TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!

रसविद्या - भाग ४

रसविद्या, मध्यकालीन भारतातील जी आयुर्वेदीक विद्या आहे, त्यातील एक अग्रणी ग्रंथ म्हणजे आनंदकंद.


भाग ४
रससंकाराः

श्रीभैरवी ।
रससंस्कारमीश त्वं यथावत्कथयस्व मे ।
श्रीभैरवः ।
अष्टादश स्युः संस्कारा रसस्य परमेश्वरि ॥१॥

तान्सिद्धसाधकाभ्यर्च्ये यथावत्कथयामि ते ।
अथादौ स्वेदनं कर्म द्वितीयं मर्दनं प्रिये ॥२॥

मूर्छा तृतीयमुत्थानं चतुर्थं पातनं शिवे ।
पञ्चमं रोधनं षष्ठं नियामं सप्तमं स्मृतम् ॥३॥

दीपनं चाष्टमं देवि नवमं चानुवासनम् ।
दशमं चारणं देवि जारणं रुद्रसंख्यकम् ॥४॥

गर्भद्रुतिर्द्वादशी स्यात् बाह्यद्रुतिस्त्रयोदशी ।
चतुर्दशं स्याद्रागाख्यं सारणा दशपञ्चमी ॥५॥

अनुसारणा षोडशी च विख्याता प्रतिसारणा ।
सप्तदशी चाष्टदशं वेधनं देहलोहयोः ॥६॥

रससंस्कारप्रकारः

अथ वक्ष्यामि संस्कारान् रसराजस्य पार्वति ।
लिङ्गस्य दक्षिणे भागे लिखेत् षट्कोणमण्डले ॥७॥

तद्बहिश्चाष्टपत्रं च कमलं चतुरश्रकम् ।
दिग्द्वारशोभितं तस्य कर्णिकायां न्यसेच्छिवे ॥८॥

ताम्रजं कान्तजं वापि खल्वं तु स्वर्णरेखितम् ।
तन्मध्ये रसराजं तु पलानां शतमात्रकम् ॥९॥

तदर्धं वा तदर्धं वा क्षिप्त्वा भक्त्या प्रपूजयेत् ।
साधको रसराजस्य ततः संस्कारमाचरेत् ॥१०॥

स्वेदनम्, धान्याम्लसन्धानप्रकारः

यवगोधूमकलममाषमुद्गचणादिभिः ।
श्यामाककोद्रवाद्यैश्च नानाधान्यैश्च निस्तुषैः ॥११॥

धान्यं चतुर्गुणजले मृद्घटे निक्षिपेत्प्रिये ।
प्राप्नोति यावदम्लत्वं तावद्यत्नेन रक्षयेत् ॥१२॥

तन्मध्ये हंसपादीं च मीनाक्षीं द्विपुनर्नवाम् ।
चित्रकं भृङ्गराजं च विष्णुक्रान्तां शतावरीम् ॥१३॥

सर्पाक्षीं गिरिकर्णीं च मुण्डीं च सहदेविकाम् ।
त्रिफलां खण्डशः कृत्वा सर्वानेतान्विनिक्षिपेत् ॥१४॥

धान्यस्य च चतुर्थांशान् धान्याम्लमिदमुत्तमम् ।
स्वेदनादिषु कार्येषु पारदस्य विशिष्यते ॥१५॥

आतप्ते कान्तजे खल्वे रसराजं विनिक्षिपेत् ।
चूर्णं च गृहधूमं च चित्रकं त्रिफलां गुडम् ॥१६॥

दग्धोर्णामिष्टकां कन्यां लवणं बृहतीद्वयम् ।
मागधीं राजिकां चैव वन्ध्यां कर्कोटकीं तथा ॥१७॥

एतान्कलांशान्सूतस्य तस्मिन्क्षिप्त्वा विमर्दयेत् ।
दत्त्वा दत्त्वाथ धान्याम्लमेवं कृत्वा दिनत्रयम् ॥१८॥

सम्यक् सोष्णारनालेन रसं प्रक्षालयेत्प्रिये ।
पटुं राजीं त्रिकटुकं मूलकं चित्रकं वराम् ॥१९॥

पुनर्नवां मेषशृङ्गीं मेघनादं दुरालभाम् ।
आर्द्रकं रजनीं नागबलां च नवसारकम् ॥२०॥

समं धान्याम्लकैः पिष्ट्वा श्लक्ष्णं वस्त्रे प्रलेपयेत् ।
यावदङ्गुलिमात्रं च तस्मिन्पूर्वरसं क्षिपेत् ॥२१॥

तद्बद्ध्वा ताम्रजे पात्रे क्षिप्त्वा धान्याम्लपूरिते ।
घटे दोलाख्ययन्त्रे च स्वेदयेत्तमहर्निशम् ॥२२॥

तमुद्धृत्य पुनः सोष्णैर् आरनालैः शरावके ।
प्रक्षालयेत्सूतराजमेवं कुर्यात्त्रिसप्तधा ॥२३॥

प्रस्वेदितं सूतराजं ततः संमर्दयेत् प्रिये ।

मर्दनम्

अथातो मर्दनं कर्म वक्ष्यामि शृणु भैरवि ॥२४॥

चूर्णादिपूर्ववद्द्रव्यं विशालां राजवृक्षकम् ।
अङ्कोलं कृष्णधुत्तूरं त्रिकटुं च समं समम् ॥२५॥

सर्वं सूतकलांशं च तप्तखल्वे रसं क्षिपेत् ।
मर्दयेत् पूर्वधान्याम्लैर् दिवारात्रं पुनश्च तम् ॥२६॥

क्षालयेन्मृण्मये पात्रे ततः सोष्णारनालकैः ।
मर्दनं क्षालनं चैवमेकविंशतिवासरम् ॥२७॥

एवं विमर्दितं सूतं समादायाथ मूर्छयेत् ।
अभ्रजीर्णोऽथवा बीजजीर्णः सूतोऽपि मर्द्यते ॥२८॥

चूर्णादिपूर्वद्रव्यैश्च रागान् गृह्णाति निर्मलः ।

मूर्च्छा

अथ मूर्छां प्रवक्ष्यामि शृणु त्वं सावधानतः ॥२९॥

राजिका मेषशृङ्गी च चित्रकं च फलत्रयम् ।
क्षीरकन्दं सूरणं च सर्पाक्षी काकमाचिका ॥३०॥

नीला वचा बला कन्या कृष्णोन्मत्तस्तथाकुली ।
श्वेतापराजिताङ्कोलं गोजिह्वा गरुडी तथा ॥३१॥

एतेषां स्वरसैर्मर्द्यो रविक्षीरेण पारदः ।
व्यस्तानां वा समस्तानां रसैरेषां दिनावधि ॥३२॥

मर्दयेत्तप्तखल्वे च मूषायां तं रसं क्षिपेत् ।
निरुध्य भूधरे यन्त्रे विपचेत्तं पुनः प्रिये ॥३३॥

राजिकाद्यौषधभवै रसैस् त्रिः सप्तवासरम् ।
मर्दनं भूधरे पाकं कुर्यात्संमूर्छितो रसः ॥३४॥

भवेत्तदुत्थानविधिं प्रकुर्वीत सुरार्चिते ।

उत्थापनविधिः

एवं संमूर्छितं सूतं क्षालयेत्कांजिकेन च ॥३५॥

सोष्णेन वारिणा वापि सूतमुत्थापयेत्प्रिये ।
पातनायन्त्रयोगे वा रसस्योत्थापनं भवेत् ॥३६॥

पातनम्

पातनं त्रिविधं प्रोक्तं रसराजस्य पार्वति ।
ऊर्ध्वपातमधःपातं तिर्यक्पातनमुच्यते ॥३७॥

ऊर्ध्वपातनविधिः

रसस्य पातनं वक्ष्ये पाठा ब्राह्मी च चित्रकम् ।
शाङ्गेरी काकमाची च मण्डूकी गिरिकर्णिका ॥३८॥

कुमारी च जया भृङ्गी गोजिह्वा शङ्खपुष्पिका ।
भूपाटली च निर्गुण्डी काकजङ्घा शतावरी ॥३९॥

आर्द्रकं देवदाली च तिलपर्णी च नीलिका ।
आरग्वधः क्षीरकन्दमङ्कोलो देवदारु च ॥४०॥

एषां रसैः समस्तानां व्यस्तानां वा दिनं रसम् ।
मर्दयेत्तप्तखल्वे तत् शुल्बं सूतचतुर्थकम् ॥४१॥

तं पिष्ट्वा पातयेद्यन्त्रे ह्यूर्ध्वपातनके दिनम् ।
ऊर्ध्वलग्नं रसं शुद्धं तमादायाथ मर्दयेत् ॥४२॥

पूर्वोदितौषधरसैः पूर्ववत् शुल्बसंयुतम् ।
पातयेन्मर्दयेदेवं सप्तधैवं पुनः पुनः ॥४३॥

ऊर्ध्वपातनसंशुद्धं पारदं पातयेदधः ।

अधःपातनविधिः

अथाधःपातनं वक्ष्ये त्र्यूषणं लवणं वराम् ॥४४॥

चित्रकं राजिकां शिग्रुं सर्वं सूतसमं क्षिपेत् ।
मर्दयेत्तप्तखल्वे च रसं धान्याम्लकेन च ॥४५॥

तत्कल्केन लिपेदूर्ध्वं भाण्डं सम्यक् निरोधयेत् ।
ऊर्ध्वभाण्डस्य पृष्ठे तु दद्याल्लघुपुटं ततः ॥४६॥

इत्यधःपातनं कुर्यात्सप्तवारं पुनः पुनः ।
अधःपातनशुद्धस्य तिर्यक्पातनमाचरेत् ॥४७॥

तिर्यक्पातनविधिः

वक्ष्यामि तिर्यक्पतनं सूतं धान्याभ्रकं समम् ।
धान्याम्लैर्मर्दयेद्यामं तिर्यक्पातनयन्त्रके ॥४८॥

चण्डाग्निना पचेदेवं सप्तवारं पुनः पुनः ।
एवं त्रिधा पातितं च ततः सूतं निरोधयेत् ॥४९॥

अभ्रकं वाथ गन्धं वा माक्षिकं विमलामपि ।
स्वर्णं वा रजतं वापि कान्तं वा तीक्ष्णमेव वा ॥५०॥

प्रत्येकं शोधितं देयं ताम्रवत्पादमात्रकम् ।
पाठादिकरसैः कुर्यान्मर्दनं पातनं क्रमात् ॥५१॥

यद्यद्द्रव्यान्वितः सूतस् तत्तद्द्रव्यगुणप्रदः ।
पातने ताम्रयोगेन नागवङ्गौ त्यजेद्रसः ॥५२॥

अथवा दीपिकायन्त्रे शुद्धः स्यात्पातितो रसः ।

निरोधनम्

कदर्थितो भवेत्सूतः स्वेदाद्यैः पञ्चकर्मभिः ॥५३॥

आप्यायनार्थं सूतस्य कर्म कुर्यान्निरोधनम् ।
अथ कर्म निरोधाख्यं पेषयेल्लवणं जलैः ॥५४॥

स्थालीमध्ये रसं क्षिप्त्वा तदूर्ध्वं लवणं क्षिपेत् ।
किंचिज् जलं च निवपेत्तं शरावेण रोधयेत् ॥५५॥

कुर्यात्सम्यक् सन्धिलेपं तदूर्ध्वं च पुटेल्लघु ।
एवं निरोधनं कर्म विदध्यात्सप्तधा प्रिये ॥५६॥

आप्यायितो भवेत्सूतोऽनेन षण्डत्ववर्जितः ।
निरोधकर्मसिद्धोऽसौ वीर्यवान् सुनियम्यते ॥५७॥

नियामनम्

अथो नियामनं कर्म कथयामि वरानने ।
यवचिञ्चा क्षीरकन्दं सर्पाक्षी पटु भृङ्गराट् ॥५८॥

वन्ध्या कर्कोटकी निम्बः सर्वं धान्याम्लपेषितम् ।
कृत्वालोड्यारनालेन तद्द्रवैः स्वेदयेद्दिनम् ॥५९॥

यन्त्रे नियामके सप्तवासरं तं च दीपयेत् ।

दीपनम्

अथातो दीपनं कर्म वदामि तव पार्वति ॥६०॥

स्वर्णपुष्पी च मरीचं त्रिक्षारं पञ्चपुष्पिका ।
भूखगः पञ्चलवणं राजिका शिग्रुमूलकम् ॥६१॥

कासीसं विजया कन्या पातालगरुडी कणा ।
क्षीरकन्दं च कर्कोटी गिरिकर्णी जया मधु ॥६२॥

चित्रकं काकजङ्घा च सर्वमम्लगणेन च ।
कल्कयेत्पारदं तेन मर्दयेत्तद्द्रवैरपि ॥६३॥

डोलायन्त्रे पचेदेकदिनमेवं च सप्तधा ।
मर्दनं पाचनं कुर्यात् ग्रासार्थी दीपितो रसः ॥६४॥

एवं प्रदीपितं सूतं शुद्धं तमनुवासयेत् ।

अनुवासनम्

अथानुवासनं कर्म मृत्पात्रे दीपितं रसम् ॥६५॥

क्षिप्त्वा जम्बीरजद्रावैस्तीव्रघर्मेऽनुवासयेत् ।
एवं सप्तदिनं कुर्यात्ततश्चारणमाचरेत् ॥६६॥

नवभिः स्वेदनाद्यैश्च शुद्धः स्यात्कर्मभिः प्रिये ।
पारदः सर्वरोगघ्नः सप्तकञ्चुकवर्जितः ॥६७॥

श्रीभैरवी ।
स्वेदनादीनि कर्माणि श्रुतानि वद शङ्कर ।
त्वत्प्रसादाद् असंदेहं संशृण्वे चारणादिकम् ॥६८॥

श्रीभैरवः ।
साधु पृष्टं महाभागे शृणु तच्चारणादिकम् ।

चारणविधिः

अथाभ्रचारणं कर्म वक्ष्यामि परमेश्वरि ॥६९॥

समुखे वा निर्मुखे वा रसे वा वासनामुखे ।
गगनं चारयेद्गर्भपिष्टिग्रासक्रमैः क्रमात् ॥७०॥

समुखचारणम्

अत्रादौ कथ्यते देवि समुखं चारणं स्फुटम् ।
समुखो ग्रसति ग्रासं निर्मुखो ग्रसनाक्षमः ॥७१॥

तस्मात्परं रसेन्द्रस्य मुखीकरणमाचरेत् ।

प्रथमो मुखीकरणप्रकारः

इष्टकामध्यभागे तु गम्भीरं वर्तुलं समम् ॥७२॥

गर्तं कृत्वा तत्र सूतं प्रक्षिपेदनुवासितम् ।
निरुन्ध्यात्स्वच्छवस्त्रेण रसस्य दशमांशकम् ॥७३॥

गन्धं तदूर्ध्वं निक्षिप्य शरावेण निरोधयेत् ।
तत्पृष्ठेऽल्पपुटं दद्यात् गन्धे जीर्णे पुनः पुनः ॥७४॥

क्षिप्त्वा क्षिप्त्वा शतगुणं चारयेत्पातयेदिति ।
चतुर्गुणे सान्द्रवस्त्रे गालयेत्तं रसेश्वरम् ॥७५॥

वेणौ क्षिप्त्वा निरुध्यास्यं पचेद्गोमूत्रपूरिते ।
भाण्डे त्रिसप्तदिवसं पुनस्तं तप्तखल्वके ॥७६॥

जम्बीरमातुलुङ्गाम्लवेतसैर् भूखगैस् त्र्यहम् ।
भूनागैश्च त्र्यहं मर्द्यं तं पश्चादिष्टकोदरे ॥७७॥

एकैकं गर्तमादद्याद्धान्याभ्रं गन्धकं तथा ।
प्रत्येकं दशनिष्कं च यामं जम्बीरमर्दितम् ॥७८॥

अनेन लेपयेद् गर्तद्वयम् एकेष्टकान्तरे ।
गर्ते क्षिप्त्वाथ तं तं विंशन्निष्कं तदूर्ध्वतः ॥७९॥

अपराम् इष्टकां दद्यात् तत्सन्धिं लोणमृत्स्नया ।
दृढं लिप्त्वाथ दीपाग्नौ पचेत्सप्तदिनावधि ॥८०॥

इष्टकां स्वाङ्गशीतां ताम् अवतार्य हरेद्रसम् ।
किट्टहीनं पुनरपि कुर्यादित्थं त्रिवारकम् ॥८१॥

एवं कृते रसेन्द्रस्य सुखं स्याद्देवसंज्ञकम् ।

द्वितीयो मुखीकरणप्रकारः

पुनरन्यं प्रवक्ष्यामि मुखीकरणमुत्तमम् ॥८२॥

रसेन्द्रं जीविभूनागसमं संमर्दयेत्त्र्यहम् ।
तत्क्षिपेत् भूलतालिप्तमूषायां संनिवेशयेत् ॥८३॥

तदूर्ध्वं भूलताकल्कं क्षिप्त्वा रुद्ध्वा विशोषयेत् ।
आर्द्रगोमयलिप्तां तां पादमग्नां निवेशयेत् ॥८४॥

तद्गर्ते च पुटं देयं तुषकारीषवह्निना ।
दिनान्ते तत्समुद्धृत्य पूर्ववन्मर्दयेत्पचेत् ॥८५॥

त्रिंशद्वारं पुनः कुर्यादित्थं वह्निमुखो रसः ।
ग्रसते गुह्यसूतोऽयं सर्वसिद्धिप्रदो भवेत् ॥८६॥

तृतीयो मुखीकरणप्रकारः

पुनरन्यं प्रवक्ष्यामि मुखीकरणमुत्तमम् ।
गोमूत्रपूरिते भाण्डे डोलायन्त्रे पचेद्रसम् ॥८७॥

त्रिः सप्तवारं सम्यक्च रन्ध्रितं वेणुनालके ।
मुखं भवति सूतस्य चारणार्हं वरानने ॥८८॥

चतुर्थो मुखीकरणप्रकारः

इष्टकाद्वयमध्ये च गर्तं तु चतुरङ्गुलम् ।
दशनिष्कं शुद्धगन्धं धान्याभ्रं दशनिष्ककम् ॥८९॥

जम्बीरनीरैः संमर्द्य यामं कल्केन तेन च ।
गर्तद्वयं समांशेन लिप्त्वा गर्ते विनिक्षिपेत् ॥९०॥

वासितं रसराजं तं विंशन्निष्कं तदूर्ध्वतः ।
इष्टकामपरां न्यस्य श्लक्ष्णमृल्लवणैर्दृढम् ॥९१॥

लेपयेदथ दीपाग्निमधः प्रज्वालयेत्प्रिये ।
अनुस्यूतं सप्तरात्रं स्वाङ्गशीतं समुद्धरेत् ॥९२॥

किट्टं विहाय तं सूतं पूर्ववच्च त्रिवारकम् ।
कुर्यादेवं हि सूतस्य मुखं भवति शोभनम् ॥९३॥

निर्मुखचारणाप्रकारः

दिव्यौषधिप्रभावेन रसश्चरति निर्मुखः ।
अथवा वज्रवैक्रान्तस्पर्शाद् अभ्रादिकं चरेत् ॥९४॥

पारदस्य चतुःषष्टिनिष्कं वैक्रान्तभस्म च ।
चतुर्निष्कं वज्रभस्म निष्कं दिव्यौषधिद्रवैः ॥९५॥

सर्वं सप्तदिनं मर्द्य स रसोऽभ्रादिकं चरेत् ।

वासनामुखचारणम्

गन्धकं जारयेत्सूते दोलाख्ये पूर्वभाषिते ॥९६॥

यन्त्रे च षोडशगुणं रसः स्याद्वासनामुखः ।

अभ्रकाभिषेकः चारणीयाभ्रकस्य संस्कारः

चारणार्हाभ्रकस्याहम् अभिषेकं वदामि ते ॥९७॥

प्रथमः प्रकारः

मृतमभ्रं तु रुधिरैः क्षारैर् जलकणैर् अपि ।
सृष्टित्रयैस् तुम्बुरुभिर् मर्दयेद् अम्लवर्गकैः ॥९८॥

सप्ताहं तच्चरेत्सूतः समुखो निर्मुखोऽथवा ।

द्वितीयः प्रकारः

मृतमभ्रं च कदली मूलकं च शतावरी ॥९९॥

पुनर्नवा मेघनादो यवचिञ्चा च शिग्रुकः ।
सूरणं च रसैरेषां मर्दयेद्भावयेत्प्रिये ॥१००॥

सप्ताहं तच्चरेत्सूतः समुखो निर्मुखोऽथवा ।

तृतीयः प्रकारः

शुल्वपात्रे तु लवणसर्जिटङ्कणभूखगान् ॥१०१॥

क्षिप्त्वारनालं त्रिदिनं कुर्यात्पर्युषितं यथा ।
तस्मिन्नागं तु विद्राव्य ढालयेच्छतधा प्रिये ॥१०२॥

रौप्यकर्मणि वङ्गस्य तद्द्रवैर्भावयेद् घनम् ।
सप्ताहं तच्चरेत् सूतः समुखो निर्मुखोऽथवा ॥१०३॥

चतुर्थः प्रकारः

धान्याभ्रमर्कक्षीरेण मर्दयेदेकवासरम् ।
निरुध्य संपुटे पच्यात्कपोताख्ये पुटे पुनः ॥१०४॥

चतुर्वारं पुटेदेवं मर्दयेच्च पुनस्तथा ।
रम्भाद्रवैस्त्रिधा मर्द्यं मूलकस्य द्रवैस्त्रिधा ॥१०५॥

काकमाची मेघनादो मत्स्याक्षी च पुनर्नवा ।
अपामार्गश्चित्रकं च विदारी भृङ्गराण्मुनिः ॥१०६॥

चतुर्वारं पचेदेवं मर्दयेच्च पुनस्तथा ।
एतैरेकैकधा मर्द्यं पुटपाकं पृथक् पृथक् ॥१०७॥

तदभ्रकं भावयेच्च मुसली यवचिञ्चिकाः ।
तण्डुली कदली शिग्रुर्वरी चार्कः पुनर्नवा ॥१०८॥

एकैकैश्च द्रवैर्भाव्यमेकैकं दिवसं पृथक् ।
तदभ्रकं पारदेन्द्रश्चरत्येव सुरार्चिते ॥१०९॥

पञ्चमः प्रकारः

धान्याभ्रं रविदुग्धेन मर्दयेद्याममात्रकम् ।
तदभ्रं संपुटे रुद्ध्वा कपोताख्यपुटे पचेत् ॥११०॥

वारांश्चतुर्दशैवं स्यात्ततो रम्भार्कपीलुकाः ।
नागवल्ली च मुसली कुबेराक्षी च शिग्रुकः ॥१११॥

तुम्बी तुम्बुरुर् अङ्कोलबलापामार्गकाः प्रिये ।
गृहीत्वैषामेकरसं सव्योषं च सकांजिकम् ॥११२॥

भाण्डमध्ये विनिक्षिप्य डोलायन्त्रे पचेत्त्र्यहम् ।
पूर्वाभ्रं च ततस्तस्मात्समुद्धृत्याथ साधयेत् ॥११३॥

टङ्कणं तुवरी सिन्धुकासीसं च समं समम् ।
अभ्रकस्य दशांशं तु सर्वमेतद्विमर्दयेत् ॥११४॥

तदभ्रकं चरेत्सूतः समुखो निर्मुखोऽथवा ।

षष्टः प्रकारः

मुण्डीद्रवे तु शतधा द्रुतं नागं प्रढालयेत् ॥११५॥

तद्द्रवेण च धान्याभ्रं मर्दयेत्संपुटे क्षिपेत् ।
रुद्ध्वा पचेत्कपोताख्ये पुटे चैवं तु सप्तधा ॥११६॥

आर्द्रकस्य द्रवैरेवं सप्तधा चित्रकद्रवैः ।
तत्समं गन्धकं दत्त्वा मर्दयेद् भावयेत् क्रमात् ॥११७॥

प्रागुक्तमुण्डीस्वरसैर् बीजपूररसेन च ।
स्तन्यैरेकदिनं भाव्यं तदभ्रं च चरेद्रसः ॥११८॥

एवं सर्वाणि बीजानि सत्त्वं चाभ्रकस्य च ।
स्वर्णादिसर्वलोहानि सत्वानि विविधानि च ॥११९॥

द्वन्द्वानि सर्वरत्नानि यद्यत्स्याच्चारणार्हकम् ।
तत् तत् पिष्ट्वाभ्रवत् कार्यं तत्तच्चरति पारदः ॥१२०॥

सप्तमः प्रकारः

तिलपर्णीरसैः पिष्ट्वा धान्याभ्रं पुटयेत् त्रिधा ।
सप्तधा भावयेदस्य मर्दनेन च पारदः ॥१२१॥

पिष्टतां याति सहसा गगनं चरति क्षणात् ।

अष्टमः प्रकारः

त्रिक्षारं पञ्चलवणं काङ्क्षी कासीसटङ्कणम् ॥१२२॥

भूखगं हेममाक्षीकं सौराष्ट्री वत्सनाभकम् ।
तुवरी वेतसाम्लं च सर्वमेतत्समांशकम् ॥१२३॥

तत्समांशं तु धान्याभ्रं धान्याम्लैर्मर्दयेद्दिनम् ।
अर्कक्षीरं भृङ्गराजो मेघनादः पुनर्नवा ॥१२४॥

मूलकं चित्रकं रंभा काकमाची शतावरी ।
अपामार्गस्तालमूली विदारी तण्डुली मुनिः ॥१२५॥

मीनाक्षी शिग्रु बृहती कुमारी यवचिञ्चिका ।
बला तुम्बी कुबेराक्षी व्योषं तुम्बुरुपीलुनी ॥१२६॥

अङ्कोलः फणिवल्ली च सर्वमेतत्समांशकम् ।
संपेष्य कल्कयेद्देवि धान्याम्ले तच्चतुर्गुणे ॥१२७॥

द्रुतं नागं शतं वारान्क्षिपेत्तस्मिन्पुनः पुनः ।
कल्कद्रवेण पूर्वाभ्रं यामं संमर्दयेद्दृढम् ॥१२८॥

कपोताख्ये पुटे पच्यादेवं विंशतिवारकम् ।
तत्तुल्यं गन्धकं दत्त्वा पूर्वोक्तैरौषधद्रवैः ॥१२९॥

सस्तन्यैर् बीजपूरोत्थैर् द्रवैर् भाव्यं त्रिवासरम् ।
एतदभ्रं तु सूतस्य चारणे परमं हितम् ॥१३०॥

द्वंद्वितं व्योमसत्वं च बीजानि विविधानि च ।
हेमादिसर्वलोहानि रत्नानि विविधानि च ॥१३१॥

द्वंद्वितं वज्रबीजं च चारणायां विधीयते ।
समस्तमेतत्पूर्वोक्तप्रकारेणैव कारयेत् ॥१३२॥

तदा रसेन्द्रश्चरति तत्सर्वं चारणोचितः ।

नवमः प्रकारः

पात्रे तु कासीसं कांक्षी माक्षीकगन्धकम् ॥१३३॥

क्षारत्रयं पञ्चलोणम् अम्लयुक्तं क्षणं क्षिपेत् ।
दिव्याभिषेकयोगोक्तं शतधा ढालयेदहिम् ॥१३४॥

वङ्गं वानेन वस्तूनि चारणार्हाणि भावयेत् ।
वरी पुनर्नवा रंभा गवाक्षी यवचिञ्चिका ॥१३५॥

शिग्रुका मेघनादश्च रसैरेषां विभावयेत् ।
वज्राभ्रकं क्रमेणैव सप्ताहं सुरवन्दिते ॥१३६॥

तदभ्रकं नागवल्ल्या कोबेर्या शिग्रुकस्य वा ।
बाणाङ्कोलबलारंभास्फोतानां पीलुकस्य वा ॥१३७॥

अलम्बुषाहिमरुचामुसलीतुम्बुरोर् अपि ।
अथवा खरमञ्जर्यास्तिक्तशाकस्य वा प्रिये ॥१३८॥

एकेनैषां रसेनैव व्योषसर्षपसंयुतम् ।
स्विन्नं त्रिदिवसं कुर्यात्तस्मिन्टङ्कणसैन्धवम् ॥१३९॥

कासीसं तुवरीं क्षिप्त्वा पूर्वाभिषवयोगतः ।
एतदभ्रं चरेत्सूतः समुखो निर्मुखोऽथवा ॥१४०॥

तदभ्रकप्रभावेन गोलकः सिद्धिदो भवेत् ।

दशमः प्रकारः

धान्याम्लैरम्लवर्गैश्च स्वेदयेदभ्रकं दिनम् ॥१४१॥

ततः स्नुक्क्षीरतो मर्द्यं कपोताख्ये पुटे दहेत् ।
मुनित्रयं मेघनादं रम्भाकन्दं च मूलकम् ॥१४२॥

मत्स्याक्षी शृङ्गिवेरं च काकमाची पुनर्नवा ।
अपामार्गस् त्व् अरूपूगश्चैतेषां तु रसेन च ॥१४३॥

एकैकेन पुनर्दद्यादेकैकं पूर्वमभ्रकम् ।
डोलायन्त्रे स्नुहीक्षीरयुक्तमेकदिनं पचेत् ॥१४४॥

ततश्छायागते शुष्के घनेऽस्मिन्नवसारकम् ।
निम्बं वचां च कासीसं चणकाम्लं पृथक्पृथक् ॥१४५॥

अभ्रस्य षोडशांशं च निक्षिपेत्ताम्रभाजने ।
घर्षयेत्तच्चरेत्सूतो लोहपात्रस्य योगतः ॥१४६॥

एकादशः प्रकारः

धान्याभ्रं मर्दयेत्सोमवल्लीतोयैर्दिनं दृढम् ।
पुटेदेवं त्रिधा पश्चात् सोमवल्ल्या रसेन च ॥१४७॥

भावयेत्सप्तधा देवि रसश्चरति तद्घनम् ।

द्वादशः प्रकारः

सारनाले तु शतधा निषिच्य तमनेन च ॥१४८॥

शतधा प्लावयेदभ्रं ताम्रवासनया सह ।
खलल्यां तच्चरेत्सूतो नात्र कार्या विचारणा ॥१४९॥

गन्धकभावना

चारणार्थस्य गन्धस्य भावनां शृणु पार्वति ।
सौराष्ट्रं चाजमोदं च सर्जीं सीसमेव च ॥१५०॥

मर्दयेच्छिग्रुतोयेन गन्धकं तेन भावयेत् ।
सप्ताहं मर्दितं गन्धं चारयेत्पारदस्य च ॥१५१॥

रागं धत्ते रसेन्द्रस्य बीजानां पाकजारणे ।
पक्षच्छेदे रसेन्द्रस्य श्रेष्ठः स्यात् सर्वकर्मणि ॥१५२॥

पलाशपुष्पस्वरसैः शाकवृक्षच्छदद्रवैः ।
विष्णुक्रान्ताद्रवैर्गन्धं भावयेत्सप्तवासरम् ॥१५३॥

तं गन्धं चारयेत्सूते इष्टकायन्त्रयोगतः ।

अम्रचारणे श्रेष्ठा दिव्यमूल्यः

अथाभ्रचारणे श्रेष्ठा दिव्यमूलीर्वदामि ते ॥१५४॥

वज्री रंभा हंसपदी चिञ्चिका व्याघ्रपादिका ।
मण्डूकी बृहती पुङ्खा कुमारी लाङ्गली तथा ॥१५५॥

सर्पाक्षी चाग्निधमनी शङ्खपुष्पीन्द्रवारुणी ।
षण्डजारी च कर्कोटी विख्याता दिव्यमूलिका ॥१५६॥

गन्धकाभ्रकचारणम्

अथातश्चारणं कर्म प्रवक्ष्यामि समासतः ।
धान्याभ्रकं द्रुते गन्धे समं क्षिप्त्वा नियोजयेत् ॥१५७॥

ख्यातो गन्धाभ्रयोगोऽयं श्रेष्ठश्चारणकर्मणि ।
समुखं निर्मुखं वापि पारदं दशनिष्ककम् ॥१५८॥

गन्धाभ्रयोगनिष्के द्वे पिष्टं कुर्याद्यथा तथा ।
तं पिष्टं नागपिष्ट्याथ समया परिवेष्टयेत् ॥१५९॥

हेमकर्मणि वङ्गस्य पिष्ट्या रजतकर्मणि ।
ताम्रपिष्ट्या देहसिद्धौ वेष्टयेत्परमेश्वरि ॥१६०॥

तां पिष्टिं विद्रुते गन्धे विपचेद्दिवसत्रयम् ।
तां पिष्टिं दीपिकायन्त्रे पाचयेत्पातयेदधः ॥१६१॥

तं रसं पूर्ववत्पिष्टिं कुर्याद्वेष्टनवर्जिताम् ।
त्रिदिनं विद्रुते गन्धे विपचेत्पातयेदधः ॥१६२॥

तं रसं तप्तखल्वे तु चतुःषष्टिगुणं क्षिपेत् ।
भागैकमभिषिक्ताभ्रं मर्द्यं दिव्यौषधैर्दिनम् ॥१६३॥

तत्क्षिपेच्चारणायन्त्रे जम्बीररससंयुते ।
तीव्रातपे दिनं स्थाप्यं सूतश्चरति तद्घनम् ॥१६४॥

एवं पुनः पुनर्गर्भपिष्टीग्रासक्रमात्मकम् ।
पत्त्राभ्रचारणं प्रोक्तमेवं सत्वाभ्रचारणम् ॥१६५॥

एवं कुर्याद् यथाशक्यं चारणं परमेश्वरि ।
रसेऽभ्रं चारयेत्पूर्वं चतुःषष्टितमांशकम् ॥१६६॥

द्वात्रिंशत्तमभागं स्यात्तदेतत्षोडशांशकम् ।
अष्टमांशं चतुर्थांशं द्वितीयांशं समं क्रमात् ॥१६७॥

द्विगुणं चतुर्गुणं चाष्टगुणं षोडशकं गुणम् ।
द्वात्रिंशद्गुणमेवं स्यात्चतुःषष्टिगुणं क्रमात् ॥१६८॥

पक्षच्छेदस्त्वदोषत्वं लघुता ग्रासयोग्यता ।
मुखिताग्निसहत्वं च व्यापित्वं गतिहीनता ॥१६९॥

रसेन्द्रस्यानवस्थत्वं च भवेदभ्रकचारणात् ।

जारणा

यस्याहमपि तुष्टः स्यां तस्य सूतेन्द्रजारणे ॥१७०॥

मतिर्भवेन्न सन्देहो जारणा भुक्तिमुक्तिदा ।
दुर्लभा जारणा देवि विना भाग्यं न लभ्यते ॥१७१॥

जारणा द्विविधा बालजारणा वृद्धजारणा ।

जारणे क्रमः

गगनं जारयेत्पूर्वं सर्वसत्वान्यतः परम् ॥१७२॥

द्वंद्वानि सर्वलोहानि पक्वबीजानि भैरवि ।
पद्मरागादिरत्नानि जारयेच्च यथाक्रमम् ॥१७३॥

जारणाय अभ्रकसत्वनिर्माणप्रकारः, प्रथमः प्रकारः

जारणार्हं व्योमसत्वं रसराजस्य वक्ष्यते ।
धान्याभ्रकं च विधिवन्मारयेद्वज्रसंज्ञकम् ॥१७४॥

अभिषेकं पूर्ववत् स्यात् तस्मिन् ताप्यं दशांशकम् ।
पञ्चमाहिषगव्यश्च मर्दयेत्कर्षसन्निभाः ॥१७५॥

कुर्वीत वटिकाः कोष्ठीयन्त्रे सत्वं विपातयेत् ।
सत्वस्य च चतुर्थांशं ताप्ये मूषागतं धमेत् ॥१७६॥

एवं कृत्वा चतुर्वारं तत्सत्वं रसजारणे ।
रसायने च भैषज्ये श्रेष्ठं सकलकर्मणि ॥१७७॥

द्वितीयः प्रकारः

मृताभ्रं तच्चतुर्थांशं नागं तत्पादमाक्षिकम् ।
पञ्चभिर्माहिषैर्गव्यैः पातयेत्सत्त्वमुज्ज्वलम् ॥१७८॥

तत्सत्वं तच्चतुर्थांशं माक्षिकं तत्समां शिलाम् ।
धमेत्प्रलिप्तमूषायां सत्वं स्याद्धेमसन्निभम् ॥१७९॥

एवं कुर्याच्चतुर्वारं तत्सत्वं ग्रसते रसः ।

तृतीयः प्रकारः

मृताभ्रकं षोडशांशं तच्चतुर्थांशकं त्रपु ॥१८०॥

तत्समं तालकं क्षिप्त्वा पञ्चमाहिषगव्यतः ।
सत्त्वं निपातयेत्तच्च चतुर्थं हरितालकम् ॥१८१॥

क्षिप्त्वा क्षिप्त्वा चतुर्वारं तत्सत्वं ग्रसते रसः ।

चतुर्थः प्रकारः, अभ्रकसत्त्वमृदूकरणम्

वज्रमूषागतं कृत्वा घनसत्वं च तत्समम् ॥१८२॥

कचं च टङ्कणं क्षिप्त्वा रुद्ध्वा तीव्राग्निना धमेत् ।
तत्क्षिपेदम्लवर्गेण चिञ्चाबीजं स्नुहीदलम् ॥१८३॥

पिष्ट्वा तस्मिन्पुनस्तद्वत्काचटङ्कणयोगतः ।
धमेदेवं सप्तवारं सेचनं च पुनः पुनः ॥१८४॥

तदभ्रसत्त्वं शुभ्रं स्यान्मृदु स्याच्चारणोदितम् ।

पञ्चमः प्रकारः

रसेन्द्रं टङ्कणं ताप्यं भागैकैकं पृथक्पृथक् ॥१८५॥

त्रिभागं शोधितं नागं मृताभ्रं दशभागकम् ।
यवक्षारं च दग्धोर्णां सर्जक्षारं च गुग्गुलुम् ॥१८६॥

अजापञ्चाङ्गसंयुक्तम् अम्लमूत्रगणैर्युतम् ।
मर्दयेत्पूर्ववत्सत्वं पातयेन्मृदु निर्मलम् ॥१८७॥

द्वन्द्वमेलापनाय मूषालेपः॒ प्रथमः प्रकारः

द्वन्द्वमेलापने मूषालेपं वक्ष्यामि पार्वति ॥१८८॥

मेषशृङ्गं खुरं गुञ्जा टङ्कणं च विषं समम् ।
स्थूलभेकस्य वसया पिष्ट्वा मूषां प्रलेपयेत् ॥१८९॥

मिलन्ति सर्वसत्वानि मूषायां चूर्णितानि च ।
गुग्गुलुं धातकीपुष्पं गुडं क्षारत्रयं समम् ॥१९०॥

स्तन्यैः पिष्ट्वाथ मूषायां लेपनं द्वन्द्वमेलनम् ।

द्वितीयः प्रकारः

अश्मभेदी लाङ्गली च भूलता च मरीचकः ॥१९१॥

कार्पासस्य फलं शक्रगोपश्चैतांश्च मर्दयेत् ।
नारीस्तन्येन तेनैव मूषामन्तः प्रलेपयेत् ॥१९२॥

तस्यां मिलन्ति सत्वानि सर्वाणि च महारसाः ।
हेममुख्यानि लोहानि चण्डाग्निधमनेन च ॥१९३॥

तृतीयः प्रकारः

चुचुन्दर्याश्च पिशितं टङ्कणं च विषं समम् ।
मर्दयित्वा च मूषान्तर्लेपयेत्तत्र निक्षिपेत् ॥१९४॥

द्वन्द्वयोग्यं तु यद्यत्स्यात्तत्सर्वं धमनान्मिलेत् ।

चतुर्थः प्रकारः

भस्मीकृतमपामार्गं कङ्गुणीतैलमर्दितम् ॥१९५॥

मूषायां लेपयेत्तेन द्वन्द्वद्रव्यं विनिक्षिपेत् ।
मिलेत्तीव्राग्निधमनात्तत्तन्मारकवापनात् ॥१९६॥

द्वन्द्वमेलापनम्

अत एव प्रवक्ष्यामि द्वन्द्वमेलापनं शृणु ।
वर्षाभूकदलीकन्दकाकमाचीपुनर्नवम् ॥१९७॥

स्वर्णं नरकपालं च गुञ्जा टङ्कणमभ्रकम् ।
सत्वं मूषागतं ध्मातं हेमाभ्रं मिलति क्षणात् ॥१९८॥

अभ्रकं चूर्णयित्वा तु काकमाचीरसप्लुतम् ।
कपित्थतोयसंयुक्तं सूतटङ्कणसंयुतम् ॥१९९॥

वङ्गपत्रान्तरे न्यस्तं ध्मातं वङ्गाभ्रकं मिलेत् ।
आवर्त्य कटुतैलेन भस्मापामार्गजं क्षिपेत् ॥२००॥

हेमाभ्रं नागताप्येन ताराभ्रं हरितालकात् ।
गन्धकेन तु शुल्वाभ्रं तीक्ष्णाभ्रं सिन्धुहिङ्गुलात् ॥२०१॥

वङ्गाभ्रं हरितालेन नागाभ्रं शिलया मिलेत् ।
लाङ्गली चमरीकेशाः कार्पासास्थि कुलत्थकम् ॥२०२॥

भूलता चाश्मदमनी स्त्रीस्तन्यं सुरगोपकः ।
द्वन्द्वे प्रलिप्तमूषायां सुध्मातास्तीव्रवह्निना ॥२०३॥

कान्ताभ्रशैलविमलाः मिलन्ति सकलाः क्षणात् ।
अथ चुच्छुन्दरीमांसं विषटङ्कणयोजितम् ॥२०४॥

मूषाप्रलेपात्कुरुते सर्वद्वन्द्वेषु मेलनम् ।
जौरभ्रमरशृङ्गं च मण्डूकस्य वसामिषम् ॥२०५॥

गुञ्जाटङ्कणलेपेन सर्वसत्वेषु मेलनम् ।
टङ्कणोर्णागिरिजतुकर्णाक्षीमलकर्कटैः ॥२०६॥

मिलन्ति सर्वद्रव्याणि स्त्रीस्तन्यपरिपेषितैः ।
धातकीगुग्गुलुगुडसर्जयावकटङ्कणैः ॥२०७॥

स्त्रीस्तन्यपेषितं शस्तं द्वन्द्वं स्यात्तु रसायने ।
सूक्ष्मचूर्णं तु यत् किंचित् पूर्वकल्केन संयुतम् ॥२०८॥

अन्धमूषागतं ध्मातं संकरं मिलति क्षणात् ।
वापितं ताप्यरसकसस्यकैर्दरदेन च ॥२०९॥

स सत्वं स्याद् अनिबिडं दृढं ध्मातं मिलेत्ततः ।
रसोपरसलोहानि सर्वाण्येकत्र मेलयेत् ॥२१०॥

प्रथमः प्रकारः

अन्योन्यं द्वंद्वतां यान्ति द्रवन्ति सलिलं यथा ।
वज्राभ्रसत्त्वचूर्णं तु यत् किंचिल् लोहचूर्णकम् ॥२११॥

द्वयं समं तयोस्तुल्यम् अरिवर्गं विनिक्षिपेत् ।
द्वन्द्वमेलनमूषायां धमनान्मेलनं भवेत् ॥२१२॥

द्वितीयः प्रकारः

मर्दयेट्टङ्कणं रम्भाकन्दतोयेन लेपयेत् ।
मूषां श्वेताभ्रकं वङ्गं धमनान्मिलति प्रिये ॥२१३॥

तृतीयः प्रकारः

वनशिग्रुष्टङ्कणश्च गुञ्जा च नृकपालकम् ।
पिष्ट्वा योषित्स्तन्यनीरैस्तेन मूषां प्रलेपयेत् ॥२१४॥

वङ्गश्वेताभ्रसत्वं च चूर्णयित्वा क्षिपेद्धमेत् ।
असंशयं मिलन्त्येव श्रेष्ठं रजतकर्मणि ॥२१५॥

चतुर्थः प्रकारः

श्वेताभ्रसत्वं संचूर्ण्य तच्चतुर्थांशपारदम् ।
सूततुल्यं टङ्कणं च मर्दयेत् काकमाचिजैः ॥२१६॥

द्रवैस्तद्गोलकं कृत्वा वङ्गपत्रेण वेष्टयेत् ।
श्वेताभ्रसत्वतुल्येन लिप्तमूषागतं धमेत् ॥२१७॥

भवेत् सम्मेलनं सम्यक् मुख्यः स्याद्रूप्यकर्मणि ।

वज्रहेममेलापने मूषालेपः॒ प्रथमः प्रकारः

अथातो वज्रकनकद्वन्द्वमेलाप्रलेपनम् ॥२१८॥

गुञ्जा कान्तमुखं तुल्यं द्वन्द्वयोर्द्विगुणं बलिम् ।
स्तन्येन योषितां पिष्ट्वा मूषायामन्तरे तथा ॥२१९॥

मेलयेद्वज्रमेलापोऽयं कथितो मया ।

द्वितीयः प्रकारः

शिलाधातुः कान्तमुखं शशदन्ताश्च गन्धकः ॥२२०॥

अम्लवेतसकं तुल्यं पिष्ट्वा मूषां प्रलेपयेत् ।
हेमवज्रं मिलत्येव मूषायां नात्र संशयः ॥२२१॥

तृतीयः प्रकारः

कुलीरास्थि शिलाधातु महिषीकणदृङ्मलम् ।
टङ्कणोर्णासमं सर्वं कान्तास्तन्येन मर्दयेत् ॥२२२॥

अनेन लेपयेन्मूषां हेमवज्रं मिलत्यलम् ।

चतुर्थः प्रकारः

कान्तास्यं टङ्कणं बालवत्सविड्भ्रमरास्थि च ॥२२३॥

मनुष्यचिकुरास्थीनि स्त्रीस्तन्येन विमर्दयेत् ।
अनेन लिप्तमूषायां हेमवज्रं मिलेद्ध्रुवम् ॥२२४॥

पञ्चमः प्रकारः

ताप्यटङ्कणभूनागकान्तकाचमधूनि च ।
कुलीरास्थि स्नुहीक्षीरमर्कक्षीरं समं समम् ॥२२५॥

स्तन्येन मर्दयेत्सर्वं मूषालेपं तु कारयेत् ।
मूषालेपो भवेदेष वज्रहाटकमेलनः ॥२२६॥

वज्रं भस्मीभवेद्यैस्तैर्मूषामन्तर्विलेपयेत् ।
धमेत्तीव्राग्निना हेमवज्रमेलापनं भवेत् ॥२२७॥

वज्रहेममेलापनम्॑ प्रथमः प्रकारः

अथातो मेलनं वक्ष्ये वज्रहेम्नोः सुरेश्वरि ।
स्वर्णं द्वादशभागं स्यात्तदर्धं शुद्धपारदम् ॥२२८॥

रसेन्द्रार्धं नागभस्म नागार्धं मृतवज्रकम् ।
एतच्चतुष्टयं चाम्लैर्मर्दयेत्तप्तखल्वके ॥२२९॥

उद्धृत्य द्वन्द्वमेलापे मूषायां रोधयेद्धमेत् ।
हठात्तच्च मिलत्येतन्नात्र कार्या विचारणा ॥२३०॥

द्वितीयः प्रकारः

भावयेच्छारिवाक्षीरे मृतं वज्रं दिनं ततः ।
मर्दयेद्गोलकं कृत्वा शेषयेच्चैकभागकम् ॥२३१॥

त्रिभागं रसराजं च चतुर्भागं सुवर्णकम् ।
अम्लेन मर्दयेत्पिष्टिं कृत्वा तद्गोलकम् ॥२३२॥

तत्पिष्ट्वा वेष्टयेत्तच्च भूर्जपत्रेण वेष्टयेत् ।
पक्षं न्यसेद्धान्यराशौ तदुद्धृत्य पुनः पुनः ॥२३३॥

धमेद्धठान्मिलत्येव नात्र कार्या विचारणा ।

तृतीयः प्रकारः

वज्रं षोडशभागेन हेमपत्रेण वेष्टयेत् ॥२३४॥

तत्क्षिपेल्लिप्तमूषायां स्वर्णांशं श्वेतकाचजम् ।
चूर्णं वा नृकपालं वा चूर्णं कृत्वा विनिक्षिपेत् ॥२३५॥

निरुध्य च धमेत्तीव्रमेवं कुर्यात्पुनः पुनः ।
क्षिप्त्वा क्षिप्त्वा श्वेतकाचं नृकपालमथापि वा ॥२३६॥

सप्तधैवं मिलत्येव पुनरेवं विधीयते ।
अस्य हेम्नः षोडशांशं मृतं वज्रं विनिक्षिपेत् ॥२३७॥

पूर्ववल्लिप्तमूषायां काचं वा नृकपालकम् ।
क्षिप्त्वा क्षिप्त्वा धमेत्तीव्रं सप्तवारं मिलत्यलम् ॥२३८॥

एवं तृतीयवारं च कुर्यादेवं चतुर्थकम् ।

द्वन्द्वितानामभिषेकः

अथातो द्वंद्वितानां च प्रवक्ष्याम्यभिषेचनम् ॥२३९॥

कासीसं पञ्चलवणं माक्षीकं गन्धकं तथा ।
कांक्षी क्षारत्रयं तुल्यमारनालेन मर्दयेत् ॥२४०॥

तत्कल्कम् आतपे ताम्रपात्रे संस्थापयेत्त्र्यहम् ।
तस्मिन्क्षिपेद्द्रुतं नागंशतधा तद्द्रुतं द्रुतम् ॥२४१॥

ताम्रपात्रस्थसौवीरैर् भावयेच्छतवारकम् ।
द्वंद्वितं तच्चरेत्सूतो यत् किंचिज् जारणार्हकम् ॥२४२॥

रूप्यकर्मणि वङ्गं स्यान्नागं स्याद्धेमकर्मणि ।

पक्वबीजविधानम्

अथातः सम्प्रवक्ष्यामि पक्वबीजं सुरार्चिते ॥२४३॥

प्रथमं विधानम्

सुवर्णे विद्रुते तुल्यं नागाभ्रं द्वंद्वितं प्रिये ।
वाहयेद्द्वादशगुणं स्वर्णशेषं यथा धमेत् ॥२४४॥

पक्वबीजम् इदं ख्यातं जारयेत्पारदे क्रमात् ।

द्वितीयं विधानम्

पीताभ्रसत्वं स्वर्णं च समांशं द्वंद्वितं धमेत् ॥२४५॥

वाहयेद् द्वादशगुणं स्वर्णशेषं यथा धमेत् ।
पुनः पीताभ्रसत्वं च वहेद्दशगुणं शनैः ॥२४६॥

स्वर्णशेषं भवेद् यावत् पक्वबीजम् इदं भवेत् ।

तृतीयं विधानम्

नागार्कव्योमरसकं चतुस्त्रिर्द्व्येकभागिकम् ॥२४७॥

चूर्णयेल्लिप्तमूषायाम् अन्धयेच्च धमेद्दृढम् ।
माक्षिकेण च तत्खोटं संपेष्याम्लैः पुटे पचेत् ॥२४८॥

पुनस्तत्सममाक्षीकमम्लैः पिष्ट्वा पुटे पचेत् ।
एवं पञ्चपुटं दत्त्वा तद्द्रुते हेम्नि वाहयेत् ॥२४९॥

धमेद्दशगुणं यावत् तावत् स्यात् पक्वबीजकम् ।

चतुर्बीजक्रमः

अथातः सम्प्रवक्ष्यामि चतुर्बीजं वरानने ॥२५०॥

हेमताराहिकुटिलबीजान्येतानि तत्त्वतः ।
हेमबीजं नागबीजं शस्यते हेमकर्मणि ॥२५१॥

तारबीजं वङ्गबीजं कथिते रूप्यकर्मणि ।
हेमबीजं तारबीजं भवेतां च रसायने ॥२५२॥

नागबीजं वङ्गबीजं न रसायनकर्मणि ।
चत्वार्येतानि बीजानि भवेयू रोगशान्तये ॥२५३॥

अन्यथा नैव योज्यानि बीजान्येतानि शाम्भवि ।

हेमबीजविधानम्, प्रथमं हेमबीजम्

गन्धकं सस्यकं वापि माक्षीकं वाथ तालकम् ॥२५४॥

शिलां च विमलां वापि वैक्रान्तं वाञ्जनं च वा ।
खर्परं वा कान्तमुखं वा चूर्णयित्वा समांशकम् ॥२५५॥

शतवारान्द्रुते हेम्नि वाहयेच्च पुनः पुनः ।

द्वितीय नागभस्मसिद्धं हेमबीजम्

सूतहिंगुलकंकुष्ठलोहपर्पटिकाभ्रकम् ॥२५६॥

मृतार्कमाक्षीकशिलाविमलांश्च समांशकान् ।
एतान्नागकलाभागान् स्नुह्यर्कपयसा प्रिये ॥२५७॥

मर्दयेत्तेन पत्राणि शुद्धनागस्य लेपयेत् ।
पुटेद्द्वात्रिंशतिपुटे नागो भस्मति तद्वहेत् ॥२५८॥

समं समं च शतधा विद्रुते पूर्ववाहिते ।
सुवर्णे च तथा हेमशेषं तावद्धमेद्दृढम् ॥२५९॥

तृतीयं वङ्गभस्मसिद्धं हेमबीजम्

अथवा भस्मयेद्वङ्गं तालशङ्खाभ्रपारदैः ।
चिञ्चाक्षारैस्त्रपुसमैः स्नुह्यर्कक्षीरमर्दितैः ॥२६०॥

पुटेत् षोडशभिस्तच्च शतधा हेम्नि वाहयेत् ।

चतुर्थं ताम्रभस्मसिद्धं हेमबीजम्

अथवा मारयेच्छुल्बमूर्ध्वाधो गन्धकं समम् ॥२६१॥

क्षिप्त्वा पुटेद् अष्टवारं तत्ताम्रं हेम्नि वाहयेत् ।

पञ्चमं तीक्ष्णभस्मसिद्धं हेमबीजम्

अथवा मारयेत्तीक्ष्णं तीक्ष्णतुल्यं च हिंगुलम् ॥२६२॥

स्त्रीस्तन्यैर् मर्दयित्वा तु पुटेदथ कलांशकम् ।
तीक्ष्णस्य हिंगुलं दत्त्वा मर्दयेत् पुटयेत् क्रमात् ॥२६३॥

एवं तत् षोडशपुटैः तत्तीक्ष्णं हेम्नि वाहयेत् ।
शतधा हेम तदिशं विद्रुते हेम्नि वाहयेत् ॥२६४॥

षष्ठं हेमबीजम्

तद्धेम्नि द्विगुणं ताप्यं पूर्णितं तद्धमेद्दृढम् ।
तच्चूर्णयेद् द्वित्रिपुटैः पञ्चभिर् मारितं भवेत् ॥२६५॥

तद्वाहयेद्दशगुणं द्रुते हेम्नि धमन् धमन् ।
तदेव जायते दिव्यं सर्वसिद्धिप्रदायकम् ॥२६६॥

हेमबीजमिदं ख्यातं हितं स्याद्रसजारणे ।

सप्तमं हेमबीजम्

सस्यकाभ्रकवैक्रांतसत्वं स्वर्णमहिं रविम् ॥२६७॥

तीक्ष्णं च चूर्णयेल्लिप्तमूषायां चान्ध्रितं धमेत् ।
पुनः प्रकटमूषायां धमेत्तस्मिन्द्रुते सति ॥२६८॥

माक्षिकं निक्षिपेत् किंचित् किंचिद् दत्त्वा पुनः पुनः ।
यावत्स्वर्णावशेषं स्यात् ततस्तस्मिन् विनिक्षिपेत् ॥२६९॥

स्वर्णं नागं रविं तीक्ष्णं पूर्ववच्च धमेत्क्रमात् ।
वाहयेन्माक्षिकं तद्वद्धमेत् स्वर्णावशेषकम् ॥२७०॥

हेमबीजमिदं ख्यातं हितं स्याद्रसजारणे ।

अष्टमं हेमबीजम्

समांशं चूर्णयेदभ्रं सत्वं ताम्रमयं शुभम् ॥२७१॥

अभ्रकाद्द्विगुणं धौतं ताप्यं सर्वं धमेद्धठात् ।
मूषायां द्वन्द्वलिप्तायां तत्खोटं चूर्णयेत्ततः ॥२७२॥

मर्द्यं दिव्यौषधिरसैः संपुटे रोधयेद्दृढम् ।
पचेद्गजपुटे तद्वच्चूर्णयेन्मर्दयेत्पुटेत् ॥२७३॥

एवं पञ्चपुटैः पक्वं तद्वहेत्कनके द्रुते ।
यावद्दशगुणं तावन्मूषायां प्रकटे धमेत् ॥२७४॥

ततस्तस्मिन् शुद्धताप्यं क्षिप्त्वा क्षिप्त्वा धमेद्धमेत् ।
यावत्स्वर्णावशेषं स्यात्स्वर्णबीजमिदं प्रिये ॥२७५॥

नवमं हेमबीजम्

तीक्ष्णार्कनागभस्मानि ताप्यचूर्णं समं समम् ।
एतद्द्रुते वहेद्धेम्नि यावद्दशगुणं भवेत् ॥२७६॥

तावत्स्वर्णावशेषं स्यात्स्वर्णबीजमिदं प्रिये ।

दशमं हेमबीजम्

मृततारार्कतीक्ष्णायः समं सर्वं धमेद्दृढम् ॥२७७॥

मूषायां द्वन्द्वलिप्तायां तत्खोटं चूर्णयेत्ततः ।
तच्चूर्णं द्राविते स्वर्णे वाहयेच्च शनैः शनैः ॥२७८॥

यावद्दशगुणं पश्चात्ताप्यचूर्णं क्षिपन्क्षिपन् ।
धमेत्स्वर्णावशेषं स्याद्धेमबीजमिदं प्रिये ॥२७९॥

एकादशं हेमबीजम्

नागमेकं चतुस्ताम्रं सत्त्वं रसकसम्भवम् ।
मूषायां द्वन्द्वलिप्तायां सर्वं ध्मातं विचूर्णयेत् ॥२८०॥

तच्चूर्णं वाहयेत्स्वर्णे विद्रुते षड्गुणं शनैः ।
स्वर्णशेषं भवेद् यावत् तावत् स्यात् स्वर्णबीजकम् ॥२८१॥

द्वादशं हेमबीजम्

ताप्येन मारयेत्ताम्रं तन्नागे वाहयेच्छनैः ।
यावच्छतगुणं ताप्यं चूर्णं क्षिप्त्वा धमन्धमन् ॥२८२॥

तद्वाहयेद्धमेद्धेम्नि क्रमाद् द्वात्रिंशतं गुणम् ।
स्वर्णशेषं भवेद्यावत् तावत्स्याद्धेमबीजकम् ॥२८३॥

त्रयोदशं हेमबीजम्

भागैकं खर्परीसत्वं द्विभागं चाभ्रसत्वकम् ।
त्रिभागं ताम्रचूर्णं च लिप्तमूषागतं धमेत् ॥२८४॥

तत्खोटं चूर्णयेत्ताप्यं तुल्यमम्लैर्विमर्दयेत् ।
तत्क्षिपेत्संपुटे रुद्ध्वा पुटेल्लघुपुटे पुनः ॥२८५॥

एवं पञ्चपुटैः पक्वं तच्चूर्णं वाहयेद्द्रुते ।
सहस्रगुणितं हेम्नि यावत्स्वर्णावशेषितम् ॥२८६॥

तावत्ताप्यं वहेद्युक्त्या स्यादिदं हेमबीजकम् ।

चतुर्दशं हेमवीजम्

भागैकमभ्रसत्वं च द्विभागं शुद्धताम्रकम् ॥२८७॥

चूर्णयेल्लिप्तमूषायां क्षिप्त्वा रुद्ध्वा धमेद्दृढम् ।
ततस्तं चूर्णयेत्ताप्यं तुल्यमम्लेन मर्दयेत् ॥२८८॥

तद् रुद्ध्वा संपुटे पच्यात्पुटे तच्चूर्णयेत्पुनः ।
पूर्ववन्माक्षिके क्षिप्त्वा मर्दयेत्पातयेत्प्रिये ॥२८९॥

एवं पञ्चपुटे कार्ये तच्चूर्णं वाहयेत्प्रिये ।
स्वर्णे शतगुणं यावत्तावत्स्याद्धेमबीजकम् ॥२९०॥

पञ्चदशं हेमबीजम्

माक्षिकं गन्धपाषाणं हरितालं मनःशिलाम् ।
वैक्रान्तकं कान्तमुखं सस्यकं विमलांजने ॥२९१॥

रसकं चापि शतशश्चूर्णितं हेम्नि वाहयेत् ।
लोहपर्पटिकाताप्यकङ्कुष्ठविमलाभ्रकैः ॥२९२॥

मृतशुल्बशिलासूतस्नुह्यर्कक्षीरहिङ्गुलैः ।
नागो निर्जीवतां याति योगैः पुनः पुनः ॥२९३॥

रसतालकशुद्धचिंचाक्षारैस्तथा त्रपु ।
मृतं नागं मृतं वङ्गं शुल्बं तीक्ष्णं च वा मृतम् ॥२९४॥

एकैकम् उत्तमे हेम्नि वाहयेत्सुरवन्दिते ।
निरुद्धे पन्नगे हेम्नि निर्व्यूढे शतसंगुणैः ॥२९५॥

हेम्नि नागादिनिर्वहणेन वर्णव्यत्यासः

नागजीर्णं रोचनाभं हारीतं ताम्रवाहितम् ।
तीक्ष्णजीर्णं रविसमं वङ्गजीर्णं जपानिभम् ॥२९६॥

प्रथमं तारबीजम्

श्वेताभ्रसत्वं तीक्ष्णं च ताप्यं च विमलां तथा ।
खर्परं च समं सर्वं कुटिलं च चतुर्गुणम् ॥२९७॥

धमेत्सर्वं चूर्णयेच्च भस्मयेत् पुटपञ्चकैः ।
तारे द्रुते शतगुणं वाहयेच्च शनैः शनैः ॥२९८॥

तारबीजम् इदं ख्यातं जारणे परमं हितम् ।

द्वितीयं तारबीजम्

यथा ताप्येन कुटिलं तथा ताप्येन मारयेत् ॥२९९॥

तद्भागं च समं तालं तत्समं रजते द्रुते ।
त्रिंशद्गुणं भवेद् यावत् तावद् वाह्यं क्रमेण च ॥३००॥

तारबीजमिदं ख्यातं पारदे तच्च जारयेत् ।

तृतीयं तारबीजम्

तीक्ष्णं वङ्गं च विमलां समांशं चूर्णयेत्प्रिये ॥३०१॥

द्वन्द्वमेलोपलिप्तायां धमेत् तत्खोटकं भवेत् ।
तत्खोटं चूर्णयेद् अम्लैर् मर्दयेत् पुटयेदिति ॥३०२॥

पञ्चवारं प्रकुर्वीत भस्म तज्जायते प्रिये ।
तद्भस्म विद्रुते तारे वाहयेच्च समं समम् ॥३०३॥

धमन् धमन् दशगुणं यावद् भवति भैरवि ।
तारबीजम् इदं श्रेष्ठं रसराजस्य जारणे ॥३०४॥

चतुर्थं तारबीजम्

श्वेताभ्रसत्वं कुटिलं तारमाक्षीकसत्वकम् ।
त्रयं समांशं संचूर्ण्य लिप्तमूषागतं धमेत् ॥३०५॥

तच्चूर्णं वाहयेत्तारे तारतुल्यं विनिक्षिपेत् ।
यावद्दशगुणं तावत् तारमाक्षीकवापतः ॥३०६॥

तारबीजम् इदं प्रोक्तं जारणे परमं हितम् ।

पञ्चर्मं तारबीजम्

त्रिद्व्येकभागान् देवेशि तीक्ष्णतालामलान् क्रमात् ॥३०७॥

चूर्णितान् लिप्तमूषायां क्षिप्त्वा तीव्राग्निना धमेत् ।
तत्खोटं चूर्णयेद् अम्लैर् मर्दयेत् पुटयेदिति ॥३०८॥

सप्तधा तद्द्रुते तारे वाह्यं दशगुणं ततः ।
क्षिप्त्वा क्षिप्त्वा तालचूर्णं तारशेषं यथा धमेत् ॥३०९॥

तारबीजमिदं श्रेष्ठं जारणे परमं हितम् ।

षष्ठं तारबीजम्

खर्परी तालशुभ्राभ्रसत्त्वकं तारमाक्षिकम् ॥३१०॥

तुल्यं सर्वसमं वङ्गं सर्वं मूषागतं धमेत् ।
चूर्णयेन्मर्दयेदम्लैः पुटेदेवं तु सप्तधा ॥३११॥

तच्चूर्णं वाहयेत्तारे द्रुते दशगुणं धमन् ।
तारशेषं भवेद् यावत् तावत् स्यात् तारबीजकम् ॥३१२॥

सप्तमं तारबीजम्

श्वेताभ्रसत्वं वङ्गं च द्वन्द्वं कुर्याच्च पूर्ववत् ।
तच्चूर्णे तालकं दत्त्वा पादमम्लैर्विमर्दयेत् ॥३१३॥

पुटेत्तस्मिन्क्षिपेत्तालं पूर्ववन्मर्दनं पुटम् ।
एवं पञ्चपुटं कुर्यात्तच्चूर्णं वाहयेद्द्रुते ॥३१४॥

रजते द्वादशगुणं तद्भवेत्तारबीजकम् ।

अष्टमं तारबीजम्

श्वेताभ्रसत्वं वङ्गं च वङ्गार्धं तीक्ष्णचूर्णकम् ॥३१५॥

तीक्ष्णांशा तारविमला सर्वं मूषागतं धमेत् ।
ततस्तच्चूर्णयेदम्लैः पिष्ट्वा रुद्ध्वा पुटेत्पचेत् ॥३१६॥

पञ्चवारं पुनस्तच्च वाहयेद्रजते द्रुते ।
यावच्छतगुणं तावत्तालकं च क्षिपन् धमेत् ॥३१७॥

तारशेषं भवेद्यावत् तावत्स्यात्तारबीजकम् ।

ताम्रबीजम्

ताम्रबीजं प्रवक्ष्यामि जारणार्थं रसस्य तु ॥३१८॥

स्वर्णं ताम्रं समं देवि तयोस्तुल्यं च माक्षिकम् ।
ऊर्ध्वाधो निक्षिपेल्लिप्तमूषायां तद्धमेद्दृढम् ॥३१९॥

धमेदेवं च दशधा दत्त्वा दत्त्वाथ माक्षिकम् ।
ताम्रबीजमिदं ख्यातं भास्वत्किरणसंनिभम् ॥३२०॥

प्रथमं नागबीजम्

अभ्रकं रसकं तुल्यं नागभस्म चतुर्गुणम् ।
धमयेच्चूर्णयेत्तच्च माक्षिकेण च मारयेत् ॥३२१॥

एतत्समं शिलाचूर्णमेकीकृत्याथ वापयेत् ।
तद्धमेत्सदृशे हेम्नि विद्रुते शतधा प्रिये ॥३२२॥

नागबीजमिदं प्रोक्तमेतत्सूते तु जारयेत् ।

द्वितीयं नागबीजम्

नागबीजं प्रवक्ष्यामि श्रेष्ठं तद्रसजारणे ॥३२३॥

रसकाभ्रकताम्रेऽहिं भागवृद्ध्या धमेत्ततः ।
माक्षिकेण हतं तच्च बीजं निर्वाहयेत्प्रिये ॥३२४॥

द्वात्रिंशांशगुणं हेम्नि वङ्गं ताप्यहतं वहेत् ।
त्रिंशद्गुणं शिलावाप्यं नागबीजमुदाहृतम् ॥३२५॥

वङ्गबीजक्रमः

बीजं प्रवक्ष्यामि वङ्गं तालं च ताप्यकम् ।
समं धमेच्चूर्णयेच्च तत्समं ताप्यतालकम् ॥३२६॥

मर्दयेत्पुटयेदम्लैर्भस्म स्यात्षोडशैः पुटैः ।
तारे द्रुते शतगुणं वाहयेद्वङ्गभस्म च ॥३२७॥

तत्तारे तालकं देवि द्वात्रिंशद्गुणमावहेत् ।
वङ्गबीजमिदं ज्ञेयमेतत्सूते तु जारयेत् ॥३२८॥

जारणे बिडयोगाः

विडयोगान्प्रवक्ष्यामि जारणार्हान् सुरार्चिते ।

१. वडवानलविडः

सौवीरं गन्धकं कांक्षी कासीसं व्योषसैन्धवम् ॥३२९॥

सौवर्चलं सर्जिका च मालतीतीरसम्भवम् ।
शिग्रुमूलरसैः सर्वं भावयेत्सप्तवासरम् ॥३३०॥

बिडोऽयं जारणे श्रेष्ठो नाम्ना च वडबानलः ।

२. वैश्वानरविडः

अर्कक्षीरैर्दग्धशङ्खं भावयेत्पुटयेत्प्रिये ॥३३१॥

शतधायं विडः प्रोक्तो नाम्ना वैश्वानरो महान् ।

३. ज्वालामुखबिडः

गन्धकं शङ्खचूर्णं च सैन्धवं च विषं समम् ॥३३२॥

शतवारं गवां मूत्रैः शिग्रुमूलरसैस्तथा ।
भावितो ऽयं बिडः प्रोक्तो नाम्ना ज्वालामुखः स्मृतः ॥३३३॥

४. अग्निजिह्वकबिडः

पलाशस्य रसैर्भाव्यं टङ्कणं शतधा प्रिये ।
लोहानां जारणे श्रेष्ठो बिडो नाम्नाग्निजिह्वकः ॥३३४॥

५ वडबाबिडः

कान्तास्यं गन्धकं चूली चैकैकं लोहजारकम् ।
चूलीगन्धकसिन्धूत्थतालभूखगटङ्कणान् ॥३३५॥

सक्षारमूत्रैर् विपचेन्नाम्नायं वडबामुखः ।

६. महावैश्वानरो विडः

देवदालिं मोक्षकं च निचुलं च पुनर्नवाम् ॥३३६॥

पलाशं काञ्चनं वासामेरण्डं वास्तुकं तिलम् ।
कदलीमपि सर्वाङ्गं खण्डितं नाति शोषयेत् ॥३३७॥

मूत्रवर्गे चाष्टगुणे प्रक्षिपेत्तदनन्तरम् ।
समूलं मूलकं दग्ध्वा तिलकाण्डं च तत्समम् ॥३३८॥

क्षारद्वयं पूर्वरसे क्षिप्त्वा स्थाप्यं त्र्यहं खरे ।
आतपे तद्वस्त्रपूतं लोहपात्रे द्रवं पचेत् ॥३३९॥

बहवो बुद्बुदा बाष्पा उद्भवन्ति यदा यदा ।
त्रिक्षारं त्रिकटुं गन्धं कासीसं लोणपञ्चकम् ॥३४०॥

सौराष्ट्रीं रामठं चूलिं समं चूर्णीकृतं क्षिपेत् ।
प्रचालयेल्लोहदर्व्या गुडपाको यथा भवेत् ॥३४१॥

समुत्तार्य क्षिपेल्लोहसंपुटे सप्तवासरम् ।
भूगर्भे धान्यराशौ च सप्ताहं धारयेत्पुनः ॥३४२॥

सप्ताहं धारयेद्घर्मे महावैश्वानरो बिडः ।

७. वह्निबिडः

जम्बीराम्लेन शतधा वनशिग्रुरसेन च ॥३४३॥

गन्धकं भावयेदेष बिडः स्याद् वह्निसंज्ञकः ।
नवसारोऽपि च तथा गन्धवत्स बिडो भवेत् ॥३४४॥

८. चित्रभानुबिडः

गन्धकं निचुलक्षारं गुंजाबीजं च टङ्कणम् ।
मूलबीजं देवदाल्याः समं सर्वं च भावयेत् ॥३४५॥

तिक्तकोशातकीनीरैः सप्तधाम्लगणैस् तथा ।
बिडोऽयं चित्रभानुः स्यात् प्रधानं हेमजारणे ॥३४६॥

९. महाबिडः

मूलकं शृङ्गिवेरं च वह्निं दग्ध्वा त्रयं समम् ।
गोमूत्रे निक्षिपेत्तच्च वस्त्रपूतं च कारयेत् ॥३४७॥

अनेन भावितो गन्धः शतधा स्यान्महाबिडः ।

१०. अन्यो महाबिडः

तालं शिला टङ्कणं च शङ्खं लवणशुक्तिके ॥३४८॥

मूत्राम्लैर्विपचेन्मन्दं वह्नावेष बिडो महान् ।

११. वज्रानलबिडः

अर्कक्षीरैर्दग्धशङ्खं शतधा भावयेत्ततः ॥३४९॥

मर्दयित्वाम्लवर्गेण रुद्ध्वा पञ्चपुटैः पचेत् ।
तत्समं टङ्कणक्षारं क्षिप्त्वाम्लगणभावितम् ॥३५०॥

कृत्वा मनःशिलां गन्धं दरदं विद्रुमं ततः ।
नृपावर्तं तु पञ्चानां शंखचूर्णं समं प्रिये ॥३५१॥

भावयेदम्लवर्गेण त्रिदिनं स्यान्महाबिडः ।
नाम्ना वज्रानलः प्रोक्तः खोटः सूतस्य जारणे ॥३५२॥

द्वन्द्वमेलापमूषायां सारणे योजयेत्सदा ।
पारदस्तु क्षणादेव वज्रादीन्यपि जारयेत् ॥३५३॥

१२. अन्यो विडः

निर्दग्धशङ्खचूर्णं च रविक्षीरशताप्लुतम् ।
पुटितं बहुशो देवि प्रशस्तो जारणे बिडः ॥३५४॥

१३. बडबामुखो बिडः

शतशो वा प्लुतं चूर्णं गन्धकस्य गवां जलैः ।
निर्दग्धशङ्खचूर्णं तु शिग्रुमूलाम्बुभावितम् ॥३५५॥

शतशो विषसिन्धूत्थसंयुतं वडबामुखः ।

१४. सर्वजारकबिडः

गन्धकं भावयेत्कन्याधुत्तूरकरवीरजैः ॥३५६॥

द्रवैस्तु शतधा घर्मे विडोऽसौ सर्वजारकः ।

१५. अन्यो बिडः

ताम्रवल्लीदलरसैः प्लावयेद् गन्धसैन्धवम् ॥३५७॥

सप्ताहेन भवेदेनं नियुञ्ज्याद्धेमजारणे ।

१६. सिद्धबिडः

सैन्धवं कुनटी गन्धं प्रत्येकं च पलं पलम् ॥३५८॥

भूलता त्रिपलं सर्वं मर्दयेच्छोषयेत् पचेत् ।
एवं कुर्यादष्टवारम् अयं सिद्धबिडः स्मृतः ॥३५९॥

अभ्रकजारणम्

अथाभ्रजारणं कर्म वक्ष्यामि शृणु पार्वति ।
तप्तखल्वे चतुःषष्टिनिष्कसूतं सुचारितम् ॥३६०॥

भावितं गगनं चैकं निष्कं तत्र विनिक्षिपेत् ।
त्रिक्षारं पञ्चलवणं भूखगाम्लजवेतसान् ॥३६१॥

षोडशांशान् रसेन्द्रस्य क्षिपेज्जम्बीरवारिणा ।
मर्दयेद्याममात्रं तु कूर्मयन्त्रे विडान्विते ॥३६२॥

पचेद्दिनं विनिक्षिप्य जीर्णग्रासो भवेद्रसः ।
एतत्सूतं तप्तखल्वे क्षिप्त्वा राजीगुडोर्णकम् ॥३६३॥

इष्टिकां गृहधूमं च सैन्धवं पारदस्य तु ।
एतत्सर्वं षोडशांशं मर्द्यमम्लगणैर्दिनम् ॥३६४॥

चण्डातपे पिण्डितं तद्रसे बद्ध्वाथ पोटलम् ।
अम्लवर्गेण भरिते डोलायन्त्रे पचेद्दिनम् ॥३६५॥

प्रतिग्रासे त्विदं कुर्यात्पुनर्ग्रासम् अपेक्षते ।
ग्रासो ऽजीर्णो यदि भवेत्पाच्यः कच्छपयन्त्रके ॥३६६॥

एवं ग्रासक्रमेणैव जारयेद्गगनादिकम् ।
चतुःषष्टितमांशादि चतुःषष्टिगुणावधि ॥३६७॥

रसेन्द्रे जारयेद्ग्रासं दत्त्वा दत्त्वा पुनः ।

जीर्णाभ्रकरसलक्षणम्

चतुःषष्ट्यंशके सूतो व्योमसत्वे तु जारिते ॥३६८॥

दण्डधारी जलूकाभो वैष द्वात्रिंशदंशके ।
षोडशांशे वायसस्य विष्ठातुल्योऽष्टमांशके ॥३६९॥

दधिमण्डसमो देवि चतुर्थांशे तु जारिते ।
नवनीतसमो द्व्यंशे गोलाभो जारितो भवेत् ॥३७०॥

अभ्रके समजीर्णे तु शतवेधी भवेद्रसः ।
घने द्विगुणजीर्णे तु सहस्रांशेन वेधयेत् ॥३७१॥

चतुर्गुणेऽभ्रके जीर्णे त्वयुतायुर्भवेत्प्रिये ।
गगनेऽष्टगुणे जीर्णे ब्रह्मायुर् लक्षवेधकः ॥३७२॥

विष्ण्वायुः षोडशगुणे जीर्णेऽभ्रे कोटिवेधकः ।
द्वात्रिंशद्गुणिते जीर्णे रुद्रायुर् दशकोटिभिः ॥३७३॥

चतुःषष्टिगुणे जीर्णे नित्यायुः शतकोटिभिः ।
अभ्रके समजीर्णे तु रसो दोषान्विमुञ्चति ॥३७४॥

जहाति स्वगतान्सर्वान् सर्वलोहानि भक्षयेत् ।

पक्षच्छेद

यन्त्रादधो न पतति नैवोत्पतति चोर्ध्वतः ॥३७५॥

नोद्गारी कपिलो वर्णे वह्नौ तिष्ठति निश्चलः ।
विप्रुषो मुञ्चते देवि छिन्नपक्षो भवेद्रसः ॥३७६॥

समजीर्णे तु बालः स्याद्युवा जीर्णचतुर्गुणः ।
व्योमषड्गुणजीर्णस्तु वृद्धसंज्ञो भवेद्रसः ॥३७७॥

बालो विध्यति कल्केन युवा पत्रप्रलेपतः ।
जारितस्तु रसेन्द्रोऽयं वृद्धो लोहानि विध्यति ॥३७८॥

बालः सूतो रुजं हन्ति न समर्थो रसायने ।
युवा रसायने दक्षो वृद्धः स्याद्देहलोहयोः ॥३७९॥

अन्यजारणप्रकारः

अभावे घनसत्वस्य कान्तसत्वं प्रदीयते ।
तदभावे भवेत्तीक्ष्णमेवं द्वन्द्वानि जारयेत् ॥३८०॥

घनजीर्णस्य सूतस्य ततो द्वन्द्वानि जारयेत् ।
रसेन्द्रो द्वन्द्वरहितं न चरेदभ्रसत्वकम् ॥३८१॥

तस्माद्धेमादिलोहेन युक्तमभ्रं चरेद्ध्रुवम् ।
नागाभ्रं वापि वङ्गाभ्रं ताम्राभ्रं वा सुरार्चिते ॥३८२॥

ताराभ्रं वापि हेमाभ्रं ताप्याभ्रं वापि जारयेत् ।
घनसत्वं यथा जीर्णं तथा द्वन्द्वानि जारयेत् ॥३८३॥

द्वन्द्वबीजरसस्याथ पक्वबीजानि जारयेत् ।

जारणाफलम्

खल्वं तु पीठिका देवि रसेन्द्रो लिङ्ग उच्यते ॥३८४॥

मर्दनं चन्दनं तस्य ग्रासः पूजा विधीयते ।
क्षीयमाणे पातकौघे सुलभा रसजारणा ॥३८५॥

जारणायां च लब्धायां ज्ञानं कैवल्यदं भवेत् ।
तावन्मुक्तिः कुतः कान्ते यावन्नो वेत्ति जारणाम् ॥३८६॥

जारणा साधकेन्द्रस्य मुक्तिव्यक्तिकरा प्रिये ।
जारणार्थं रसो यावद्दिनं वह्नौ तु धार्यते ॥३८७॥

शिवलोके सुखं भुङ्क्ते तावत्कल्पसहस्रकम् ।
धारयेद्यो रसं वह्नावेकाहं वा तदर्धकम् ॥३८८॥

क्षीयन्ते तस्य पापानि बहुजन्मार्जितानि च ।
सुवर्णरेतसो मित्रं स्वर्णदेहस्तथा रसः ॥३८९॥

असहत्वं सूतवह्नौ तोये मैत्रं सुवर्णतः ।
चतुर्गुणेन वस्त्रेण पीडितो निर्मलश्च सः ॥३९०॥

गालनक्रियया ग्रासे सति निःशेषनिर्गते ।
स भवेद्दण्डधारी च जीर्णग्रासस्तदा रसः ॥३९१॥

ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट् रसेश्वराय सर्वसत्त्वोपहाराय ग्रासं गृह्ण गृह्ण ह्रीं स्वाहा ।

गर्भद्रुतिः॑ गर्भद्रावणयोग्यबीजसिद्धिः॑ प्रथमः प्रकारः

गर्भद्रुतिं प्रवक्ष्यामि जारितस्य रसस्य च ।
गर्भद्रावणयोग्यानि बीजानि शृणु भैरवि ॥३९२॥

नागभस्म च माक्षीकं गन्धकं च समं समम् ।
चूर्णितं वाहयेत्स्वर्णे त्रिगुणं द्राविते धमन् ॥३९३॥

पूतिबीजमिदं सूतगर्भे द्रवति तत्क्षणात् ।

द्वितीयः प्रकारः

स्वर्णे नागं समावर्त्य शिलाचूर्णं क्षिपन्क्षिपन् ॥३९४॥

नागक्षये पुनर्नागं दत्त्वा दत्त्वा त्रिवारकम् ।
स्वर्णशेषं भवेद्यावत्तावद्धाम्यं पुनः पुनः ॥३९५॥

एतद्बीजं द्रवत्येव रसगर्भे तु मर्दनात् ।

तृतीयः प्रकारः

सुवर्णं ताप्यसत्वं तु समं मूषागतं धमेत् ॥३९६॥

तस्मिन्द्रुते ताप्यचूर्णं तुल्यं तुल्यं क्षिपन्क्षिपन् ।
माक्षीकसत्वं त्रिगुणमेवं वाह्यं पुनः पुनः ॥३९७॥

एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ।

चतुर्थः प्रकारः

सुवर्णस्य समं ताप्यसत्वमावर्तयेत्ततः ॥३९८॥

कुर्यात्कण्टकवेध्यानि पत्राणि च विलेपयेत् ।
लवणेनाम्लपिष्टेन गन्धतुल्येन पार्वति ॥३९९॥

तानि पत्राणि च पुटे पचेद्धेमावशेषितम् ।
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥४००॥

पञ्चमः प्रकारः

ताप्यतुल्यं च सिन्धूत्थं मर्दयेदम्लकेन च ।
तत्संपुटे पुटे पच्यात् पुनः संमर्दयेत् पुटेत् ॥४०१॥

पुनः पुनर्द्विषड्वारमस्य तुल्यं च नागजम् ।
भस्म संमर्दयेदम्लैरनेन स्वर्णपत्रकम् ॥४०२॥

लिप्त्वा लिप्त्वा धमेत्सप्तवारं तद्वाहयेत्ततः ।
द्रुतं तं वापयेत्पूर्वं कल्कितैः सप्तवारकम् ॥४०३॥

एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ।

षष्ठः प्रकारः

कासीसं टङ्कणं गन्धं ताप्यं सौवर्चलं शिलाम् ॥४०४॥

तुल्यं संमर्दयेत्सर्वांश्चणकाम्लैर्दिनावधि ।
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥४०५॥

गर्भद्रावणे मूषायन्त्रसिद्धिः

सुवर्चलं च कासीसं यवक्षारं च टङ्कणम् ।
माक्षिकं सैन्धवं चुल्ली सामुद्रं राजिका तथा ॥४०६॥

तुल्यं कांक्षीं च कर्पूरम् अर्कस्नुक्क्षीरमर्दितम् ।
अनेन लेपयेन्मूषां बिडेनांगुलमात्रकम् ॥४०७॥

मूषायन्त्रमिदं श्रेष्ठं गर्भद्रावणकर्मणि ।

गर्भद्रुतिप्रकाराः॑ प्रथमः प्रकारः

स्वर्णं ताम्रं मृतं तीक्ष्णं रञ्जितं पक्वबीजकम् ॥४०८॥

गर्भद्रावणबीजं च सर्वमावर्तयेद्दृढम् ।
द्रुतेऽस्मिंस्ताप्यचूर्णं च क्षिप्त्वा क्षिप्त्वा धमन्धमन् ॥४०९॥

यावत्क्षयं गते ताम्रतीक्ष्णे तावत्सुरेश्वरि ।
एतद्बीजं रसेन्द्रस्य गर्भे द्रवति मर्दनात् ॥४१०॥

द्वितीयः प्रकारः

हेम गन्धहतं नागं पक्वबीजस्य साधनम् ।
तद्द्वयं लिप्तमूषायाम् अन्ध्रयित्वा धमेद्दृढम् ॥४११॥

तच्चूर्णम् अभिषिक्तं च रसगर्भे द्रवत्यलम् ।

तृतीयः प्रकारः

सुवर्णे विद्रुते शुल्बं मृतं तीक्ष्णं शनैः शनैः ॥४१२॥

वाहयेत् षड्गुणं यावत्तद्रसे द्रवति प्रिये ।

चतुर्थः प्रकारः

महारसाननुरसान्क्षीणलोहानि चाक्षये ॥४१३॥

समांशं सममाक्षीकगन्धकावापयोगतः ।
शतशो वाहयेदेतदक्षीणांशावशेषितम् ॥४१४॥

समांशं रसराजस्य गर्भे द्रवति निश्चितम् ।

पञ्चमः प्रकारः

जारितस्य रसेन्द्रस्य चतुःषष्टितमांशकम् ॥४१५॥

गर्भद्रावणबीजं च तप्तखल्वे विनिक्षिपेत् ।
शिलारुचकमाक्षीकगन्धकासीसटङ्कणैः ॥४१६॥

मर्दयेच्चणकाम्लेन सर्वमेतद्दिनावधि ।
रसस्यैतत्षोडशांशं दत्त्वा बीजं च दापयेत् ॥४१७॥

मुच्यते यत्र यत्रैव तत् तद् द्रवति तत्क्षणात् ।

षष्ठः प्रकारः

अपामार्गपलाशोत्थभस्मक्षारं समाहरेत् ॥४१८॥

टङ्कणं सयवक्षारं कासीसं च सुवर्चलम् ।
सामुद्रं सैन्धवं राजीं माक्षिकं नवसारकम् ॥४१९॥

कर्पूरं माक्षिकं तुल्यं स्नुह्यर्कक्षीरमर्दितम् ।
मूषालेपमनेनैव कृत्वा कुर्याद्बिडेन च ॥४२०॥

लेपम् अङ्गुलमानेन प्राक्सूतं चात्र निक्षिपेत् ।
रुद्ध्वा स्वेद्यं दिनैकं तु करीषाग्नौ द्रवत्यलम् ॥४२१॥

इत्येवं द्रावितं जार्यं यावद् बीजं तु षड्गुणम् ।

१३. बाह्यद्रुतिः

शिवे वक्ष्यामि ते बाह्यद्रुतिकर्म यथाक्रमम् ॥४२२॥

येनोपायेनाभ्रकादिद्रुतिर् भवति तच्छृणु ।

अभ्रकद्रुतिः

अथाभ्रकद्रुतिं वक्ष्ये कञ्चुकीकन्दमेव च ॥४२३॥

कपितिन्दौ केशतैले प्रत्येकं तु त्रिधा वपेत् ।
मूषायां द्रावयित्वा तदभ्रसत्वं द्रुतिर् भवेत् ॥४२४॥

स्वर्णद्रुतिः

फलपांशुर् देवदाल्याः शकगोपो ऽश्वलालकाः ।
टङ्कणं जालिनीनीरैर् भावयेद् बहुधा प्रिये ॥४२५॥

द्रावयेत् काञ्चनं तत्र वपेत् सूतसमा द्रुतिः ।

सर्वरत्नद्रुतिः

त्रिक्षारं चणकाम्लं च रामठं चाम्लवेतसम् ॥४२६॥

तथा ज्वालामुखीक्षारं स्थलकुम्भीरसेन च ।
पिष्ट्वा स्नुह्यर्कयोः क्षीरैस्तद्गोले मृदु हीरकम् ॥४२७॥

निक्षिपेत्तच्च जम्बीरे डोलायन्त्रे त्र्यहं पचेत् ।
एवं कृते हीरकस्य द्रुतिर् भवति सूतवत् ॥४२८॥

पद्मरागादिरत्नानां द्रुतिरेव कृते भवेत् ।

द्रुतिमेलापनम्

द्रुतीनां मेलनं वक्ष्ये शृणु भैरवि तत्त्वतः ॥४२९॥

कृष्णागरुश्च कस्तूरी ब्रह्मबीजं च माक्षिकम् ।
नारीपुष्पं विषं हिंगु लशुनं टङ्कणं निशा ॥४३०॥

एतैः समं द्रुतिं सूतं तप्तखल्वे विमर्दयेत् ।
पाठा वन्ध्या तालमूली नीली त्रिविधचित्रकम् ॥४३१॥

पद्मकन्दं क्षीरकन्दं बला गुञ्जामृतार्द्रकम् ।
अश्वलाला निम्बपत्रं स्त्रीस्तन्यं च समं समम् ॥४३२॥

एतेषां ग्राहयेत्स्वच्छं रसं वस्त्रेण गालितम् ।
एतद्द्रुतियुते सूते क्षिप्त्वा क्षिप्त्वा विमर्दयेत् ॥४३३॥

मिलन्ति द्रुतयः सर्वाः पारदे नात्र संशयः ।
द्रुतयो मिलिता येन यन्त्रं तेनैव कच्छपम् ॥४३४॥

लिम्पेच्च बिडयोगेन मेलयेज्जारयेत्क्रमात् ।
इत्येवं रसराजस्य षड्गुणां जारयेद्द्रुतिम् ॥४३५॥

१४. रञ्जनम्

द्रुतिजीर्णस्य सूतस्य रञ्जनं शृणु पार्वति ।
तस्माद्रञ्जकबीजानां रञ्जनं च वदामि ते ॥४३६॥

रञ्जनतैलविधिः

पलाशपुष्पं मञ्जिष्ठा लोहितं करवीरजम् ।
पुष्पं च खदिरं रक्तचन्दनं कुक्कुटी तथा ॥४३७॥

निशाद्वयं च सरलं देवदारुं जपासुमम् ।
अन्यानि रक्तपुष्पाणि लाक्षातोयेन मर्दयेत् ॥४३८॥

एतच्चतुर्गुणं तैलं तैलाद्रक्तप्रसूनजम् ।
द्रवं चतुर्गुणं देयं तैलशेषं यथा भवेत् ॥४३९॥

तस्मिन् निषेचयेद् बीजम् एकविंशतिवारकम् ।
रञ्जयेत्पक्वबीजानि सर्वाण्येवं सुरार्चिते ॥४४०॥

नागबीजरञ्जनम्

खर्परे नागमादाय चण्डाग्निं ज्वालयेदधः ।
पलाशपर्णबीजानि क्षिपेत्तस्मिन्प्रचालयेत् ॥४४१॥

पलाशदण्डेनामर्द्यं चतुर्यामेन भस्मति ।
तद्भस्म गन्धकं तुल्यमम्ले यामं प्रपेषयेत् ॥४४२॥

रुद्ध्वा पुटेद्गजपुटे स्वाङ्गशीतं तदुद्धरेत् ।
तच्चतुर्थांशकं गन्धं दत्त्वा पिष्ट्वा पुटे पचेत् ॥४४३॥

एवं द्विसप्तवारेण नागं स्याद्रक्तवर्णकम् ।
वाशापञ्चाङ्गचूर्णं च तच्चूर्णं ककुभस्य च ॥४४४॥

शिग्रुकिंशुककोरण्डशाकपुष्पाणि नागिनीम् ।
अहिमारं कुमारीं च नागकन्यां च चूर्णयेत् ॥४४५॥

एतत्सर्वं चैकभागं द्विभागं च मनःशिलाम् ।
भाण्डे सर्वं विनिक्षिप्य गवां मूत्रे चतुर्गुणे ॥४४६॥

पचेत्पादावशेषं तु पूर्वनागे क्षिपन्क्षिपन् ।
चुल्ल्यां पचेद्ब्रह्मदण्डैश्चालयेत्सप्तवासरम् ॥४४७॥

इदं नागं पक्वबीजे द्रुते निर्वाहयेत्त्रिधा ।
रञ्जितं जायते बीजं मुख्यं स्याद्रसरञ्जने ॥४४८॥

बीजरञ्जनप्रकारः

ताप्यसत्वं च कृष्णाभ्रसत्वचूर्णं धमेत्समम् ।
तस्मिन्द्रुते ताप्यचूर्णं मृतशुल्बं क्रमाद्वहेत् ॥४४९॥

त्रिगुणं तद्भवेद्बीजं रञ्जकं परमेश्वरि ।

अन्यः प्रकारः

कुनटी माक्षिकं गन्धं दरदं पेषयेत्समम् ॥४५०॥

रक्तवर्गस्य गोमूत्रे पेषितस्य रसे प्रिये ।
पेषयेच्छोषयेत् सप्तवारं तच्चूर्णयेत्क्षिपेत् ॥४५१॥

द्वंद्विते तीक्ष्णताम्रे च तुल्यं क्षिप्त्वा धमेद्दृढम् ।
ज्योतिष्मतीतैलयुक्ते रक्तवर्गे निषेचयेत् ॥४५२॥

पुनश्च पूर्वचूर्णं तु तुल्यं क्षिप्त्वा धमेत् प्रिये ।
सेचयेत् सप्तधा त्वेवं स्याद्बीजं रसरञ्जकम् ॥४५३॥

अन्यः प्रकारः

तारं च विमलासत्त्वं समांशं द्रावयेत् ततः ।
सरक्तवर्गे गोमूत्रे भावितं दरदं त्रिधा ॥४५४॥

तत्तुल्यं निक्षिपेत् तस्मिन् धमेद् एवं तु सप्तधा ।
क्षिप्त्वा क्षिप्त्वा च दरदं स्याद्बीजं रसरञ्जकम् ॥४५५॥

अन्यः प्रकारः

घनसत्त्वम् अहिं स्वर्णं समांशं द्वंद्वितं धमेत् ।
खर्परे रक्तवर्गं च माक्षिकं गैरिकं शिलाम् ॥४५६॥

समं संचूर्णयेत् तस्मिन् वापयेच्च समं समम् ।
दशवारं भवेद् एतद् बीजं सूतेन्द्ररञ्जकम् ॥४५७॥

अन्यः प्रकारः

यवचिञ्चारसैर्भाव्या रक्तवर्णा मनःशिला ।
विंशद्वारं प्रयत्नेन तेन कल्केन लेपयेत् ॥४५८॥

नागपत्रं पुटे पच्याद्यावच्चूर्णमुपागतम् ।
रसकस्य तु भागांस्त्रीन् भागैकं दरदस्य च ॥४५९॥

शिलागन्धविषाणां च त्रयाणामेकभागकम् ।
सेचयेन्मातुलुङ्गाम्लैः तेन कल्केन लेपयेत् ॥४६०॥

मूषागर्भे क्षिपेत् तत्तत्पूर्वनागं धमेत् ततः ।
द्रुतं यावत् समुद्धृत्य लिप्त्वा मूषां पुनर् धमेत् ॥४६१॥

इत्येवं सप्तधा धाम्यं नागं स्वर्णनिभं भवेत् ।

अन्यः प्रकारः

पीताभ्रकस्य सत्वं तु पूर्वनागं च तत्समम् ॥४६२॥

द्वंद्वितं पूर्वयोगेन ह्यभिषिक्तं च कारयेत् ।
अनेन द्वन्द्वयोगेन वापो देयो द्रुतस्य च ॥४६३॥

पक्वबीजस्य वारांस्त्रीन् तद्बीजं रञ्जितं शुभम् ।

तारबीजरञ्जनम्

अथातस् तारबीजानां रञ्जनं शृणु पार्वति ॥४६४॥

नानाभूरुहसम्भूतश्वेतपुष्परसे प्रिये ।
चतुर्भागे चैकभागं कङ्गुणीतैलकं क्षिपेत् ॥४६५॥

तैलावशेषं विपचेत्तारबीजानि तत्र वै ।
भूयो भूयो द्रावयित्वा सेचयेदेकविंशतिम् ॥४६६॥

बीजानि रञ्जितान्येवं भवेयू रसरञ्जने ।
एवं वङ्गस्य बीजानि रञ्जयेत् परमेश्वरि ॥४६७॥

रञ्जनक्रमः

द्रुतिजीर्णस्य सूतस्य चतुःषष्टितमांशकम् ।
निक्षिपेद्रञ्जकं बीजं तप्तखल्वे दिनावधि ॥४६८॥

मर्दयेत् तप्तखल्वे तु पचेत् कच्छपयन्त्रके ।
एवं ग्रासक्रमेणैव षड्गुणं जारयेत् प्रिये ॥४६९॥

१५. - १७. सारणत्रयम्॑ सारणार्थे वज्रबीजसाधनम्॑ प्रथमः प्रकारः

रञ्जितस्य रसेन्द्रस्य प्रवक्ष्ये सारणात्रयम् ।
सारणा योग्यबीजानि दिव्यानि च सुरार्चिते ॥४७०॥

स्वर्णं द्वादशभागं स्यात् तदर्धं शुद्धपारदम् ।
रसेन्द्रार्धं नागभस्म चतुर्भागं मृतं पविम् ॥४७१॥

एतच्चतुष्टयं चाम्लैर्मर्दयेत्तप्तखल्वके ।
उद्धृत्य द्वन्द्वमेलापमूषायां रोधयेद्धमेत् ॥४७२॥

हठात्तच्च मिलत्येव वज्रबीजम् इदं प्रिये ।

द्वितीयः प्रकारः

भावयेच्छारिबाक्षीरैर् मृतं वज्रं दिनं ततः ॥४७३॥

मर्दयेद् गोलकं कृत्वा शोषयेच्चैकभागकम् ।
त्रिभागं रसराजं च चतुर्भागं सुवर्णकम् ॥४७४॥

अम्लेन मर्दयेत् पिष्टिं कृत्वा तद्वज्रगोलकम् ।
तत्पिष्ट्या वेष्टयेत् तच्च भूर्जपत्रेण वेष्टयेत् ॥४७५॥

पक्षं न्यसेद् धान्यराशौ तद् उद्धृत्य पुनः प्रिये ।
धमेद्धठान्मिलत्येव वज्रबीजम् इदं भवेत् ॥४७६॥

वज्रषोडशभागेन स्वर्णपत्रेण वेष्टयेत् ।
तत्क्षिप्त्वा लिप्तमूषायां स्वर्णांशं श्वेतकाचजम् ॥४७७॥

चूर्णं वा नृकपालं वा चूर्णं कृत्वा विनिक्षिपेत् ।
निरुध्य च धमेत् तीव्रम् एवं कुर्यात् पुनः पुनः ॥४७८॥

क्षिप्त्वा क्षिप्त्वा श्वेतकाचं नृकपालमथापि वा ।
सप्तधैवं मिलत्येव वज्रबीजमिदं भवेत् ॥४७९॥

सारणातैलम्

अतः परं सारणायां प्रवक्ष्ये तैलसाधनम् ।
ज्योतिष्मतीकरञ्जाक्षकटुतुम्बीसमुद्भवम् ॥४८०॥

तैलं कूर्मवराहादिमेषमत्स्यसमुद्भवम् ।
जलूकाभेकजाता च वसा ग्राह्या विधानतः ॥४८१॥

रक्तवर्गः पीतवर्गः क्वाथ्यः क्षीरैश्चतुर्गुणैः ।
पुष्पाणां रक्तपीतानाम् अनेकानां द्रवं हरेत् ॥४८२॥

पाटलीकाकतुण्ड्युत्थमहाराष्ट्रीद्रवं तथा ।
एकांशं तैलम् एकांशा वसा क्वाथश्चतुर्गुणः ॥४८३॥

द्व्यंशैः पुष्पद्रवैर् द्व्यंशान् पाटल्यादिद्रवानपि ।
सर्वं ताम्रमये पात्रे मृदुना वह्निना पचेत् ॥४८४॥

तस्मिन्क्षिपेत् षोडशांशं भूलतामलताप्यकम् ।
विख्यातं सारणातैलं रसराजस्य जारणे ॥४८५॥

रञ्जितं रसराजं तु सारणातैलसंयुतम् ।
निक्षिपेत्सारणायन्त्रे नालमूषां गतं द्रुतम् ॥४८६॥

बीजं तु ढालयेत्सूते चतुःषष्टितमांशकम् ।
उद्धृत्य तप्तखल्वे तु पट्वम्लैर् मर्दयेद्दिनम् ॥४८७॥

ततः कच्छपयन्त्रे तु सविव्ये पाचयेद् दिनम् ।
इत्येवं षड्गुणं सार्यं सारितो जायते रसः ॥४८८॥

एवं द्वितीयवारे तु कृते सूतोऽनुसारितः ।
तथा तृतीयवारे तु रसः स्यात् प्रतिसारितः ॥४८९॥

१८. वेधः

सारितस्य रसेन्द्रस्य हरितालं समांशकम् ।
मर्दयेद् धूर्ततैलैश्च दिनं दिव्यौषधिद्रवैः ॥४९०॥

तत उद्धृत्य क्षिपेद् वज्रमूषायां विपचेद्दिनम् ।
करीषाग्नाविति पुनर् मर्द्यं पाच्यं त्रिधा प्रिये ॥४९१॥

अनेन कर्मणा देवि सूतो बद्धमुखो भवेत् ।
बद्धवक्त्रस्य सूतस्य भागमेकं सुरार्चिते ॥४९२॥

सुतारताम्रतीक्ष्णानां चूर्णानाम् एकभागकम् ।
सर्वं संमर्दयेद् देवदालीनीरैर् दिनं ततः ॥४९३॥

मध्वाज्यैश्च दिनं मर्द्यं तेन कुर्यात् सुगोलकम् ।
निक्षिपेद् वज्रमूषायां रुद्ध्वा तीव्राग्निना धमेत् ॥४९४॥

स रसः खोटबद्धः स्यात् तत्खोटं काचटङ्कणैः ।
तेजःपुञ्जो भवेद्यावत् तावत् कुर्याद् धमन् धमन् ॥४९५॥

तं रसं योजयेद् देहे लोहे रोगे च पार्वति ।

देहवेधक्रमः

देहवेधं प्रवक्ष्यामि सावधानं शृणु प्रिये ॥४९६॥

पाचनस्नेहनस्वेदवमनारेचनैः क्रमात् ।
शरीरं शोधयेल्लोणक्षाराम्लादिविवर्जितः ॥४९७॥

ततस्त्वारोटकं सूतं भक्षयेत् परमेश्वरि ।
क्षेत्रं कृत्वा शरीरं तु ततः सिद्धरसं क्षिपेत् ॥४९८॥

शतवेधिरसं पूर्वं ततः साहस्रवेधकम् ।
दशसाहस्रवेधं च लक्षवेधकरं रसम् ॥४९९॥

वेधकं दशलक्षस्य कोटिवेधं सुरार्चिते ।
गन्धकेन युतं सूतं क्रमेणानेन सुव्रते ॥५००॥

स रसः क्रमते देहे सिद्धयः सम्भवन्ति हि ।
रसायने तु याः प्रोक्ता मूलिका देहसिद्धिदाः ॥५०१॥

ताभिर्युक्तो रसेन्द्रस्तु देहे संक्रमते प्रिये ।
क्रामति तनौ हि सूतो जनयति पुत्रांश्चदेवतागर्भान् ॥५०२॥

खे गमनेन च नित्यं संचरणं सकलभुवनेषु ।
धाता भुवनत्रितये स्रष्टाद्यो ब्रह्मयोनिरिव ॥५०३॥

विष्णुरिव पालनार्थे संहर्ता रुद्रदेववत्सत्कलम् ।

लोहवेधक्रमः

क्रामणं लोहवेधस्य वक्ष्यामि शृणु भैरवि ॥५०४॥

दरदं माक्षिकं कान्तं शिलां गन्धं विषं घनम् ।
रसकं भूलतां हिङ्गु कान्तास्यं टङ्कणं प्रिये ॥५०५॥

गन्धकेन हतं ताम्रं भुजङ्गं शिलया हतम् ।
दरदेन हतं तीक्ष्णं महिषीकर्णसम्भवम् ॥५०६॥

मलं वायसविष्ठां च प्रथमार्तवरक्ततः ।
अनेन वेष्टयेत् सिद्धसूतं लोहेषु वेधयेत् ॥५०७॥

तारकृष्ट्यष्टनवतिः स्वर्णमेकं तथा रसः ।
शतवेधी तु विख्यातस्त्वेवं साहस्रवेधकः ॥५०८॥

वेधयेद्दशसाहस्रं लक्षं कोटिमथार्बुदम् ।
जारणायां बलं यावत् तावल्लोहानि वेधयेत् ॥५०९॥

१. क्रामणयोगः

माक्षिकं भूलतां सूतं कुनटीं टङ्कणं तथा ।
स्त्रीस्तन्यरक्तं सम्पिष्टं क्रामणं क्षेपलेपयोः ॥५१०॥

२. क्रामणयोगः

हिङ्गुलं रसकं कान्तम् इन्द्रगोपं विषं तथा ।
मर्दयेत् तैलरक्ताभ्यां क्रामणं क्षेपलेपयोः ॥५११॥

३. क्रामणयोगः

गण्डोलविषभेकास्यमहिषीनेत्रजं मलम् ।
रुधिरेण समायुक्तं रससंक्रामणे हितम् ॥५१२॥

४. क्रामणयोगः

रोचनं गुग्गुलुं स्तन्यम् इन्द्रगोपं विषं तथा ।
सर्वं संमर्दयेद् देवि रससंक्रामणे हितम् ॥५१३॥

५. क्रामणयोगः

विष्णुक्रान्ता मधूच्छिष्टं माहिषं कर्णजं मलम् ।
भूलता काकविष्ठा च लाङ्गली द्विपदीरजः ॥५१४॥

नररक्तं ब्रह्मसोमा सुरसा शैलजं प्रिये ।
शृङ्गी च लक्ष्मणा गृध्रकर्णी च क्रामणं परम् ॥५१५॥

६. क्रामणयोगः

श्रीवेष्टनिम्बनिर्यासस्त्रीस्तन्यविषटङ्कणैः ।
गोघृतेन समायुक्तो लोहे संक्रामते रसः ॥५१६॥

७. क्रामणयोगः

परमं क्रामणं वङ्गं मृगनाभं च पार्वति ।
मातृवाहः कुलीरश्च शङ्खाभ्यन्तरजो मलः ॥५१७॥

तथा कपित्थनिर्यासो रससंक्रामणं परम् ।
क्रामणं रसराजस्य वेधकाले प्रदापयेत् ॥५१८॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2015-06-24T13:48:42.7130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

dumping syndrome

  • द्रुतारिक्तन संलक्षण 
  • Surgery 
RANDOM WORD

Did you know?

रुक्मिणीस्वयंवर पोथीची पारायणे केली असता मुलींची लग्ने लवकर जमतात, हे खरे आहे काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.