संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ८८ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ८८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ८८ Translation - भाषांतर ॥ ऋषय ऊचुः ॥यास्त्वया देवताः प्रोक्ताश्चतस्रः सूतनंदन ॥चमत्कारी महित्था च महालक्ष्मीस्तथाऽपरा ॥१॥अंबावृद्धा चतुर्थी च तासां तिस्रः प्रकीर्तिताः ॥विस्तरेण चतुर्थी च अंबावृद्धा न कीर्तिता ॥२॥एतस्याः सर्वमाचक्ष्व प्रभावं सूतसंभव ॥केनैषा निर्मिता यात्रा सर्वं विस्तरतो वद ॥३॥ ॥ सूत उवाच ॥एषा तपोमयी शक्तिरम्बावृद्धा सुरेश्वरी ॥यथात्र संस्थिता पूर्वं तत्सर्वं श्रूयतां मम ॥४॥चमत्कारमहीपेन पुरमेतद्यदा कृतम् ॥तदा तद्रक्षणार्थाय निर्मिता भावितात्मना ॥चतस्रो देवता ह्येताः संमतेन द्विजन्मनाम् ॥५॥अथ तस्य महीपस्य अंबानामाभवत्सुता ॥तथान्या वृद्धसंज्ञा च रूपौदार्यगुणान्विते ॥६॥उभे ते काशिराजेन परिणीते द्विजोत्तमाः ॥गृह्योक्तेन विधानेन देवविप्राग्निसंनिधौ ॥७॥कस्यचित्त्वथ कालस्य काशिराजस्य भूपतेः ॥तैः कालयवनैः सार्धमभवत्संगरो महान् ॥८॥अथ तैर्निहतः संख्ये सभृत्यबलवाहनः ॥हरलब्धवरै रौद्रैः काशिराजः प्रतापवान् ॥९॥अथांबा चैव वृद्धा च वैधव्यं प्राप्य दुःखदम् ॥हाटकेश्वरजं क्षेत्रं गत्वा ते वांछितप्रदम् ॥१०॥देव्या आराधने यत्नं कृतवत्यौ ततः परम् ॥नाशार्थं पतिशत्रूणां धृतवत्यौ शुभव्रतम् ॥११॥यावद्वर्षशतं साग्रं न च तुष्टा सुरेश्वरी ॥ततो वैराग्यमासाद्य वांछंत्यौ स्वतनुक्षयम् ॥१२॥मंत्रैराथर्वणैर्विप्राः क्षुरिकासूक्तसंभवैः ॥छित्त्वाच्छित्त्वा स्वमांसानि मंत्रपूतानि भक्तितः ॥१३॥कृतवत्यौ ततो होमं सुसमिद्धे हुताशने ॥अग्निकुण्डात्ततस्तस्माश्चतुर्हस्ता शुभानना ॥१४॥श्वेतवस्त्रा विनिष्क्रांता नारी बालार्कसव्रिभा ॥तथान्या च सुनेत्रास्या तप्तहाटकसन्निभा ॥१५॥तस्मात्कुण्डाद्विनिष्क्रांता धृतखड्गा भयावहा ॥साऽपरापि तथारूपा शक्तिः परमदारुणा ॥१६॥प्रोचतुस्ते वरं हृत्स्थं प्रार्थ्यतामिति दुर्लभम् ॥१७॥ ॥ ते ऊचतुः ॥अस्माकं दयितो भर्त्ता काशिराजः प्रतापवान् ॥निहतः संगरे क्रुद्धैर्यवनैः कालपूर्वकैः ॥१८॥युष्मदीय प्रसादेन यथा तेषां परिक्षयः ॥सञ्जायते महादेव्यौ तथा कार्यमसंशयम् ॥१९॥स्थातव्यं च तथात्रैव उभाभ्यामपि सादरम् ॥स्वपुरस्य प्ररक्षार्थमेतत्कृत्यं मतं हि नौ ॥२०॥तयोस्तद्वचनं श्रुत्वा उभे ते देवते ततः ॥संप्रोच्य बाढमित्येवं तस्मिन्कुण्डे व्यवस्थिते ॥२१॥एतस्मिन्नंतरे तस्मात्कुण्डाच्छतसहस्रशः ॥निष्क्रांताः संख्यया हीना मातरो नैकरूपिकाः ॥२२॥एका गजमुखी तत्र तथान्या तुरगानना ॥सारमेय मुखाश्चान्याः पक्षिच्छागमुखाः पराः ॥२३॥तिर्यञ्च वपुषश्चान्या वक्त्रैर्मानुषसंभवैः ॥त्रिशीर्षाः पञ्चशीर्षाश्च दशशीर्षास्तथा पराः ॥२४॥गुह्य स्थानस्थितैर्वक्त्रैरेकाश्चान्या हृदिस्थितैः ॥पार्श्वसंस्थैः स्थिताश्चान्या अन्याः पृष्ठिगतैर्मुखैः ॥२५॥एकहस्ता द्विहस्ताश्च पञ्चहस्तास्तथापराः ॥अन्या विंशतिहस्ताश्च विहस्ताश्च तथापराः ॥२६॥बहुपादा विपादाश्च एकपादास्तथापराः ॥तथान्याश्चार्धपादाश्च अधोवक्त्रा विभीषणाः ॥२७॥एकनेत्रा द्विनेत्राश्च त्रिनेत्राश्च तथापराः ॥काश्चिद्गजसमारूढा हयारूढास्तथापराः ॥२८॥वृषवानरसिंहाजव्याघ्रसर्पास्थिताः पराः ॥गोधाश्वरासभारूढास्तथा च विहगाश्रिताः ॥२९॥कूर्मकुक्कुटसर्पादिसमारूढाः सहस्रशः ॥प्रकुर्वंत्यो रुदन्त्यश्च गायन्त्यश्च तथा पराः ॥नृत्यंत्यश्च हसंत्यश्च क्रीडासक्ताः परस्परम् ॥३०॥ऊर्ध्वकेशा विकेशाश्च गात्रकेशाश्च भूरिशः ॥लंबकेशा विकेशाश्च वाजिकेशास्तथैव च ॥३॥ह्रस्वदन्त्यो विदंत्यश्च दीर्घदन्त्यो विभीषणाः ॥गजदंत्यस्तथैवान्या लोहदंत्योभयावहाः ॥३२॥लंबकर्ण्यो विकर्ण्यश्च शूर्पकर्ण्यस्तथा पराः ॥शंकुकर्ण्यः कुकर्ण्यश्च बहुकर्ण्यः सुकर्णिकाः ॥३३॥एकवस्त्रा विवस्त्राश्च बहुवस्त्रास्तथा पराः ॥चर्मप्रावरणाश्चैव कथाप्रावरणान्विताः ॥३४॥खङ्गहस्ताः शराहस्ताः कुंतहस्ताश्च भीषणाः ॥पाशहस्तास्तथैवान्याः प्रासचापकराः पराः ॥शूलमुद्गरहस्ताश्च भुशुंडिकरभूषिताः ॥३५॥अथ ताभ्यां तथाऽऽकर्ण्य ताः सर्वा हर्षसंयुताः ॥प्रस्थितास्तत्र ता यत्र ते कालयवनाः स्थिताः ॥३६॥ततस्ते तत्समालोक्य बलं देवीसमुद्रवम् ॥रौद्र रूपधरं तीव्रं विकृतं विकृतैर्मुखैः ॥३७॥विषण्णवदनाः सर्वे भयभीता समंततः ॥धावतो भक्षितास्ताभिर्देवताभिः सुनिर्दयम् ॥३८॥बालवृद्धसमोपेतं तेषां राष्ट्रं दुरात्मनाम् ॥स्त्रीभिश्च सहितं ताभिर्देवताभिः प्रभक्षितम् ॥३९॥एवं निर्वास्य तद्राष्ट्रं सर्वास्ता हर्षसंयुताः ॥भूय एव निजं स्थानं संप्राप्ता द्विजसत्तमाः ॥४०॥ततः प्रोचुः प्रणम्योच्चैस्ताभ्यां विनयपूर्वकम् ॥हतास्ते यवनाः कृष्णाः सपुत्रपशुबांधवाः ॥४॥उद्वासितस्तथा सर्वो देशस्तेषां स वै महान् ॥सांप्रतं दीयतां कश्चिदाहारस्तृप्तिहेतवे ॥निवासाय ततः स्थानं किंचिच्चावेद्यतां हि नः ॥४२॥ ॥ देव्यावूचतुः ॥मर्त्यलोकेऽत्र या नार्यो गर्भवत्यः स्वपंति च ॥संध्याकालप्रकाशे च तासां गर्भोऽस्तु वो द्रुतम् ॥४३॥रुदंत्यो या विनिर्यांति चत्वरेषु त्रिकेषु च ॥तासां गर्भस्तु युष्माकं संप्रदत्तः प्रभुज्यताम् ॥४४॥उच्छिष्टा याः प्रसर्पंति रमन्ते च स्वपंति च ॥तासां गर्भः समस्तानां युष्माकं भोज नाय वै ॥४५॥सूतिकाभवने यस्मिन्नुच्छिष्टं चोपजायते ॥स बालकस्तु युष्माकं भोजनाय प्रकल्पितः ॥४६॥न षष्ठीजागरो यस्य बालकस्य भविष्यति ॥स भविष्यति भोज्याय युष्माकं नात्र संशयः ॥४७॥नाशं यास्यति वा यत्र पावकः सूतिकागृहे ॥स भविष्यति भोज्याय युष्माकं बालरूपधृक् ॥४८॥मांगल्यैः संपरित्यक्तं यद्भवेत्सूतिकागृहम् ॥तस्मिन्यस्तिष्ठते बालः स युष्माकं प्रकल्पितः ॥४९॥संध्यायां बालका ये वा स्वपंत्याकाशदेशगाः ॥ते सर्वे भोजनार्थाय युष्माकं संनिवेदिताः ॥५०॥यस्य जन्मदिने प्राप्ते वर्षांते क्रियते न च ॥मांगल्यं तस्य यद्गात्रं तद्युष्माकं प्रकल्पितम् ॥५१॥तैलाभ्यंगं नरः कृत्वा यश्च स्नानं करोति न ॥स दत्तो भोजनार्थाय युष्माकं नात्र संशयः ॥५२॥उच्छिष्टो यः पुमांस्तिष्ठेद्यो वा चत्वरमध्यगः ॥भक्षणीयः स सर्वाभिर्निर्विकल्पेन चेतसा ॥५३॥रजस्वलां व्रजेद्यो वा पुरुषः काममोहितः ॥नग्नः शेते तथा स्नाति भक्षणीयः स सत्वरम् ॥५४॥दक्षिणाभिमुखो रात्रौ यश्च स्नाति विमूढधीः ॥शेते च शयने सोऽपि भक्षणीयश्च सत्वरम् ॥५५॥उदङ्मुखश्च यो रात्रौ दिवा वा दक्षिणामुखः ॥मूत्रोत्सर्गं पुरीष वा प्रकुर्याद्भक्ष्य एव सः ॥५६॥यः कुर्याद्रजनीवक्त्रे दधिसक्तुप्रभक्षणम् ॥अंत्यजाभिगमं चाथ भक्षणीयो द्रुतं हि सः ॥५७॥ ॥ सूत उवाच ॥एवं ताभ्यां तदा प्रोक्ता देवतास्ताः समंततः ॥परिवार्य तदा तस्थुः संप्रहृष्टेन चेतसा ॥५८॥एतस्मिन्नंतरे राजा चमत्कारः प्रतापवान् ॥प्रासादं निर्ममे ताभ्यां कैलासशिखरोपमम् ॥५९॥ततः प्रभृति ते ख्याते क्षेत्रे तत्र महोदये ॥अंबावृद्धाभिधाने च पुररक्षापरे सदा ॥६०॥यः पुमान्प्रातरुत्थाय ताभ्यां पश्यति चाननम् ॥तस्य संवत्सरंयावन्न च च्छिद्रं प्रजायते ॥६१॥वृद्ध्यादौ वाथ चांते वा ताभ्यां पूजां करोति यः ॥न तस्य जायते च्छिद्रं कथंचिदपि भूतले ॥६२॥यात्राकाले पुमान्यश्च ताभ्यां पूजां समाचरेत् ॥स वांछितफलं प्राप्य शीघ्रं स्वगृहमाप्नुयात् ॥६३॥सदाष्टम्यां चतुर्दश्यां यस्ताभ्यां बलिमाहरेत् ॥स कामानाप्नुयादिष्टानिह प्रेत्य च सद्गतिम् ॥६४॥यो महानवमीसंज्ञे दिवसे श्रद्धयान्वितः ॥ताभ्यां समाचरेत्पूजां स सदा स्यादकण्टकी ॥६५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्येंऽबावृद्धामाहात्म्यवर्णनंनामाष्टाशीतितमोऽध्यायः ॥८८॥ N/A References : N/A Last Updated : December 26, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP