संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ७६ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ७६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ७६ Translation - भाषांतर ॥ सूत उवाच ॥तथान्यदपि तत्रास्ति भास्करत्रितयं शुभम् ॥यैस्तुष्टैस्त्रिषु लोकेषु मानवो मुक्तिमाप्नुयात् ॥१॥मुण्डीरं प्रथमं तत्र कालप्रियं तथापरम् ॥मूलस्थानं तृतीयं च सर्वव्याधिविनाशनम् ॥२॥तत्र संक्रमते सूर्यो मुंडीरे रजनीक्षये ॥कालप्रिये च मध्याह्ने मूलस्थाने क्षपागमे ॥३॥तस्मिन्काले नरो भक्त्या पश्येदप्येकमेवच ॥कृतक्षणो नरो मोक्षं सत्यं याति न संशयः ॥४॥ ॥ ऋषय ऊचुः ॥मुंडीरः पूर्वदिग्भागे धरित्र्याः श्रूयते किल ॥मध्ये कालप्रियो देवो मूलस्थानं तदन्तरे ॥५॥तत्कथं ते त्रयस्तत्र संजाताः सूत भास्कराः ॥हाटकेश्वरजे क्षेत्रे सर्वं नो ब्रूहि विस्तरात् ॥६॥ ॥ सूत उवाच ॥अस्ति सागरपर्यंते विटंकपुरमुत्तमम् ॥समुद्रवीचिसंसक्तप्रोच्चप्राकारमण्डनम् ॥७॥तत्राभूद्ब्राह्मणः कश्चित्कुष्ठव्याधिसमन्वितः ॥पूर्वकर्मविपाकेन यौवनेसमुपस्थिते ॥८॥तस्य भार्याऽभवत्साध्वी कुलीना शीलमंडना ॥तथाभूतमपि प्रायः सा पश्यति यथा स्मरम् ॥९॥औषधानि विचित्राणि महार्घ्याण्यपि चाददे ॥तदर्थमुपलेपांश्च पथ्यानि विविधानि च ॥१०॥तथा भिषग्वरान्नित्यमानिनाय च सादरम् ॥तदर्थे न गुणस्तस्य तथापि स्याच्छरीरजः ॥११॥यथायथा स गृह्णाति भेषजानि द्विजोत्तमाः ॥कुष्ठेन सर्वगात्रेषु व्याप्यते च तथातथा ॥१२॥अथैवं वर्तमानस्य तस्य विप्रवरस्य च ॥गृहेऽतिथिः समायातः कश्चित्पांथः श्रमान्वितः ॥१३॥अथ विप्रं गृहं प्राप्तं दृष्ट्वा तस्य सती प्रिया ॥अज्ञातमपिसद्भक्त्या सूपचारैरतोषयत् ॥१४॥अथ तं स्नातमाचांतं कृताहारं द्विजोत्तमम् ॥विश्रान्तं शयने विप्रः प्रोवाच स गृहाधिपः ॥१५॥तेजोऽन्वितं यथा भानुं रूपौदार्यगुणान्वितम् ॥यौवने वर्तमानं च मूर्तं काममिवापरम् ॥१६॥ ॥ कुष्ठ्युवाच ॥कुत आगम्यते विप्र क्व यास्यसि वदाऽधुना ॥एवं लावण्ययुक्तोऽपि किमेकाकी यथार्तिभाक् ॥१७॥ ॥ पथिक उवाच ॥अस्ति कान्तीपुरीनाम पुरंदरपुरी यथा ॥सुस्थितैः सेविता नित्यं जनैर्धर्मव्रतान्वितैः ॥१८॥तस्यामहं कृतावासो गृहस्थाश्रममावहन् ॥ग्रस्तः कुष्ठेन रौद्रेण यथा त्वं द्विजसत्तम ॥१९॥ततः श्रुतं मया तावत्पुराणे स्कान्दसंज्ञिते ॥भास्करत्रितयं भूमौ सर्वव्याधिविनाशनम् ॥२०॥ततो निर्वेदमापन्नो भेषजैः क्लेशितश्चिरम् ॥क्षारैश्चाम्लैः कषायैश्च कटुकैरथ तिक्तकैः ॥२१॥ततो विनिश्चयं चित्ते कृत्वा गृह्य धनं महत् ॥मुण्डीरस्वामिनं गत्वा स्थितस्तस्यैव सन्निधौ ॥२२॥ततः प्रातः समुत्थाय नित्यं पश्यामि तं विभुम् ॥पूजयामि स्वशक्त्या च प्रणमामि ततः परम् ॥२३॥सूर्यवारे विशेषेण निराहारो यतेन्द्रियः ॥करोमि जागरं रात्रौ गीतवादित्रनिःस्वनैः ॥२४॥ततः संवत्सरस्यांते तं प्रणम्य दिनाधिपम् ॥कालप्रियं ततः पश्चाच्छ्रद्धया परया युतः ॥२५॥तेनैव विधिना विप्र तस्यापि दिवसेशितुः ॥पूजां करोमि मध्याह्ने श्रद्धा पूतेन चेतसा ॥२६॥ततोऽपि वत्सरस्यांते तं प्रणम्याथ शक्तितः ॥मूलस्थानं गतो देवमपरस्यां दिशि स्थितम् ॥२७॥तेनैव विधिना पूजा तस्यापि विहिता मया ॥संध्याकाले द्विजश्रेष्ठ यावत्संवत्सरं स्थितः ॥२८॥ततः संवत्सरस्यांते स्वप्ने मां भास्करोऽब्रवीत् ॥समेत्य प्रहसन्विप्रः संप्रहृष्टेन चेतसा ॥२९॥परितुष्टोऽस्मि ते विप्र कर्मणाऽनेन भक्तितः ॥ममाराधनजेनैव तस्मात्कुष्ठं प्रयातु ते ॥३०॥गच्छ शीघ्रं द्विजश्रेष्ठ श्रांतोऽसि निजमंदिरम् ॥पश्य बंधुजनं सर्वं सोत्कण्ठं तत्कृते स्थितम् ॥३१॥त्वया हृतं पुरा रुक्मं ब्राह्मणस्य महात्मनः ॥तेन कर्मविपाकेन कुष्ठव्याधिरुपस्थितः ॥३२॥स मया नाशितस्तुभ्यं प्रहृष्टेनाधुना द्विज ॥एतज्ज्ञात्वा न कर्तव्यं सुवर्णहरणं पुनः ॥३३॥दृश्यन्ते ये नरा लोके कुष्ठव्याधिसमाकुलाः ॥सुवर्णहरणं सर्वैस्तैः कृतं पापकर्मभिः ॥३४॥तस्माद्देयं यथाशक्त्या न स्तेयं कनकं बुधैः ॥इच्छद्भिः परमं सौख्यं स्वशरीरस्य शाश्वतम् ॥३५॥एवमुक्त्वा सहस्रांशुस्ततश्चादर्शनं गतः ॥अहं च विस्मयाविष्टः प्रोत्थितः शयनाद्द्रुतम् ॥३६॥यावत्पश्यामि देहं स्वं कुष्ठव्याधिपरिच्युतम् ॥द्वादशार्कप्रभं दिव्यं यथा त्वं पश्यसे द्विज ॥३७॥तस्मात्त्वमपि विप्रेंद्र भक्त्या तद्भास्करत्रयम् ॥अनेन विधिना पश्य येन कुष्ठं प्रशाम्यति ॥३८॥किमौषधैः किमाहांरैः कटुकैरपि योजितैः ॥सर्वव्याधिप्रणाशेशे स्थितेऽस्मिन्भास्करत्रये ॥३९॥स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं तां पुरीं प्रति ॥गृहेऽद्य तव विश्रांतो यथा विप्र निजे गृहे ॥४०॥एवमुक्तः स पांथेन तेन विप्रः स कुष्ठभाक् ॥वीक्षांचक्रे ततो वक्त्रं स्वपत्न्या दुःखसंयुतः ॥४१॥साऽब्रवीद्युक्तमुक्तं ते पांथेनानेन वल्लभ ॥तस्मात्तत्र द्रुतं गच्छ यत्र तद्भास्करत्रयम् ॥४२॥अहं त्वया समं तत्र शुश्रूषानिरता सती ॥गमिष्यामि न संदेहस्तस्माद्गच्छ द्रुतं विभो ॥४३॥एवमुक्तस्तया सोऽथ वित्तमादाय भूरिशः ॥प्रस्थितः कांतया सार्धं मुण्डीरस्वामिनं प्रति ॥४४॥प्रतिज्ञया गमिष्यामि द्रष्टुं तद्देवतात्रयम् ॥मुंडीरं कालनाथं च मूल स्थानं च भास्करम् ॥४५॥ततः कृच्छ्रेण महता कुष्ठव्याधिसमाकुलः ॥हाटकेश्वरजे क्षेत्रे संप्राप्तः स द्विजोत्तमाः ॥४६॥तद्दृष्ट्वा सुमहत्क्षेत्रं तापसौघनिषेवितम् ॥निर्विण्णः कुष्ठरोगेण पथि श्रांतोऽब्रवीत्प्रियाम् ॥४७॥अहं निर्वेदमापन्नो रोगेणाथ बुभुक्षया ॥मुण्डीरस्वामिनं यावन्न शक्रोमि प्रसर्पितुम् ॥४८॥तस्मादत्रैव देहं स्वं विहास्यामि न संशयः ॥त्वं गच्छ स्वगृहं कांते सार्थमासाद्य शोभनम् ॥४९॥ ॥ पत्न्युवाच ॥अभुक्ते त्वयि नो भुक्तं कदाचित्कांत वै मया ॥एकांतेऽपि महाभाग न सुप्तं जाग्रति त्वयि ॥५०॥तस्मादेतन्महाक्षेत्रं संप्राप्य त्वां व्यवस्थितम् ॥परलोकाय संत्यज्य कथं गच्छाम्यहं गृहम् ॥५१॥दर्शयिष्ये मुखं तेषां त्वया हीना अहं कथम् ॥बांधवानां गुरूणां च अन्येषां सुदृदा मपि ॥५२॥तस्मात्त्वया समं नाथ प्रवेक्ष्यामि हुताशनम् ॥स्नेहपाशविनिर्बद्धा सत्येनात्मानमालभे ॥५३॥यावतस्तव संजाता उपवासा महामते ॥तावंतश्च तथास्माकं कथं गच्छामि तद्गृहम् ॥५४॥एवं तस्या विदित्वा स निश्चयं ब्राह्मणस्तदा ॥चितिं कृत्वा तु दाहार्थं तया सार्धे ततोऽविशत् ॥५५॥भास्करं मनसि ध्यात्वा यावदग्निं समाददे ॥तावत्पश्यति चाग्रस्थं सुदीप्तं पुरुषत्रयम् ॥५६॥तद्दृष्ट्वा विस्मयाविष्टः क एते पुरुषास्त्रयः ॥न कदाचिन्मया दृष्टा ईदृक्तेजःसमन्विताः ॥५७॥ ॥ पुरुषा ऊचुः ॥मा त्वं मृत्युपथं गच्छ कृत्वा वैराग्यमाकुलः ॥व्यावृत्य स्वगृहं गच्छ स्व भार्यासहितो द्विज ॥५८॥ ॥ ब्राह्मण उवाच ॥प्रतिज्ञाय मया पूर्व गृहं मुक्तं निजं यतः ॥मुण्डीरस्वामिनं दृष्ट्वा तथाऽन्यं कालवल्लभम् ॥५९॥मूलस्थानं च कर्तव्यं ततः सस्यप्रभक्षणम् ॥सोऽहं तानविलोक्याथ कथं गच्छामि मन्दिरम् ॥भक्षयामि तथा सस्यं तेन त्यक्ष्यामि जीवितम् ॥६०॥ ॥ पुरुषा ऊचुः ॥वयं ते भास्करा ब्रह्मंस्त्रयोऽत्रैव समागताः ॥त्वद्भक्त्याकृष्टमनसो ब्रूहि किं करवामहे ॥६१॥ ॥ ब्राह्मण उवाच ॥यदि यूयं समायाताः स्वयमेव ममांतिकम् ॥त्रयोऽपि भास्करा नाशमेष कुष्ठः प्रगच्छतु ॥६२॥तथाऽत्रैव सदा स्थेयं क्षेत्रे युष्माभिरेव हि ॥सांनिध्यं त्रिषु लोकेषु गन्तव्यं च यथा पुरा ॥६३॥ ॥ भास्करा ऊचुः ॥एवं विप्र करिष्यामः स्थास्यामो ऽत्र सदा वयम् ॥त्वं चापि रोगनिर्मुक्तः सुखं प्राप्स्यस्यनुत्तमम् ॥६४॥प्रासादत्रितयं तस्मादस्मदर्थं निरूपय ॥येन त्रिकालमासाद्य गच्छामः संनिधिं द्विज ॥६५॥एवमुक्त्वा तु ते सर्वे गताश्चाद्दर्शनं ततः ॥सोऽपि पश्यति कायं स्वं यावद्रोगविवर्जितम् ॥६६॥द्वादशार्क प्रतीकाशं सर्वलक्षणलक्षितम् ॥ततः प्रोवाच तां भार्यां विनयावनतां स्थिताम् ॥६७॥पश्य त्वं सुभ्रूर्मे गात्रं यादृग्रूपं पुनः स्थितम् ॥प्रसादाद्देवदेवस्य भास्करस्यांशुमालिनः ॥६८॥सोऽहमत्र स्थितो नित्यं पूजयिष्यामि भास्करम् ॥न यास्यामि पुनः सद्म सत्यमेतन्मयोदितम् ॥६९॥एवमुक्त्वा स विप्रेन्द्रस्तस्मिन्क्षेत्रे सुशोभने ॥प्रासादत्रितयं रम्यं निर्ममे भक्तिसंयुतः ॥७०॥मुण्डीरस्वामिनश्चैकमन्यत्कालप्रियस्य च ॥मूलस्थानस्य चान्यत्तु सत्पताकाविभूषितम् ॥७१॥त्रयाणामपि तेषां तु साध्वर्चाः शास्त्रसूचिताः ॥स्थापयामास सूर्याणां हस्तार्के सूर्यवासरे ॥७२॥ततस्ताः पुष्पधूपाद्यैः समभ्यर्च्य चिरं द्विजः ॥त्रिसंध्यं क्रमशः प्राप्तो देहांते भास्करालयम् ॥७३॥ ॥ सूत उवाच ॥एवं ते तत्र संजातास्त्रयोऽपि द्विजसत्तमाः ॥भास्करा भक्तलोकस्य सर्वव्याधिविनाशकाः ॥७४॥यस्तान्पश्यति काले स्वे यथोक्ते सूरर्यवासरे ॥स वांछिताँल्लभेत्कामान्दुर्लभानपि मानवैः ॥७५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मुंडीरकालप्रियमूलस्थानप्रतिष्ठावर्णनंनाम षट्सप्ततितमोऽध्यायः ॥७६॥ N/A References : N/A Last Updated : December 26, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP