संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय २० नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय २० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय २० Translation - भाषांतर ॥सूत उवाच ॥तत्र दाशरथी रामो वनवासाय दीक्षितः ॥भ्रममाणो धरापृष्ठे सीतालक्ष्मणसंयुतः ॥१॥समाऽऽयातो द्विजश्रेष्ठा यत्र सा पितृकूपिका ॥तृषार्तश्च श्रमार्तश्च निषसाद धरातले ॥२॥एतस्मिन्नंतरे प्राप्तो भगवान्दिननायकः ॥अस्ताचलं जपापुष्पसन्निभो द्विजसत्तमाः ॥३॥ततः प्लक्षनगाधस्तात्पर्णान्यास्तीर्य भूतले ॥सायंतनं विधिं कृत्वा सुष्वाप रघुनन्दनः ॥४॥अथाऽवलोकयामास स्वप्ने दशरथं नृपम् ॥यद्वत्पूर्वं प्रियाऽऽलापसंसक्तं हृष्टमानसम् ॥५॥ततः प्रभाते विमले प्रोद्गते रविमण्डले ॥विप्रानाहूय तत्सर्वं कथयामास राघवः ॥६॥अद्य स्वप्ने मया विप्राः प्रियालापपरः पिता ॥अतिहृष्टमना दृष्टः श्वेतमाल्यानुलेपनः ॥७॥तत्कीदृक्परिणामोऽस्य स्वप्नस्य द्विजसत्तमाः ॥भविष्यति प्रजल्पध्वं परं कौतूहलं यतः ॥८॥ ॥ब्राह्मणा ऊचुः ॥पितरः श्राद्धकामा ये वृद्धिं पश्यंति वा नृप ॥ते स्वप्ने दर्शनं यांति पुत्राणामिति नः श्रुतम् ॥९॥तदस्यां कूपिकायां च स्वयमेव गया स्थिता ॥तेन त्वया पिता दृष्टः स्वप्ने श्राद्धस्य वांछकः ॥१०॥तस्मात्कुरु रघुश्रेष्ठ श्राद्धमत्र यथोदितम् ॥नीवारैः शाक मूलैश्च तथाऽरण्योद्भवैस्तिलैः ॥११॥अथैवामन्त्रयामास तान्विप्रान्रघुसत्तमः ॥श्राद्धेषु श्रद्धया युक्तः प्रसादः क्रियतामिति ॥१२॥बाढमित्येव ते चोक्त्वा स्नानार्थं द्विजसत्तमाः ॥गताः सर्वे सुसंहृष्टा स्वकीयानाश्रमान्प्रति व ॥१३॥अथ तेषु प्रयातेषु ब्राह्मणेषु रघूत्तमः ॥प्रोवाच लक्ष्मणं पार्श्वे विनयावनतं स्थितम् ॥१४॥शाकमूलफलान्याशु श्राद्धार्थं समुपानय ॥सौमित्रानय वैदेही स्वयं पचति भामिनी ॥१५॥तच्छ्रुत्वा लक्ष्मणस्तूर्णं जगामाऽरण्यमेव हि ॥श्राद्धार्थमानिनायाऽऽशु फलानि विविधानि च ॥१६॥धात्रीफलानि चाऽऽम्राणि चिर्भटानीं गुदानि च ॥करीराणि कपित्थानि तथैवाऽन्यानि भूरिशः ॥१७॥ततश्च पाचयामास तदर्थे जनकोद्भवा ॥रामादेशात्स्वयं साध्वी विनयेन समन्विता ॥१८॥ततश्च कुतपे प्राप्ते काले ते द्विजसत्तमाः ॥कृताह्निकाः समायाता रामभक्तिसमन्विताः ॥१९॥एतस्मिन्नंतरे सीता प्लक्षवृक्षांतरे स्थिता ॥आत्मानं गोपयामास यथा वेत्ति न राघवः ॥२०॥स तां सीतेति सीतेति व्याहृत्याथ मुहुर्मुहुः ॥स्त्रीधर्मिणीति मत्वा तु लक्ष्मणं चेदमब्रवीत् ॥२१॥वत्स लक्ष्मण शुश्रूषां विप्राणां श्राद्धसंभवाम् ॥पादप्रक्षालनाद्यां त्वं यथावत्कर्तुमर्हसि ॥२२॥बाढमित्येव संप्रोक्तो लक्ष्मणः शुभलक्षणः ॥चक्रे सर्वं तथा कर्म यथा नारी विचक्षणा ॥२३॥ततो निर्वर्तिते श्राद्धे ब्राह्मणेषु गतेष्वथ ॥जनकस्य सुता साध्वी तत्क्षणात्समुपस्थिता ॥२४॥तां दृष्ट्वा राघवः सीतां कोपसंरक्तलोचनः ॥प्रोवाच परुषैर्वाक्यैर्भर्त्समानो मुहुर्मुहुः ॥२५॥आयातेषु द्विजातेषु श्राद्धकाल उपस्थिते ॥क्व गता वद पापे त्वं मां परित्यज्य दूरतः ॥२६॥नैतद्युक्तं कुलस्त्रीणां विशेषादत्र कानने ॥विहर्तुं दूरतः शून्ये तस्मात्त्याज्याऽसि मैथिलि ॥२७॥तस्य तद्वचनं श्रुत्वा भीता सा जनकोद्भवा ॥उवाच वेपमानांगी प्रस्खलंत्या गिरा ततः ॥२८॥न मामर्हसि कार्येऽस्मिन्गर्हितुं रघुसत्तम ॥यस्मादहमतिक्रान्ता स्थानादस्माच्छ्रणुष्व तत् ॥२९॥पिता तव मया दृष्टः साक्षाद्दशरथः स्वयम् ॥ब्राह्मणस्य शरीरस्थो द्वितीयश्च पितामहः ॥३०॥पितुः पितामहोऽन्यस्य तृतीयस्य रघूत्तम ॥त्रयाणां च तथान्येषां त्रयोऽन्ये नृपसंनिभाः ॥३१॥ ब्राह्मणानां मया दृष्टाः शरीरस्थाः सुहर्षिताः ॥मातामहानहं मन्ये तानपि त्रीनहं स्फुटम् ॥३२॥ततो ऽहं लज्जया नष्टा दृष्ट्वा श्वशुरसंगमान् ॥येन भुक्तानि भोज्यानि पुरा मृष्टान्यनेकशः ॥३३॥तथा खाद्यानि लेह्यानि चोष्याणि च विशेषतः ॥पिता तव कथं सोऽद्य कषायाणि कटूनि च ॥भक्षयिष्यति दत्तानि स्वहस्तेन मया विभो ॥३४॥एतस्मात्कारणान्नष्टा त्वत्समीपादहं विभो ॥श्राद्धकालेऽपि संप्राप्ते सत्येनात्मानमालभे ॥३५॥तच्छ्रुत्वा संप्रहृष्टात्मा रामो राजीवलोचनः ॥साधुसाध्विति तां प्राह परिष्वज्य मुहुर्मुहुः ॥३६॥ततो भुक्त्वा स्वयं रामो लक्ष्मणेन समन्वितः ॥सायाह्ने समनुप्राप्ते संध्याकार्यं विधाय च ॥३७॥प्रोवाच लक्ष्मणं वत्स पर्णान्यास्तीर्य भूतले ॥शय्यां कुरु समानीय पादशौचाय सज्जलम् ॥३८॥ततः कोपपरीतात्मा सौमित्रिः प्राह राघवम् ॥नाहं शय्यां करिष्यामि पादप्रक्षालनं न च ॥३९॥तथाऽन्यदपि यत्किंचित्कर्म स्वल्पमपि प्रभो ॥त्वां वा त्यक्त्वा गमिष्यामि कुत्रचित्पीडितो भृशम् ॥४०॥प्रेष्यत्वेन रघुश्रेष्ठ सत्यमेतन्मयोदितम् ॥सीतायाः किं समादेश्यं न किंचित्संप्रयच्छसि ॥अपि स्वल्पतरं राम मया त्वं किं करिष्यसि ॥४१॥तस्य तद्वचनं श्रुत्वा विकृतं चापि राघवः ॥तूष्णीं बभूव मेधावी हास्यं कृत्वा मनाक्ततः ॥४२॥ततः स्वयं समुत्थाय कृत्वा स्वा स्तरकं शुभम् ॥सीतया क्षालितांघ्रिस्तु सुष्वाप तदनंतरम् ॥४३॥लक्ष्मणोऽपि विदूरस्थः कोपसंरक्तलोचनः ॥वृक्षमूलं समाश्रित्य सुप्तश्चित्ते व्यचिंतयत् ॥४४॥हत्वैनं राघवं सुप्तं सीतां पत्नीं विधाय च ॥किं गच्छामि निजं स्थानं विदेशं वाऽपिदूरतः ॥४५॥एवं चिंतयतस्तस्य बहुधा लक्ष्मणस्य सा ॥व्यतिक्रांता निशा विप्राः कृच्छ्रेण महता ततः ॥४६॥न तस्य निश्चयो जज्ञे तस्मिन्कृत्ये कथंचन ॥कोपात्प्रणष्टनिद्रस्य सोष्णं निःश्वसतो मुहुः ॥४७॥ततः प्रभाते विमले कृतपूर्वाह्णिकक्रियः ॥रामः सीतां समादाय प्रस्थितो दक्षिणां दिशम् ॥४८॥लक्ष्मणोऽपि धनुः सज्यं कृत्वा संधाय सायकम् ॥अनुव्रजति पृष्ठस्थस्तस्य च्छिद्रं विलोकयन् ॥४९॥ततो गोकर्णमासाद्य प्रणम्य च महेश्वरम् ॥प्रतस्थे राघवो यावत्सौमित्रिस्तावदागतः ५०॥बाष्पपर्याकुलाक्षश्च व्रीडयाऽधोमुखः स्थितः ॥प्रणम्य शिरसा रामं ततः प्राह सुदुः खितः ॥५१॥कुरु मे निग्रहं नाथ स्वामिद्रोहसमुद्भवम् ॥अतिपापस्य दुष्टस्य कृतघ्नस्य रघूत्तम ॥५२॥उत्तराणि विरुद्धानि तव दत्तानि भूरिशः ॥मया विनाऽपराधेन वधोपायश्च चिंतितः ॥५३॥ततश्च तं परिष्वज्य रामोऽपि निजबांधवम् ॥बाष्पक्लिन्नमुखः प्राह क्षांतं वत्स मया तव ॥५४॥न ते त्वन्यः प्रियः कश्चिन्मां मुक्त्वा वेद्म्यहं स्फुटम् ॥तस्मादागच्छ गच्छामो मार्गं वेलाधिका भवेत् ॥५५॥ ॥लक्ष्मण उवाच ॥यदि मे निग्रहं नाथ न करिष्यसि सांप्रतम् ॥प्राणत्यागं करिष्यामि वह्नावात्मविशुद्धये ॥५६॥रामलक्ष्मणयोरेवं वदतोस्तत्र कानने ॥आजगाम मुनिश्रेष्ठो मार्कंड इति यः स्मृतः ॥५७॥ततः प्रणम्य तं रामः सीतालक्ष्मणसंयुतः ॥प्रोवाच स्वागतं तेस्तु कुतः प्राप्तोऽसि सन्मुने ॥५८॥ ॥मार्कंडेय उवाच ॥प्रभासादहमायातः सांप्रतं रघुनंदन ॥स्वमाश्रमं गमिष्यामि क्षेत्रेऽत्रैव व्यवस्थितम् ॥५९॥मया राघव तत्राऽस्ति स्थापितः प्रपितामहः ॥तस्याऽद्य दिवसे यात्रा बहुश्रेयःप्रदा स्मृता ६०॥ तस्मात्त्वमपि तत्रैव तूर्णमेव मया सह ॥ममाश्रमपदे स्थित्वा पश्य देवं पितामहम् ॥६१॥येन स्याः सर्वशत्रूणामगम्यस्त्वं रघूद्वह ॥ज्येष्ठपञ्चदशीयोगे ज्येष्ठपुत्रः समाहितः ॥६२॥यस्तत्र कुरुते स्नानं तस्य मृत्युभयं कुतः ॥साऽद्य पंचदशी राम ज्येष्ठमाससमुद्भवा ॥ज्येष्ठानक्षत्रसंयुक्ता तस्मात्स्नातुं त्वमर्हसि ॥६३॥ततः संप्रस्थितं रामं दृष्ट्वा प्रोवाच लक्ष्मणः ॥कुरु मे निग्रहं तावद्गच्छ तीर्थं ततः प्रभो ॥६४॥ ॥राम उवाच ॥स्थितेऽस्मिन्मुनिशार्दूले समीपे वत्स लक्ष्मण ॥अनर्हा निष्कृतिः कर्तुं तस्मादेनं प्रयाचय ॥६५॥ ॥लक्ष्मण उवाच ॥स्वामिद्रोहे कृते ब्रह्मन्प्रायश्चित्तं यदीक्ष्यते ॥तन्मे देहि स्फुटं येन कायशुद्धिः प्रजायते ॥६६॥ ॥मार्कंडेय उवाच ॥ममाऽऽश्रमसमीपेऽस्ति सुतीर्थं बालमंडनम् ॥स्वामिद्रोहरताः स्नाता मुच्यंते तत्र पातकैः ॥६७॥तत्र शक्रो विपाप्माभूद्धत्वा गर्भं दितेः पुरा ॥विश्वस्ताया विशेषेण मातुः काकुत्स्थसत्तम ॥तस्मात्तत्र द्रुतं गत्वा स्नानं कुरु महामते ॥६८॥ततः प्रमुच्यसे पापात्स्वामिद्रोहसमुद्भवात् ॥अपरं नास्ति ते दोषो मनसा पातकं कृतम् ॥६९॥मनस्तापेन शुध्येत मतमेतन्मनीषिणाम् ॥त्वया तु मनसा द्रोहः कृतो रामकृते यतः ॥७०॥ईदृक्षान्मनसस्तापात्तस्माच्छुद्धोऽसि लक्ष्मण ॥अपरं शृणु मे वाक्यं नास्ति दोषस्तवा नघ ॥७१॥ईदृक्क्षेत्रप्रभावोऽयं सौभ्रात्रेण विवर्जितः ॥पंचक्रोशात्मके क्षेत्रे ये वसन्त्यत्र लक्ष्मण ॥७२॥अपि स्वल्पं न सौभ्रात्रं तेषां संजायते क्वचित् ॥७३॥तावत्स्नेहपरो मर्त्यस्तावद्वदति कोमलम् ॥चमत्कारोद्भवं क्षेत्रं यावन्न स्पृशतेंऽघ्रिभिः ॥७४॥येऽन्येपि निवसंत्यत्र पशवः पक्षिणो मृगाः ॥तेऽपि सौहार्द्दनिर्मुक्ताः सस्पर्द्धा इतरेतरम् ॥७५॥कस्यचित्केनचित्सार्धं सौहार्दं नैव विद्यते ॥तस्मान्नैवास्ति ते दोष ईदृक्क्षे त्रस्य संस्थितिः ॥७६॥तथापि यदि ते काचिच्छंका चित्ते व्यवस्थिता ॥तत्स्नानं कुरु गत्वा तु तस्मिंस्तीर्थे सुशोभने ॥७७॥यत्र शक्रो विपाप्माऽभूद्द्रोहं कृत्वा सुदारुणम् ॥विश्वस्ताया दितेः पूर्वं गर्भपातसमुद्रवम् ॥७८॥एवमुक्तस्तु सौमित्रिर्गत्वा तत्र द्विजोत्तमाः ॥तीर्थे स्नानाच्च संपन्नो विशुद्धः शक्रसेविते ॥रामोऽपि तत्र गत्वाशु मार्कंडेयवराश्रमे ॥७९॥स्नानं कृत्वा यथान्यायं ददर्शाऽथ पितामहम् ॥जगामाऽथ दिशं याम्यां सीतालक्ष्मणसंयुतः ॥८०॥ तत्प्रभावाज्जघानाऽथ खरादीन्राक्षसोत्तमान् ॥तथा वै रावणं रौद्रं मेघनादसमन्वितम् ॥८३॥इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये रामकृतयाम्यदिशाप्रयाणे बालमंडनतीर्थमाहात्म्य वर्णनंनाम विंशोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : December 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP