संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १२२ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १२२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १२२ Translation - भाषांतर ॥ सूत उवाच ॥एतद्वः सर्वमाख्यातं यत्पृष्टोस्मि द्विजोत्तमाः ॥यथा स निहतो देव्या महिषाख्यो दनूत्तमः ॥१॥सांप्रतं कीर्तयिष्यामि कथां पातकनाशिनीम् ॥केदारसंभवां पुण्यां तां शृणुध्वं समाहिताः ॥२॥ ॥ ऋषय ऊचुः ॥ ॥केदारः श्रूयते सूत गंगाद्वारे हिमाचले ॥स कथं चेह संप्राप्तः सर्वं विस्तरतो वद ॥३॥ ॥ सूत उवाच ॥एतत्सत्यं गिरौ तस्मिन्स्वयंभूः संस्थितः प्रभुः ॥परं तत्र वसेद्देवो यावन्मासाष्टकं द्विजाः ॥४॥यावद्घर्मश्च वर्षा च तावत्तत्र वसेत्प्रभुः ॥शीतकाले पुनश्चात्र क्षेत्रे संतिष्ठते सदा ॥५॥ ॥ ऋषय ऊचुः ॥किं तत्कार्यं वसेद्येन क्षेत्रे मासचतुष्टयम् ॥हिमाचले यथैवाष्टौ सूतपुत्र वदस्व नः ॥६॥ ॥ सूत उवाच ॥पूर्वं स्वायंभुवस्यादौ मनोर्दैत्यो महाबलः ॥हिरण्याक्षो महातेजास्तपोवीर्यसमन्वितः ॥७॥तैर्व्याप्तं जगदेतद्धि निरस्य त्रिदशाधिपम् ॥यज्ञ भागाश्चदेवानां हृता वीर्यप्रभावतः ॥८॥अथ शक्रः सुरैः सार्धं गंगाद्वारं समाश्रितः ॥तपस्तेपे सुदुःखार्तो राज्यश्रीपरिवर्जितः ॥९॥तस्यैवं तप्यमानस्य तपस्तीव्रं महात्मनः ॥माहिषं रूपमास्थाय निश्चक्राम धरातलात् ॥१०॥स्वयमेव महादेवस्ततः शक्रमुवाच ह ॥केदारयामि मे शीघ्रं ब्रूहि सर्वं सुरोत्तम ॥दैत्यानामथ सर्वेषां रूपेणानेन वासव ॥११॥ ॥ इन्द्र उवाच ॥हिरण्याक्षो महादैत्यः सुबाहुर्वक्र कन्धरः ॥त्रिशृंगो लोहिताक्षश्च पंचैतान्दारय प्रभो ॥हतैरेतैर्हतं सर्वं दानवानामसंशयम् ॥१२॥किमन्यैः कृपणैर्ध्वस्तैर्यैः किंचिन्नात्र सिध्यति ॥तस्य तद्वचनश्रुत्वा भगवांस्तूर्णमभ्यगात् ॥यत्र दानवमुख्योऽसौ हिरण्याक्षो महाबलः ॥१३॥अथ तं दूरतो दृष्ट्वा महिषं पर्वतोपमम् ॥आयातं रौद्ररूपेण दानवाः सर्वतश्च ते ॥१४॥ततो जघ्नुश्च पाषाणैर्लगुडैश्च तथापरे ॥क्ष्वेडितास्फोटितांश्चक्रुस्तथान्ये बलगर्विताः ॥१५॥अथवमन्य तान्देवः प्रहारं लीलया ददौ ॥यत्रास्ते दानवेन्द्रोऽसौ चतुर्भिः सचिवैः सह ॥१६॥ततः शस्त्रं समुद्यम्य यावद्धावति सम्मुखः ॥तावच्छृंगप्रहारेण सोनयद्यमसादनम् ॥१७॥हत्वा तं सचिवान्पश्चात्सुबाहुप्रमुखांश्च तान् ॥जघान हन्यमानोऽपि समन्ताद्दानवैः परैः ॥१८॥न तस्य लगते क्वापि शस्त्रं गात्रे कथंचन ॥यत्नतोऽपि विसृष्टं च लब्धलक्षैः प्रहारिभिः ॥१९॥एवं पंच प्रधानास्तान्हत्वा दैत्यान्महेश्वरः ॥भूयो जगाम तं देशं यत्र शक्रो व्यवस्थितः ॥अब्रवीच्च प्रहष्टात्मा ततः शक्रं तपोन्वितम् ॥२०॥मया ते निहताः पंच दानवा ये त्वयेरिताः ॥तस्मात्त्रैलोक्यराज्यं स्वं भूय एव समाचर ॥२१॥मत्तोऽन्यदपि देवेश वरं प्रार्थय वांछितम् ॥कैलासशिखरं येन गच्छामि त्वरयाऽन्वितः ॥२२॥ ॥ इन्द्र उवाच ॥अनेनैव हि रूपेण तिष्ठ त्वं चात्र शंकर ॥त्रैलोक्यरक्षणार्थाय धर्माय च शिवाय च ॥२३॥ ॥ श्रीभगवानुवाच ॥एतद्रूपं मया शक्र कृतं तस्य वधाय वै ॥अवध्यः सर्वभूतानां यतोन्येषां मया हतः ॥२४॥तस्मादत्रैव ते वाक्यात्स्थास्यामि सुर सत्तम ॥अनेनैव तु रूपेण मोक्षदः सर्वदेहिनाम् ॥२५॥एवमुक्त्वा विरूपाक्षश्चक्रे कुंडं ततः परम् ॥शुद्धस्फटिकसंकाशं सुस्वादुक्षीरवत्प्रियम् ॥२६॥ततः प्रोवाच देवेन्द्रं मेघगंभीरया गिरा ॥शृण्वतां सर्वदेवानां भगवांस्त्रिपुरातकः ॥२७॥यो मां दृष्ट्वा शुचिर्भूत्वा कुंडमेतत्प्रपश्यति ॥त्रिः पीत्वा वामसव्येन द्वाभ्यां चैव ततो जलम् ॥२८॥कराभ्यां स पुमान्नूनं तारयेच्च कुलत्रयम् ॥अपि पापसमाचारं नरकेऽपि व्यव स्थितम् ॥२९॥वामेन मातृकं पक्षं दक्षिणेनाथ पैतृकम् ॥उभाभ्यामथ चात्मानं कराभ्यां मद्वचो यथा ॥३०॥ ॥ इन्द्र उवाच ॥अहमागत्य नित्यं त्वां स्वर्गाद्वृषभवाहन ॥अत्रस्थं पूजयिष्यामि पास्यामि च तथोदकम् ॥३१॥के दारयामि यत्प्रोक्तं त्वया महिषरूपिणा ॥केदार इति नाम्ना त्वं ततः ख्यातो भविष्यसि ॥३२॥ ॥ श्रीभगवानुवाच ॥यद्येवं कुरुषे शक्र ततो दैत्यभयं न ते ॥भविष्यति परं तेजो गात्रे संपत्स्यतेऽखिलम् ॥३३॥एवमुक्तः सहस्राक्षस्ततः प्रासादमुत्तमम् ॥तदर्थं निर्मयामास साध्वालोकं मनोहरम् ॥३४॥ ततः प्रणम्य तं देवमनुमन्त्र्य ततः परम् ॥जगाम निजमावासं मेरुशृंगाग्रसंस्थितम् ॥३५॥ततश्चागत्य नित्यं स स्वर्गाद्देवस्य शूलिनः ॥केदारस्य सुभक्त्याढ्यां पूजां चक्रे समाहितः ॥३६॥मन्त्रोदकं च त्रिः पीत्वा ययौ ब्राह्मणसत्तमाः ॥कस्यचित्त्वथ कालस्य यावत्तत्र समाययौ ॥३७॥तावद्धिमेन तत्सर्वं गिरेः शृंगं प्रपूरितम् ॥तच्च कुण्डं स देवश्च प्रासादेन समन्वितः ॥३८॥ततो दुःखपरीतात्मा भक्त्या परमया युतः ॥तां दिशं प्रणिपत्योच्चैर्जगाम निजमंदिरम् ॥३९॥एवमागच्छतस्तस्य गतं मासचतुष्टयम् ॥अपश्यतो महादेवं दिदृक्षागतचेतसः ॥४०॥ततः प्राप्ते पुनर्विप्रा घर्मकाले हिमालये ॥संयातो दृक्पथं देवः स तथारूपसंस्थितः ॥४१॥ततः पूजां विधायोच्चैश्चातुर्मास्यसमुद्भवाम् ॥गीतवाद्यादिकं चक्रे तत्पुरः श्रद्धयान्वितः ॥४२॥अथ देवः समालोक्य तां श्रद्धां तस्य गोपतेः ॥प्रोवाच दर्शनं गत्वा भगवांस्त्रिपुरांतकः ॥४३॥परितुष्टोऽस्मि देवेश भक्त्या चानन्ययाऽनया ॥तस्मात्प्रार्थय दास्यामि यं कामं हृदिसंस्थितम् ॥४४॥ ॥ शक्र उवाच ॥तव प्रसादात्संजातं ममैश्वर्यमनुत्तमम् ॥यत्किंचित्त्रिषु लोकेषु तत्सर्वं गृहसंस्थितम् ॥४५॥तस्माद्यदि प्रसादं मे करोषि वृषभध्वज ॥वरं वा यच्छसि प्रीतस्तत्कुरुष्व वचो मम ॥४६॥पर्वतोऽयं भवेद्गम्यो मासानष्टौ सुरेश्वर ॥यावन्मीनस्थितो भानुः प्रगच्छति श्रुतं मया ॥४७॥ततः परमगम्यश्च हिमपूरेण संवृतः ॥यदा स्याच्चतुरो मासान्यावत्कुम्भगतो रविः ॥४८॥संजायतेऽप्यगम्यश्च ममापि त्रिपुरांतक ॥किं पुनः स्वल्पसत्त्वानां नरादीनां सुरेश्वर ॥४९॥तस्मात्स्वर्गेऽथ पाताले मर्त्ये वा त्रिदशेश्वर ॥कुरुष्वानेनरूपेण स्थितिं मासचतुष्टयम् ॥येन न स्यात्प्रतिज्ञाया हानिर्मम सुरेश्वर ॥५०॥ ॥ सूत उवाच ॥ततो देवश्चिरं ध्यात्वा प्रोवाच बलसूदनम् ॥परं संतोषमापन्नो मेघनिर्घोषनिःस्वनम् ॥५१॥आनर्तविषये क्षेत्रं हाटकेश्वरसंज्ञितम् ॥अस्मदीयं सहस्राक्ष विद्यते धरणीतले ॥५२॥तत्राहं वृश्चिकस्थेऽर्के सदा स्थास्यामि वासव ॥यावत्कुम्भस्य पर्यंतं तव वाक्यादसंशयम् ॥५३॥तस्मात्तत्र द्रुतं गत्वा कृत्वा प्रासादमुत्तमम् ॥मम रूपं प्रतिष्ठाप्य कुरुपूजा यथोचिताम् ॥येन तत्र निजं तेजो धारयामि तवार्थतः ॥५४॥ ॥ सूत उवाच ॥एतच्छ्रुत्वा सहस्राक्षो देवदेवस्य शूलिनः ॥गत्वा तत्र ततश्चक्रे यद्देवेनेरितं वचः ॥५५॥प्रासादं निर्मयित्वाथ रूपं संस्थाप्य शूलिनः ॥कुण्डं चक्रे च तद्रूपं स्वच्छोदकसमावृतम् ॥५६॥ततश्चाराधयामास पुष्पधूपानुलेपनैः ॥स्नात्वा कुण्डेऽपिबत्तोयं त्रिःकृत्वा च यथापुरा ॥५७॥एवं स भगवांस्तत्र शक्रेणाराधितः पुरा ॥समायातोऽत्र विप्रेंद्राः सुरम्यात्तु हिमाचलात् ॥५८॥यस्तमाराधयेत्सम्यक्सदा मासचतुष्टयम् ॥हिमपातोद्भवे मर्त्यः स शिवाय प्रपद्यते ॥५९॥शेषकालेऽपि यः पूजां करोत्येव सुभक्तितः ॥स पापं क्षालयेत्प्राज्ञ आजन्ममरणांतिकम् ॥६०॥तत्र गीतं प्रशंसंति नृत्यं चैव पृथग्विधम् ॥देवस्य पुरतः प्राज्ञाः सर्वशास्त्रविशारदाः ॥६१॥अत्र श्लोकः पुरा गीतो नारदेन सुरर्षिणा ॥तद्वोऽहं कीर्तयिष्यामि श्रूयतां ब्राह्मणोत्तमाः ॥६२॥केदारे सलिलं पीत्वा गयापिडं प्रदाय च ॥ब्रह्मज्ञानमथासाद्य पुनर्जन्म न विद्यते ॥६३॥एतद्वः सर्वमाख्यातं केदारस्य च संभवम् ॥आख्यानं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥६४॥यश्चैतत्छृणुयात्सम्यक्पठेद्वा तस्य चाग्रतः ॥श्रावयेद्वापि वा विप्राः सर्वपातकनानम् ॥केदारस्य स पापौघैर्मुच्यते तत्क्षणान्नरः ॥६५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखंडे हाटकेश्वरक्षेत्रमाहात्म्ये केदारोत्पत्तिमाहात्म्यवर्णनंनामद्वाविंशत्युत्तरशततमोऽध्यायः ॥१२२॥ N/A References : N/A Last Updated : December 29, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP