संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १४१ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १४१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १४१ Translation - भाषांतर ॥ सूतउवाच ॥तथान्योऽपि हि तत्रास्ति देवो मिष्टान्नदायकः ॥यस्य संदर्शनादेव मिष्टान्नं लभते नरः ॥१॥आसीत्पूर्वं नृपो नाम्ना वसुसेन इति स्मृतः ॥आनर्त्ताधिपतिः ख्यातो बृहत्कल्पे द्विजोत्तमाः ॥२॥अत्यैश्वर्यसमायुक्तो गजवाजिरथान्वितः ॥जितारिपक्षस्तेजस्वी दाता भोगी जितेंद्रियः ॥३॥स संक्रांतौ व्यतीपाते ग्रहणे रवि सोमयोः ॥पर्वकालेषु चान्येषु विविधेषु सुभक्तितः ॥४॥प्रयच्छति द्विजातिभ्यो रत्नानि विविधानि च ॥इंद्रनीलमहानीलविद्रुमस्फटिकादि च ॥५॥माणिक्यमौक्तिकान्येव विद्रुमाणि विशेषतः ॥हस्त्यश्वरथयानानि वस्त्राणि विविधानि च ॥६॥न कस्यचित्प्रदद्यात्स सस्यं ब्राह्मणसत्तमाः ॥अतीव सुलभं मत्वा तथा तोयं विशेषतः ॥७॥ततो राज्यं चिरं कृत्वा दृष्ट्वा पुत्रोद्भवान्सुतान् ॥कालधर्ममनुप्राप्तः कस्मिंश्चित्कालपर्यये ॥८॥ततश्च मंत्रिभिस्तस्य सत्यसेन इति स्मृतः ॥अभिषिक्तः सुतो राज्ये वीर्योदार्यसमन्वितः ॥९॥वसुसेनोऽपि संप्राप्य स्वर्गं दानप्रभावतः ॥दिव्यांबरधरो भूत्वा दिव्यरत्नैर्विभूषितः ॥१०॥सेव्यमानोऽप्सरोभिश्च विमानवरमाश्रितः ॥बभ्राम सर्वलोकेषु स्वेच्छया क्षुत्समावृतः ॥११॥पिपासाकुलचित्तश्च मुखेन परिशुष्यता ॥न कंचिद्ददृशे तत्र भुंजानमपरं दिवि ॥१२ ॥न च पानसमासक्तं न सस्यं सलिलं न च ॥१३॥ततो गत्वा सहस्राक्षमुवाच द्विजसत्तमाः ॥क्षुत्तृषावृतदेहस्तु लज्जयाऽधोमुखः स्थितः ॥१४॥नैवात्र दृश्यते कश्चित्क्षुत्तृषापरिपीडितः ॥मां मुक्त्वा विबुधश्रेष्ठ तत्किमेतद्वदस्वमे ॥१५॥एष मे स्वर्गरूपेण नरकः समुपस्थितः ॥किमेतैर्भूषणैर्वस्त्रैर्विमानादिभिरेव च ॥१६॥क्षुधा संपीड्यमानस्य स्वर्गमेतच्छचीपते ॥अग्नितुल्यं समुद्दिष्टं मम चित्तेऽपि वर्तते ॥१७॥तस्मात्कुरु प्रसादं मे यथा क्षुन्न प्रबाधते ॥नोचेत्क्षिप सुरश्रेष्ठ रौरवे नरके द्रुतम् ॥१८॥ ॥ इंद्रउवाच ॥अनर्होसि महीपाल नरकस्य त्वमेव हि ॥त्वया दानानि दत्तानि संख्याहीनानि सर्वदा ॥१९॥परं किं तु क्वचिन्नान्नं दत्तं राजन्न चोदकम् ॥न किंचिदपि संचिंत्य यतः सुलभमेव हि ॥२०॥तोयं सान्नं सदा दद्यादन्नं चैव सदक्षिणम् ॥य इच्छेच्छाश्वतीं तृप्तिमिह लोके परत्र च ॥२१॥तस्मात्त्वं हि क्षुधाविष्टः स्वर्गे चैव महीपते ॥भूषितो भूषणैः श्रेष्ठैर्विमानवरमाश्रितः ॥२२॥ ॥ राजोवाच ॥अस्ति कश्चिदुपायोऽत्र देवौ वा मानुषोऽपि वा ॥क्षुत्पिपासेऽतितीव्रे मे विनाशं येन गच्छतः ॥२३॥ ॥ इन्द्र उवाच ॥यदि कश्चित्सुतस्तुभ्यं विप्रेभ्यः सततं जलम् ॥ददाति च सदा सस्यं तत्ते तृप्तिः प्रजायते ॥२४॥नान्यथा पार्थिवश्रेष्ठ एकस्मिन्नपि वासरे ॥अदत्तस्य तव प्राप्तिः सत्यमेतन्मयोदितम् ॥२५॥सोऽपि भूमिपतेः पुत्रस्तव यच्छति नोदकम् ॥न च सस्यं द्विजातिभ्यस्त्वन्मार्गमनुसंचरन् ॥२६॥एतस्मिन्नंतरे प्राप्तो नारदो मुनिसत्तमः ॥ब्रह्मलोकात्स्थितौ यत्र तौ भूमिपसुरेश्वरौ ॥२७॥ततः शक्रः समुत्थाय तस्मै तुष्टिसमन्वितः ॥अर्घं दत्त्वा विधानेन सादरं चेदमब्रवीत् ॥ाr २८॥कुतः प्राप्तोऽसि विप्रेंद्र प्रस्थितः क्व च सांप्रतम् ॥केन कार्येण चेद्गुह्यं न तेऽस्ति वद सांप्रतम् ॥२९॥नारद उवाच ॥ब्रह्मलोकादहं प्राप्तः प्रस्थितस्तु धरातले ॥तीर्थयात्राकृते शक्र नान्यदस्तीह कारणम् ॥३०॥ ॥ सूत उवाच ॥तच्छ्रुत्वा स नृपो हृष्टस्तमुवाच मुनीश्वरम् ॥प्रसादः क्रियतां मह्यं दीनस्य मुनिपुंगव ॥३१॥त्वया भूमितले वाच्यो मम पुत्रो महीपतिः ॥आनर्त्ताधिपतिः ख्यातः सत्यसेन इति प्रभो ॥३२॥तव तातो मया दृष्टः शक्रस्य सदनं प्रति ॥क्षुत्पिपासापरीतांगो दीनात्मा देवमध्यगः ॥३३॥तस्मात्पुत्रोऽसि चेन्मह्यं त्वं सत्यं परिरक्षसि ॥तन्मन्नाम्ना प्रयच्छोच्चैः सस्यानि सलिलानि च ॥३४॥स तथेति प्रतिज्ञाय नारदो मुनिसत्तमः ॥अनुज्ञाप्य सहस्राक्षं प्रस्थितो भूतलं प्रति ॥३५॥ततः क्रमेण तीर्थानि भ्रममाणः स सद्द्विजः ॥आनर्त्तविषयं प्राप्य सत्यसेनमुपाद्रवत् ॥३६॥अथ संपूजितस्तेन सम्यग्भूपतिना मुनिः ॥पितुः संदेशमाचख्यौ विजने तस्य सादरम् ॥३७॥तच्छ्रुत्वा शोकसंतप्तः सत्यसेनो महीपतिः ॥तं विसृज्य मुनिश्रेष्ठं पूजयित्वा विधानतः ॥३८॥ततो जनकमुद्दिश्य मिष्टान्नेन सुभक्तितः ॥सहस्रं ब्राह्मणेंद्राणां भोजयामास नित्यशः ॥३९॥प्रपादानं तथा चक्रे ग्रीष्मकाले विशेषतः ॥त्यक्त्वान्याः सकला याश्च क्रिया धर्मसमुद्भवाः ॥४०॥एवं तस्य महीपस्य वर्तमानस्य च द्विजाः ॥अनावृष्टिरभूद्रौद्रा सर्वसस्यक्षयावहा ॥४१॥यावद्द्वादशवर्षाणि न जलं त्रिदशाधिपः ॥मुमोच धरणीपृष्ठे सर्वे लोकाः क्षुधार्दिताः ॥४२॥अत्राभावात्ततो भूयो न सस्यं संप्रयच्छति ॥ब्राह्मणेभ्यः समुद्दिश्य पितरं स्वं यथा पुरा ॥४३॥ततः स क्षुत्परीतांगः पिता तस्य महीपतेः ॥स्वप्ने प्रोवाच तं पुत्रमतीव मलिनांबरः ॥४४॥त्वया पुत्रेण पुत्राहं क्षुत्पिपासासमाकुलः ॥स्वर्गस्थोऽपि हि तिष्ठामि तस्मादन्नं प्रयच्छ वै ॥मन्नाम्ना तोयसंयुक्तं यदि त्वं मत्समुद्भवः ॥४५॥ततः शोकसमायुक्तः स नृपः स्वप्नदर्शनात् ॥अन्नाभावात्समं मंत्रं मंत्रिभिः स तदाकरोत् ॥४६॥अहमाराधयिष्यामि सस्यार्थे वृषभध्वजम् ॥राज्ये रक्षा विधातव्या भवद्भिः सादरं सदा ॥४७॥ततोऽत्रैव समागत्य स्थापयित्वा महेश्वरम् ॥सम्यगाराधयामास व्रतैश्च नियमैस्तथा ॥४८॥अथ तस्य गतस्तुष्टिं वर्षांते भगवाञ्छिवः ॥अब्रवीद्वरदोऽस्मीति प्रार्थयस्व यथेप्सितम् ॥४९॥राजोवाच ॥अन्नार्थं देवदेवेश मयायं विहितो विधिः ॥तस्मात्त्वं यच्छ मे शीघ्रमसंख्यं वृषवाहन ॥५०॥तथा संजायता वृष्टिः समस्ते धरणीतले ॥येन सस्यानि जायंते सलिलानि च सांप्रतम् ॥५१॥जायतां मम तातस्य स्वर्गस्थस्य महात्मनः ॥प्रसादात्तव संतृप्तिरक्षया सुरसत्तम ॥५२॥ ॥ श्रीभगवानुवाच ॥भविता न चिराद्वृष्टिः प्रभूता धरणीतले ॥भविष्यंति तथान्नानि यानि कानि महीतले ॥५३॥तस्मात्त्वं गच्छ राजेंद्र स्वगृहं प्रति सांप्रतम् ॥मम वाक्यादसंदिग्धमेतदेव भविष्यति ॥५४॥तच्चैतन्मामकं लिंगं यत्त्वया स्थापितं नृप ॥प्रातरुत्थाय यः कश्चित्सम्यक्तद्वीक्षयिष्यति ॥५५॥मिष्टान्नममृतस्वादु स हि नूनमवाप्स्यति ॥मम वाक्यान्नृपश्रेष्ठ सदा जन्मनिजन्मनि ॥५६॥स एवं भगवानुक्त्वा ततश्चादर्शनं गतः ॥सोऽपि राजा निजं स्थानं हर्षेण महतान्वितः ॥आजगाम चकाराथ राज्यं निहतकंटकम् ॥५७॥ ॥ सूत उवाच ॥अद्यापि कलिकालेऽत्र संप्राप्ते दारुणे युगे ॥यस्तं मिष्टान्नदं पश्येत्प्रातरुत्थाय भक्तितः ॥५८॥स मिष्टान्नमवाप्नोति यदि कामयते द्विजाः ॥निष्कामो वा समभ्येति स्थानं देवस्य शूलिनः ॥५९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये मिष्टान्नदेश्वरमाहात्म्यवर्णनंनामैकचत्वारिंशदुत्तरशततमोऽध्यायः ॥१४१॥ N/A References : N/A Last Updated : December 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP