संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ५३ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ५३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ५३ Translation - भाषांतर ॥ सूत उवाच ॥तत्रैवोज्जयनीपीठमस्ति कामप्रदं नृणाम् ॥प्रभूताश्चर्यसंयुक्तं बहुसिद्धनिषेवितम् ॥१॥यस्य मध्यगतो नित्यं स्वयमेव महेश्वरः ॥महाकालस्वरूपेण स तिष्ठति द्विजोत्तमाः ॥२॥वैशाख्यां यो नरस्तत्र कृत्वा श्राद्धं समाहितः ॥ततः पश्यति देवेशं महाकाल इति स्मृतम् ॥पूजयेद्दक्षिणां मूर्तिं समाश्रित्य द्विजोत्तमाः ॥३॥दश पूर्वान्दशातीतानात्मानं च द्विजोत्तमाः ॥पुरुषान्स समुद्धृत्य शिवलोके महीयते ॥४॥यो यं काममभिध्याय तत्र पीठं प्रपूजयेत् ॥संपूज्य योगिनीवृंदं कन्यकावृन्दमेव च ॥५॥स तत्कृत्स्नमवाप्नोति यदपि स्यात्सुदुर्लभम् ॥तत्र वैशाखमासस्य पौर्णमास्यां समाहितः ॥६॥श्रद्धायुक्तो नरो यो वा उपवासपरः शुचिः ॥करोति जागरं तस्य पुरतः श्रद्धयान्वितः ॥स याति परमं स्थानं जरामरणवर्जितम् ॥७॥किं व्रतैः किं वृथा दानैः किं जपैर्नियमेन वा ॥महाकालस्य ते सर्वे कलां नार्हंति षोडशीम् ॥८॥ ॥ सूत उवाच ॥तत्रैवास्ति महाभागा भ्रूणगर्तेति विश्रुता ॥गर्ता सुविपुलाकारा सर्वपातकनाशिनी ॥९॥ब्रह्महत्याविनिर्मुक्तः सौदासो यत्र पार्थिवः ॥स्त्रीहत्यया विनिर्मुक्तः सुषेणो वसुधाधिपः ॥१०॥ ॥ ऋषय ऊचुः ॥ब्रह्महत्या कथं तस्य सौदासस्य महीपतेः ॥ब्रह्मण्यस्यापि संजाता तदस्माकं प्रकीर्तय ॥११॥श्रूयते स महीपालो ब्राह्मणानां हिते रतः ॥कर्मणा मनसा वाचा ब्रह्मघ्नः सोऽभवत्कथम् ॥१२॥विमुक्तश्च कथं भूयो भ्रूणगर्तामुपाश्रितः ॥सापि गर्ता कथं जाता सर्वं नो वद विस्तरात् ॥१३॥ ॥ सूत उवाच ॥यदा लिंगस्य पातोऽभूद्देवदेवस्य शूलिनः ॥तदा स लज्जयाविष्टो लिंगाभावाद्द्विजोत्तमाः ॥१४॥कृत्वाऽतिविपुलां गर्तां प्रविवेश ततः परम् ॥न कस्यचित्तदात्मानं दर्शयामास शूलधृक् ॥१५॥एवं सा तत्र संजाता गर्ता ब्राह्मणसत्तमाः ॥यथा तस्यां विपाप्माभूत्सौ दासस्तद्वदाम्यहम् ॥१६॥आसीन्मित्रसहोनाम राजा परमधार्मिकः ॥सौदासस्तत्सुतः साक्षात्सूर्यवंशसमुद्भवः ॥१७॥तेनेष्टं विपुलैर्यज्ञैः सुवर्णवरदक्षिणैः ॥असंख्यातानि दानानि प्रदत्तानि महात्मना ॥१८॥कस्यचित्त्वथ कालस्य सत्रे द्वादशवार्षिके ॥वर्तमाने यथान्यायं विधिदृष्टेन कर्मणा ॥१९॥क्रूराक्षः क्रूरबुद्धिश्च राक्षसौ बलवत्तरौ ॥यज्ञविघ्नाय संप्राप्तौ संप्राप्ते रजनीमुखे ॥२०॥राक्षसैर्बहुभिः सार्धं तथान्यैर्भूतसंज्ञितैः ॥पिशाचैश्च दुराधर्षैर्यज्ञविध्वंसतत्परैः ॥२१॥अथ ते राक्षसाः सर्वे किंचिच्छिद्रमवेक्ष्य च ॥विविशुर्यज्ञवाटं तं प्रसर्पन्तः समंततः ॥२२॥निघ्नन्तो ब्राह्मणश्रेष्ठान्भक्षयन्तो हवींषि च ॥तथा यानि विचित्राणि यज्ञार्थे कल्पितानि च ॥२३॥एतस्मिन्नंतरे तत्र हाहाकारो महानभूत् ॥भक्ष्यमाणेषु विप्रेषु राक्षसैर्बलवत्तरैः ॥२४॥ततो मैत्रसहिः क्रुद्धस्त्यक्त्वा दीक्षाव्रतं नृपः ॥आदाय सशरं चापं ध्वंसयामास वीक्ष्य तान् ॥२५॥कृतरक्षो वसिष्ठेन स्वयमेव पुरोधसा ॥क्रूराक्षं सूदयामास राक्षसैर्बहुभिः सह ॥२६॥क्रूरबुद्धिरथो वीक्ष्य हतं श्रेष्ठं सहोदरम् ॥तं च पार्थिवशार्दूलमगम्यं ब्रह्मतेजसा ॥२७॥हतशेषान्समादाय राक्षसान्बलसंयुतः ॥पलायनं भयाच्चक्रे क्षतांगस्तस्य सायकैः ॥२८॥ ततस्तद्वैरमाश्रित्य भ्रातुर्ज्येष्ठस्य राक्षसः ॥छिद्रमन्वेषयामास तद्वधाय दिवानिशम् ॥२९॥एवं सवीक्षमाणस्य तस्य च्छिद्रं महात्मनः ॥समाप्तिमगमद्विप्राः सत्रं तद्द्वादशाब्दिकम् ॥३०॥न सूक्ष्ममपि संप्राप्तं छिद्रं तेन दुरात्मना ॥वसिष्ठविहिता रक्षा सत्रे तस्य महीपतेः ॥३१॥अथासौ ब्राह्मणान्सर्वान्विसृज्याहितदक्षिणान् ॥कृतांजलिपुटो भूत्वा वसिष्ठमिदमब्रवीत् ॥३२॥स्वहस्तेन गुरोद्याहं त्वां भोजयितुमुत्सहे ॥क्रियतां तत्प्रसादो मे भुक्त्वाद्य मम मन्दिरे ॥३३॥ ॥ सूत उवाच ॥स तथेति प्रतिज्ञाय वसिष्ठो मुनिसत्तमः ॥क्षालितांघ्रिः स्वयं तेन निविष्टो भोजनाय वै ॥३४॥कूरबुद्धिरथो वीक्ष्य तदर्थं चामिषं शुभम् ॥सुसंस्कृतं विधानेन सूपकारैर्द्विजोत्तमाः ॥३५॥उखां कृत्वा ततस्तादृक्तत्प्रमाणामतर्किताम् ॥महामांसाभृतां कृत्वा तां जहारामिषान्विताम् ॥३६॥अथासौ मुनिशार्दूलो भुंजानो बुबुधे हि तत् ॥महामांसमिति क्रुद्धस्तत्र प्रोवाच मन्युमान् ॥३७॥महामांसाशनं यस्मात्कारितोऽहं त्वयाधम ॥रक्षोवद्राक्षसस्तस्मात्त्वमद्यैव भविष्यसि ॥३८॥ततः संशोधयामास तस्य मांसस्य चागमम् ॥निपुणं सूपकारांस्तान्दृष्ट्वा राजा पृथक्पृथक् ॥३९॥तेऽब्रुवन्नैतदस्माभिः श्रपितं मांसमीदृशम् ॥श्रद्धीयतां महीपाल नान्येन मनुजेन वा ॥४०॥राक्षसं वा पिशाचं वा दानवं वा विना विभो ॥एतज्ज्ञात्वा ततो नाथ यद्युक्तं तत्समाचर ॥४१॥एतस्मिन्नंतरे तस्य नारदो मुनिसत्तमः ॥समागत्याब्रवीत्सर्वं तद्राक्षसविचेष्टितम् ॥४२॥.तच्छ्रुत्वा कोपमापन्नः स राजा शप्तुमुद्यतः ॥वसिष्ठं स्वकरे कृत्वा जलं सौदासभूपतिः ॥शापोद्यतं च तं दृष्ट्वा नारदो वाक्यमब्रवीत् ॥४३॥निघ्नन्तो वा शपन्तो वा द्विषन्तो वा द्विजातयः ॥नमस्कार्या महीपाल तथापि स्वहितेच्छुना ॥गुरुरेष पुनर्मान्यस्तव पार्थिवसत्तम ॥४४॥तस्मान्नार्हसि शप्तुं त्वं प्रतिशापेन सन्मुनिम् ॥निषिद्धः स तथा भूपस्ततस्तत्सलिलं करात् ॥पादयोः कृत्स्नमुपरि प्रमुमोच ततः परम् ॥४५॥अथ तौ चरणौ तस्य तप्त शापोदकप्लुतौ ॥दग्धौ कृष्णत्वमापन्नौ तत्क्षणाद्द्विजसत्तमाः ॥४६॥कल्माषपाद इत्युक्तस्ततःप्रभृति स क्षितौ ॥भूपालो द्विजशार्दूला ना्म्ना तेन विशेषतः ॥४७॥ ॥ सूत उवाच ॥एतस्मिन्नंतरे विप्रो वसिष्ठो लज्जयान्वितः ॥ज्ञात्वा दत्तं वृथा शापं तस्य भूमिपतेस्तदा ॥४८॥उवाच व्यर्थः शापोऽयं तव दत्तो मया नृप ॥न च मे जायते वाक्यमसत्यं हि कथंचन ॥४९॥तस्मात्त्वं राक्षसो भूत्वा कञ्चित्कालं नृपो त्तम ॥स्वरूपं लप्स्यसे भूयो यस्मिन्काले शृणुष्व तम् ॥५०॥यदा त्वं क्रूरबुद्धिं तं राक्षसं निहनिष्यसि ॥तदा त्वं लप्स्यसे मोक्षं राक्षसत्वात्सुदारुणात् ॥५१॥ ॥ सूत उवाच ॥एतस्मिन्नन्तरे राजा यातुधानो बभूव सः ॥ऊर्ध्वकेशो महाकायः कृष्णदन्तो भया नकः ॥५२॥ततो जघान विप्रेन्द्रान्राक्षसं भावमाश्रितः ॥यज्ञान्विध्वंसयामास मुनीनामाश्रमानपि ॥५३॥कस्यचित्त्वथ कालस्य क्रूर बुद्धिः स राक्षसः ॥ज्ञात्वा तं राक्षसीभूतमेकदाऽऽयुधवर्जितम् ॥५४॥भ्रातुर्वधकृतं वैरं स्मरमाणस्ततः परम् ॥तद्वधार्थं समायातो राक्षसैर्बहुभिर्वृतः ॥५५॥ततस्तं वेष्टयित्वापि समंताद्राक्षसो नृपम् ॥प्रोवाच वचनं क्रुद्धो नादेनापूरयन्दिशः ॥५६॥त्वया यो निहतोऽस्माकं ज्येष्ठो भ्राता सुदुर्मते ॥वसिष्ठस्य बलाद्यज्ञे तस्याद्य फलमाप्नुहि ॥५७॥ ॥ राजोवाच ॥यद्ब्रवीषि दुराचार कर्मणा तत्समाचर ॥शारदस्येव मेघस्य गर्जितं तव निष्फलम् ॥५८॥एवमुक्त्वा समादाय ततो वृक्षं स पार्थिवः ॥प्राद्रवत्संमुखं तस्य गर्जमानो यथा घनः ॥५९॥सोऽपि वृक्षं समुत्पाट्य क्रोधसंरक्तलोचनः ॥त्रिशंखां भृकुटीं कृत्वा तस्याप्यभिमुखं ययौ ॥६०॥एवं द्वावपि तौ शूरौ वृक्षयुद्धं महाबलौ ० ॥कृतवन्तौ वने तत्र बहुवृक्षक्षयावहम् ॥६१॥अथ तं श्रांतमालोक्य कूरबुद्धिं महीपतिः ॥प्रगृह्य पादयोर्वेगाद्भ्रामयामास पुष्करे ॥६२॥ततश्चास्फोटयामास भूमौ कोपसमन्वितः ॥चक्रे चामिषखण्डं स पिष्ट्वापिष्ट्वा मुहुर्मुहुः ॥६३॥तस्मिंस्तु निहते शूरे राक्षसे स महीपतिः ॥राक्षसत्वाद्विनिर्मुक्तो लेभे कायं नृपोद्भवम् ॥६४॥ततस्ते राक्षसाः शेषाः समंतात्तं महीपतिम् ॥परिवार्य महावृक्षैर्जघ्नुः पाषाणवृष्टिभिः ॥६५॥ततस्तानपि भूपालो जघान प्रहसन्निव ॥वृक्षहस्तस्तु विश्रब्धो लीलया द्विजसत्तमाः ॥६६॥ततश्च स्वपुरं प्राप्तः संप्रहृष्टतनूरुहः ॥राक्षसानां वधं कृत्वा लब्ध्वा देहं पुरातनम् ॥६७॥ततस्तं तेजसा हीनं दुर्गंधेन समावृतम् ॥ब्रह्महत्योद्भवैश्चिह्नैरन्यैरपि पृथग्विधैः ॥६८॥दृष्ट्वा ते मंत्रिणस्तस्य पुत्र पौत्रास्तथा परे ॥नोपसर्पंति भूपालं पापस्पर्शभयान्विताः ॥६९॥ऊचुश्च पार्थिवश्रेष्ठ न त्वमर्हसि संगमम् ॥कर्तुं सार्धमिहास्माभिर्ब्रह्महत्या न्वितो यतः ॥७०॥तस्माद्वसिष्ठमाहूय प्रायश्चित्तं समाचर ॥अशुद्धं शुद्धिमायाति येन गात्रमिदं तव ॥७१॥ततः स पार्थिवस्तूर्णं वसिष्ठं मुनिपुंगवम् ॥समाहूयाब्रवीद्वाक्यं दूरस्थो विनयान्वितः ॥७२॥तव प्रसादतो विप्र स हतो राक्षसो मया ॥मुक्तशापोऽस्मि संजातः परं शृणु वचो मुने ॥७३॥मम गात्रात्सुदुर्गंधः समुद्गच्छति सर्वतः ॥भाराक्रांतानि गात्राणि सर्वाण्येवाचलानि च ॥७४॥तत्किमेतद्द्विजश्रेष्ठ तेजो हानिरतीव मे ॥मंत्रिणोऽपि तथा पुत्रा न स्पृशंति यतोऽद्य माम् ॥७५॥ ॥ वसिष्ठ उवाच ॥राक्षसत्वं प्रपन्नेन त्वया पार्थिवसत्तम ॥ब्राह्मणा बहवो ध्वस्तास्तथा विध्वंसिता मखाः ॥तेषां त्वं पार्थिवश्रेष्ठ संस्पृष्टो ब्रह्महत्यया ॥७६॥ ॥ राजोवाच ॥तदर्थं देहि मे विप्र प्रायश्चित्तं विशुद्धये ॥येन निर्मुक्तपापोऽहं राज्यं प्राप्नोमि चात्मनः ॥७७॥ ॥ वसिष्ठ उवाच ॥अत्रार्थे तीर्थयात्रां त्वं कुरु पार्थिव सत्तम ॥निर्ममो निरहंकारस्ततः सिद्धिमवाप्स्यसि ॥७८॥ततः स पार्थिवश्रेष्ठः संयतात्मा जितेंद्रियः ॥प्रयागादिषु तीर्थेषु स्नानं चक्रे समा हितः ॥७९॥न नश्यति स दुर्गंधो न च तेजः प्रवर्धते ॥न कायो लघुतां याति नालस्येन विमुच्यते ॥८०॥ततः संभ्रममाणश्च कदाचि द्द्विजसत्तमाः ॥चमत्कारपुरे क्षेत्रे स्नानार्थं समुपागतः ॥८१॥सुश्रांतः क्षुत्पिपासार्तो निशीथे तमसावृते ॥गर्तायां पतितोऽकस्मात्पूर्णायां पयसा नृपः ॥८२॥कृच्छ्रात्ततो विनिष्क्रांतस्तीर्थात्तस्मान्महीपतिः ॥यावत्पश्यति चात्मानं द्वादशार्कसमप्रभम् ॥८३॥दुर्गंधेन परित्यक्तं सोद्यमं लघुतां गतम् ॥दृष्ट्वा च चिंतयामास नूनं मुक्तोऽस्मि पातकात् ॥८४॥एतस्मिन्नेव काले तु वागुवाचाशरीरिणी ॥हर्षयन्ती महीपालं विमुक्तं ब्रह्महत्यया ॥८५॥विमुक्तोऽसि महाराज सांप्रतं पूर्वपातकैः ॥तीर्थस्यास्य प्रभावेन तस्माद्गच्छ निजं गृहम् ॥८६॥अत्र संनिहितो नित्यं भ्रूणरूपेण शंकरः ॥कृष्णपक्षे विशेषेण चतुर्दश्यां महीपते ॥८७॥यदा प्रपतितं लिंगं देवदेवस्य शूलिनः ॥द्विजशापेन गर्तैषा तदानेन विनिर्मिता ॥८८॥लज्जितेन स्ववासार्थं महद्दुःखयुतेन च ॥सतीवियोगयुक्तेन भ्रूणत्वं प्रगतेन च ॥८९॥सर्वपापहरा तेन गर्तेयं पृथि वीपते ॥भ्रूणगर्तेति विख्याता तस्य नामा जगत्त्रये ॥९०॥ ॥ सूत उवाच ॥एवमुक्त्वाथ सा वाणी विररामांऽतरिक्षगा ॥सोऽपि पार्थिवशार्दूलः प्रहृष्टः स्वपुरं ययौ ॥९१॥ततस्तं पापनिर्मुक्तं तेजसा भास्करोपमम् ॥दृष्ट्वा पुत्रास्तथा मर्त्याः प्रणेमुस्तुष्टिसंयुताः ॥९२॥सोऽपि ब्राह्मणशार्दूलो वसिष्ठस्तं महीपतिम् ॥समभ्येत्य ततः प्राह हर्षगद्गदया गिरा ॥९३॥दिष्ट्या मुक्तोसि राजेंद्र पापाद्ब्रह्मवधोद्भवात् ॥दिष्ट्या त्वं तेजसा युक्तः पुनः प्राप्तो निजं पुरम् ॥९४॥तस्मात्कीर्तय भूपाल कस्मिंस्तीर्थे समागतः ॥त्वं मुक्तः पातकाद्घोराद्ब्रह्महत्यासमुद्भवात् ॥९५॥ततः स कथयामास भ्रूणगर्तासमुद्भवम् ॥वृत्तांतं तस्य विप्रर्षेरनुभूतं यथा तथा ॥९६॥ततस्ते मंत्रिणो वृद्धाः स च राजा मुनीश्वरः ॥पुत्रं प्रतर्दनंनाम राज्ये संस्थाप्य तत्क्षणात् ॥९७॥भ्रूणगर्तां समासाद्य तामेव द्विजसत्तमाः ॥तपश्चेरुर्महादेवं ध्यायमाना दिवा निशम् ॥९८॥गताश्च परमां सिद्धिं कालेनाल्पेन दुर्लभाम् ॥भ्रूणरूपधरं देवं पूजयित्वा महेश्वरम् ॥९९॥ततःप्रभृति सा गर्ता प्रख्याता धरणीतले ॥भ्रूणगर्तेति विप्रेंद्राः सर्वपातकनाशिनी ॥१००॥तत्र कृष्णचतुर्दश्यां यः श्राद्धं कुरुते नरः ॥स पितॄंस्तारयेन्नूनं दश पूर्वान्दशा परान् ॥१०१॥तस्मात्सर्वप्रयत्नेन तत्र श्राद्धं समाचरेत् ॥स्नानं च ब्राह्मणश्रेष्ठा दानं वापि स्वशक्तितः ॥१०२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये भ्रूणगर्तामाहात्म्यवर्णनंनाम त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥ N/A References : N/A Last Updated : December 23, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP