संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ६२ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ६२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ६२ Translation - भाषांतर ॥ सूत उवाच ॥एवं स निश्चयं कृत्वा पार्थिवो द्विजसत्तमाः ॥नात्यजत्तां तथोक्तोऽपि दैवज्ञैर्विषकन्यकाम् ॥दीयमानामपि प्रीत्या न च गृह्णाति भूभुजा ॥१॥शर्मणष्ठीवनं यस्मात्तया स्वपितुराहितम् ॥शर्मिष्ठेति सुविख्याता ततः सा ह्यभवद्भुवि ॥२॥एतस्मिन्नंतरे तस्य शत्रवः पृथिवीपतेः ॥सर्वतः पीडयामास राष्ट्रं क्रोधसमन्विताः ॥३॥अथा सौ पार्थिवः क्रुद्धः स्वसैन्यपरिवारितः ॥युद्धाय निर्ययौ स्थानान्मृत्युं कृत्वा निवर्तने ॥४॥ततः संप्राप्य ताञ्छत्रूंश्चकार स महाहवम् ॥चतुरंगेन सैन्येन यमराष्ट्रविवर्धनम् ॥५॥ततश्च दशमे प्राप्ते शत्रुभिः स महीपतिः ॥निहतो दिवसे सर्वैर्वेष्टयित्वा समन्ततः ॥६॥ततस्तस्य नरेन्द्रस्य हतशेषाश्च ये नराः ॥भयार्तास्ते द्रुतं जग्मुः स्वपुरं प्रति दुःखिताः ॥७॥तेपि शत्रुगणाः सर्वे संप्रहृष्टा जिगीषवः ॥तत्पुरं वेष्टयामासुस्तत्पुत्रोच्छेदनाय वै ॥८॥एतस्मिन्नंतरे पौराः सर्वे शोकपरायणाः ॥जगर्हुः परुषैर्वाक्यैर्दुष्टां तां विषकन्यकाम् ॥९॥अस्या दोषेण पापाया मृतश्च स महीपतिः ॥तथा राष्ट्रस्य विध्वंसे भविष्यति पुरः क्षयः ॥१०॥उक्तः स नृपतिः पूर्वं ब्राह्मणैर्ज्ञानिभिस्तदा ॥त्यजैनां बहुदोषाढ्यां निन्दितां विषकन्यकाम् ॥न तेन तत्कृतं वाक्यमपि तेषां हितैषिणाम् ॥स्नेहपाशनिबद्धेन दयाढ्येन महात्मना ॥२॥तस्मादद्यापि पापैषा वध्यतामाशु कन्यका ॥निर्यास्यतां पुरादस्माद्यावन्न स्यात्पुरक्षयः ॥१३॥ ॥ सूत उवाच ॥सापि श्रुत्वा जनोक्तांस्तानपवादान्पृथग्विधान् ॥वैराग्यं परमं गत्वा निंदां चक्रे तथात्मनः ॥१४॥ततो रात्रौ विनिष्क्रम्य भयशोकसमन्विता ॥प्रतस्थेऽरण्यमासाद्य मरणे कृतनिश्चया ॥५॥अथ दृष्टं तया क्षेत्रं हाटकेश्वरजं महत् ॥तपस्विभिः समाकीर्णं चित्ताह्लादकरं परम् ॥१६॥अथ तस्याः स्मृतिर्जाता पूर्वजन्मसमुद्भवा ॥चंडालत्वे मया पूर्वं गौरेका वितृषीकृता ॥१७॥तत्प्रभावादहं जाता सुपुण्ये नृपमंदिरे ॥क्षेत्रस्यास्य प्रभावेन तस्मादत्रैव मे स्थितिः ॥१८॥सूत उवाच ॥अन्यदेहांतरे ह्यासीच्चंडाली सा विगर्हिता ॥बहुप्रसूतिसंयुक्ता दरिद्रेण कदर्थिता ॥१९॥अथ सा भ्रममाणाऽत्र क्षेत्रे प्राप्ता तृषार्दिता ॥मध्यंदिनगतेसूर्ये ज्येष्ठमासे सुदारुणे ॥२०॥अथापश्यत्स्तोकजलां सा तत्र लघुकूपिकाम् ॥तृषार्तां कपिलां गां वर्तमानां तदां तिके ॥२१॥ततो दयां समाश्रित्य त्यक्त्वा स्नेहं सुतोद्भवम् ॥आत्मनश्च तथा प्राणान्गां वितृष्णामथाकरोत् ॥२२॥जलाभावे तथा सा च समस्तैर्बालकैः सह ॥वैवस्वतगृहं प्राप्ता गोभक्तिधृतमानसा ॥२३॥ततो नृपगृहे जाता तत्प्रभावाद्द्विजोत्तमाः ॥पूर्वकर्मविपाकेन संजाता विष कन्यका ॥२४॥ ॥ ऋषय ऊचुः ॥केन कर्मविपाकेन संजाता विषकन्यका ॥स्वकुलोच्छेदनकरी सर्वं सूत ब्रवीहि नः ॥२५॥ ॥ सूत उवाच ॥चंडालत्वे तया विप्रा वर्तंत्या भ्रममाणया ॥देवतायतने दृष्टा गौरी हेममयी शुभा ॥२६॥ततस्तां विजने प्राप्य गत्वा देशांतरं मुदा ॥यावत्करोति खंडानि विक्रयार्थं सुनिंदिता ॥२७॥तावदन्वेषमाणास्तां संप्राप्ता नृपसेवकाः ॥अथ ते तां समालोक्य भर्त्सयित्वा मुहुर्मुहुः ॥संताड्य लकुटाघातैर्लोष्टघातैश्च मुष्टिभिः ॥२८॥ततः सुवर्णमादाय त्यक्त्वा तां रुधिरप्लुताम् ॥अवध्यैषेति संचिंत्य स्वपुरं प्रति ते गताः ॥२९॥यत्तया पार्वती स्पृष्टा ततो वै खण्डशः कृता ॥तेन कर्मविपाकेन संजाता विषकन्यका ॥३०॥ततः संस्मृतिमासाद्य पूर्वजन्मसमुद्भवाम् ॥माहात्म्यं जलदानस्य गोपीतस्य विचार्य च ॥चकार कूपिकास्थाने तडागं विमलोदकम् ॥३१॥समुद्रप्रतिमं चारु पद्मिनीखंडमंडितम् ॥मत्स्यकच्छपसंकीर्णं शिशुमारविराजितम् ॥३२॥सेवितं बहुभिर्हंसैर्बकैश्चक्रैः समंततः ॥अगाधसलिलं पुण्यं सेवितं जलजंतुभिः ॥३३॥प्रासादं तत्समीपस्थं साधु दृष्टिमनोहरम् ॥कारयित्वातिसंभक्त्या कैलासशिखरोपमम् ॥३४॥ततस्तत्र तपस्तेपे गौरीं संस्थाप्य भक्तितः ॥तदग्रे व्रतमास्थाय यथोक्तं शास्त्र संभवम् ॥३५॥प्रातः स्नात्वा तु हेमंते गौरीं संपूज्य भक्तितः ॥बलिपूजोपहारैश्च विप्रदानादिभिस्तथा ॥३६॥ततश्च शिशिरे प्राप्ते सायं प्रातः समाहिता ॥एकांतरोपवासैः सा स्नानं चक्रे नृपात्मजा ॥३७॥वसंते नृत्यगीतैश्च तोषयामास पार्वतीम् ॥षष्ठकालाशना साध्वी सस्यदानपरा यणा ॥३८॥ पञ्चाग्निसाधका ग्रीष्मे फलाहारं तपस्विनी ॥चकार श्रद्धयोपेता वृकभूमिपतेः सुता ॥३९॥वर्षासु च जलाहारा भूत्वा सा विष कन्यका ॥आकाशे शयनं चक्रे परित्यक्तकुटीरका ॥४०॥वायुभक्षा सती चाऽथ साऽनयच्छरदं ततः ॥कृतजप्यपरा नित्यं पार्वतीगतमानसा ॥४१॥एवमाराधयंत्याश्च तस्या देवीं गिरेः सुताम् ॥जगाम सुमहान्कालो न लेभे फलमीहितम् ॥४२॥मुखं वलिभिराक्रान्तं पलितैरंकितं शिरः ॥कन्याभावेपि वर्तंत्या न च तुष्टा हरप्रिया ॥४३॥कस्यचित्त्वथ कालस्य तत्परीक्षार्थमेव सा ॥शक्राणीरूपमास्थाय ततः सन्दर्शनं गता ॥४४॥सुधावदातं सूर्याभं कैलासशिखरोपमम् ॥सुप्रलंबकरं मत्तं चतुर्दंतं महागजम् ॥४५॥समास्थाय वृता स्त्रीभिर्देवानां सर्वतो दिशम् ॥दधती मुकुटं मूर्ध्नि हारकेयूरभूषिता ॥४६॥पांडुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥सेव्यमानाऽप्सरोभिश्च स्तूयमाना च किन्नरैः ॥४७॥गन्धर्वैर्गीयमानासीत्ततः प्रोवाच सादरम् ॥वरं यच्छामि ते पुत्रि प्रार्थयस्व यथेप्सितम् ॥४८॥अनेन तपसा तुष्टा पुष्कलेन तवाधुना ॥अहं भार्या सुरेन्द्रस्य शचीति परिकीर्तिता ॥त्रैलोक्येऽपि स्वयं प्राप्ता दयां कृत्वा तवोपरि ॥४९॥ त्वया महत्तपस्तप्तं ध्यायंत्या हरवल्लभाम् ॥तपसा तुष्टिमायाता भवानी न सुनिष्ठुरा ॥५०॥ ॥ सूत उवाच ॥सा तस्या वचनं श्रुत्वा शक्राण्या विषकन्यका ॥नमस्कृत्वाऽथ तामूचे कृतांजलिपुटा स्थिता ॥५१॥ ॥ विषकन्योवाच ॥नाहं त्वत्तो वरं देवि प्रार्थयामि कथञ्चन ॥तथान्यासामपींद्राणि देवतानामसंशयम् ॥५२॥अप्यहं नरकं रौद्रं प्रगच्छामींद्रवल्लभे ॥हरकांता समादेशान्न स्वर्गेऽपि तवाज्ञया ॥५३॥अनादिमध्यपर्य्यन्ता ज्ञानैश्वर्यसम न्विता ॥या देवी पूज्यते देवैर्वरं तस्या वृणोम्यहम् ॥५४॥यामाराधयते विष्णुर्ब्रह्मा रुद्रश्च वासवः ॥वांछितार्थं सदा देवीं वरं तस्या वृणो म्यहम् ॥५५॥यया व्याप्तमिदं सर्वं त्रैलोक्यं सचराचरम् ॥स्त्रीरूपैर्विविधैर्देव्या वरं तस्या वृणोम्यहम् ॥५६॥ ॥ श्रीदेव्युवाच ॥अहं भार्या सुरेन्द्रस्य प्राणेभ्योऽपि गरीयसी ॥ममाज्ञां पालयन्ति स्म देवदानवपन्नगाः ॥५७॥किंनरा गुह्का यक्षाः किं पुनर्मर्त्यधर्मिणः ॥तस्मात्त्वं किं न गृह्णासि वरं मत्तः कुतापसि ॥५८॥तन्नूनं वज्रघातेन चूर्णयिष्यामि ते शिरः ॥तस्यास्तद्वचनं श्रुत्वा तापस्यथ ततो द्विजाः ॥५९॥धैर्यमालंब्य तां प्राह भूय एव सुरेश्वरीम् ॥स्वामिनी त्वं हि देवानां सत्यमेतदसंशयम् ॥६०॥यस्याः प्राप्तं त्वयैश्वर्यं परा तां तोषयाम्यहम् ॥स्वल्पमप्यपराधं ते न करोमि सुरेश्वरि ॥६१॥तथापि वधयोग्यां मां मन्यसे विक्षिपायुधम् ॥अन्यच्चापि वचो मह्यं शक्राणि शृणु सादरम् ॥६२॥तच्छुत्वा कुरु यच्छ्रेयो विचिन्त्य मनसा ततः ॥न त्वं न ते पतिः शक्रो न चान्येपि सुरासुराः ॥मां निषूदयितुं शक्ताः पार्वत्यां शरणं गताम् ॥६३॥तस्माद्द्रुतं दिवं गच्छ मा त्वं कोपं वृथा कुरु ॥सन्मार्गे वर्तमानायां मम सर्वसुरेश्वरि ॥६४॥ ॥ सूत उवाच ॥एवं सा तां शचीमुक्त्वा दुःखिता विषकन्यका ॥चिन्तयामास तदिदं मरणे कृतनिश्चया ॥६५॥न प्रसीदति मे देवी यस्मात्पर्वतनंदिनी ॥तस्मान्मां यदि शक्राणी नैषा व्यापादयिष्यति ॥६६॥तन्नूनं ज्वलनं दीप्तं सेवयिष्यामि सत्वरम् ॥अथापश्यत्क्षणेनैव तं चैरावणवारणम् ॥६७॥दुग्धकुंदेन्दुसंकाशं संजातं सहसा वृषम् ॥तस्योपरि स्थितां देवीं शंभुना सह पार्वतीम् ॥६८॥चतुर्भुजां प्रसन्नास्यां दिव्यरूपसमन्विताम् ॥शुक्लमाल्यांबरधरां चन्द्रार्धकृतमस्तकाम् ॥६९॥ततः सम्यक्समालोक्य ज्ञात्वा तां पर्वतात्मजाम् ॥विषकन्या स्तुतिं चक्रे प्रणिपत्य मुहुर्मुहुः ॥७०॥नमस्ते देवदेवेशि नमस्ते सर्ववासिनि ॥सर्वकामप्रदे सत्ये जरामरणवर्जिते ॥७१॥शक्रादयोऽपि देवास्ते परमार्थेन नो विदुः ॥स्वरूपवर्णनं कर्तुं किं पुनर्देवि मानुषी ॥७२॥यस्याः सर्वं महीव्योमजलाग्निपवनात्मकम् ॥ब्रह्मांडमंगसंभूतं सदेवासुरमानुषम् ॥७३॥न तस्या जन्मनि ब्रह्मा न नाशाय महेश्वरः ॥पालनाय न गोविंदस्तां त्वां स्तोष्याम्यहं कथम् ॥७४॥तथाष्टगुणमैश्वर्यं यस्याः स्वाभाविकं परम् ॥निरस्तातिशयं लोके स्पृहणीयतमं सदा ॥७५॥यस्या रूपाण्यनेकानि सम्यग्ध्यानपरायणाः ॥ध्यायंति मुनयो भक्त्या प्राप्नुवंति च वांछितम् ॥७६॥हृदि संकल्प्य यद्रूपं ध्यानेनार्चंति योगिनः ॥सम्यग्भावात्मकैः पुष्पैर्मोक्षाय कृत निश्चयाः ॥७७॥तां देवीं मानुषी भूत्वा कथं स्तौमि महेश्वरीम् ॥७८॥ ॥ देव्युवाच ॥परितुष्टास्मि ते पुत्रि वरं प्रार्थय सुव्रते ॥असंदिग्धं प्रदास्यामि यत्ते हृदि सदा स्थितम् ॥७९॥ ॥ विषकन्योवाच ॥भर्तुरर्थे मया देवि कृतोऽयं तपउद्यमः ॥तत्किं तेन करिष्यामि सांप्रतं जरयावृता ॥८०॥तस्मादत्राऽऽश्रमे साकं त्वया स्थेयं सदैव तु ॥हिताय सर्वनारीणां वचनान्मम पार्वति ॥८१॥ ॥ श्रीदेव्युवाच ॥अद्यप्रभृत्यहं भद्रे श्रेष्ठेऽस्मिन्नाश्रमे शुभे ॥स्वमाश्रमं करिष्यामि यत्ते हृदि समाश्रितम् ॥८२॥माघशुक्लतृतीयायां या ऽत्र स्नानं करिष्यति ॥नारी सा मत्प्रसादेन लप्स्यते वांछितं फलम् ॥८३॥अपि कृत्वा महापापं नारी वा पुरुषोऽथवा ॥यत्र स्नात्वा प्रसादान्मे विपाप्मा संभविष्यति ॥८४॥अत्र ये फलदानं च प्रकरिष्यंति मानवाः ॥सफलाः सकलास्तेषामाशाः स्युर्नात्र संशयः ॥८५॥अपि हत्वा स्त्रियं मर्त्यो योऽत्र स्नानं करिष्यति ॥माघशुक्लतृतीयायां विपाप्मा स भविष्यति ॥८६॥या तत्र कन्यका भद्रे स्नानं भक्त्या करि ष्यति ॥तस्मिन्दिने पतिश्रेष्ठं लप्स्यते नात्र संशयः ॥८७॥ ॥सूत उवाच ॥एवमुक्त्वा ततो गौरी तां च पस्पर्श पाणिना ॥ततश्च तत्क्षणाज्जाता दिव्यरूपवपुर्द्धरा ॥८८॥वृद्धत्वेन परित्यक्ता दिव्यमाल्यानुलेपना ॥पीनोन्नतकुचाभोगा प्रमत्तगजगामिनी ॥८९॥ततस्तां सा समादाय विधाय निजकिंकरीम् ॥कैलासं पर्वतश्रेष्ठं जगाम हरसंयुता ॥९०॥ततःप्रभृति तत्तीर्थं शर्मिष्ठातीर्थमुच्यते ॥प्रख्यातं त्रिषु लोकेषु सर्वपातकनाशनम् ॥९१॥तस्मात्सर्वप्रयत्नेन तत्र स्नानं समाचरेत् ॥माघशुक्लतृतीयायां यथावद्द्विजसत्तमाः ॥९२॥एतत्पवित्रमायुष्यं सर्व पातकनाशनम् ॥स्त्रीतीर्थसंभवं नॄणां माहात्म्यं यन्मयोदितम् ॥९३॥यश्चैतत्प्रातरुत्थाय सदा पठति मानवः ॥स सर्वाँल्लभते कामान्मनसा वांछितान्सदा ॥९४॥तथा पर्वणि संप्राप्ते यश्चैतत्पठते नरः ॥शृणोति चाशु भक्त्या यः स याति शिवमंदिरम् ॥९५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्ये शर्मिष्ठातीर्थमाहात्म्यवर्णनंनाम द्विषष्टितमोऽध्यायः ॥६२॥ N/A References : N/A Last Updated : December 23, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP