संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १९७ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १९७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १९७ Translation - भाषांतर ॥ सूत उवाच ॥एतस्मिन्नेव काले तु नागरो द्विजसत्तमाः ॥विश्वावसुरिति ख्यातो वेदवेदांगपारगः ॥१॥पश्चिमे वयसि प्राप्ते तस्य पुत्रो बभूव ह ॥परावसुरिति ख्यातस्तस्य प्राणसमः सदा ॥२॥स वेदाध्ययनं चक्रे यौवने समुपस्थिते ॥वयस्यैः संमतैः सार्धं सदा हास्य परायणैः ॥३॥कस्यचित्त्वथ कालस्य माघमास उपस्थिते ॥रात्रौ सोऽध्ययनं चक्र उपाध्यायगृहं गतः ॥४॥निशीथे स समुत्थाय सर्वैर्मि त्रैश्च रक्षितः ॥वेश्यागृहं समासाद्य प्रसुप्तो वेश्यया सह ॥५॥जलपूर्णं समाधाय जलपात्रं समीपगम् ॥निजाचमनयोग्यं च जलपानार्थमेव च ॥६॥निशाशेषे तु संप्राप्ते स पिपासासमाकुलः ॥निद्रालस्यसमोपेतः शय्यां त्यक्त्वा समुत्थितः ॥७॥वेश्याया मद्यपात्रं तु ह्यधस्तात्सं व्यवस्थितम् ॥तदादाय पपौ मद्यं जलभ्रांत्या यदैव सः ॥८॥तदा मद्यं परिज्ञाय पात्रं त्यक्त्वा सुदुःखितः ॥वैराग्यं परमं गत्वा प्रलापानकरो द्बहून् ॥९॥अहो निद्रान्वितेनाद्य किं मया विकृतं कृतम् ॥यदद्य मद्यमापीतं जलभ्रांत्या विगर्हितम् ॥१०॥किं करोमि क्व गच्छामि कथं शुद्धिर्भवेन्मम ॥प्रायश्चित्तं करिष्यामि यद्यपि स्यात्सुदुष्करम् ॥११॥एवं निश्चित्य मनसा प्रभाते समुपस्थिते ॥शंखतीर्थं समासाद्य कृत्वा स्नानं तथा परम् ॥१२॥सशिखं वपनं पश्चात्कारयित्वा त्वरावितः ॥गतश्च तिष्ठते यत्र ब्रह्मघोषपरायणः ॥१३॥उपाध्यायः सशिष्यश्च ब्रह्मस्थानं समाश्रितः ॥स गत्वा दूरतः स्थित्वा संनिविष्टो यथान्त्यजः ॥१४॥श्मश्रुमूर्धजहीनस्तु यदा मित्रैर्विलोकितः ॥तदा हास्याद्धतो मूर्ध्नि हस्ताग्रैश्च मुहुर्मुहुः ॥१५॥उपाध्यायस्तु तं दृष्ट्वा दीनं बाष्पपरिप्लुतम् ॥श्मश्रुमूर्धजसंत्यक्तं ततः प्रोवाच सादरम् ॥१६॥किमद्य वत्स दूरे त्वमुपविष्टस्तु दैन्यधृक् ॥एहि मे संनिधौ ब्रूहि पराभूतोऽसि केन वा ॥१७॥ ॥ परावसुरुवाच ॥अयोग्योऽहं गुरो जातः सेवायास्तव सांप्रतम् ॥वेश्याया मंदिरस्थेन ज्ञात्वा निजकमंडलुम् ॥१८॥वेश्याया मद्यपात्रं तु मद्यपूर्णं प्रगृह्य च ॥तस्माद्देहि विभो मह्यं प्रायश्चित्तं विशुद्धये ॥१९॥धर्मद्रोणेषु यत्प्रोक्तं तत्करिष्याम्यसंशयम् ॥२०॥अथ तं बटवः प्रोचुर्वयस्यास्तस्य ये स्थिताः ॥हास्यं कृत्वा प्रकामाश्च वेश्या या गुरुसंनिधौ ॥२१॥या एषा नृपतेः कन्या ख्याता रत्नावती जने ॥अस्याः स्तनौ गृहीत्वा त्वमधरं पिबसि द्रुतम् ॥ततस्ते स्याद्विशुद्धिश्च नान्यथा प्रभविष्यति ॥२२॥ ॥ परावसुरुवाच ॥न वयस्या नर्मकालो विषमे मम संस्थिते ॥ममोपरि यदि स्नेहो वालमित्रत्वसंभवः ॥तदानीय द्विजानन्यान्वदध्वं निष्कृतिं मम ॥२३॥अथ ते नर्ममुत्सृज्य तद्दुःखेन च दुःखिताः ॥विश्वावसुं समासाद्य तद्वृत्तांतमथाब्रुवन् ॥२४॥सोऽपि तेषां समाकर्ण्य तत्कर्णकटुकं वचः ॥सभार्यः प्रययौ तत्र यत्र पुत्रो व्यवस्थितः ॥२५॥दुःखेन महता युक्तः स्खलमानः पदेपदे ॥वृद्धभावात्तथा शोकात्पुत्राकृत्यसमुद्भवात् ॥२६॥ततस्तौ प्रोचतुः पुत्रं बाष्पगद्गदया गिरा ॥दंपती बहुशोकार्तौ हा पुत्र किमिदं कृतम् ॥सोऽपि सर्वं समाचख्यौ ताभ्यां वृतांतमात्मनः ॥२७॥प्रायश्चित्तं करिष्यामि तस्मादात्मविशुद्धये ॥ततो विश्वावसुर्विप्रान्स्मार्ताञ्छ्रुतिसमन्वितान् ॥तदर्थमानयामास वेदविद्याविचक्षणान् ॥२८॥ततः परावसुस्तेषां पुरः स्थित्वा कृतांजलिः ॥प्रोवाच स्वादितं मद्यं मया रात्रावजानता ॥वेश्या भांडं समादाय ज्ञात्वा निजकमंडलुम् ॥२९॥एवं ज्ञात्वा यदर्हं च प्रायश्चित्तं प्रदीयताम् ॥येन मे जायते शुद्धिः प्रसादाद्वो द्विजोत्तमाः ॥३॥एवमुक्तास्ततस्तेन विप्रास्ते स्मृतिवादिनः ॥धर्मशास्त्रं समालोक्य ततः प्रोचुश्च तं द्विजाः ॥३१॥अतिमानादतिक्रोधात्स्नेहाद्वा यदि वा भयात् ॥प्रायश्चित्तमनर्हं तु ददत्तत्पापमश्नुते ॥३२॥प्रायश्चित्तं प्रदास्यामस्तस्माद्युक्तं वयं तव ॥यदि शक्नोषि तत्कर्तुं तत्कुरुष्व समाहितः ॥३३॥ ॥ परावसुरुवाच ॥करोमि वो न चेद्वाक्यं तत्पृच्छामि कुतो द्विजाः ॥नाहं केनापि संदृष्टो मद्यपानं समाचरन् ॥३४॥तस्माद्ब्रूत यथार्हं मे प्रायश्चित्तं विशुद्धये ॥अपि प्राणहरं रौद्रं नो चेत्पापमवाप्स्यथ ॥३५॥ ॥ ब्राह्मणा ऊचुः ॥बुध्यमानो द्विजो यस्तु मद्यपानं समाचरेत् ॥तावन्मात्रं हिरण्यं च तप्तं पीत्वा विशुध्यति ॥३६॥अज्ञानतो यदा पीतं मद्यं विप्रेण कर्हिचित् ॥अग्नितुल्यं घृतं पीत्वा तावन्मात्रं विशुध्यति ॥३७॥एवं ते सर्वमाख्यातं प्रायश्चित्तं विशुद्धये ॥यदि शक्तोषि चेत्कर्तुं कुरुष्व त्वं द्विजोत्तम ॥३८॥ ॥ परावसुरुवाच ॥गंडूषमेकं मद्यस्य मया पीतं द्विजोत्तमाः ॥तावन्मात्रं पिबाम्येव घृतं वह्निसमं कृतम् ॥३९॥युष्मदादेशतोऽद्यैव स्वशरीरविशुद्धये ॥विश्वावसुश्च तच्छ्रुत्वा वज्रपातोपमं वचः ॥४०॥विप्राणां चाथ पुत्रस्य तदोवाच सुदुःखितः ॥कृत्वाश्रुमोक्षणं भूरि बाष्पगद्गदया गिरा ॥४१॥सर्वस्वमपि दास्यामि पुत्रस्यास्य विशुद्धये ॥प्रायश्चित्तं समाचर्तुं न दास्यामि कथंचन ॥४२॥अश्राद्धेयो विपांक्तेयः सपुत्रो वा भवाम्यहम् ॥स्थानं वा संत्यजाम्येतत्पुत्र मैवं समाचर ॥४३॥तच्छ्रुत्वा वचनं तस्य पितुर्विघ्नकरं परम् ॥प्रायश्चित्तस्य सस्नेहं पुत्रो वचनमब्रवीत् ॥४४॥त्यज तात मम स्नेहं मा विघ्नं मे समाचर ॥प्रायश्चित्तं करिष्यामि निश्चयोऽयं मया कृतः ॥४५॥ ॥मातोवाच ॥यदि पुत्र त्वया कार्यं प्रायश्चित्तं विशुद्धये ॥तदहं पतिना सार्धं प्रवेक्ष्यामि पुरोऽनलम् ॥४६॥त्वां द्रष्टुं नैव शक्रोमि पिबंतमग्निवद्घृतम् ॥पश्चात्प्राणपरित्यक्तं सत्येना त्मानमालभे ॥४७॥ ॥ पितोवाच ॥युक्तं पुत्रानया प्रोक्तं मात्रा तव हितं तथा ॥ममापि संमतं ह्येतत्करिष्यामि न संशयः ॥४८॥ ॥ सूत उवाच ॥एतस्मिन्नंतरे सर्वे सुहृदस्तस्य ये स्थिताः १ ॥तच्छ्रुत्वा तं समायाता वृत्तांतं दुःखसंयुताः ॥४९॥प्रोचुश्च विविधैर्वाक्यैः सपत्नीकं विभावसुम् ॥पुत्रशोकेन संतप्तं मरणे कृतनिश्चयम् ॥५॥पुत्रं प्रबोधयामासुः प्रायश्चित्तनिवृत्तये ॥तदा न शक्नुवंति स्म निवर्तयितुमं जसा ॥५१॥तावुभौ च पितापुत्रौ प्राणत्यागकृतादरौ ॥५२॥ततो वास्तुपदं जग्मुः सर्वज्ञो यत्र तिष्ठति ॥भर्तृयज्ञो महाभागः सर्वसंदेह वारकः ॥५३॥तस्य सर्वं समाचख्युः परावसुसमुद्भवम् ॥वृत्तांतं मद्यपानोत्थं यन्मित्रैस्तस्य कीर्तितम् ॥५४॥प्रायश्चित्तं तु हास्येन यच्च स्मार्तैः प्रकीर्तितम् ॥विश्वावसोश्च संकल्पं वह्निसाधनसंभवम् ॥५५॥सपत्नीकस्य मित्राणां यच्च दुःखमुपस्थितम् ॥निवेद्य तत्तथा प्रोचुर्भू योऽपिविनयान्वितम् ॥५६॥अतीतं वर्तमानं च भविष्यद्वापि यद्भवेत् ॥न तेऽस्त्यविदितं किंचित्सर्वं जानीमहे वयम् ॥५७॥एतच्च नगरं सर्वं विश्वावसुकृतेऽधुना ॥संशयं परमं प्राप्तं तेन प्राप्तास्तवांतिकम् ॥५८॥तस्माद्ब्रूहि महाभाग यद्यस्त्यपरमेव हि ॥प्रायश्चित्तं द्विजस्यास्य मद्यपानविशुद्धये ॥५९॥न ते ह्यविदितं किंचित्तव वेदसमुद्भवम् ॥भर्तृयज्ञो विहस्योच्चैस्ततो वचनमब्रवीत् ॥६०॥ब्राह्मणस्यास्य शुद्ध्यर्थमप्ययुपायः सुखावहः ॥विद्यमानोऽपि नास्त्येव मतिरेषा स्थिता मम ॥६१॥ ॥ ब्राह्मणा ऊचुः ॥ पूर्वापरविरोधे नवाक्यमेतन्महामते ॥कथमस्ति कथं नास्ति तस्मात्त्वं वक्तुमर्हसि ॥विस्मयोऽयं महाञ्जातः सर्वेषां च द्विजन्मनाम् ॥६२॥ ॥ भर्तृयज्ञ उवाच ॥जपच्छिद्रं तपश्छिद्रं यच्छिद्रं यज्ञकर्मणि ॥सर्वं भवति निश्छिद्रं यस्य चेच्छंति ब्राह्मणाः ॥६३॥अच्छिद्रमिति यद्वाक्यं वदंति क्षितिदेवताः ॥विशेषान्नागरोद्भूतास्तत्तथैव न चान्यथा ॥६४॥तथा च ब्रह्मशालायां संस्थितैर्यदुदाहृतम् ॥नान्यथा तत्परिज्ञेयं हास्येनापि स्मृतिं विना ॥६५॥स एष हास्यभावेन प्रोक्तो मित्रैः परावसुः ॥६६॥रत्नवत्याः स्तनौ गृह्य यद्यास्वादयतेऽधरम् ॥तद्भविष्यति मे शुद्धिर्मद्यपान समुद्भवा ॥६७॥तदुपायो मया प्रोक्तो विप्रस्यास्य सुखावहः ॥पराशरमतेनैव करोति यदि शुध्यति ॥६८॥ ॥ ब्राह्मणा ऊचुः ॥यद्येतच्छुणुते राजा वाक्यमीर्ष्यापरायणः ॥तत्सर्वेषां वधं कुर्याद्विप्राणामन्यथा भवेत् ॥६९॥तस्मात्करोतु चाभीष्टमेष विप्रः परावसुः ॥मातापितृसमोपेतो वयं यास्यामहे गृहम् ॥७०॥ ॥ भर्तृयज्ञ उवाच ॥स राजा नीतिमान्विज्ञः सर्वधर्मपरायणः ॥भक्तो देवद्विजानां च सर्वशास्त्र विचक्षणः ॥७१॥तस्मान्मया समं सर्वे नागरायांतु तद्ग्रहे ॥७२॥मध्यगं पुरतः कृत्वा तद्वक्त्रेण च तत्पुरः ॥कथयंतु च वृत्तांतं मद्यपान समुद्भवम् ॥७३॥परावसोश्च यत्प्रोक्तं वयस्यैर्हास्यमाश्रितैः ॥पराशरसमुत्थं च यद्वाक्यं तत्स्मृतेः परम् ॥७४॥तच्छ्रुत्वा यदि भूपाल ईर्ष्या लोभसमन्वितः ॥भविष्यति ततोऽहं तं धारयिष्यामि सत्पथे ॥७५॥ ॥ सूतउवाच ॥ततस्ते नागराः सर्वे सन्तोषं परमं गताः ॥साधुवादैः समभ्यर्च्य भर्तृयज्ञं पृथग्विधैः ॥७६॥तेनैव सहितं तूर्णं मध्ये कृत्वा च मध्यगम् ॥गर्त्तातीर्थसमुद्भूतं वेदवेदांगपारगम् ॥७७॥स्मृतिज्ञं लक्षणज्ञं तमाहिताग्निं यशस्विनम् ॥यष्टारं बहुयज्ञानां भर्तृयज्ञमते स्थितम् ॥७८॥आनर्तेनापि भूपेन स्वर्गभ्रष्टेन वै पुरा ॥कर्णोत्पलाजनित्रेण यश्च पूर्वं चिरन्तनः ॥७९॥चमत्कारपुरे न्यस्तः स्थानेऽस्मिन्विप्रगौरवात् ॥येन सिध्यंति कार्याणि सर्वेषां च द्विजन्मनाम् ॥८०॥तथा चैव तु चान्यानि चमत्कारपुरस्य च ॥हरिभद्राभिधानं तं भर्तृयज्ञसमन्वितम् ॥८१॥कृत्वा ते नागराः सर्वे राजद्वारमुपागताः ॥परावसुं समादाय मातापितृसमन्वितम् ॥८२॥अथ द्वाःस्थो द्रुतं गत्वा भूपतेस्तान्न्यवेदयत् ॥ब्राह्मणान्भर्तृयज्ञेन हरिभद्रेण संयुतान् ॥८३॥आनर्तोऽपि च ताञ्छ्रुत्वा राजद्वारसमागतान् ॥पुरोधसा समायुक्तः संमुखं प्रययौ तदा ॥८४॥दत्त्वार्घं मधुपर्कं च विष्टरं गां तथा नृपः ॥प्रथमं भर्तृयज्ञाय हरिभद्राय वै ततः ॥८५॥चतुर्णां मुद्गहस्तानां तथान्येषां द्विजन्मनाम् ॥आद्यऋग्यजुःसाम्नां च प्रगृह्याशीर्वचः परम् ॥८६॥सभामंडपमासाद्य सर्वान्समुपवेशयत् ॥वरासनेषु हैमेषु यथावदनुपूर्वशः ॥९७॥तथा तेषूपविष्टेषु सर्वेषु पृथिवीपतिः ॥उपविश्य धरापृष्ठे कृतांजलिर भाषत ॥८८॥धन्योऽस्म्यनुगृहीतोऽस्मि यन्मे गृहमुपागतः ॥सर्वोऽयं नागरो लोको भर्तृयज्ञसमन्वितः ॥८९॥तदादिशतु मां लोको यत्कृत्यं प्रकरोमि वः ॥अदेयमपि यच्छामि गृहायातस्य सांप्रतम् ॥९०॥अगम्यमपि यास्यामि करिष्येऽकृत्यमेव च ॥तच्छ्रुत्वा हरिभद्रः स समुत्थाय त्वरान्वितः ॥९१॥पप्रच्छाद्यांस्तदर्थं च बह्वृचांस्तदनंतरम् ॥अध्वर्यूंश्चैव छांदोग्याननुज्ञातश्च तैस्तदा ॥९२॥प्राणरुद्रान्वदंत्वाद्या जीवसूक्तं च बह्वृचाः ॥एषां चैव पृथिव्यादिसवनं यत्पुरा कृतम् ॥९३॥पठन्त्वध्वर्यवः सर्वे छांदोग्याश्च पृथक्पृथक् ॥मधुच्युतेन संयुक्तं प्रपठन्तु च सिद्धये ॥९४॥भर्तृयज्ञमतेनैवं तेन प्रोक्ता द्विजोत्तमाः ॥पप्रच्छुश्चैव तत्सर्वं यत्प्रोक्तं तेन धीमता ॥९५॥ततः पाठावसाने तु मध्यगः प्राह सादरम् ॥परावसुसमुद्भूतं वृत्तांतं तस्य भूपतेः ॥९६॥यथा तेनाऽऽसवः पीतो यथा मित्रैः प्रजल्पितम् ॥प्रायश्चित्तं समादिष्टं यथा स्मार्तैर्घृतोद्भवम् ॥९७॥भर्तृयज्ञेन चानीता यथा सर्वे द्विजातयः ॥तच्छ्रुत्वा पार्थिवो हृष्टः कृतांजलिपुटोऽब्रवीत् ॥९८॥धन्योहं कृतपुण्योऽस्मि यस्य मे नागरैर्द्विजैः ॥विप्रत्रयप्ररक्षार्थं प्रसादोऽयं महान्कृतः ॥९९॥धन्या मे कन्यका चेयं रक्षयिष्यति च स्वयम् ॥ब्राह्मणत्रितयं ह्येतन्मरणे कृतनिश्चयम् ॥१००॥अथाऽसावानयामास तां कन्यां तत्क्षणाद्द्विजाः ॥उपविष्टं सभामध्ये ब्राह्मणेभ्यो न्यवेदयत् ॥१०१॥एषा कन्या मयानीता युष्मद्वाक्याद्द्विजोत्तमाः ॥भर्तृयज्ञेन यत्प्रोक्तं तत्करोतु च स द्विजः ॥१०२॥ततस्तत्र समानीय ब्राह्मण तं परावसुम् ॥भर्तृयज्ञ इदं वाक्यं कन्यायाः पुरतोऽब्रवीत् ॥१०३॥इमां त्वं कन्यकां चित्ते जननीं यदि मन्यसे ॥अधरास्वादनं कुर्वंस्ततः सिद्धिमवाप्स्यसि ॥१०४॥अनुरागपरो भूत्वा यद्यास्वादनतत्परः ॥भविष्यति ततो रक्तं तव वक्त्रे परावसो ॥शुद्धस्य त्वथ दुग्धं च भविष्यति न संशयः ॥१०६॥स्तनाभ्यां तव हस्ताभ्यां स्पर्शात्क्षीरं भवेद्यदि ॥तत्ते शुद्धिः परिज्ञेया रक्तं वा न भविष्यति ॥१०७॥एवमुक्त्वाथ तं कन्यां ततः प्रोवाच स द्विजः ॥एनं त्वं पुत्रवत्पश्य पुत्रि ब्राह्मणसत्तमम् ॥१०८॥येन शुद्धिमवाप्नोति त्वदोष्ठास्वादने कृते ॥स्पर्शिताभ्यां स्तनाभ्यां च प्रायश्चित्तं यतः स्मृतम् ॥१०९॥एतदस्य द्विजेंद्रस्य वयस्यैर्हास्यसंयुतैः ॥येन शुद्धिमवाप्नोति नो चेन्मृत्युमवाप्स्यति ॥११०॥ ॥ सूत उवाच ॥सा तथेति प्रतिज्ञाय सव्रीडं तमुवाच ह ॥एहि वत्स कुरुष्व त्वं प्रायश्चित्तं विशुद्धये ॥१११॥मातृभावं समाधाय मया त्वं कल्पितः सुतः ॥सोऽपि तां मातृवन्मत्वा तस्याः सांनिध्यमागतः ॥११२॥स्पृष्टवांश्च स्तनौ तस्याः सर्वलोकस्य पश्यतः ॥स्पृष्टाभ्यां च स्तनाभ्यां च तत्क्षणाद्द्विजसत्तमाः ॥११३॥क्षीरधारे विनिष्क्रांते कुन्देंदुहिमसंनिभे ॥११४॥अथौष्ठास्वादनं यावत्तस्याः स कुरुते द्विजः ॥तावत्क्षीरं विनिष्क्रांतं तादृग्रूपं तदाननात् ॥११५॥एतस्मिन्नंतरे सर्वैस्ताला दत्ता द्विजातिभिः ॥राज्ञाऽयं ब्राह्मणः शुद्धो वदमानैर्मुहुर्मुहुः ॥११६॥सोऽपि प्रदक्षिणीकृत्य तां च कन्यां मुहुर्मुहुः [ ॥नमस्कृत्य क्षमस्वेति त्वं मातः पुत्रवत्सले ॥११७॥तद्दृष्ट्वा महदाश्चर्यमानर्तो विस्मयान्वितः ॥शशंस भतृयज्ञं तं प्रायश्चित्तप्रदायकम् ॥११८॥अहोऽतीव सुभा ग्योऽहं यस्य मे गृहमागताः ॥ईदृशा ब्राह्मणाः सर्वे चमत्कारपुरोद्भवाः ॥११९॥तथा चैतादृशी कन्या ह्यसामान्यप्रवर्तिनी ॥रत्नावती महाभागा सत्यशौचसमन्विता ॥१२०॥तथाऽयं नैव सामान्यो ब्राह्मणश्च परावसुः ॥यश्चेदृशीं समासाद्य कन्यां नो विकृतः स्थितः ॥१२१॥एवमुक्त्वा विसृज्याथ तान्विप्रान्पार्थिवोत्तमाः ॥तां च कन्यां समादाय ततश्चांतःपुरं ययौ ॥१२२॥अथ ते नागराः सर्वे मर्यादां चक्रिरे ततः ॥अद्यप्रभृति या वेश्या स्थानेऽस्मिन्वासमेष्यति ॥१२३॥तया नैव गृहे धार्यं सुरामांसं कथंचन ॥दूषयंति सदा दुष्टा नागराणां सुतानिह ॥१२४॥अथ व्यवस्थामुत्क्रम्य या हि तद्धारयिष्यति ॥सा दण्ड्यास्माच्च निर्वास्या प्रेत्य स्यात्पापभागिनी ॥१२५॥औदुम्बर्या मध्यगेन दत्तं तालत्रयं तदा ॥१२६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये परावसुप्रायश्चित्तविधानवृत्तांतवर्णनंनाम सप्तनवत्युत्तरशततमोऽध्यायः ॥१९७॥ N/A References : N/A Last Updated : December 31, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP