संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ६५ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ६५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ६५ Translation - भाषांतर ॥ सूत उवाच ॥तथान्यदपि तत्रास्ति तडागं देवनिर्मितम् ॥यत्रानर्तो नृपः सिद्धः सुहयो नाम नामतः ॥१॥तेनैव भूभुजा तत्र लिंगं संस्थापितं शुभम् ॥आनर्तेश्वरसंज्ञं च सर्व सिद्धिप्रदं नृणाम् ॥२॥तत्रांगारकषष्ठ्यां यस्तडागे स्नानमाचरेत् ॥स प्राप्नोति नरः सिद्धिं यथाऽऽनर्ताधिपेन च ॥३॥ ॥ ऋषय ऊचुः ॥कथं सिद्धिस्तु संप्राप्ता आनर्तेन महात्मना ॥सर्वं कथय तत्सूत सर्वं वेत्सि न संशयः ॥४॥ ॥ सूत उवाच ॥आनर्तः सुहयो नाम पुरासीत्पृथिवीपतिः ॥सर्वारिभिर्हतो युद्धे पलायनपरायणः ॥उच्छिष्टो म्लेच्छसंस्पृष्ट एकाकी बहुभिर्वृतः ॥५॥अथ तस्य कपालं च कापालिक व्रतान्वितः ॥जगृहे निजकर्मार्थं ज्ञात्वा तं वीरसंभवम् ॥६॥आनर्तेश्वरसांनिध्ये वसमानो वने स्थितः ॥स रात्रौ तेन तोयेन सर्वदेवमयेन च ॥७॥तडागोत्थेन संपूर्णं रात्रौ कृत्वा प्रमुंचति ॥आसीत्पूर्वं वणिङ्नाम्ना सिद्धसेन इति स्मृतः ॥धनी भृत्यसमोपेतः सदा पुण्यपरायणः ॥८॥कस्यचित्त्वथ कालस्य पण्यबुद्ध्या द्विजोत्तमाः ॥प्रस्थितश्चोत्तरां काष्ठां स सार्थेन समन्वितः ॥९॥अथ प्राप्तः क्रमात्सर्वैः स गच्छन्मरुमंडल म् ॥वृक्षोदकपरित्यक्तं सर्वसत्त्वविवर्जितम् ॥१०॥तत्र रात्रिं समासाद्य श्रांताः पांथाः समन्ततः ॥सुप्ताः स्थानानि संसृत्य गता निद्रावशं तथा ॥११॥ततः प्रत्यूषमासाद्य समुत्थाय च सत्वरम् ॥प्रस्थिता उत्तरां काष्ठां मुक्त्वैकं शूद्रसेवकम् ॥१२॥स वै मार्गपरिश्रांतो गत्वा निद्रावशं भृशम् ॥न जजागार जातेऽपि प्रयाणे बहुशब्दिते ॥१३॥न च तैः स स्मृतः सार्थैर्यैः समं प्रस्थितो गृहात् ॥न च केनापि संदृष्टः स तु रोधसि संस्थितः ॥१४॥एवं गते ततः सार्थे प्रोद्गते सूर्यमंडले ॥तीव्रतापपरिस्पृष्टो जजागार ततः परम् ॥१५॥यावत्पश्यति नो किञ्चित्तस्मिन्स्थाने स सार्थकम् ॥न च तेषां मरौ तस्मिँल्लक्ष्यते पदपद्धतिः ॥६॥ततो दुःखपरीतात्मा धावमान इतस्ततः ॥पतितो मेदिनीपृष्ठे मध्याह्ने क्षुत्तृषार्दितः ॥७॥एवं तस्य तृषार्तस्य पतितस्य धरातले ॥धृतप्राणस्य कृच्छ्रेण संयातोऽस्ताचलं रविः ॥१८॥ततः किंचित्ससंज्ञोऽभून्मंदीभूते दिवाकरे ॥चिन्तयामास चित्तेन क्वाहं गच्छामि सांप्रतम् ॥१९॥न लक्ष्यते क्वचिन्मार्गो दृश्यते न च मानुषम् ॥नात्र तोयं न च च्छाया नूनं मे मृत्यु रागतः ॥२०॥एवं चिन्ताप्रपन्नस्य तस्य शूद्रस्य निर्जने ॥मरौ तस्मिन्समायाता शर्वरी तदनन्तरम् ॥२१॥अथ क्षणेन शुश्राव स गीतं मधुरध्वनि ॥पठतां नन्दिवृद्धानां तथा शब्दं मनोहरम् ॥२२॥अथापश्यत्क्षणेनैव प्रेतसंघैः सभावृतम् ॥प्रेतमेकं च सर्वेषामाधिपत्ये व्यव स्थितम् ॥२३॥ततस्ते पार्श्वगाः प्रेता एके नृत्यं प्रचक्रिरे ॥तत्पुरो गीतमन्ये तु स्तुतिं चैव तथा परे ॥२४॥अथासौ प्राह तं शूद्रमतिथे कुरु भोजनम् ॥स्वेच्छया पिब तोयं च श्रेयो येन भवेन्मम ॥२५॥ततः स भोजनं चक्रे क्षुधार्तश्च पपौ जलम् ॥भयं त्यक्त्वा सुविश्रब्धः प्रेतराजस्य शासनात् ॥२६॥ततः प्रेताश्च ते सर्वे प्रेतत्वेन समन्विताः ॥यथाज्येष्ठं यथान्यायं प्रचक्रुर्भोजनक्रियाम् ॥२७॥एवं तेषां समस्तानां विलासैः पार्थिवोचितैः ॥अतिक्रान्ता निशा सर्वा क्रीडतां द्विजसत्तमाः ॥२८॥ततः प्रभाते विमले प्रोद्गते रविमंडले ॥यावत्पश्यति शूद्रः स तावत्तत्र न किञ्चन ॥२९॥ततश्च चिन्तयामास किमेतत्स्वप्नदर्शनम् ॥चित्तभ्रमोऽथवाऽस्माकमिन्द्रजालमथापि वा ॥३०॥अथवा सत्यमेतद्धि यतो मे तृप्तिरुत्तमा ॥संजातेयं क्षुधार्त्तस्य पिपासाकुलितस्य च ॥३१॥एवं चिन्तयमानस्य भास्करो गगनांगणम् ॥समारुरोह तापेन तापयन्धरणीतलम् ॥३२॥ततः कंचित्समाश्रित्य स्वल्पच्छायं महीरुहम् ॥प्राप्तवान्दिवसस्यांतं क्षुत्पिपासाप्रपीडितः ॥३३॥ततो निशामुखे प्राप्ते भूयोऽपि प्रेतराजकम् ॥प्रेतैस्तैश्चसमोपेतं तथारूपं व्यलोकयत् ॥३४॥तथैव भोजनं चक्रे तस्यातिथ्यसमुद्भवम् ॥भयेन रहितः शूद्रो हर्षेण महतान्वितः ॥३५॥एवं तस्य निशावक्त्रे नित्यमेव स भूपतिः ॥आतिथ्यं प्रकरोत्येव समागत्य तथैव च ॥३६॥ततोऽन्यदिवसे प्राप्ते तेन शूद्रेण भूपतिः ॥पृष्टः किमेतदाश्चर्यं दृश्यते रजनीमुखे ॥३७॥विभवस्ते महाभाग प्रणश्यति निशाक्षये ॥एतत्कीर्तय मे गुह्यं न चेत्प्रेतप संस्थितम् ॥अत्र कौतूहलं जातं दृष्ट्वेदं सुविचेष्टितम् ॥३८॥ ॥ प्रेत उवाच ॥अस्ति पुण्यं महाक्षेत्रं हाटकेश्वरसंज्ञितम् ॥गंगा च यमुना चैव स्थिते तत्र च संगमे ॥३९॥ताभ्यामतिसमीपस्थं शिवस्यायतनं शुभम् ॥महाव्रतधरस्तत्र तपस्यति सुनैष्ठिकः ॥४०॥स सदा रात्रिशौचार्थं कपालं जलपूरितम् ॥मदीयं शयने चक्रे तत्र कृत्वा निजां क्रियाम् ॥४१॥तत्प्रभावान्ममेयं हि विभूतिर्जायते निशि ॥दिवा रिक्ते कृते याति भूय एव महामते ॥४२॥तस्मात्कुरु प्रसादं मे तत्र गत्वा कपालकम् ॥चूर्णं कृत्वा मदीयं तत्तस्मिंस्तोये विनिक्षिप ॥४३॥येन मे जायते मोक्षः प्रेतभावात्सुदारुणात् ॥४४॥तथा तत्रास्ति पूर्वस्यां दिशि तत्तीर्थमुत्तमम् ॥गयाशिर इति ख्यातं प्रेतत्वान्मुक्तिदा यकम् ॥४५॥तत्र गत्वा कुरु श्राद्धं सर्वेषां त्वं महामते ॥दृश्यते तव पार्श्वस्था भद्र संपुटिका शुभाम् ॥४६॥अस्यां नामानि सर्वेषां यथाज्येष्ठं समालिख ॥ततः श्राद्धं कुरुष्वाशु दयां कृत्वा गरीयसीम् ॥४७॥वयं त्वां तत्र नेष्यामः सुखोपायेन भद्रक ॥निधिं च दर्शयिष्यामः श्राद्धार्थं सुमहत्तरम् ॥४८॥तथेति समनुज्ञाते तेन शूद्रेण सत्वरम् ॥निन्युस्तं स्कन्धमारोप्य शूद्रं क्षेत्रे यथोदितम् ॥४९॥दर्शयामासुरेवास्य निधानं भूरिवित्तजम् ॥तदादाय गतस्तत्र यत्रासौ नैष्ठिकः स्थितः ॥५०॥ततः प्रणम्य तं भक्त्या कथ यामास विस्तरात् ॥तस्य भूतपतेः सर्वं वृत्तांतं विनयान्वितः ॥५१॥ततो लब्ध्वा कपालं तच्चूर्णयित्वा समाहितः ॥गंगायमुनयोर्मध्ये प्रचिक्षेप मुदान्वितः ॥५२॥एतस्मिन्नंतरे प्रेतो दिव्यरूपवपुर्धरः ॥विमानस्थोऽब्रवीद्वाक्यं शूद्रं तं हर्षसंयुतः ॥५३॥प्रसादात्तव मुक्तोऽहं प्रेतत्वाद्दारुणादितः ॥स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदिवालयम् ॥५४॥एतेषामेव सर्वेषामिदानीं श्राद्धमाचर ॥गत्वा गयाशिरः पुण्यं येन मुक्तिः प्रजायते ॥५५॥ततः स विस्मयाविष्टस्तेषामेव पृथक्पृथक् ॥श्राद्धं चक्रे च भूतानां नित्यमेव समाहितः ॥५६॥तेऽपि सर्वे गताः स्वर्गं प्रेतास्तस्य प्रभावतः ॥ददुश्च दर्शनं तस्य स्वप्रे हर्षसमन्विताः ॥५७॥ततः शूद्रः स विज्ञाय तत्क्षेत्रं पुण्यवर्ध नम् ॥न जगाम गृहं भूयस्तत्रैव तपसि स्थितः ॥५८॥गंगायमुनयोः पार्श्वे शूद्रकेश्वरसंज्ञितम् ॥लिगं संस्थापितं तेन सर्वपातकनाशनम् ॥५९॥यस्तयोर्विधिवत्स्नानं कृत्वा पूजयते नरः ॥शूद्रकेश्वरसंज्ञं च लिंगं श्रद्धासमन्वितः ॥ ॥६०॥स सर्वैः पातकैर्मुक्तः प्रयाति शिव मंदिरम् ॥स्तूयमानश्च गंधर्वैर्विमानवरमाश्रितः ॥६१॥यस्तत्र त्यजति प्राणान्कृत्वा प्रायोपवेशनम् ॥न च भूयोऽत्र संसारे स जन्माप्नोति ॥ मानवः ॥६२॥गंडूषमपि तोयस्य यस्तस्य निवसन्पिबेत् ॥सोऽपि संमुच्यते पापादाजन्ममरणांतिकात् ॥६३॥यस्तत्र ब्राह्मणेंद्राणां संप्रयच्छति भोजनम् ॥पितरस्तस्य तृप्यंति यावत्कल्पशतत्रयम् ॥६४॥त्रुटिमात्रं च यो दद्यात्तत्र स्वर्णं समाहितः ॥स प्राप्नोति फलं कृत्स्नं राजसूयाश्वमेधयोः ॥६५॥तस्मात्सर्वप्रयत्नेन तत्तीर्थवरमाश्रयेत् ॥य इच्छेच्छाश्वतं स्वर्गं सदैव मनुजो द्विजाः ॥६६॥अत्र गाथा पुरा गीता गौतमेन महर्षिणा ॥गंगायमुनयोस्तं च प्रभावं वीक्ष्य विस्मयात् ॥६७॥गंगायमुनयोः संगे नरः स्नात्वा समाहितः ॥शूद्रेश्वरं समालोक्य सद्यः स्वर्गमवाप्नुयात् ॥६८॥एतद्वः सर्वमाख्यातं गंगायमुनयोर्मया ॥माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥६९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे श्रीहाटकेश्वरक्षेत्रमाहात्म्य आनर्तकेश्वरशूद्रकेश्वरमाहात्म्यवर्णनंनाम पंचषष्टितमोऽध्यायः ॥६५॥ N/A References : N/A Last Updated : December 23, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP