहो गन्धहीनं प्रसूनकम् ॥३६॥

तथैव मूलिकाकल्पा रसहीना न सिद्धिदाः ।
तस्माद्रसेन सहिताः सद्यः सिद्धिप्रदायकाः ॥३७॥

अभ्यङ्गरसायनम्॑ महानीलीतैलम्

महानीलीरसं प्रस्थं प्रस्थं भृङ्गरसं प्रिये ।
धात्रीफलरसं प्रस्थं काकतुण्डीफलोद्भवम् ॥३८॥

प्रस्थं कषायतिलजं तैलप्रस्थं च गोपयः ।
आढकं योजयेत्सर्वं काकतुण्डीफलं पलम् ॥३९॥

त्रिपलं चामलं भृङ्गनीलीपत्ररजः पलम् ।
पिष्ट्वा तस्मिन् क्षिपेत् सर्वं पचेन्मन्दाग्निना प्रिये ॥४०॥

तैलावशिष्टं विपचेत्ततो वस्त्रेण शोधयेत् ।
तैलेनानेन चाभ्यज्य शिरोऽभ्यङ्गं समाचरेत् ॥४१॥

प्रत्यहं कर्णपूरं च एवं कुर्याद्रसायनम् ।
केशा भ्रमरसङ्काशाः श्रोत्रं दिगन्तपाटवम् ॥४२॥

जत्रूर्ध्वरोगा नश्यन्ति तथा पादहितं भवेत् ।

चन्दनाद्यं तैलम्

चन्दनागरुकर्पूरकस्तूरीकुङ्कुमं तथा ॥४३॥

उशीरद्वयकङ्कोलजातीफललवङ्गकम् ।
नलिकानलदास्पृक्कातुरुष्कस्थाणुलोचनम् ॥४४॥

हरेणुस्तगरं लाक्षा नखं स्थौणेयकं मुरा ।
नलदामलकं कुष्ठं चोरकं कटुकीफलम् ॥४५॥

प्रपौण्डरीकं खर्जूरं पद्मकं जातिपत्त्रिका ।
शैलेयं धातकीपुष्पं सरलं चैलवालुकम् ॥४६॥

पूगीफलं सप्तपर्णं तथा तामलकं प्रिये ।
एकैकं कर्षमात्रं स्यात्प्रस्थं तैलं च गोपयः ॥४७॥

आढकं तत्पचेत्सर्वं तैलशेषं समाहरेत् ।
तस्मिन् मृगाण्डं कस्तूरीं कर्पूरं कुङ्कुमं क्षिपेत् ॥४८॥

पृथक्कर्षं च जात्यादिकुसुमैर् वासयेद्बुधः ।
तेनाभ्यङ्गम् अधःकाये कुर्याद् दौर्गन्ध्यनाशनम् ॥४९॥

अशीतिवर्षदेशीयो ऽप्यसौ स्यात् षोडशाब्दकः ।
कामिनीलोककन्ददर्पः सुभगः शुक्लवृद्धिमान् ॥५०॥

योषिच्छतं च रमते स जीवेच्छरदः शतम् ।

उद्वर्तनरसायनम्

अथोद्वर्तनमाख्यामि वलीपलितभञ्जनम् ॥५१॥

सूतं गन्धं समं मर्द्यं स्तनदुग्धेन योषितः ।
मुण्डिका मेघनादश्च विष्णुक्रान्ता मुनिस्तथा ॥५२॥

सर्पाक्षी च द्रवैरासां दिनमेकं विमर्दयेत् ।
एतद्दशगुणं क्षारस्तिलस्य च यवस्य च ॥५३॥

एतत्सर्वं समध्वाज्यमनेनोद्वर्तनं वपुः ।
वलीपलितनाशः स्याद् वर्षात् त्रिशतवत्सरः ॥५४॥

जीवेद्दिव्यवपुर् भूत्वा साधको नात्र संशयः ।
सनालमुत्पलं सूतं सप्ताहं परिमर्दयेत् ॥५५॥

आत्मीयशिवतोयेन ततश्चाङ्गं विमर्दयेत् ।
वत्सराज्जायते सिद्धिः पूर्ववद् दिव्यविग्रहः ॥५६॥

शिवांभसा च सूतेन्द्रं ब्रह्मदण्डीयमूलकम् ।
मर्दयेत्सप्तदिवसं सम्यग्देवि विमर्दयेत् ॥५७॥

वत्सराज्जायते सिद्धिः पूर्ववद्दिव्यविग्रहः ।
कटुतैलेन सुरभिं भावयेद्दिनसप्तकम् ॥५८॥

पलार्धं भक्षयेन्नित्यं वर्षाद् वज्रवपुर् भवेत् ।
त्रिशतायुःस्वर्णवर्णो वलीपलितवर्जितः ॥५९॥

समध्वाज्यं कुष्ठचूर्णं कर्षं प्रातर्लिहेन्नरः ।
शतपुष्पसुगन्धाङ्गो जीवेद्वलिविवर्जितः ॥६०॥

केशरञ्जनकल्पाः

काकतुण्डीफलं कान्तचूर्णमाम्राण्डतैलकम् ।
आलोड्य भाण्डे निक्षिप्य मासं धान्यमये क्षिपेत् ॥६१॥

उद्धृत्य लेपयेच्छीर्षं नस्यकर्मामुना भवेत् ।
त्र्यहात् केशाः सुनीलाः स्युः षण्मासात् केशरञ्जनम् ॥६२॥

हरीतकी निष्कमेकं द्विपलं कान्तचूर्णकम् ।
पलमेकं नागचूर्णमम्लदध्ना प्रमर्दयेत् ॥६३॥

अभ्यक्तो निक्षिपेन्मूर्ध्नि मर्दयेन्नाडिकार्धकम् ।
एरण्डपत्रैः संवेष्ट्य पुनर्वस्त्रेण बन्धयेत् ॥६४॥

स्नायात्पुनश्च त्रिदिनं पूर्ववत्केशरञ्जनम् ।
समूलौ नीलिकाभृङ्गावयश्चूर्णं वरासमम् ॥६५॥

चूर्णमेडकमूत्रेण दिनमेकं च भावयेत् ।
स्नानादि पूर्ववत्कृत्वा पूर्ववत्केशरञ्जनम् ॥६६॥

निस्त्वग्गुञ्जाफलं चैला देवदारु च कुष्ठकम् ।
समं चूर्णं भृङ्गरसैर् भाव्यम् एकदिनं प्रिये ॥६७॥

अन्यच्चूर्णं तैलं पचेन्मृद्वग्निना बुधः ।
यस्य तैलघृताभ्यङ्गात्केशा भ्रमरसन्निभाः ॥६८॥

हस्तिदन्तस्य दग्धस्य समभागं रसाञ्जनम् ।
छागीदुग्धेन संपेष्य लेपनात्केशरञ्जनम् ॥६९॥

कृष्णमृत्त्रिफलाभृङ्गरसायश्चूर्णकं समम् ।
आलोड्यैनं समं भाण्डे मासमेकं निरोधयेत् ॥७०॥

तल्लेपाच्चिकुराः कृष्णा भवेयुः पञ्चमासतः ।
धात्रीफलं जपापुष्पं किट्टं पिष्ट्वा च मूर्धनि ॥७१॥

लेपयेत्त्रिदिनं तेन केशाः स्युर् भ्रमरोपमाः ।
चूर्णं सिन्दूरसदृशं तयोस्तुल्या च सांब्रणिः ॥७२॥

पिष्ट्वांभसा प्रलेपेन तत्क्षणात् केशरञ्जनम् ।
गोरोचनं कृष्णतिलान् शतपुष्पां शिवांबुना ॥७३॥

काकमाचीमिदं सर्वमयःपात्रे विमर्दयेत् ।
तेनैव दिवसादूर्ध्वं केशरञ्जनमुत्तमम् ॥७४॥

चूर्णं सिद्धार्थकं सर्जो यवक्षारं च काञ्जिकैः ।
नागपुष्परसैः पेष्यं लेपनं केशरञ्जनम् ॥७५॥

कदलीकन्दचूर्णं च सिन्दूराङ्गारकौ तथा ।
रसैर्जम्बीरजैर् लोहमुष्ट्यायःपात्रके पिषेत् ॥७६॥

दिनैकलेपनात्तेन केशानां रञ्जनं भवेत् ।
कासीसं नीलिकापत्रं दधिभृङ्गरसस्तथा ॥७७॥

समांशं लोहचूर्णं च लेपनात्केशरञ्जनम् ।
नागदण्डेन पत्राणि कोरण्टस्य च मर्दयेत् ॥७८॥

दिनत्रयं च तल्लेपात् केशाः स्युर् भ्रमरोपमाः ।
वरा भृङ्गी चूतबीजं मृणालं च प्रियङ्गुकम् ॥७९॥

नीली निशा लोहनागौ चूर्णिता निंबतैलकैः ।
कान्तपात्रे लोडयित्वा मासमेकं विभावयेत् ॥८०॥

तेन लिप्ताः कचाः कृष्णा रञ्जिता भ्रमरोपमाः ।
तिलाः कृष्णाः काकमाचीबीजानि समभागतः ॥८१॥

तत्तैलयन्त्रतो ग्राह्यं तेन स्यात्केशरञ्जनम् ।
कर्षं जपारसः क्षौद्रं सप्ताहं नस्यमाचरेत् ॥८२॥

तदूर्ध्वं रञ्जयेत् केशान् सर्वनस्योत्तमो ह्ययम् ।
भृङ्गराजरसैः पिष्ट्वा त्रिफलां लोहचूर्णकम् ॥८३॥

तैलम् एतत्समं योज्यं तथा भृङ्गरसैः पुनः ।
मृद्वग्निना पचेत्सर्वं तैलशेषं यथा भवेत् ॥८४॥

स्निग्धभाण्डे च तत्तैलं मासं भूमौ विनिक्षिपेत् ।
तैलेन लेपयेच्छीर्षं कारवल्लीदलैः पुरा ॥८५॥

वेष्टयेत्तत्तु वस्त्रेण निवाते क्षीरभोजनम् ।
क्षालयेत् त्रिफलाक्वाथैः कुर्यात् सप्तदिनं प्रिये ॥८६॥

कपालरञ्जनं कुर्याद् यावज्जीवं न संशयः ।
श्रियालीकाकतुण्ड्याश्च बीजं निर्गुण्डिकारसैः ॥८७॥

जपापुष्परसैर् भाव्यं पृथक् दिनचतुष्टयम् ।
पातालयन्त्रे तत्तैलं पातयेत्तेन लेपनम् ॥८८॥

कुर्यान्मूर्ध्नि च गन्धर्वपत्त्रैश्च परिवेष्टयेत् ।
वस्त्रेण च ततो वातशून्यदेशे वसन्सुधीः ॥८९॥

क्षीराशी काञ्जिके स्नानं कुर्यात्सप्तदिनं त्विति ।
केशा भ्रमरसङ्काशा यावज्जीवं न संशयः ॥९०॥

जलमण्डनिकाकाकमाचीभृङ्गाः समाः समाः ।
पिष्ट्वा तैलं पचेत्सूपं पुनस्तैलेन लेपयेत् ॥९१॥

मूर्धानं लेपयेत्तेन सप्ताहं केशरञ्जनम् ।
स्नानभोजनशय्यां च पूर्ववत्परिकल्पयेत् ॥९२॥

वराभृङ्गरसैः पिष्ट्वा कान्तपात्रे विलेपयेत् ।
अवाङ्मुखं विनिष्ठाप्य प्रातस्तं भृङ्गराड्रसैः ॥९३॥

पुनः पिष्ट्वा लिहेच्छीर्षं क्षालयेत् त्रिफलांबुना ।
एकविंशद्दिनं कुर्यात् पूर्ववत् फलम् आप्नुयात् ॥९४॥

गरलं कृष्णजीरं च पिष्ट्वा रुद्ध्वा च तन्मुखम् ।
गृहाङ्गणे पङ्किले च खनित्वा स्थापयेत् सुधीः ॥९५॥

षण्मासात् तद्द्रवीभूतं कृष्णं साधु समुद्धरेत् ।
शिरोमध्ये क्षिपेत् कर्षं पूर्ववद् वेष्टनादिकम् ॥९६॥

आ जन्म रञ्जयेत्केशांस्तच्च कापालरञ्जनम् ।
भृङ्गी नीली वरा कृष्णायसं मदनबीजकम् ॥९७॥

कोरण्टकुसुमं चूर्णमर्जुनस्य त्वचोद्भवम् ।
अम्भोजमूलं जम्ब्वाश्च तत्सर्वं च समांशकम् ॥९८॥

लोहभाण्डगतं कुर्यात्पक्षं भूमौ विनिक्षिपेत् ।
हरेद्भाण्डगतं कल्कं कल्कात्तैलं चतुर्गुणम् ॥९९॥

तैलाच्चतुर्गुणं भृङ्गरसस् तस्माच्चतुर्गुणः ।
वराक्वाथः सर्वमिदं मन्दवह्नौ विपाचयेत् ॥१००॥

तैलावशिष्टं विपचेत् तत्पिष्ट्वायसपात्रके ।
निक्षिपेच्च परीक्षार्थं काकपक्षं विलेपयेत् ॥१०१॥

तैलेन यदि कृष्णं तदौषधं सिद्धिदं भवेत् ।
साधको मासम् एकं तु तस्मिन्पात्रे विपाचितम् ॥१०२॥

तेन लिप्ताः कचास्तस्य षण्मासाद्भ्रमरोपमाः ।
चिञ्चाश्वत्थपलाशानां वासायाश्च द्रवैर्मुहुः ॥१०३॥

द्रुतं पात्रगतं नागं चालयेद् भस्मतां व्रजेत् ।
तावत् पचेन्नागभस्म पलं लोहस्य चूर्णकम् ॥१०४॥

द्विपलं च वराचूर्णं त्रिपलं दाडिमत्वचः ।
पलं चैतत्सर्वसमं काञ्जिकं लोहभाजने ॥१०५॥

लोडयेत् पाचयेत् किंचित् क्षणं तल्लोहपात्रके ।
आतपे धारयेद् भृङ्गकोरण्टरसभावितम् ॥१०६॥

एकविंशद्दिनं भाव्यं भूयो भूयो द्रवं द्रवम् ।
तेनैव लिप्ताश्चिकुराः पिञ्छतापिञ्छसन्निभाः ॥१०७॥

कचरञ्जनयोगेषु कथिताकथितेषु च ।
निशि लेपं तथैरण्डपत्रैश्च परिवेष्टनम् ॥१०८॥

प्रातः स्नानमिदं कर्म सर्वसाधारणं स्मृतम् ।

दिव्यौषधिग्रहणयोग्यस्थलनिर्देशः

श्मशाने सलिले मार्गे गृहे देवालये तथा ॥१०९॥

मलमूत्रयुतस्थाने ग्रामे गोष्ठे तरोरधः ।
छायायां च विषप्राये कुशीते चान्यबाधिते ॥११०॥

एवंप्रायेषु देशेषु न ग्राह्या सिद्धमूलिका ।
अरण्ये पर्वते तीरे नद्या तपवने शुचौ ॥१११॥

शिलासङ्गिशुचिक्षेत्रे सिद्धक्षेत्रे ऽब्धिरोधसि ।
श्रीपर्वते हिमगिरौ तटाके विजने ह्रदे ॥११२॥

गृह्णीयान्मूलिका जाता देहसिद्धिप्रदायिकाः ।

दिव्यौषधिग्रहणविधिः

सर्वेषां सिद्धमूलानां रक्षाबन्धनकर्मणि ॥११३॥

खननेषूत्पाटनेषु ग्रहणेषु क्रमेण वै ।
कथ्यन्ते मनवो दिव्याः सर्वसाधारणाः स्मृताः ॥११४॥

पूर्वेद्युरेव सुस्नातः कृतदन्तविशोधनः ।
अनुलिप्तः शुद्धवस्त्रो हृष्टः संयतमानसः ॥११५॥

मौनी गन्धाक्षतोपेतो रक्षाबन्धनसूत्रिताम् ।
पूर्वम् अन्वेषितां गत्वा मूलिकां स्वेष्टदायिकाम् ॥११६॥

वितृणं परितः कृत्वा खात्वाम्बु परिषेचयेत् ।
गन्धपुष्पाक्षतैः पूजां कृत्वा सूत्रेण बन्धयेत् ॥११७॥

समन्त्रकं साधकेन्द्रः सोपवासो जितेन्द्रियः ।
अत्रैव तिष्ठ कल्याणि मम कार्यकरी भव ॥११८॥

मम कार्यकरी सिद्धा ततः स्वर्गं गमिष्यसि ।
ओं ह्रीं नमस्ते ऽमृतसम्भूते बलवीर्यविवर्धिनि बलमायुश्च मे देहि पापं मे जहि दूरतः ।
ह्रीं फट् ।
अनेनैव तु मन्त्रेण त्रिधा सूत्रेण वेष्टितम् ॥११९॥

रक्षां बध्नीत तां स्पृष्ट्वा जपेदष्टोत्तरं शतम् ।
ततः प्रातः समुत्थाय कृत्वा नित्यविधिं शुचिः ॥१२०॥

मूलिकां तां समासाद्य गन्धपुष्पाक्षतादिभिः ।
सर्वोपचारैः सम्पूज्य बलिं दद्यात् सहेतुकाम् ॥१२१॥

समन्त्रकं खनेद्धीमान्मन्त्रो ऽयमपि कथ्यते ।
येन त्वां खनते ब्रह्मा येन त्वां खनते भृगुः ॥१२२॥

येनेन्द्रो वरुणो विष्णुस्तेन त्वामुपचक्रमे ।
त्वामेवाहं खनिष्यामि मन्त्रपूतेन पाणिना ॥१२३॥

एवं सम्प्रार्थयित्वादौ पश्चान्मन्त्रं समुच्चरेत् ।
ओं श्रीं ह्रीं तं अमृतेश्वरि एहि एहि मम सकलसिद्धिं कुरु हुं फट् ।
अनेनैव तु मन्त्रेण निखनेत् सिद्धिमूलिकाम् ॥१२४॥

अथ तूत्पाटयेत्तां तु प्राञ्जलिः प्रार्थयेदिति ।
मा उत्पते मा निपते मा च ते चान्यथा भवेत् ।
ओं ह्रीं चण्ड हुं फट् स्वाहा ।
उत्पाटयेदनेनैव मन्त्रेण परमेश्वरि ।
अच्छिन्नमूलामादाय शुद्धवस्त्राभिवेष्टिताम् ॥१२५॥

क्षिप्त्वा पटलिकायां च स्ववेश्मनि शुचिस्थले ।
निचये हृष्टमनसा निदध्यात् पारणं ततः ॥१२६॥

ओं नमो भैरवाय महासिद्धिप्रदायकाय आपदुत्तरणाय हुं फट् ।
अनेनैव तु मन्त्रेण गृहीत्वा गृहमानयेत् ॥१२७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:44.9500000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

poverty line

  • दारिद्र्य रेषा 
  • गरीबी रेखासीमा 
RANDOM WORD

Did you know?

ऐश्वर्याचे प्रकार किती व कोणते?
Category : Dictionary
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.