संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय १७७ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय १७७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय १७७ Translation - भाषांतर ॥ सूत उवाच ॥तथान्यापि च तत्रास्ति गौरी वै पञ्चपिंडिका ॥लक्ष्म्या संस्थापिता चैव मानुषत्वंव्यवस्थया ॥१॥तस्या दर्शनमात्रेण नारी सौभाग्यमामुयात् ॥ज्येष्ठे मासि सिते पक्षे वृषस्थे च दिवाकरे ॥२॥तस्या उपरि नारी या जलयन्त्रं दधाति वै ॥स्राव्यमाणं दिवानक्तं सौभाग्यं परमं लभेत् ॥३॥यत्फलं लभते नारी समस्तैर्विहितैर्व्रतैः ॥गौरीसमुद्भवैश्चैव दानैर्दत्तैस्तदिष्टजैः ॥तत्फलं लभते सर्वं जलयन्त्रस्य कारणात् ॥४॥तस्मात्सर्वप्रयत्नेन स्त्रीभिः सौभाग्यकारणात् ॥जलयन्त्रं विधातव्यं ज्येष्ठे गौर्याः प्रयत्नतः ॥५॥किं व्रतैर्नियमैर्वापि स्त्रीणां ब्राह्मणसत्तमाः ॥जपैर्होमैः कृतैरन्यैर्बहुक्लेशकरैश्च तैः ॥६॥स्त्रीणां ब्राह्मणशार्दूला जलेयन्त्रे धृते सति ॥गौर्या उपरि सद्भक्त्या वृषस्थे तीक्ष्णदीधितौ ॥७॥नैवं संजायते वंध्या काकवन्ध्या न जायते ॥न दौर्भाग्यसमोपेता सप्तजन्मांतराणि सा ॥८॥ ॥ ऋषय ऊचुः ॥गौरी चतुर्भुजा प्रोक्ता दृश्यते परमेश्वरी ॥पञ्चपिंडा कथं जाता ह्येतं नः संशयं वद ॥९॥ ॥ सूत उवाच ॥यदा च प्रलयो भावि तदा त्मानं करोत्यसौ ॥पश्चपिंडीमयं विप्राः कुरुते रूपमुत्तमम् ॥१०॥एषा सा परमा शक्तिः सर्वं व्याप्य सुरेश्वरी ॥तया सर्वमिदं व्याप्तं त्रैलोक्यं सचराचरम् ॥११॥पृथिव्यापश्च तेजश्च वायुराकाशमेव च ॥सृष्ट्यर्थं रक्षयेदेषा ततः स्यात्पंचपिंडिका ॥१२॥यदस्यां पूजितायां तु प्रत्यक्षायां प्रजायते ॥सहस्रत्रिगुणं तच्च यत्र स्यात्पञ्चपिण्डिका ॥१३॥ज्येष्ठे मासि विशेषेण जलयंत्रार्चनेन च ॥अत्र वः कीर्तयिष्यामि त्विति हासं पुरातनम् ॥१४॥यद्वृत्तं काशिराजस्य भार्याया द्विजसत्तमाः ॥यच्च प्रोक्तं पुरा लक्ष्म्या विष्णवे परिपृष्टया ॥१५॥ ॥ लक्ष्मी रुवाच ॥काशिराजः पुरा ह्यासीज्जयसेन इति श्रुतः ॥तस्य भार्यासहस्रं तु ह्यासीद्रूपसमन्वितम् ॥१६॥अथ चान्या प्रिया तेन लब्धा भार्या सुशोभना ॥मनुष्यत्वव्यवस्थाया मम चांशकला हि या ॥सुता मद्राधिराजस्य विष्वक्सेनस्य धीमतः ॥१७॥सा गत्वा प्रातरुत्थाय शुभे गंगातटे तदा ॥पञ्चपिंडात्मिकां गौरीं कृत्वा कर्द्दमसंभवाम् ॥१८॥ततः संपूजयामास मन्त्रैः पंचभिरेव च ॥ततो गन्धैः परैर्माल्यैर्धूपै र्वस्त्रैः सुशोभनैः ॥१९॥नैवेद्यैः परमान्नैश्च गीतैर्नृत्यैः प्रवादितैः ॥ततो विसृज्य तां देवीं तदुद्देशेन वै ततः ॥२०॥दत्त्वा दानानि भूरीणि गौरिणीनां द्विजन्मनाम् ॥ततश्च गृहमभ्येति भूरिवादित्रनिःस्वनैः ॥२१॥यथायथा च तां पूजां तस्या गौर्या करोति सा ॥तथातथा तु सौभाग्यं तस्याश्चाप्यधिकं भवेत् ॥२२॥सर्वासां च सपत्नीनां सौभाग्यं वाधिकं भवेत् ॥२३॥अथ तस्याः सपत्न्यो याः सर्वा दुःखसमन्विताः ॥दृष्ट्वा सौभाग्यवृद्धिं तां तस्या एव दिनेदिने ॥२४॥एकाः प्रोचुः कर्म चैतद्यदेषा कुरुते सदा ॥मृन्मयांश्च समादाय पूजयेत्पंचपिंडकान् ॥२५॥अन्यास्तां मंत्रसंसिद्धां प्रवदंति महर्षयः ॥अन्या वदन्ति पुण्यानि ह्यस्याः पूर्वकृतानि च ॥२६॥एवं तासां सुदुःखानां महान्कालो जगाम ह ॥कस्यचित्त्वथ कालस्य सर्वाः संमंत्र्य ता मिथः ॥२७॥तस्याः संनिधिमाजग्मुस्तस्मिन्नेव जलाशये ॥यत्र सा पूजयेद्गौरीं कृत्वा तां पञ्च पिंडिकाम् ॥२८॥ततः सर्वाः समालोक्य त्यक्त्वा गौरीप्रपूजनम् ॥संमुखी प्रययौ तूर्णं कृतांजलिपुटा स्थिता ॥२९॥स्वागतं वो महा भागा भूयः सुस्वागतं च वः ॥कृत्यं निवेद्यतां शीघ्रं येनाशु प्रकरोम्यहम् ॥३०॥ ॥ सपत्न्य ऊचुः ॥वयं सर्वाः समायाताः कौतुके तवांतिकम् ॥दौर्भाग्यवह्निनिर्दग्धास्तव सौभाग्यजेनच ॥३१॥तस्माद्वद महाभागे मृन्मयां पंचपिंडिकाम् ॥नित्यमर्चयसि त्वं किं सौभा ग्यस्य विवर्धनम् ॥३२॥किं ते कारणमेतद्धि किं वा मन्त्रसमुद्भवः ॥प्रभावोऽयं महाभागेगुह्यं चेन्नो वदस्व नः ॥३३॥ ॥ पद्मावत्युवाच ॥रहस्यं परमं गुह्यं यत्पृष्टास्मि शुभाननाः ॥अवक्तव्यं वदिष्यामि भवतीनां तथापि च ॥३४॥गौरीपूजनकाले तु यस्माच्चैव समागताः ॥सर्वा मम भगिन्यः स्थ ईर्ष्याधर्मो न मेऽस्ति च ॥३५॥अहमासं पुरा कन्या पुरे कुसुमसंज्ञिते ॥वीरसेनस्य शूद्रस्य वणिक्पुत्रस्य धीमतः ॥तेन दत्ताऽस्मि धर्मेण विवाहार्थं महात्मना ॥३६॥ततो विवाहसमये मम दत्तानि वृद्धये ॥पंचाक्षराणि श्रेष्ठानि योषिता दीक्षया सह ॥गौरी पूजाकृते चैव प्रोक्ता चाहं ततः परम् ॥३७॥यावत्पुत्रि त्वमात्मानमेतैः पूजयसेऽक्षरैः ॥जलपानं न कर्तव्यं तावच्चैव कथञ्चन ॥३८॥येन संप्राप्स्यसेऽभीष्टं तत्प्रभावाद्यदीप्सितम् ॥तथेति च मया प्रोक्तं तस्याश्चैव वरानने ॥३९॥ततो विवाहे निर्वृत्ते गताऽहं पतिना सह ॥श्वशुर स्तिष्ठते यत्र श्वश्रूश्चैव सुदारुणा ॥४०॥गौरीपूजाकृते मां च निवारयति सर्वदा ॥ततोऽहं भयसन्त्रस्ता गौरीभक्तिपरायणा ॥जलार्थं यत्र गच्छामि तस्मिंश्चैव जलाश्रये ॥४१॥ततः कर्द्दममादाय मन्त्रैः पंचभिरेवच ॥तैरेव पूजयाम्येव गौरीं भक्तिपरायणा ॥४२॥प्रक्षिपामि तत स्तोये ततो गच्छामि मन्दिरम् ॥कस्यचित्त्वथ कालस्य भर्ता मे प्रस्थितः शुभः ॥देशांतरं वणिग्वृत्त्या सोऽपि मार्गं तमाश्रितः ॥४३॥स गच्छन्मरुमार्गेण मां समादाय स्नेहतः ॥संप्राप्तो निर्जलं देशं सुरौद्रं मरुमंडलम् ॥४४॥तथा रौद्रतरे काले वृषस्थे दिवसाधिपे ॥ततः सार्थः समस्तश्च विश्रांतः स्थलमध्यगः ॥४५॥कूपमेकं समाश्रित्य गम्भीरं जलदोपमम् ॥एतस्मिन्नेव काले तु मया दृष्टः समीपगः ॥तोयाकारो मरु द्देशस्तश्चित्ते विचिन्तितम् ॥४६॥यत्तच्च दृश्यते तोयं समीपस्थं तथा बहु ॥अत्र स्नात्वा शुचिर्भूत्वा गौरीमभ्यर्च्य भक्तितः ॥पिबामि सलिलं पश्चात्सुस्वादु सरसीभवम् ॥४७॥ततः संप्रस्थिता यावत्प्रगच्छामि पदात्पदम् ॥यावद्दूरतरं यामि तावत्सा मृगतृष्णिका ॥४८॥एतस्मिन्न न्तरे प्राप्तो नभोमध्यं दिवाकरः ॥वृषस्थो येन दह्यामि ह्युपरिष्टाच्छुभानना ॥४९॥अधोभागे सुतप्ताभिर्वालुकाभिः समंततः ॥तृष्णार्ताऽहं ततस्तस्मिन्मरुदेशे समाकुला ॥५०॥ततश्च पतिता भूमौ विस्फोटकसमावृता ॥ततो मया स्मृता चित्ते कथा भारतसंभवा ॥५१॥नृगेण तु यथा यज्ञो वालुकाभिर्विनिर्मितः ॥कूपान्तः क्षिप्यमाणेन तृणलोष्टांबुवर्जितम् ॥५२॥भक्तिग्राह्यास्ततो देवास्तुष्टास्तस्य महात्मनः ॥तदहं वालुकाभिश्च पूजयामि हरप्रियाम् ॥५३॥तेन तुष्टा तु सा देवी मम राज्यं प्रयच्छति ॥अद्य देहान्तरे प्राप्ते मनोभीष्टमनंतकम् ॥५४॥ततस्तु पंचभिर्मन्त्रैस्तैरेव स्मृतिमागतैः ॥पंचभिर्मुष्टिभिर्देवी वालुकोत्थैः प्रपूजिता ॥५५॥ततः पञ्चत्वमापन्ना तत्कालेऽहं वरांगनाः ॥दशार्णाधिपतेर्जाता सदने लोकविश्रुते ॥५६॥जातिस्मरणसंयुक्ता तस्या देव्याः प्रसादतः ॥भवतीनां कनिष्ठास्मि ज्येष्ठा सौभाग्यतः स्थिता ॥५७॥एत स्मात्कारणाद्गौरीं मुक्त्वैतान्पञ्चपिण्डकान् ॥कर्द्दमेन विधायाथ पूजयामि दिनेदिने ॥५८॥एतद्गुह्यं मया ख्यातं भवतीनामसंशयम् ॥सत्येनानेन मे गौरी मनोभीष्टं प्रयच्छतु ॥५९॥ ॥ लक्ष्मीरुवाच ॥ततः सर्वाः सपत्न्यस्ताः कृतांजलिपुटाः स्थिताः ॥मामूचुर्विनयाद्वाचा प्रणिपत्य मुहुर्मुहुः ॥.६०॥प्रसादं कुरु चास्माकं दीयतां मन्त्रपंचकम् ॥तदेव येन ते देवी तुष्टा सा परमेश्वरी ॥६१॥मया प्रोक्ताश्च ता सर्वाः प्रार्थयध्वं यथेच्छया ॥अहं सर्वं प्रदास्यामि तत्सत्यं वचनं मम ॥६२॥ततो देव मया प्रोक्तं तासां तन्मंत्रपंचकम् ॥शिष्यत्वं गमितानां च वाङ्मनःकायकर्मभिः ॥६३॥ ॥ विष्णुरुवाच ॥ममापि वद देवेशि कीदृक्तन्मन्त्रपञ्चकम् ॥यत्त्वयाऽनुष्ठितं पूर्वं तया तासां निवेदि तम् ॥६४॥ ॥ लक्ष्मीरुवाच ॥नमः पृथिव्यै क्षांतीशि नम आपोमये शुभे ॥तेजस्विनि नमस्तुभ्यं नमस्ते वायुरूपिणि ॥६५॥आकाशरूपसंपन्ने पंचरूपे नमोनमः ॥६६॥एभिर्मन्त्रैर्मया पूर्वं पूजिता परमेश्वरी ॥तेन राज्यं मया प्राप्तं सर्वस्त्रीणां सुदुर्लभम् ॥६७॥ततश्च स्थापिता देवी कृत्वा रत्नमयी शुभा ॥हाटकेश्वरजे क्षेत्रे मया तत्र सुरेश्वर ॥६८॥तां या पूजयते नारी सद्योऽपि पतिवल्लभा ॥जायते नात्र सन्देहः सर्वपापविवर्जिता ॥६९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये पञ्चपिंडिकोत्पत्ति माहात्म्य वर्णनं नाम सप्तसप्तत्युत्तरशततमोऽध्यायः ॥१७७॥ N/A References : N/A Last Updated : December 31, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP