संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २५४ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २५४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २५४ Translation - भाषांतर शूद्र उवाच ॥इदमाश्चर्यरूपं मे प्रतिभाति वचस्तव ॥यद्यपि स्यान्महाक्लेशो वदतस्तव सुव्रत ॥१॥तथापि मम भाग्येन मत्पुण्यैर्मद्गृहं गतः ॥न तृप्ये त्वन्मुखांभोजाच्च्युतं वाक्यामृतं पुनः ॥२॥पिबन्गौरीकथाख्यानं विशेषगुणपूरितम् ॥कथं महेश्वरो नृत्यं चकार सुरसंवृतः ॥३॥चातुर्मास्ये कथं जातं कि ग्राह्यं व्रतमुच्यते ॥अनुग्रहं कृतवती सा कथं को ह्यनुग्रहः ॥४॥एतद्विस्तरतो ब्रूहि पृच्छतो मे द्विजोत्तम ॥भगवान्पूज्यते लोके ममानुग्रहकारकः ॥५॥प्रसन्नवदनो भूत्वा स्वस्थः कथय सुव्रत ॥गालवश्चापि तच्छ्रुत्वा पुनराह प्रहृष्टवान् ॥६॥ ॥ गालव उवाच ॥इतिहासमिमं पुण्यं कथयामि तवानघ ॥शृणुष्वावहितो भूत्वा यज्ञायुतफलप्रदम् ॥७॥चातुर्मास्येऽथ संप्राप्ते हरो भक्तिसमन्वितः ॥ब्रह्मचर्यव्रतपरः प्रहृष्टवदनोऽभवत् ॥८॥देवतानां च संकल्पं महर्षीणां चकार ह ॥समागत्य ततो देवा मन्दराचलमास्थिताः ॥९॥प्रणम्य ते महेशानं तस्थुः प्रांजलयोऽग्रतः ॥तानुवाच सुरान्सर्वान्हरो दृष्ट्वा समागतान् ॥१०॥पार्वत्याभिहितं प्राह कस्मिन्कार्यांतरे सति ॥मया नियुक्तेऽभिनये यत्र साहाय्यकारिणः ॥११॥भवंत्विंद्रपुरोगाश्च चातुर्मास्ये समागते ॥ते तथोचुश्च संहृष्टा नमस्कृत्य च शूलिनम् ॥१२॥स्वंस्वं भवनमाजग्मुर्विमानैः सूर्यसन्निभैः ॥तथाऽऽषाढे शुक्लपक्षे चतुर्दश्यां महेश्वरः ॥१३॥प्रनर्त्तयितुमारेभे भवानीतोषणाय च ॥मंदरे पर्वतश्रेष्ठे तत्र जग्मुर्महर्षयः ॥१४॥नारदो देवलो व्यासः शुकद्वैपायनादयः ॥अंगिराश्च मरीचिश्च कर्दमश्च प्रजापतिः ॥१५॥कश्यपो गौतमश्चात्रिर्वसिष्ठो भृगुरेव च ॥जमदग्निस्तथोत्तंको रामो भार्गव एव च ॥१६॥अगस्त्यश्च पुलोमा च पुलस्त्यः पुलहस्तथा ॥प्रचेताश्च क्रतुश्चैव तथैवान्ये महर्षयः ॥१७॥सिद्धा यक्षाः पिशाचाश्च चारणाश्चारणैः सह ॥आदित्या गुह्यकाश्चैव सा ध्याश्च वसवोऽश्विनौ ॥१८॥एते सर्वे तथेन्द्राद्या ब्रह्मविष्णुपुरोगमाः ॥समाजग्मुर्महेशस्य नृत्यदर्शनलालसाः ॥१९॥ततो गणा नंदिमुखा रत्नानि प्रददुस्तथा ॥भूषणानि च वासांसि मुन्यादिभ्यो यथाक्रमम् ॥२०॥ततो वाद्यसहस्रेषु वादित्रेषु समंततः ॥सर्वैर्जयेति चैवोक्ता भगवा न्व्रतमादिशत् ॥२१॥भवानी हृष्टहृदया महादेवं व्यलोकयत् ॥जया च विजया चैव जयन्ती मंगलारुणा ॥२२॥चतुष्टयसखीमध्ये विर राज शुभानना ॥तस्याः सान्निध्ययोगेन जगद्भाति गुणोत्तरम् ॥२३॥यस्याः शरीरजा शोभा वर्णितुं नैव शक्यते ॥ईशोऽपि गणकोटीभिर्ना नावक्त्त्राभिरीक्षितः ॥२४॥पिशाचभूतसंघैश्च वृतः परमशोभनः ॥स्वर्णवेत्रधरो नन्दी बभौ कपिमुखोऽग्रतः ॥२५॥विद्याधराश्च गंधर्वाश्चि त्रसेनादयस्तथा ॥चित्रन्यस्ता इव बभुस्तत्र नागा मुनीश्वराः ॥२६॥श्रीरागप्रमुखा रागास्तस्य पुत्रा महौजसः ॥अमूर्त्ताश्चैव ते पुत्रा हरदेव समुद्भवाः ॥२७॥एकैकस्य च षड्भार्याः सर्वासां च पितामहः ॥ताभिः सहैव ते रागा लीलावपुर्धरास्तथा ॥२८॥प्रादुर्बभूवुः सहसा चिंतितास्तेन शंभुना ॥तेषां नामानि ते वच्मि शृणुष्व त्वं महाधन ॥२९॥श्रीरागः प्रथमः पुत्र ईश्वरस्य विमोहनः ॥आसां चक्रे भ्रुवोर्मध्ये परब्रह्म प्रदायकः ॥३०॥तन्मध्यश्चैव माहेशात्समुद्भूतो गणोत्तमः ॥द्वितीयोऽथ वसन्तोऽभूत्कटिदेशान्महायशाः ॥३१॥महदंकश्च भूतानां चक्राच्चैव विशुद्धितः ॥पंचमस्तु तृतीयोऽभूत्सुतो विश्वविभूषणः ॥३२॥महेश्वरहृदो जातं चक्रं चैवमनाहतम् ॥नासादेशात्समुद्भूतो भैरवो भैरवः स्वयम् ॥३३॥मणिपूरकनामेदं चक्रं तद्धि विमुक्तिदम् ॥पंचाशच्च तथा वर्णा अंका नाम महेश्वरात् ॥३४॥राशयो द्वादश तथा नक्षत्राणि तथैव च ॥स्वाधिष्ठानसमुद्भूता जगद्बीजसमन्विताः ॥३५॥क्षणेन वृद्धिमायांति ततो रेतः प्रवर्तते ॥रेतसस्तु जगत्सृष्टं तदीशजननेंद्रियम् ॥३६॥आधाराच्च महान्षष्ठो नटो नारायणोऽभवत् ॥महेशवल्लभः पुत्रो नीलो विष्णुपराक्रमः ॥३७॥एते मूर्तिधरा रागा जाता भार्यासहायिनः ॥भार्यास्तेषां समुद्भूताः शिरोभागात्पिनाकिनः ॥३८॥षट्त्रिंशत्परिमाणेन ततस्तास्त्वं निशामय ॥गौरी कोलाहली धीरा द्राविडी माल कौशिकी ॥३९॥षष्ठी स्याद्देवगांधारी श्रीरागत्य प्रिया इमाः ॥आन्दोला कौशिकी चैव तथा चरममंजरी ॥४०॥गंडगिरी देवशाखा राम गिरी वसन्तगा ॥त्रिगुणा स्तम्भतीर्था च अहिरी कुंकुमा तथा ॥४१॥वैराटी सामवेरी च षड्भार्याः पंचमे मताः ॥भैरवी गुर्जरी चैव भाषा वेलागुली तथा ॥४२॥कर्णाटकी रक्तहंसा षड्भार्या भैरवानुगाः ॥बंगाली मधुरा चैव कामोदा चाक्षिनारिका ॥४३॥ देवगिरी च देवाली मेघ रागानुगा इमा ॥त्रोटकी मीडकी चैव नरादुम्बी तथैव च ॥४४॥मल्हारी सिन्धुमल्हारी नटनारायणानुगाः ॥एता हि गिरिशं नत्वा महेशं च महेश्वरीम् ॥४५॥स्वमूर्त्तिवाहनोपेताः स्वभर्तृसहिताः स्थिताः ॥ब्रह्मा मृदंगवाद्येन तोषयामास शंकरम् ॥४६॥चतुरक्षरवाद्येन सुवाद्यं चाकरोत्पुनः ॥तालक्रियां महेशाय दर्शयामास केशवः ॥४७॥वायवस्तत्र वाद्यं च चक्रुः सुस्वरमोजसा ॥महेन्द्रो वंशवाद्यं च सुगिरं सुस्वरं बहुः ॥४८॥वह्निः शूर्परवं चक्रे पणवं च तथाश्विनौ ॥उपांगवादनं चक्रे सोमः सूर्यः समंततः ॥४९॥घंटानां वादनं चक्रुर्गणाः शतसहस्रशः ॥मुनीश्वरास्तथा देव्यः पार्वतीसहितास्तथा ॥५०॥स्वर्णभद्रासनेष्वेते ह्युपविष्टा व्यलोकयन् ॥शृंगाणां वादनं चक्रुर्वसवः समहोरगाः ॥५१॥भेरीध्वनिं तथा साध्या वाद्यान्यन्ये सुरोत्तमाः ॥झर्झरीगोमुखादीनि साध्याश्चक्रुर्महोत्सवे ॥५२॥तन्त्रीलयसमायुक्ता गंधर्वा मधुर स्वराः ॥सुवर्णशृंगनादं च चक्रुः सिद्धाः समंततः ॥५३॥ततस्तु भगवानासीन्महानटवपुर्धरः ॥मुकुटाः पंचशीर्षे तु पन्नगैरुपशोभिताः ॥५४॥जटा विमुच्य सकला भस्मोद्धूलितविग्रहः ॥बाहुभिर्दशभिर्युक्तो हारकेयूरसंयुतः ॥५५॥त्रैलोक्यव्यापकं रूपं सूर्यकोटिसमप्रभम् ॥कृत्वा ननर्त्त भगवान्भासुरं स महानगे ॥५६॥ततं वीणादिकं वाद्यं कांस्यतालादिकं घनम् ॥वंशादिकं तु वादित्रं तोमरादिकनामकम् ॥५७॥चतुर्विधं ततो वाद्यं तुमुलं समजायत ॥तालानां पटहादीनां हस्तकानां तथैव च ॥५८॥मानानां चैव तानानां प्रत्यक्षं रूपमाबभौ ॥सुकंठं सुस्वरं मुक्तं सुगम्भीरं महास्वनम् ॥५९॥विश्वावसुर्नारदश्च तुंबुरुश्चैव गायकाः ॥जगुर्गंधर्वपतयोऽप्सरसो मधुरस्वराः ॥६०॥ग्रामत्रयसमोपेतं स्वरसप्तकसंयुतम् ॥दिव्यं शुद्धं च सांकल्पं तत्र गेयमवर्त्तत ॥६१॥पर्वतोऽपि महानादं हरपादतलाहतः ॥भ्रमिभिर्भ्रमयंस्तत्र महीं सपुरकाननाम् ॥६२॥हस्तकांश्चतुराशीतिं स ससर्ज सदाशिवः ॥ललाटफलकस्वेदात्सूतमागधबंदिनः ॥६३॥महेशहृदयाज्जाता गंधर्वा विश्वगायकाः ॥ते मूर्त्ता देवदेवस्य सुरंगालयसंयुताः ॥६४॥प्रेक्षकाणामृषीणां च चक्रुराश्चर्यमोजसा ॥किन्नराः पुष्पवर्षाणि ससृजुः स्वैर्गुणैरिह ॥६५॥एवं चतुर्षुमासेषु यदा नृत्यमजायत ॥अतिक्रांता शरज्जाता निर्मलाकाशशोभिता ॥६६॥ पद्मखंडसमाच्छन्नसरोवरमुखांबुजा ॥फलवृक्षौषधीभिश्च किंचित्पांडुमुखच्छविः ॥६७॥ऊर्जशुक्लचतुर्दश्यां प्रसन्ना गिरिजा तदा ॥समाप्तव्रतचर्यः स ईश्वरोऽपि तदा बभौ ॥६८॥सा चोवाच तदा शंभुं विकचस्वरलोचना ॥विप्रशापपातितं च यदा लिंगं भविष्यति ॥६९॥नर्मदाजलसंभूतं विश्वपूज्यं भविष्यति ॥एवमुक्त्वा ततस्तुष्टा हरस्तोत्रं चकार ह ॥७०॥नमस्ते देवदेवाय महादेवाय मौलिने ॥जगद्धात्रे सवित्रे च शंकराय शिवाय च ॥७१॥कपर्दिनेऽजयादाय ब्रह्मगर्भाय ते नमः ॥हिरण्यरेतसे तुभ्यं नीलग्रीवाय ते नमः ॥७१॥नमो ब्रह्मण्य देवाय सितभूतिधराय च ॥पंचवक्त्राय रूपाय नीरूपाय नमोनमः ॥७३॥सहस्राक्षाय शुभ्राय नमस्ते कृत्तिवाससे ॥अन्धकासुरमोक्षाय पशूनां पतये नमः ॥७४॥विप्रवह्निमुखाग्राय हराय च भवाय च ॥शंकराय महेशाय ईश्वराय नमो नमः ॥७६॥अमूर्तब्रह्मरूपाय मूर्त्तानां भावनाय च ॥नमः शिवाय चोग्राय हराय च भवाय च ॥७६॥नमः कृष्णाय शर्वाय त्रिपुरांतक हारिणे ॥अघोराय नमस्तेऽस्तु नमस्ते पुरुषाय ते ॥७७॥सद्योजाताय तुभ्यं भो वामदेवाय ते नमः ॥ईशानाय नमस्तुभ्यं पंचास्याय कपालिने ॥७८॥विरूपाक्षाय भावाय भगनेत्रनिपातिने ॥पूषदंतनिपाताय महायज्ञनिपातिने ॥७९॥मृगव्याधाय धर्माय कालचक्राय चक्रिणे ॥महापुरुषपूज्याय गणानां पतये नमः ॥८०॥गंगाधराय मृडिने भवानीप्रियकारिणे ॥जगदानंददात्रे च ब्रह्मरूपाय ते नमः ॥९१॥गुणातीताय गुणिने सूक्ष्माय गुरवेऽपि च ॥नमो महास्वरूपाय भस्मनो जन्मकारिणे ॥८२॥वैराग्यरूपिणे नित्यं योगाचार्याय वै नमः ॥मयोक्तमप्रियं देव स्मरसंहारकारक ॥८३॥क्षंतुमर्हसि विश्वेश शिरसा त्वां प्रसादये ॥शापानुग्रह एवैष कृतस्ते वै न संशयः ॥८४॥ममापराधजो मन्युर्न कार्यो भवताऽनघ ॥एवं प्रसादितः शंभुर्हृष्टात्मा त्रिदशैः सह ॥८५॥तीर्णव्रतपरानंदनिर्भरः प्राह तामुमाम् ॥य इमां मत्स्तुतिं भक्त्या पठिष्यति तवोद्गताम् ॥तस्य चेष्टवियोगश्च न भविष्यति पार्वति ॥८६॥जन्मत्रयधनैर्युक्तः सर्वव्याधिविवर्जितः ॥भुक्त्वेह विविधान्भोगानंते यास्यति मत्पुरम् ॥८७॥इत्युक्त्वा तां महेशोऽपि स्वमंगं प्रददौ ततः ॥वैष्णवं वामभागं सा प्रतिजग्राह पार्वती ॥८८॥शर्वं कपालहस्तं च ग्रीवार्द्धे गरलान्वितम् ॥रुण्डमालार्द्धहारं च सितगौरं समंततः ॥८९॥ब्रह्मांडकोटिजनकं जटाभिर्भूषितं शिरः ॥सित द्युतिकलाखंडरत्नभासावभासितम् ॥९०॥स्वर्णाभरणसंयुक्तमेकतो भुजगांगदम् ॥एकतः कृत्तिवसनमन्यतः पट्टकूलवत् ॥९१॥मत्स्य वाहनसंयुक्तमन्यतो वृषभांकितम् ॥एकतः पार्षदैः सेव्यमन्यतः सखिसेवितम् ॥९२॥रूपमेवंविधं दृष्ट्वा ब्रह्माद्या देवतागणाः ॥तुष्टुवुः परया भक्त्या तेजोभूषितलोचनम् ॥९३॥त्वमेको भगवान्सर्वव्यापकः सर्वदेहिनाम् ॥पितृवद्रक्षकोऽसि त्वं माता त्वं जीवसंज्ञकः ॥९४॥साक्षी विश्वस्य बीजं त्वं ब्रह्मांडवशकारकः ॥उत्पद्यंते विलीयंते त्वयि ब्रह्मांडकोटयः ॥९५॥ऊर्मयः सागरे नित्यं सलिले बुद्बुदा यथा ॥अहं कदा चित्ते नेत्रात्कदाचित्तव भालतः ॥९६॥क्वचित्संगे शिवादेव्या प्राहुर्भूत्वा सृजे जगत् ॥तवाज्ञाकरिणः सर्वे वयं ब्रह्मादयः सुराः ॥९७॥अनंतवैभवोऽनंतोऽनंतधामाऽस्यनंतकः ॥अनंतः सर्वभंगाय कुरुषे रूपमद्भुतम् ॥९८॥भवानि त्वं भयं नित्यमशिवानां पवित्रकृत् ॥शिवा नामपि दात्री त्वं तपसामपि त्वं फलम् ९९॥यः शिवः स स्वयं विष्णुर्यो विष्णुः स सदाशिवः ॥इत्यभेदमतिर्जाता स्वल्पा नस्त्वत्प्रसादतः ॥१००॥यत्किंचिच्च जगत्यस्मिन्दृश्यते श्रूयतेऽपि वा ॥मध्ये बहिश्च तत्सर्वं त्रयं व्याप्य स्थिता यदा ॥१॥जगत्पूज्ये सुरेशानि जगद्वंद्ये तथांबिके ॥प्रसादं कुरु देवेशि देवेश प्रणता वयम् ॥२॥इत्युक्त्वा त्रिदशाः सर्वे हृष्टा जग्मुर्यथागतम् ॥३॥ ॥ गालव उवाच ॥तद्दिव्यरूपमतुलं भुवि ये मनुष्याः संसारसागरसमुत्तरणैकपोतम् ॥संचिन्तयंति मनसा हृतकिल्बिषास्ते ब्रह्मस्वरूपमनुयांति विमुक्तसंगाः ॥१०४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये शेषशाय्युपाख्याने ब्रह्मनारदसंवादे चातुर्मास्य माहात्म्ये हरतांडवनर्त्तनवर्णनंनाम चतुःपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥२५४॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP