TransLiteral Foundation

रसविद्या - भाग ५

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग ५
विशेषजारणाक्रमः

श्रीभैरवी ।
सामान्यजारणा प्रोक्ता त्वया पूर्वं सदाशिव ।
विशेषजारणं ब्रूहि यथा जानाम्यहं प्रभो ॥१॥

श्रीभैरवः ।
शृणु देवि वक्ष्यामि भूचराख्यं तु जारणम् ।

भूचरी जारणा

कृष्णं पीतं तथा रक्तं शुल्बे तीक्ष्णे च मेलयेत् ॥२॥

शुल्बं शुद्धं यदा जीर्णं द्वाविंशतिगुणं मते ।
गन्धनागं ततोऽर्धं तु क्रमेणैव तु मेलयेत् ॥३॥

हेम्ना तु सह दातव्यं सूतकैकेन षोडश ।
गन्धनागं यदा जीर्णं तदा बद्धो भवेद् रसः ॥४॥

हेम्नि जीर्णे ततोऽर्धेन मृतलोहेन रञ्जयेत् ।
गन्धकेन हतं शुल्बं माक्षिकं दरदायसम् ॥५॥

पुटेन मारयेच्छुद्धं हेम दद्यात्तु षड्गुणम् ।
सूतके हेमबीजं च यदा जीर्णं चतुर्गुणम् ॥६॥

बद्धरागं विजानीयाद्धेमाभो जायते रसः ।
सारणायन्त्रमध्यस्थं तेनैव सह सारयेत् ॥७॥

त्रिभागं सारितं कृत्वा पुनस्तत्रैव जारयेत् ।
जारितः सारितश्चैव पुनर्जारितसारितः ॥८॥

सप्तशृङ्खलिकायोगात् कोटिवेधी भवेद्रसः ।
भूचरी जारणा प्रोक्ता खेचरीं जारणां शृणु ॥९॥

खेचरी जारणा

हीनरागानि रत्नानि रसोच्छिष्टानि कारयेत् ।
कटुतुंबस्य बीजानि तस्यार्धेन तु दापयेत् ॥१०॥

महाजारसमायुक्तं कल्कं कुर्याद् विचक्षणः ।
वज्रमूषामुखे चैव तन्मध्ये स्थापयेद् रसम् ॥११॥

कतकं कनकं चैवम् एकीकृत्य विमर्दयेत् ।
पद्मरागप्रलेपं तु रसे ग्रासं तु दापयेत् ॥१२॥

भक्षितव्यं प्रयत्नेन नत्वा च गुरुदेवयोः ।
सर्वसिद्धान् नमस्कृत्य देवताश्च विशेषतः ॥१३॥

मूर्च्छाङ्गदाहश्च ततो जायते नात्र संशयः ।
आत्मानमुत्थितं पश्येद् दिव्यदेहो महाबलः ॥१४॥

शङ्खकाहलनिर्घोषैः सिद्धविद्याधरैः सह ।
इच्छया विचरेल्लोकान् कामरूपी विमानगः ॥१५॥

देवा वै यत्र लीयन्ते सिद्धस्तत्रैव लीयते ।

अन्यो जारणाप्रकारः

पुनरन्यं प्रवक्ष्यामि जारणायोगम् उत्तमम् ॥१६॥

सुघृष्टं पातितं सूतं सर्वदोषोज्झितं ततः ।
शाकपल्लवसारेण विष्णुक्रान्तारसेन च ॥१७॥

पालाशपुष्पतोयेन भावितं गन्धकं समम् ।
समं कृष्णाभ्रसत्वं च रसकं चाष्टकं गुणम् ॥१८॥

तीक्ष्णशुल्बोरगं चैव कूर्मयन्त्रेण जारयेत् ।
काञ्चनं जारयेत् पश्चाद् बिडयोगेन पार्वति ॥१९॥

ततः सिद्धं विजानीयाद् द्वैधं शुल्वस्य दापयेत् ।
कर्मसंख्याप्रमाणेन नागो भवति काञ्चनम् ॥२०॥

अतः परं प्रवक्ष्यामि जारणाक्रमम् उत्तमम् ।
बीजचूर्णानि तैलेन भावयित्वा पुनः पुनः ॥२१॥

षोडशांशेन तं ग्रासमङ्गुल्या मर्दयेच्छनैः ।
आर्द्रकादि ततो योगाद् दातव्यं षोडशांशतः ॥२२॥

भूर्जे दत्त्वा ततो देयं डोलायन्त्रे विनिक्षिपेत् ।
अहोरात्रेण तद्बीजं सूतको ग्रसति प्रिये ॥२३॥

समुद्धृत्य रसं देवि खल्वे संमर्दयेत् ततः ।
ततो यन्त्रे विनिक्षिप्य दिवारात्रं दृढाग्निना ॥२४॥

तप्तं समुद्धृतं यन्त्रात् तप्तखल्वे विमर्दयेत् ।
मर्दयित्वार्द्रके पिण्डे क्षिप्त्वाथ त्रिपुटं दहेत् ॥२५॥

ततो गर्भे पतत्याशु जरते तत्सुखेन तु ।
डोलायन्त्रे ततो दद्याद् आर्द्रपिण्डेन संयुतम् ॥२६॥

तृतीयदिवसे सूतो जरते ग्रसते ततः ।
समजीर्णं ततो यावत् डोलायन्त्रे विचक्षणः ॥२७॥

पश्चात्कच्छपयन्त्रेण समजीर्णं तु पार्वति ।
ताम्रांशद्वादशांशेन कच्छपेन तु जारयेत् ॥२८॥

प्राग्वद् आर्द्रकयोगं च गर्भद्रावणम् एव च ।
पश्चात् तं देवि निक्षिप्य पुटं दद्याद् विचक्षणः ॥२९॥

अष्टांशेन ततो ग्रासं गर्भद्रावं च पूर्ववत् ।
कन्दोदरे सूरणस्य तं विनिक्षिप्य सूतकम् ॥३०॥

पुटयेद्वार्तिकस्तावत् यावत् कन्दो न दह्यते ।
पादांशेन तु मूषायां ग्रासः सूते विधीयते ॥३१॥

पूर्ववच्च बिडं दद्याद्गर्भद्रावणमेव च ।
एवं चतुर्गुणे जीर्णे सूतको बलवान् भवेत् ॥३२॥

ततः शलाकया ग्रासमग्निस्थो ग्रसते रसः ।
ततो रत्नानि जार्याणि वक्ष्यमाणक्रमेण तु ॥३३॥

अभ्रकं भ्रामकं चैव शङ्खनाभिं तथैव च ।
रसानुपरसान्दत्त्वा महाजारसमन्वितम् ॥३४॥

वज्रकन्दलतां ब्राह्मीमेषशृङ्ग्यमृतायसम् ।
कटुतुम्बस्य बीजानि मृतलोहानि पाचयेत् ॥३५॥

सर्वाणि समभागानि शिखिशोणितमर्दितम् ।
तावत्तं मर्दयेत्प्राज्ञो यावत्कर्म दृढं भवेत् ॥३६॥

मूषा मल्लाकृतिश्चैव कर्तव्याच्छादनैः सह ।
तन्मध्ये स्थापयेत्सूतमधोवातेन धामयेत् ॥३७॥

आदौ तावत्प्रकर्तव्यं वज्रमौषधलेपितम् ।
गृह्यते नात्र सन्देहो यथा तीव्रहुताशने ॥३८॥

कुलिशादि भवेद् दग्धं करीषा तेन मर्दयेत् ।
यावदेकादशगुणं कुलिशं जारयेद्बुधः ॥३९॥

संदग्धा शङ्खनाभिश्च मातुलुङ्गरसप्लुता ।
मुक्ताफलं ततो देयं वज्रजीर्णे तु सूतके ॥४०॥

अनेन क्रमयोगेन ह्येकादशगुणं भवेत् ।
केवलं शिखिपित्तं च नीलीनिर्यासमिश्रितम् ॥४१॥

नीलोत्पलानि लिप्तानि निक्षिप्तानि तु सूतके ।
रसः पिबेन्महारागान् हीनरागान् परित्यजेत् ॥४२॥

रत्नानि शिखिपित्तं च महारत्नसमन्वितम् ।
सद्रत्नं लेपयेत् तेन प्रक्षिपेद् रसमध्यतः ॥४३॥

रजनी चैव कङ्कुष्ठं ब्रह्मनिर्यासभावितम् ।
जारणं पुष्परागस्य तेनैव सह दापयेत् ॥४४॥

बहुरत्नेषु जीर्णेषु भृङ्गराजेषु सुव्रते ।
रसेन्द्रो दृश्यतां देवि नीलपीतारुणच्छविः ॥४५॥

धूमवेधीरसः

शुद्धानि हेमपत्राणि शतांशेनानुलेपयेत् ।
पुटेन मारयेदेतदिन्द्रगोपनिभं भवेत् ॥४६॥

संस्पर्शाद् वेधयेत् सर्वम् इदं हेम मृतं प्रिये ।
त्रिभागं सूतकेन्द्रस्य तेनेव सह कारयेत् ॥४७॥

मूषामध्ये स्थिते तस्मिन् पुनस्तेनैव जारयेत् ।
धूमवेधी भवेद्देवि पुनः पुनः प्रसारितः ॥४८॥

अनेन क्रमयोगेन यदि जीर्णा त्रिशृङ्खला ।
वेधयेन्नात्र सन्देहो गिरिपाषाणभूतलम् ॥४९॥

पार्श्वे ज्योतिः प्रदृश्येत ऊर्ध्वं दृश्येत तेन वै ।
भूचरं तं विजानीयाद् रसेन्द्रं नात्र संशयः ॥५०॥

तेनाश्रान्तगतिर् देवि योजनानां शतं व्रजेत् ।
दिव्यतेजा महाकायो दिव्यदृष्टिर् महाबलः ॥५१॥

सर्वरोगविनिर्मुक्तो जीवेच्चन्द्रार्कतारकम् ।
तस्य मूत्रपुरीषं तु सर्वलोहानि विध्यति ॥५२॥

अन्ये वेधप्रकाराः

समजीर्णेन वज्रेण हेम्ना च सहितेन च ।
अग्निस्थो जारयेल्लोहान् बन्धम् आयाति सूतकः ॥५३॥

सारयेत्तेन बीजेन सहस्रमपि वेधयेत् ।
सारितं जारयेत्पश्चात् लेप्यं क्षेप्यं सहस्रतः ॥५४॥

सारयेत्तेन बीजेन लक्षवेधम् अवाप्नुयात् ।
अनेन क्रमयोगेन कोटिवेधी भवेद्रसः ॥५५॥

केवलं तु यदा वज्रं समजीर्णं तु कारयेत् ।
बद्धः सूतस्तदा ज्ञेयो निष्कम्पो निरुपद्रवः ॥५६॥

अग्निस्थो जायते सूतः शलाकां ग्रसते क्षणात् ।
हठाग्निना धाम्यमानो ग्रसते सर्वमादरात् ॥५७॥

ग्रसते जरते सूतम् आयुर्द्रव्यप्रदायकः ।
मूषास्थं धमयेत् सूतं हठाग्नौ नैव कम्पयेत् ॥५८॥

जारयेत् सर्वरत्नानि बद्धः खेचरतां नयेत् ।
अष्टलोहे ऽष्टगुणिते जीर्णे स्याद्रसबन्धनम् ॥५९॥

लोहानि सर्वांस्त्रिगुणं त्रिगुणं कनकं तथा ।
धूमावलोके वेधी स्यात् भवेन्निर्वाणदोऽम्बरः ॥६०॥

आदावष्टगुणं जार्यं व्योमसत्त्वं महारसे ।
समं हेमदशांशेन वज्ररत्नानि जारयेत् ॥६१॥

समं च जारयेद् वज्रं तदासौ खेचरो रसः ।
क्रमे प्रदक्षिणावर्तः कोटिवेधी च जायते ॥६२॥

जीर्णद्रव्यमानभेदाद्वेधे विशेषः

समे तु पन्नगे जीर्णे दशवेधी भवेद्रसः ।
द्विगुणे शतवेधी स्यात् सहस्रं त्रिगुणे भवेत् ॥६३॥

चतुर्गुणेऽयुतं देवि क्रमेणानेन वर्धयेत् ।
उत्तरोत्तरवृद्ध्या तु जारयेत् तत्र पन्नगम् ॥६४॥

कुटिलं पन्नगं जार्यं नवसंख्याक्रमेण तु ।
दत्त्वा क्रमेण देवेशि कोटिवेधी भवेद्रसः ॥६५॥

गन्धकादिमपाषाणे षड्गुणे जीर्णतां गते ।
रोगहर्ता रसः स्यात्तु समुखे तवदा भवेत् ॥६६॥

तस्मिन् शतगुणे जीर्णे रुग्जरामृत्युहा भवेत् ।
अभ्रकादिमपाषाणसत्त्वान्यात्मसमं ग्रसन् ॥६७॥

रुग्जरा मरणं जित्वा शतवेधी रसो भवेत् ।
शतायुर्द्विगुणे जीर्णे सूतः साहस्रवेधकः ॥६८॥

चतुर्गुणे सहस्रायुः पारदो ऽयुतवेधकः ।
रसश्चाष्टगुणे जीर्णे लक्षायुर् लक्षवेधकः ॥६९॥

ब्रह्मायुः षोडशगुणे कोटिवेधी भवेद् रसः ।
द्वात्रिंशद्गुणिते जीर्णे खेचरत्वादिसिद्धिदः ॥७०॥

विष्णोर् आयुर्बलं दत्ते पारदः स्पर्शवेधकः ।
चतुःषष्टिगुणे जीर्णे शिवायुः शब्दवेधकः ॥७१॥

षड्गुणाभ्रकजारणेन सर्वदोषनाशः

रसस्य सर्वदोषास्तु षड्गुणेनाभ्रकेण तु ।
जीर्णेन नाशम् आयान्ति नात्र कार्या विचारणा ॥७२॥

तदा ग्रसति लोहानि त्यजेच्च गतिम् आत्मनः ।

पञ्चावस्था

धूमश्चिटिचिटिश्चैव मण्डूकप्लुतिरेव च ॥७३॥

सकम्पश्च विकम्पश्च पञ्चावस्था रसस्य तु ।
समजीर्णो भवेद्बालो यौवनस्थश्चतुर्गुणः ॥७४॥

वृद्धः षड्गुणजीर्णस्तु सर्वकर्मकरः शुभः ।

जारणे क्रमः

गन्धकं जारयेदादौ सर्वसत्त्वान्यतः परम् ॥७५॥

ततः सर्वाणि लोहानि द्वन्द्वानि विविधानि च ।
पक्वबीजानि रत्नानि द्रुतिसत्त्वे च जारयेत् ॥७६॥

चतुःषष्ट्यंशके पूर्वं द्वात्रिंशांशे तृतीयकः ।
तृतीयः षोडशांशे तु चतुर्थश्चाष्टमेन च ॥७७॥

पञ्चमोऽथ चतुर्थांशे षष्ठो द्व्यंशे प्रकीर्तितः ।
शतांशे सप्तमो ज्ञेयो ग्रासमानं रसस्य तु ॥७८॥

ग्रासमानभेदेन स्वरूपभेदः

चतुःषष्ट्यंशके ग्रासे दण्डधारी भवेद् रसः ।
जलूकाभो द्वितीये तु ग्रासयोगे सुरेश्वरि ॥७९॥

ग्रासे रसात् तृतीये च काकविष्ठासमो भवेत् ।
चतुर्थो गोलकाकारः पञ्चमे दहनप्रभः ॥८०॥

षष्ठे सूर्यप्रभः सूतस्तेजःपुञ्जश्च सप्तमे ।
रसराजस्य देवेशि क्रमाज्जीर्णस्य लक्षणम् ॥८१॥

समांशं द्विगुणं ग्रासं ततः सूते चतुर्गुणम् ।
तथा चाष्टगुणं देवि जारयेच्च कलागुणम् ॥८२॥

द्वात्रिंशद्गुणितं देवि चतुःषष्टिगुणं क्रमात् ।

संस्कारैर् जायमाना गुणाः

तीव्रत्वं जनयेत् स्वेदाद् अमलत्वं च मर्दनात् ॥८३॥

मूर्छनाद् दोषराहित्यम् उत्थानात् पूतिनाशनम् ।
रसायनं पातनेन रोधादाप्यायनं भवेत् ॥८४॥

अचापल्यं नियमनाद् दीपनात्समुखो ज्वलेत् ।
वासनाद् योगसांगत्यं चारणाद्बलचारिता ॥८५॥

जारणाद्बन्धनं सम्यगेकत्वं द्रावणद्वयात् ।
रक्तत्वं रञ्जनात् तस्य व्यापित्वं सारणात्रयात् ॥८६॥

क्रामित्वं क्रामणाद् देहलोहेष्वपि च वेधनात् ॥८७॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:42.9200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

earning power

  • अर्जन शक्ति 
  • अर्जन शक्ति 
RANDOM WORD

Did you know?

गांवे, नद्या, समुद्र, देवदेवता किंवा अन्य नांवांची उत्पत्ती काय असेल? नांवे कशी पडली असतील?
Category : Hindu - Literature
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site