संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २७४ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २७४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २७४ Translation - भाषांतर ॥ सूत उवाच ॥तथान्यदपि तत्रास्ति दुर्वासःस्थापितं पुरा ॥तल्लिंगं देवदेवस्य त्रिनेत्रस्य महात्मनः ॥१॥चैत्रमासि नरो यस्तु तमाराधयते द्विजाः ॥नृत्यगीतप्रवाद्यैश्च त्रिकालं विहितक्षणः ॥स नूनं तत्प्रसादेन गन्धर्वाधिपतिर्भवेत् १ ॥ २॥ ॥ ऋषय ऊचुः ॥दुर्वासा नामकश्चायं केनायं स्थापितो हरः ॥कस्मिन्काले महाभाग सर्वं नो विस्तराद्वद ॥३॥ ॥ सूत उवाच ॥आसीत्पुरा निंबशुचो वैदिशे च पुरोत्तमे ॥४॥स च पूजयते लिंगं किंचिन्मठपतिः स्थितः ॥स यत्किंचिदवाप्नोति वस्त्राद्यं च तथा परम् ॥५॥माहेश्वरस्य लोकस्य विक्रीणीते ततस्ततः ॥ततो गृह्णाति नित्यं स हेम मूल्येन तस्य च ॥६॥न करोति व्ययं तस्य केवलं संचये रतः ॥ततः कालेन महता मंजूषाऽस्य निरर्गला ॥जाता हेममयी विप्राः कार्पण्यनिरतस्य च ॥७॥अथ संस्थाप्य भूमध्ये मंजूषां तां प्रपूरिताम् ॥करोति व्यवहारं स कक्षां तां नैव मुंचति ॥८॥कदाचिद्देवपूजायां सोऽपि ब्राह्मणसत्तमाः ॥विश्वासं नैव निर्याति कस्यचिच्च कथंचन ॥९॥कस्यचित्त्वथ कालस्य परवित्तापहारकः ॥अलक्षद्ब्राह्मणस्तच्च दुःशीलाख्यो व्यचिंतयत् ॥४.१०॥ततः शिष्यो भविष्यामि विश्वासार्थं दुरात्मनः ॥सुदीनैः कृपणैर्वाक्यैश्चाटुकारैः पृथग्विधैः ॥११॥आलस्यं च दिवानक्तं साधयिष्याम्यसंशयम् ॥अन्यस्मिन्नहनि प्राप्ते दृष्ट्वा तं मठमध्यगम् ॥१२॥ततः समीपमगमद्दंडाकारं प्रणम्य च ॥अब्रवीत्प्रांजलिर्भूत्वा विनयावनतः स्थितः ॥१३॥भगवंस्ते प्रभावोऽद्य तपसा वै मया श्रुतः ॥१४॥यदन्यस्तापसो नास्ति ईदृशोऽत्र धरातले ॥तेनाहं दूरतः प्राप्तो वैराग्येण समन्वितः ॥१५॥संसारासारतां ज्ञात्वा जन्ममृत्युजरात्मिकाम् ॥अर्थात्स्वप्नप्रतीकाशं यौवनं च नृणा मिह ॥१६॥यद्वत्पर्वतसंजाता नदी च क्षणभंगुरा ॥पुत्राः कलत्राणि च वा ये चान्ये बांधवादयः ॥१७॥ते सर्वे च परिज्ञेया यथा पाप समागमाः ॥तत्संसारसमुद्रस्य तारणार्थं ब्रवीहि मे ॥१८॥उपायं कंचिदद्यैव उपदेशे व्यवस्थितम् ॥तरामि येन संसारं प्रसादात्तव सुव्रत ॥१९॥तस्य तद्वचनं श्रुत्वा रोमांचित तनूरुहः ॥ज्ञात्वा माहेश्वरः कोऽयं चिंतावान्समुपस्थितः ॥४.२०॥यथा ब्रवीषि धन्योऽसि यस्य ते मतिरीदृशी ॥तारुण्ये वर्तमानस्य सुकुमारस्य चैव हि ॥२१ ॥तारुण्ये वर्तमानो यः शांतः सोऽत्र निगद्यते ॥धातुषु क्षीयमाणेषु शमः कस्य न जायते ॥२२॥यद्येवं सुविरक्तिः स्यात्संसारोपरि संस्थिता ॥समाराधय देवेशं शंकरं शशिशेखरम् ॥२३॥नान्यथा घोरजाप्येन तीर्यते भवसागरः ॥मया सम्यक्परिज्ञातमेतच्छास्त्रसमागमात् ॥२४॥शूद्रो वा यदि वा विप्रो म्लेछो वा पापकृन्नरः ॥शिवदीक्षासमोपेतः पुष्पमेकं तु यो न्यसैत् [ ॥ २५॥षडक्षरेण मंत्रेण लिंगस्योपरि भक्तितः ॥स तां गतिमवाप्नोति यांयां यांतीह यज्विनः ॥५६॥यो ददाति प्रभक्त्या च शिवदीक्षान्विताय च ॥वस्त्रोपानहकौपीनं स यज्ञैः किं करिष्यति ॥तच्छ्रुत्वा चरणौ तस्य दुःशीलोऽसौ तदाऽऽददे ॥विन्यस्य स्वशिर स्ताभ्यां ततोवाक्यमुवाच ह ॥२८॥शिवदीक्षाप्रमाणेन प्रसादं कुरु मे प्रभो ॥शुश्रूषां येन ते नित्यं प्रकरोमि समाहितः ॥२९॥ततोऽसौ तापसो विप्राश्चिंतयामास चेतमि ॥दक्षोऽयं दृश्यते कोऽपि पुमांश्चैव समागतः ॥४.३०॥ममास्ति नापरः शिष्यस्तस्मादेनं करोम्यहम् ॥ततोऽब्रवीत्करे गृह्य यद्येवं वत्स मे समम् ॥समयं कुरु येन त्वां दीक्षयाम्यद्य चैव हि ॥३१॥त्वया कुटीरकं कार्यं मठस्यास्य विदूरतः ॥प्रवेशो नैव कार्यस्तु ममात्रास्तं गते रवौ ॥३२॥ ॥ दुःशील उवाच ॥तवादेशः प्रमाणं मे केवलं तापसोत्तम ॥किं मठेन करिष्यामि विशेषाद्रा त्रिसंगमे ॥३३॥यः शिष्यो गुरुवाक्यं तु न करोति यथोदितम् ॥तस्य व्रतं च तद्व्यर्थं नरकं च ततः परम् ॥३४॥तच्छ्रुत्वा तुष्टिमापन्नः शिवदीक्षां ततो ददौ ॥तस्मै विनययुक्ताय तदा निंबशुचो मुनिः ॥३५॥ततःप्रभृति सोऽतीव तस्य शुश्रूषणे रतः ॥रंजयामास तच्चित्तं परिचर्यापरायणः ॥३६॥मनसा चिन्तयानस्तु तन्मात्रार्थं दिनेदिने ॥न च्छिद्रं वीक्षते किंचिद्वीक्षमाणोऽपि यत्नतः ॥३७॥शैवोऽपि च स कक्ष्यां तां तां मात्रां हेमसंभवाम् ॥कथंचिन्मोक्षते भूमौ भोज्ये देवार्चनेऽपि न ॥३८॥ततोऽसौ चिन्तयामास दुःशीलो निजचेतसि ॥मठे तावत्प्रवेशोऽस्ति नैव रात्रौ कथंचन ॥३९॥सूर्यास्तमानवेलायां यत्प्रयच्छति तत्क्षणात् ॥परिघं सुदृढं पापस्तत्करोमि च किं पुनः ॥४.४०॥मठोऽयं सुशिलाबद्धो नैव खातं प्रजायते ॥तुंगत्वान्न प्रवेशः स्यादुपायैर्विविधैः परैः ॥४१॥तत्किं विषं प्रयच्छामि शस्त्रैर्व्यापादयामि किम् ॥दिवापि पशुमारेण पंचत्वं वा नयामि किम् ॥४२॥एवं चिन्तयतस्तस्य प्रावृट्काल उपस्थितः ॥श्रावणस्यासिते पक्षे कर्कटस्थे दिवाकरे ॥४३॥प्राप्तो महेश्वरस्तस्य कोऽपि तत्र धनी द्रुतम् ॥तेनोक्तं प्रणिपत्योच्चैः करिष्यामि पवित्रकम् ॥४४॥चतुर्द्दश्यामहं स्वामिन्यद्यादेशो भवेत्तव ॥यद्यागच्छसि मे ग्रामं प्रसादेन सम न्वितः ॥४५॥ ॥ सूत उवाच ॥तच्छ्रुत्वा तुष्टिमापन्नस्ततो निंबशुचो मुनिः ॥तथेति चैवमुक्त्वा तं प्रेषयामास तत्क्षणात् ॥४६॥आगमिष्याम्यहं काले स्वशिष्येण समन्वितः ॥करिष्यामि परं श्रेयस्तव वत्स न संशयः ॥४७॥अथ काले तु संप्राप्ते चिन्तयित्वा प्रभातिकम् ॥प्रभातसमये प्राप्ते स शैवः प्रस्थितस्तदा ॥दुःशीलेन समायुक्तः संप्रहृष्टतनूरुहः ॥४८॥ततो वै गच्छमानस्य तस्य मार्गे व्यवस्थिता ॥पुण्या नदी सुविख्याता मुरला सागरंगमा ॥४९॥स तां दृष्ट्वाऽब्रवीद्वाक्यं वत्स शिष्य करोम्यहम् ॥भवता सह देवार्चां मुरलायां स्थिरो भव ॥४.५०॥बाढमित्येव स प्रोक्त्वा संस्थितोऽस्यास्तटे शुभे ॥सोऽपि निंबशुचस्तस्य रंजितः सर्वदा गुणैः ॥५१॥सुशिष्यं तं परिज्ञाय विश्वासं परमं गतः ॥स्थगितां तां समादाय हेममात्रासमुद्भवाम् ॥५२॥जागेश्वरसमोपेतां स कन्थां व्याक्षिपत्क्षितौ ॥पुरीषोत्सर्गकार्येण ततस्तोकांतरं गतः ॥५३॥यावच्चादर्शनं प्राप्तो वेतसैः परिवारितः ॥तावन्मात्रां समादाय दुःशीलः प्रस्थितो द्रुतम् ॥उत्तरां दिशमाश्रित्य प्रहृष्टेनांतरात्मना ॥५४॥ ॥अथासौ चागतो यावद्दुःशीलं नैव पश्यति ॥केवलं दृश्यते कन्था जागेश्वरसमन्विता ॥५५॥ततः शीघ्रतरं शौचं किञ्चित्कृत्वा सुदुर्मनाः ॥विनैवाचमनं प्राप्तः सा कन्था यत्र तिष्ठति ॥५६॥यावन्मात्राविहीनां च ततो ज्ञात्वा च तां हृताम् ॥तेन शिष्येण मूर्च्छाढ्यो निपपात महीतले ॥५७॥ततश्च चेतनां प्राप्य कृच्छ्राच्चोत्थाय तत्क्षणात् ॥शिलायां ताडयामास निजांगानि शिरस्तथा ॥५८॥हा हतोऽस्मि विनष्टोऽस्मि मुष्टस्तेन दुरात्मना ॥किं करोमि क्व गच्छामि कथं तं वीक्षयाम्यहम् ॥५९॥ततस्तु पदवीं वीक्ष्य तस्य तां चलितो ध्रुवम् ॥वृद्ध भावात्परिश्रांतो वावृत्य स मठं गतः ॥४.६०॥दुःशीलोऽपि समादाय मात्रां स्थानांतरं गतः ॥ततस्तेन सुवर्णेन व्यवहारान्करोति सः ॥६१॥ततो गृहस्थतां प्राप्तः कृतदारपरिग्रहः ॥वृद्धभावं समापन्नः संतानेन विवर्जितः ॥६२॥कस्यचित्त्वथ कालस्य तीर्थयात्रापरायणः ॥भार्यया सहितो विप्रश्चमत्कारपुरं गतः ॥६३॥स्नात्वा तीर्थेषु सर्वेषु देवतायतनेषु च ॥भ्रममाणेन संदृष्टो दुर्वासा नाम सन्मुनिः ॥६४॥निजदेवस्य सद्भक्त्या नृत्यगीतपरायणः ॥तं च दृष्ट्वा नमस्कृत्य वाक्यमेतदुवाच सः ॥६५॥केनैतत्स्थापितं लिंगं निर्मलं शंकरोद्भवम् ॥किं त्वं नृत्यसि गीतं च पुरोऽस्य प्रकरोषि च ॥मुनीनां युज्यते नैव यदेतत्तव चेष्टितम् ॥६६॥ ॥ दुर्वासा उवाच ॥मयैतत्स्थापितं लिंगं देवदेवस्य शूलिनः ॥नृत्यगीतप्रियो यस्माद्देवदेवो महेश्वरः ॥६७॥न मेऽस्ति विभवः कश्चिद्येन भोगं करोम्यहम् ॥६८॥एतस्मिन्नंतरे प्राप्तश्चिर्भटिर्नाम योगवित् ॥तेन पृष्टः स दुर्वासा वेदांतिकमिदं वचः ॥६९॥ चिर्भटिअसूर्या नाम ते लोका अंधेन तमसा वृताः ॥तांस्ते प्रेत्याऽभिगच्छंति ये केचात्महनो जनाः ॥४.७०॥उपविश्य ततस्तेन तस्य दत्तस्तु निर्णयः ॥दुःशीलेनापि तत्सर्व विज्ञातं तस्य संस्तुतम् ॥७१॥ततो विशेषतो जाता भक्तिस्तस्य हरं प्रति ॥तं प्रणम्य ततश्चोच्चैर्वाक्यमेतदुवाच ह ॥७२॥भगवन् ब्राह्मणोऽस्मीति जात्या चैव न कर्मणा ॥न कस्यचिन्मया दत्तं कदाचिन्नैव भोजनम् ॥केवलं देवविप्राणां वंचयित्वा धनं हृतम् ॥व्यसनेनाभिभूतेन द्यूतवेश्योद्भवेन च ॥७४॥तथा च ब्राह्मणेनापि मया शैवो गुरुः कृतः ॥वंचितश्च तथानेकैश्चाटुभिर्विहृतं धनम् ॥७५॥तस्य सक्तं धनं भूयः साधुमार्गेण चाहृतम् ॥स चापि च गुरुर्मह्यं परलोकमिहागतः ॥७६॥पश्चात्तापेन तेनैव प्रदह्यामि दिवानिशम् ॥पुरश्चरणदानेन तत्प्रसादं कुरुष्व मे ॥७७॥अस्ति मे विपुलं वित्तं न संतानं मुनीश्वर ॥तन्मे वद मुने श्रेयस्तद्वित्तस्य यथा भवेत् ॥इह लोके परे चैव येन सर्वं करोम्यहम् ॥७८॥ ॥ दुर्वासा उवाच ॥कृत्वा पापसहस्राणि पश्चाद्धर्मपरो भवेत् ॥यः पुमान्सोऽतिकृच्छ्रेण तरेत्संसारसागरम् ॥७९॥दिनेनापि गुरुर्योऽसौ त्वया शैवो विनिर्मितः ॥अधर्मेणापि संजातः स गुरुस्तेन संशयः ॥४.८०॥ब्राह्मणो ब्रह्मचारी स्याद्ग्रहस्थस्तदनंतरम् ॥वानप्रस्थो यतिश्चैव तत श्चैव कुटीचरः ॥८१॥बहूदकस्ततो हंसः परमश्च ततो भवेत् ॥ततश्च मुक्तिमायाति मार्गमेनं समाश्रितः ॥८२॥त्वया पुनः कुमार्गेण यद्व्रतं ब्राह्मणेन च [ ॥शैवमार्गं समास्थाय तन्महापातकं कृतम् ॥८३॥ ॥ दुःशील उवाच ॥सर्वेष्वेव हि वेदेषु रुद्रः संकीर्त्यते प्रभुः ॥तत्किं दोषस्त्वया प्रोक्तस्तस्य दीक्षासमुद्भवः ॥८४॥ ॥ दुर्वासा उवाच ॥सत्यमेतत्त्वया ख्यातं वेदे रुद्रः प्रकीर्तितः ॥बहुधा वासुदेवोऽपि ब्रह्मा चैव विशेषतः ॥८५॥परं विप्रस्य या दीक्षा व्रतवंधसमुद्भवा ॥गायत्री परमा जाप्ये गुरुर्व्रतपरो हि सः ॥वैष्णवीं चाथ शैवीं च योऽन्यां दीक्षां समाचरेत् ॥८६॥ब्राह्मणो न भवेत्सोऽत्र यद्यपि स्यात्षडंगवित् ॥अपरं लिंगभेदस्ते संजातः कपटादिषु ॥८७॥व्रतत्यागान्न संदेहस्तत्र ते नास्ति किंचन ॥प्रायश्चित्तं मया सम्यक्स्मृतिमार्गेण चिंतितम् ॥८८॥ ॥ दुःशील उवाच ॥सतां सप्तपदीं मैत्रीं प्रवदंति मनीषिणः ॥मित्रतां तु पुरस्कृत्य किंचिद्वक्ष्यामि तच्छृणु ॥८९॥अस्ति मे विपुलं वित्तं यदि तेन प्रसिद्ध्यति ॥तद्वदस्व महाभाग येन सर्वं करोम्यहम् ॥४.९०॥ ॥ दुर्वासा उवाच ॥एक एव ह्युपायोऽस्ति तव पातकनाशने ॥तं चेत्करोषि मे वाक्याद्विशुद्धः संभविष्यसि ॥९१॥तपः कृते प्रशंसंति त्रेतायां ज्ञानमेव च ॥द्वापरे तीर्थयात्रां च दानमेव कलौ युगे ॥९२॥सांप्रतं कलिकालोऽयं वर्तते दारुणाकृतिः ॥तस्मात्कृष्णाजिनं देहि सर्वपापविशुद्धये ॥९३॥तथा च ते घृणाऽप्यस्ति गुरुवित्तसमुद्भवा ॥तदर्थं कुरु तन्नाम्ना शंकरस्य निवेशनम् ॥९४॥येन तस्मादपि त्वं हि आनृण्यं यासि तत्क्षणात् ॥अन्यत्रापि च तद्वित्तं यत्किंचिच्च प्रपद्यते ॥९५॥ब्राह्मणेभ्यो विशिष्टेभ्यो नित्यं देहि समाहितः ॥तिलपात्रं सदा देहि सहिरण्यं विशेषतः ॥९६॥येन ते सकलं पापं देहान्नाशं प्रगच्छति ॥अपरं चैत्रमासेऽहं सदाऽऽगच्छामि भक्तितः ॥९७॥कल्पग्रामात्सुदूराच्च प्रासादेऽत्र स्वयं कृते ॥पुनर्यामि च तत्रैव व्रतमेतद्धि मे स्थितम् ॥९८॥तस्माच्चिंत्यस्त्वयाह्येष प्रासादो यो मया कृतः ॥चिंतनीयं सदैवेह स्नानादिभिरनेकशः ॥९९॥ ॥ दुःशील उवाच ॥करिष्यामि वचस्तेऽहं यथा वदसि सन्मुने ॥४.१००॥ ॥ ॥ दुर्वासा उवाच ॥सर्वपापविशुद्ध्यर्थं दत्ते कृष्णाजिने द्विजः ॥प्रयच्छ तिलपात्राणि गुप्तपापस्य शुद्धये ॥१०१॥ ॥ सूत उवाच ॥तस्य तद्वचनं श्रुत्वा दत्तं तेन महात्मना ॥ततः कृष्णाजिनं भक्त्या ब्राह्मणायाहिताग्नये ॥१०२॥दुर्वाससः समा देशाद्यथोक्तविधिना द्विजाः ॥यच्छतस्तिलपात्राणि तस्य नित्यं प्रभक्तितः ॥१०३॥गतपापस्य दीक्षां च ददौ निर्वाणसंभवाम् ॥तथासौ गतपापस्य दीक्षां दत्त्वा यथाविधि ॥१०४॥ततः प्रोवाच मधुरं देहि मे गुरुदक्षिणाम् ॥ ॥ दुःशील उवाच ॥याचस्व त्वं प्रभो शीघ्रं यां ते यच्छामि दक्षिणाम् ॥तां प्रदास्यामि चेच्छक्तिर्वित्तशाठ्यविवर्जिताम् ॥१०६॥ ॥ दुर्वासा उवाच ॥कल्पग्रामं गमिष्यामि सांप्रतं वर्तते कलिः ॥नाहमत्रागमिष्यामि यावन्नैव कृतं भवेत् ॥१०७॥अर्धनिष्पादितो ह्येष प्रासादो यो मया कृतः ॥परिपूर्तिं त्वया नेय एषा मे गुरुदक्षिणा ॥१०८॥नृत्यगीतादिकं यच्च तथा कार्यं स्वशक्तितः ॥पुरतोऽस्य बलिर्देयस्तथान्यत्कुसुमादिकम् ॥१०९॥एवमुक्त्वा गतः सोऽथ कल्पग्रामं मुनीश्वरः ॥दुःशीलोऽपि तथा चक्रे यत्तेन समुदाहृतम् ॥४.११०॥ ॥ सूत उवाच ॥एवं तस्य प्रभक्तस्य तत्कार्याणि प्रकुर्वतः ॥तन्नाम्ना कीर्त्यते सोऽथ दुःशील इति संज्ञितः ॥१११॥चैत्रमासे च यो नित्यं तं च देवं प्रपश्यति ॥क्षणं कृत्वा स पापेन वार्षिकेण प्रमुच्यते ॥११२॥यः पुनः स्नपनं तस्य सर्वं चैव करोति च ॥त्रिंशद्वर्षोद्भवं पापं तस्य गात्रात्प्रणश्यति ॥११३॥यः पुनर्नृत्यगीताद्यं कुरुते च तदग्रतः ॥आजन्ममरणात्पापात्सोऽपि मुक्तिमवाप्नुयात् ॥११४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये दुर्वासःस्थापितशिवलिंगस्य दुःशीलेश्वरसंज्ञाप्राप्तिकारणवृत्तान्तवर्णनं नाम चतुःसप्तत्युत्तर द्विशततमोऽध्यायः ॥२७४॥ छ ॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP