संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २७२ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २७२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २७२ Translation - भाषांतर ऋषय ऊचुः ॥ ॥यदेतद्भवता प्रोक्तमीशानस्य महीपतेः ॥ईश्वरेण पुरा दत्तमायुर्यावत्स्ववासरम् ॥१॥किंप्रमाणं भवेत्तस्य दिवसस्य ब्रवीहि नः ॥ ॥ सूत उवाच ॥अहं वः कीर्तयिष्यामि प्रमाणं दिवसस्य तु ॥२॥माहेश्वरस्य विप्रेन्द्राः श्रूयतां गदतः स्फुटम् ॥निमेषस्य चतुर्भागस्त्रुटिः स्यात्तद्द्वयं लवः ॥३॥लवद्वयं यवः प्रोक्तः काष्ठा ते दश पंच च ॥त्रिंशत्काष्ठाः कलामाहुः क्षणस्त्रिंशत्कलो मतः ॥४॥क्षणैः षष्ट्या पलं प्रोक्तं षष्ट्या तेषां च नाडिका ॥नाडिकाद्वितयेनैव मुहूर्तं परिकीर्तितम् ॥५॥त्रिंशन्मुहूर्त्तमुद्दिष्टमहोरात्रं मनीषिभिः ॥मासस्त्रिंशदहोरात्रैद्वौ द्वौ मासावृतुं विदुः ॥६॥ऋतुत्रयं चाप्ययनमयने द्वे तु वत्सरम् ॥मानुषाणां हि सर्वेषां स एव परिकीर्तितः ॥७॥स देवानामहोरात्रं पुराणज्ञाः प्रचक्षते ॥अयनं चोत्तरं शुक्लं यद्देवानां दिनं च तत् ॥यद्दक्षिणं तु सा रात्रिः शुभकर्मविगर्हिता ॥८॥यथा सुप्तो न गृह्णाति किंचिद्भोगादिकं नरः ॥तथा देवाश्च यज्ञांशान्न गृह्णन्ति कथं चन ॥९॥अनेनैव तु मानेन मानवेन द्विजोत्तमाः ॥लक्षैः सप्तदशाख्यैस्तु वत्सराणां प्रकीर्तितम् ॥२.१०॥अष्टाविंशत्सहस्रैस्तु वत्सराणां कृतं युगम् ॥तस्मिञ्छ्वेतोऽभवद्विष्णुर्भगवान्यो जगद्गुरुः ॥११॥लोकाः पापविनिर्मुक्ताः शांता दांता जितेन्द्रियाः ॥दीर्घायुषस्तथा सर्वे सदैव तपसि स्थिताः ॥१२॥यो यथा जन्म चाप्नोति तथा स म्रियते नरः ॥न पुत्रसंभवो मृत्युर्वीक्ष्यते जनकैः क्वचित् ॥१३॥कामः क्रोधस्तथा लोभो दंभो मत्सर एव च ॥न जायते नृणां तत्र युगे तु द्विजसत्तमाः ॥१४॥ततस्त्रेतायुगं भावि द्वितीयं मुनिसत्तमाः ॥पादेनैकेन पापं तु रौद्रं धर्मे तदाविशत् ॥१५॥ततो रक्तत्वमभ्येति भगवान्मधुसूदनः ॥पापांशेऽपि च संप्राप्ते सस्पर्द्धो जायते जनः ॥१६॥ स्वर्गमार्गकृते सर्वे चक्रुर्यज्ञांस्ततः परम् ॥अग्निष्टोमादिकांस्तत्र बहुहोमादिकांस्तथा ॥१७॥देवलोकांस्ततो यांति मूलाद्यावच्चतुर्दश ॥ब्रह्मलोकस्य पर्यंतं स्वकीयैर्य ज्ञकर्मभिः ॥१९॥किंचित्स्वल्पायुषस्तत्र जायन्ते स्पर्धयाऽन्विताः ॥परं तत्रापि नो यांति मृत्युं पुत्राः कथंचन ॥१९॥जनके विद्यमाने च स्व ल्पदोषाः प्रकीर्तिताः ॥कामक्रोधादयो ये च भवंति न भवंति च ॥२.२०॥एकया वेलया तत्र वापितं सस्यमुत्तमम् ॥सप्तवारान्प्रगृह्णंति वैश्याः कृषिपरायणाः ॥२१॥सर्वा घटस्रवा गावो महिष्यश्च चतुर्गुणाः ॥प्रयच्छंति तथा क्षीरमुष्ट्र्यस्तासां चतुर्गुणम् ॥२२॥अजाविकास्तथा पादं नार्यः सर्वास्तथैव च ॥वेदाध्ययनसंपन्नाः प्रतिग्रहविवर्जिताः ॥शापानुग्रहकृत्येषु समर्थाः संभवंति च २३॥क्षत्रियाः क्षात्रधर्मेण पालयंति वसुंधराम् ॥न तत्र दृश्यते चौरो न च जारः कथंचन ॥स्वधर्मनिरताः सर्वे वर्णाश्चैव व्यवस्थिताः ॥२४॥तच्च द्वादशभिर्लक्षैर्वत्सराणां प्रकीर्तितम् ॥षण्णवत्या सहस्रैस्तु द्वितीयं युगमुत्तमम् ॥२५॥ततश्च द्वापरं भावि तृतीयं द्विजसत्तमाः ॥द्वौ पादौ तत्र पापस्य द्वौ च धर्मस्य संस्थितौ ॥भगवान्वासुदेवश्च कपिलस्तत्र जायते ॥२६॥तच्चाष्टलक्षमानेन वत्सराणां प्रकीर्तितम् ॥चतुःषष्टिभिरन्यैस्तु सहस्राणां द्विजोत्तमाः ॥कामः क्रोधस्तथा लोभो दंभो मत्सर एव च ॥षडेते तत्र जायंते ईर्ष्या चैव तु सप्तमी ॥२८॥अथ संसेवितास्तैस्तु मानवाश्च परस्परम् ॥विरुद्धांश्च प्रकुर्वंति नाप्नुवंति यथा दिवम् ॥२९॥केचित्तत्रापि जायंते शांता दांता जितेंद्रियाः ॥न सर्वेऽपि द्विजश्रेष्ठा यतोऽर्द्धं पातकस्य तु ॥२.३०॥ततः कलियुगं प्रोक्तं चतुर्थं च सुदारुणम् ॥एकपादो वृषो यत्र पापं पादैस्त्रिभिः स्थितम् ॥३१॥कृष्णत्वं याति देवोऽपि तत्र चैव चतुर्भुजः ॥एक पादोऽपि धर्मस्य यावत्तावत्प्रवर्तते ॥३२॥पश्चान्नाशं समभ्येति यावत्तावच्छनैःशनैः ॥प्रमाणं तस्य निर्दिष्टं लक्षाश्चत्वार एव हि ॥३३॥द्वात्रिंशच्च सहस्राणि युगस्यैवांतिमस्य च ॥कलिना तत्र संपृष्टा मर्त्याः सर्वे परस्परम् ॥३४॥विबुधैस्ते प्रवर्तंते रागद्वेषपरायणाः ॥यस्ययस्य गृहे वित्तं तथा नार्यो मनोरमाः ॥३६॥तेनतेन समं मैत्रीं कलौ कुर्वंति मानवाः ॥विधवानां यतीनां च सर्वेषां च तपस्विनाम् ॥३६॥लोकद्वयविनाशः स्याद्यतश्चेतो न शुध्यति ॥प्रावृट्कालेऽपि संप्राप्ते दुर्भिक्षेण प्रपीडिताः ॥३७॥भ्रमंति च कलौ लोका गगनासक्तदृष्टयः ॥जानाति चापि तनयः पिता चेन्निधनं व्रजेत् ॥३८ ॥ततोहं गृहपो भूयां बांधवो ह्यपि बांधवम् ॥स्नुषापि वेत्ति चित्तेन यदि श्वश्रूः क्षयं व्रजेत् ॥३९॥मम स्याद्गृह ऐश्वर्यं तत्सर्वं नान्यथा व्रजेत् ॥काव्यैरुपहता वेदाः पुत्रा जामातृकैस्तथा ॥२.४०॥शालकैर्बांधवाश्चैव ह्यसतीभिः कुलस्त्रियः ॥शूद्रास्तपस्विनश्चैव शूद्रा धर्मस्य सूचकाः ॥४१॥ब्राह्मणानां ततः शूद्रा उपदेशं वदंति च ॥अल्पोदकास्तथा मेघा अल्पसस्या च मेदिनी ॥४२॥अल्पक्षीरास्तथा गावः क्षीरे सर्पिस्तथाऽल्पकम् ॥सर्वभक्षास्तथा विप्रा नृपा निष्करुणास्ततः ॥कृष्या लज्जंति वैश्याश्च शूद्रा ब्राह्मणप्रेषकाः ॥४३॥हेतुवादरता ये च भंडंविद्यापराश्च ये ॥तेते स्युर्भूमिपालस्य सदाऽभीष्टाः कलौ युगे ॥४४॥श्वःश्वःपापीयदिवसाः पृथिवी गतयौवना ॥अतिक्रांत शुभाः कालाः पर्युपस्थितदारुणाः ॥४५॥यथायथा युगं भावि वृद्धिं यांति स्त्रियो नराः ॥तथातथा प्रयांति स्म लघुतां जंतुभिः सह ॥४६॥द्वादशमे चैव कन्या स्याद्भर्तृसंयुता ॥४७॥ततः षोडशमे वर्षे नराः पलितयौवनाः ॥शौचाचारपरित्यक्ता निजकार्यपरास्तथा ॥४८॥भविष्यंति युगस्यांते नराः अंगुष्ठमात्रकाः ॥गृहं च तेऽथ कुर्वंति बिलैराखुसमुद्भवैः ॥४९॥तथा प्रावरणं तेषां कृमिवस्त्रं भविष्यति ॥एकवर्णा भविष्यंति वर्णाः सर्वे ततः परः ॥म्लेछीभूता दुराचारा धर्मकृत्यविदूषकाः ॥२.५॥एवं जाते ततो लोके ब्राह्मणो हरिपिंगलः ॥कल्किगोत्रसमुत्पन्नस्तान्सर्वा न्सूदयेत्ततः ॥९१॥पश्चात्कृतयुगं भावि भूयोऽपि द्विजसत्तमाः ॥५२॥एवं युगसहस्रेण संप्राप्तेन ततः परम् ॥ब्रह्मणो दिवसं भावि रात्रिश्चैव ततः परम् ॥५३॥ततश्चानेन मानेन षष्ट्या युक्तैस्त्रिभिः शतैः ॥ब्रह्मणो वत्सरं भावि केशवस्य च तद्दिनम् ॥५४॥आत्मीये जीविते ब्रह्म यावद्वर्षशतं स्थितः ॥केशवोऽपि स्वमानेन वर्षाणां जीविते शतम् ॥५५॥वर्षेण वासुदेवस्य दिनं माहेश्वरं भवेत् ॥निजमानेन सोप्यत्र याव द्वर्षशतं स्थितः ॥५६॥ततः शक्तिस्वरूपः स्यात्सोऽक्षयी कीर्त्यते यतः ॥सदाशिवस्य निःश्वासः शैवं वर्षशतं भवेत् ॥उच्छ्वासस्तु पुनस्तस्य शक्तिरूपेण संस्थितः ॥५७॥ ॥ सूत उवाच ॥एतद्वः सर्वमाख्यातं शिवशक्तिसमुद्भवम् ॥यावदायुः प्रमाणं च मानुषाढ्यं च यद्भवेत् ॥५८॥भवद्भिः शांकरं पृष्टो द्विजा अस्मि दिनं पुरा ॥मया पुनस्तु सर्वेषां मर्त्यादीनां तु कीर्तितम् ॥५९॥इति श्रीस्कांदे महापुराण एका शीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये युगस्वरूपवर्णनंनाम द्विसप्तत्युत्तरद्विशततमोअध्यायः ॥२७२॥ N/A References : N/A Last Updated : January 06, 2025 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP