संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|नागरखण्ड| अध्याय ३१ नागरखण्ड अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ अध्याय २०९ अध्याय २१० अध्याय २११ अध्याय २१२ अध्याय २१३ अध्याय २१४ अध्याय २१५ अध्याय २१६ अध्याय २१७ अध्याय २१८ अध्याय २१९ अध्याय २२० अध्याय २२१ अध्याय २२२ अध्याय २२३ अध्याय २२४ अध्याय २२५ अध्याय २२६ अध्याय २२७ अध्याय २२८ अध्याय २२९ अध्याय २३० अध्याय २३१ अध्याय २३२ अध्याय २३३ अध्याय २३४ अध्याय २३५ अध्याय २३६ अध्याय २३७ अध्याय २३८ अध्याय २३९ अध्याय २४० अध्याय २४१ अध्याय २४२ अध्याय २४३ अध्याय २४४ अध्याय २४५ अध्याय २४६ अध्याय २४७ अध्याय २४८ अध्याय २४९ अध्याय २५० अध्याय २५१ अध्याय २५२ अध्याय २५३ अध्याय २५४ अध्याय २५५ अध्याय २५६ अध्याय २५७ अध्याय २५८ अध्याय २५९ अध्याय २६० अध्याय २६१ अध्याय २६२ अध्याय २६३ अध्याय २६४ अध्याय २६५ अध्याय २६६ अध्याय २६७ अध्याय २६८ अध्याय २६९ अध्याय २७० अध्याय २७१ अध्याय २७२ अध्याय २७३ अध्याय २७४ अध्याय २७५ अध्याय २७६ अध्याय २७७ अध्याय २७८ अध्याय २७९ विषयानुक्रमणिका नागरखण्डः - अध्याय ३१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskrutskand puranपुराणसंस्कृतस्कन्द पुराण अध्याय ३१ Translation - भाषांतर ॥सूत उवाच ॥तथान्यदपि तत्रास्ति नागतीर्थमनुत्तमम् ॥यत्र स्नातस्य सर्पाणां न भयं जायते क्वचित् ॥१॥तत्र श्रावणपञ्चम्यां यो नरः स्नानमाचरेत् ॥कृष्णायां न भयं तस्य कुलेऽपि स्यादहेः क्वचित् ॥२॥तत्र पूर्वं तपस्तप्तं मातुः शापप्रपीडितैः ॥शेष प्रभृतिनागैस्तु मुक्तिहेतोर्हुताशनात् ॥३॥कम्बलाश्वतरौ नागौ तथा ख्यातौ धरातले ॥तत्र तप्त्वा तपस्तीव्रं संसिद्धिं परमां गतौ ॥४॥अनंतो वासुकिश्चैव तक्षकश्च महावलः ॥कर्कोटश्चैव नागेन्द्रो मणिकण्ठस्तथापरः ॥५॥ऐरावतस्तथा शंखः पुण्डरीको महाविषः ॥शेषपूर्वाः स्मृता नागा एतेऽत्र नव नायकाः ॥६॥एतेषां पुत्रपौत्राश्च तेषामपि विभूतिभिः ॥असंख्याभिरिदं व्याप्तं समस्तं धरणीतलम् ॥७॥अथ ते कुटिला दुष्टा भक्षयंति सदा जनान् ॥बहुत्वादपि संस्पर्शादपराधं विनापि च ॥८॥ततः प्रजा इमाः सर्वा ब्रह्माणं शरणं गताः ॥पीडिताः स्म सुरश्रेष्ठ सर्पेभ्यो रक्ष सत्वरम् ॥९॥यावन्न शून्यतां याति सकलं वसुधातलम् ॥व्याप्तं सर्वैस्ततः सर्पैर्विषाढ्यैरतिभीषणैः ॥१०॥अथ तानब्रवीद्ब्रह्मा शेषाद्यान्नवनायकान् ॥स्वसंततेः प्ररक्षध्वं भक्ष्यमाणा इमाः प्रजाः ॥११॥ते तथेति प्रतिज्ञाय जग्मुः सर्वे भुजंगमाः ॥१२॥अथ तेषां बहुत्वाच्च नैव रक्षा प्रजायते ॥वारिता अपि ते यस्मात्प्रकुर्वंति प्रजाक्षयम् ॥१३॥ततः कोपपरीतात्मा तानाहूय कुलाधिपान् ॥तानुवाच स्वयं ब्रह्मा सर्वदेवसमागमे ॥१४॥भक्षयंति यतः सर्पा अपराधं विना प्रजाः ॥वारिता अपि ते तस्मात्तान्निगृह्णामि सांप्रतम् ॥१५॥भविष्यति महीपालो भूतले जनमेजयः ॥चित्रभानुर्मखे तस्य सर्पान्संभक्षयिष्यति ॥१६॥मातुः शापाद्विशेषेण मंत्राकृष्टा द्विजोत्तमैः ॥स्वयमेव पतिष्यंति सुसमिद्धे हुताशने ॥१७॥तच्छ्रुत्वा वेपमानास्ते सर्पाणां नवनायकाः ॥प्रोचुः प्रांजलयः सद्यः प्रणिपत्य पितामहम् ॥१८॥भगवन्कुटिला ज्ञातिरस्माकं भवता कृता ॥तत्कस्मात्कुरुषे कोपं जातिधर्मानुवर्तिनाम् ॥१९॥ब्रह्मोवाच ॥यदि नाम मया सृष्टा यूयं दिष्ट्या विषोल्बणाः ॥अपराधं विना कस्माद्भक्षयध्व इमाः प्रजाः ॥२०॥ ॥नागा ऊचुः ॥मर्यादां कुरु देवेश अस्माकं मानवैः सह ॥अथवा संप्रयच्छस्व स्थानं मानुषवर्जितम् ॥२१॥पारिक्षितमखे तस्मिन्सर्पाणां चित्रभानुना ॥समंताद्दह्यमानानां रक्षोपायं प्रचिंतय ॥२२॥यथा न संततिच्छेदो जायते प्रपितामह ॥अस्माकं सर्वलोकेषु तथा त्वं कर्तुमर्हसि ॥२३॥ ॥ब्रह्मोवाच ॥जरत्कारुरिति ख्यातो भविष्यति क्वचिद्द्विजः ॥स संतानकृते भार्यां भूमावन्वेषयिष्यति ॥२४॥भाविनी च भवद्वंशे जरत्कन्या सुशोभना ॥सा देया चादरात्तस्मै पुत्रार्थं वरवर्णिनी ॥२५॥ताभ्यां यो भविता पुत्रः स शेषान्रक्षयिष्यति ॥सर्पाञ्छुद्धसमाचारान्मर्यादासु व्यवस्थितान् ॥२६॥सुतलं नितलं चैव तथैव वितलं च यत् ॥तस्याधस्ताच्चतुर्थे च वसतिर्वो धरातले ॥२७॥मया दत्तेऽतिरम्ये च सर्वभोगसमन्विते ॥तस्माद्व्रजत तत्रैव परित्यज्य महीतलम् ॥२८॥तत्र भुंजथ सद्भोगा न्गत्वाऽऽशु मम शासनात् ॥पुत्रपौत्रसमोपेतांस्त्रिदशैरपि दुर्लभान् ॥२९॥ ॥नागा ऊचुः ॥भोगानपि प्रभुंजाना न वयं तत्र पद्मज ॥शक्नुमो वस्तुमुर्व्यां नस्तस्मात्स्थानं प्रदर्शय ॥मर्यादया वर्तयामो यत्रस्था मानवैः समम् ॥३०॥ ॥ब्रह्मोवाच ॥एषा तिथिर्मया दत्ता युष्माकं धरणीतले ॥पंचमी शेषकालस्तु नेयस्तत्रं रसातले ॥३१॥तत्रागतैर्न हंतव्या मानवा दोषवर्जिताः ॥मंत्रसंरक्षितांगाश्च तथौषधिकृतादराः ॥३२॥चमत्कारपुरे क्षेत्रे मया दत्ता स्थितिः सदा ॥पृथिव्यां कुलमुख्यानां नागानां नागसत्तमाः ॥३३॥ ॥सूत उवाच ॥एवमुक्ताश्च ते नागा ब्रह्मणा सत्वरं ययुः ॥पातालं कुलमुख्याश्च तस्मिन्क्षेत्रे व्यवस्थिताः ॥३४॥तत्र श्रावणपंचम्यां यस्तान्पूजयते नरः ॥स प्राप्नोति नरोऽभीष्टं तेषामेव प्रसादतः ॥३५॥तस्य वंशेऽपि सर्पाणां न भयं स्यान्न किल्बिषम् ॥न रोगो नोपसर्गश्च न च भूतभयं क्वचित् ॥३६॥अपुत्रस्तत्र यः श्राद्धं करोति सुतवांछया ॥पुत्रं विशिष्टमासाद्य पितॄणामनृणो हि सः ॥३७॥तथा वंध्या च या नारी पंचम्यां भास्करोदये ॥श्रावणे कुरुते स्नानं कृष्णपक्षे विशेषतः ॥सा सद्यो लभते पुत्रं स्ववंशोद्धरणक्षमम् ॥३८॥सर्वरोगविनिर्मुक्तं सुरूपं विनयान्वितम् ॥भ्रष्टराज्यो नरो यो वा तत्र स्नानं समाचरेत् ॥३९॥ततः पूजयते नागाञ्छ्रावणे पंचमीदिने ॥स हत्वाऽरिगणा न्सर्वान्भूयोराज्यमवाप्नुयात् ॥४०॥येषां मृत्युर्मनुष्याणां जायते सर्पभक्षणात् ॥न तेषां जायते मुक्तिः प्रेतभावात्कथंचन ॥४१॥यावन्न क्रियते श्राद्धं तस्मिंस्तीर्थे द्विजोत्तमाः ॥तस्मात्सर्वप्रयत्नेन मृतस्याहिप्रदंक्षणात् ॥श्राद्धं कार्यं प्रयत्नेन तस्मिंस्तीर्थेऽहिसंभवे ॥४२॥अत्र वः कीर्तयिष्यामि पुरावृत्तां कथां शुभाम् ॥इन्द्रसेनस्य राजर्षेः सर्वपातकनाशिनीम् ॥४३॥इन्द्रसेनो महीपालः पुरासीद्रिपुदर्पहा ॥अश्वमेधसहस्रेण इष्टं तेन महात्मना ॥४४॥ततः स दैवयोगेन प्रसुप्तः शयने शुभे ॥दष्टः सर्पेण मुक्तश्च इन्द्रसेनो महीपतिः ॥वियुक्तश्चैव सहसा जीवितव्येन तत्क्षणात् ॥४५॥ततस्तस्य सुतोऽभीष्टस्तस्योद्देशेन कृत्स्नशः ॥चकार प्रेतकार्याणि स्मृत्युक्तानि च भक्तितः ॥४६॥गंगायामस्थिपातं च कृत्वा श्राद्धानि षोडश ॥गयां गत्वा ततश्चक्रे श्राद्धं श्रद्धासमन्वितः ॥४७॥अथ स्वप्नांतरे प्राप्तः पिता तस्य स भूपतिः ॥प्रोवाच दुःखितः पुत्रं बाष्पव्याकुललोचनम् ॥४८॥सर्पमृत्योः सकाशान्मे प्रेतत्वं पुत्र संस्थितम् ॥तेन मे भवता दत्तं न किञ्चिदुपतिष्ठते ॥४९॥चमत्कारपुरं क्षेत्रं तस्मात्त्वं गच्छ सत्वरम् ॥तत्र तीर्थे कुरु श्राद्धं सर्पाणां मत्कृते सुत ॥५०॥येन संजायते मोक्षः प्रेतत्वा द्दारुणान्मम ॥स ततः प्रातरुत्थाय तत्स्मृत्वा नृपतेर्वचः ॥५१॥प्रेतरूपस्य दुःखार्तस्तत्तीर्थं सत्वरं गतः ॥चकार च ततः श्राद्धं श्रावणे पंच मीदिने ॥५२॥स्नात्वा श्रद्धासमोपेतः संनिवेश्य पुरोधसम् ॥ततः स दर्शनं प्राप्तो भूयोऽपि च यथा पुरा ॥५३॥तरूपेण दुःखार्तो वाक्यमेतदुवाच ह ॥न मयाऽऽसादितं किञ्चिद्यत्त्वया मत्कृते कृतम् ॥५४॥फलं श्राद्धस्य चात्र त्वं कारणं शृणु पुत्रक ॥श्राद्धार्हा ब्राह्मणाश्चात्र चमत्कारपुरोद्भवाः ॥५५॥क्षेत्रेऽपि गर्हिताः श्राद्धे येऽन्यत्र व्यंगकादयः ॥अत्र यत्क्रियते किञ्चिद्दानं वा व्रतमेव च ॥५६॥तथान्यदपि विप्रार्हं कर्म यज्ञसमुद्भवम् ॥तत्तेषां वचनात्सर्वं पूर्णं स्यादपि खंडितम् ॥परोक्षे वापि संपूर्णं वृथा संजायते स्फुटम् ॥५७॥तस्मादस्मात्पुराद्विप्रान्समानीय ततः परम् ॥मम नाम्ना कुरु श्राद्धं येन मुक्तिः प्रजायते ॥५८॥अथासौ प्रातरुत्थाय स्मरमाणः पितुर्वचः ॥दुःखेन महताविष्टः प्रविवेश पुरोत्तमे ॥५९॥ततश्चान्वेषयामास श्राद्धार्हान्ब्राह्मणान्नृपः ॥यत्नतोऽपि न लेभे स धनाढ्या ब्राह्मणा यतः ॥६०॥न तत्र दुःखितः कश्चिद्दरिद्रोऽपि न दुःखितः ॥नाकर्मनिरतो वापि पाखण्डनिरतोऽथवा ॥६१॥स्थानेस्थाने महानादा उत्सवाश्च गृहेगृहे ॥वेदविद्याविनोदाश्च स्मृति वादास्तथैव च ॥६२॥श्रूयंते याज्ञिकानां च यज्ञकर्मसमुद्भवाः ॥न दुर्भिक्षं न च व्याधिर्नाकालमरणं नृणाम्. ॥न मृत्युः कस्यचित्तत्र पुरे ब्राह्मण सेविते ॥६३॥यथर्तुवर्षी पर्जन्यः सस्यानि गुणवन्ति च ॥भूरिक्षीरस्रवा गावः क्षीराण्याजाविकानि च ॥६४॥यंयं प्रार्थयते विप्रं स श्राद्धार्थं महीपतिः ॥स स तं भर्त्सयामास दुरुक्तैः कोपसंयुतः ॥६५॥धिग्धिक्पापसमाचार क्षत्रियापसदात्मक ॥किं कश्चिद्ब्राह्मणोऽश्नाति प्रेतश्राद्धे विशेषतः ॥६६॥तस्माद्गच्छ द्रुतं यावन्न कश्चिच्छपते द्विजः ॥निहन्ति वा प्रकोपेन स्वर्गमार्गनिरोधकम् ॥६७॥ ॥सूत उवाच ॥ततः स दुःखितो राजा निश्चक्राम भयार्दितः ॥चमत्कारपुरात्तस्माद्वैलक्ष्यं परमं गतः ॥६८॥चिन्तयामास राजेंद्र स्मृत्वावस्थां पितुश्च ताम् ॥किं करोमि क्व गच्छामि कथं मे स्यात्पितुर्गतिः ॥६९॥ततः स सचिवान्सर्वान्प्रेषयित्वा गृहं प्रति ॥एकाकी भिक्षुरूपेण स्थितस्तत्रैव सत्पुरे ॥७०॥स ज्ञात्वा नगरे तत्र ब्राह्मणं शंसितव्रतम् ॥सर्वेषां ब्राह्मणेंद्राणां मध्ये दाक्षिण्यभाजनम् ॥७१॥देवशर्माभिधानं तु शरणागतवत्सलम् ॥आहिताग्निं चतुर्वेदं स्मृतिमार्गानुयायिनम् ॥७२॥ततस्तु प्रातरुत्थाय कृत्वांत्यजमयं वपुः ॥शोधयामास कृच्छ्रेण मलोत्सर्गनिकेतनम् ॥७३॥अथ यः कुरुते कर्म तत्र विष्ठाप्रशोधनम् ॥सोऽभ्येत्य तमुवाचेदं कोपसंरक्तलोचनः ॥७४॥कुतस्त्वमिह संप्राप्तो मद्वृत्तेरुपघातकृत् ॥तस्माद्गच्छ द्रुतं नो चेन्नयिष्ये यमसादनम् ॥७५॥तस्यैवं वदतोऽप्याशु बलात्स पृथिवीपतिः ॥शोधयामास तत्स्थानं देवशर्मसमुद्भवम् ॥७६॥ततः संवत्सरस्यांते चंडालेन द्विजोत्तमाः ॥स प्रोक्त उचिते काले प्रणिपत्य च दूरतः ॥७७॥स्वामिंस्तव कुलेप्येवं गूथाशोधनकर्मकृत् ॥तदस्माकं न चान्यस्य तत्किमन्यः प्रवेशितः ॥७८॥अथ श्रुत्वा च तद्वाक्यं स प्राह द्विजसत्तमः ॥न मया कश्चिदन्योऽत्र निर्दिष्टो गोप्यकर्मणि ॥अधिकारस्त्वयात्मीयस्तथा कार्यो यथा पुरा ॥७९॥तदान्यदिवसे प्राप्ते सोंऽत्यजः कोपसंयुतः ॥शस्त्रमादाय संप्राप्तो वधार्थं तस्य भूपतेः ॥८०॥शस्त्रोद्यतकरं दृष्ट्वा प्रहारेकृतनिश्चयम् ॥ततस्तं लीलया भूयो मुष्टिना मूर्ध्न्यताडयत् ॥८१॥ततस्तस्य विनिष्क्रांते लोचने तत्क्षणाद्द्विजाः ॥सुस्राव रुधिरं पश्चात्पपात गतजीवितः ॥८२॥तं श्रुत्वा निहतं तेन चंडालं निजकिंकरम् ॥देवशर्मातिकोपेन तद्वधार्थमुपागतः ॥८३॥ततः पुत्रैश्च पौत्रैश्च सहितोऽन्यैश्च बन्धुभिः ॥लोष्टैस्तं ताडयामास भर्त्समानो मुहुर्मुहुः ॥८४॥सोऽपि संताड्यमानस्तु प्रहारैर्जर्जरीकृतः ॥वेदोच्चारं ततश्चक्रे दर्शयित्वोपवीतकम् ॥८५॥अथ ते विस्मिताः सर्वे देवशर्मपुरःसराः ॥ब्राह्मणास्तं समुद्वीक्ष्य वेदोच्चारपरायणम् ॥८६॥पृष्टश्च किमिदं कर्म तवांत्यजजनोचितम् ॥एषा वेदात्मिका वाणी स्पष्टाक्षरकलस्वना ॥तत्किं शापपरिभ्रष्टस्त्वं कश्चिद्ब्राह्मणोत्तमः ॥८७॥येनैवं कुरुषे कर्म गर्हितं चांत्यजैरपि ॥ततः स प्रहसन्नाह क्षत्रियोऽहं महीपतिः ॥विष्णुसेन इति ख्यातो हैहयान्वयसंभवः ॥८८॥सोहमाराधनार्थाय त्वस्मिन्स्थान उपागतः ॥अद्य संवत्सरो जातः कर्मण्यस्मिन्रतस्य च ॥८९॥ ॥सूत उवाच ॥तस्य तद्वचनं श्रुत्वा स विप्रः कृपयान्वितः ॥कृतांजलिपुटो भूत्वा तमुवाच महीपतिम् ॥९०॥किं तत्कृत्यं समुद्दिश्य त्वयैतत्कर्म गर्हितम् ॥कृतं कीर्तय येनाशु तवाभीष्टं करोम्यहम् ॥९१॥नास्ति मे किञ्चिदप्राप्तं तथाऽसाध्यं महीपते ॥तस्मात्तव करिष्यामि कृत्यं यद्यपि दुर्लभम् ॥९२॥ ॥राजोवाच ॥पिता ममाहिना दष्टः प्रेतत्वं समुपागतः ॥सोऽत्र नागह्रदे श्राद्धे कृते मुक्तिमवाप्नुयात् ॥९३॥तस्मात्तत्तारणार्थाय विप्रकृत्यं समाचर ॥एतदर्थं मयैतत्ते कृतं कर्म विगर्हितम् ॥९४॥ ॥देवशर्मोवाच ॥एवं कुरु नृपश्रेष्ठ श्राद्धेऽहं ते पितुः स्वयम् ॥ब्राह्मणः संभविष्यामि तस्माच्छ्राद्धं समाचर ॥९५॥ ॥सूत उवाच ॥अथ ते सुहृदस्तस्य पुत्राः पौत्राश्च बांधवाः ॥प्रोचुर्नैतत्प्रयुक्तं ते श्राद्धं भोक्तुं विगर्हितम् ॥९६॥तस्माद्यदि भवानस्य श्राद्धे भोक्ता ततः स्वयम् ॥सर्वे भवन्तं त्यक्षामस्तथान्येऽपि द्विजोत्तमाः ॥९७॥ ॥देवशर्मोवाच ॥कामं त्यजत मां सर्वे यूयमन्येऽपि ये द्विजाः ॥मयैवास्य प्रतिज्ञातं भोक्तुं श्राद्धे महीपतेः ॥९८॥एवमुक्त्वा स विप्रेंद्रस्तेनैव सहितस्तदा ॥नागह्रदं समासाद्य श्राद्धे वै भुक्तवानथ ॥९९॥भुक्तमात्रे ततस्तस्मिन्वागुवाचाशरीरिणी ॥नादयंती जगत्सर्वं हर्षयंती महीपतिम् ॥१००॥प्रेतभावाद्विनिर्मुक्तः पुत्राहं त्वत्प्रभावतः ॥स्वस्ति तेऽस्तु गमिष्यामि सांप्रतं त्रिदिवालयम् ॥१०१॥तत्कृत्वा नृपतिर्हृष्टस्तं प्रणम्य द्विजोत्तमम् ॥प्रोवाच कुरु मे वाक्यं यद्ब्रवीमि द्विजोत्तम ॥१०२॥अस्ति माहिष्मतीनाम नगरी नर्मदातटे ॥सा चास्माकं राजधानी पितृपर्यागता विभो ॥१०३॥अहं यच्छामि ते ब्रह्मन्समस्तविषयान्विताम् ॥मया भृत्येन तत्रस्थः कुरु राज्यमकंटकम् ॥१०४॥ ॥देवशर्मोवाच ॥न चैतद्युज्यते वक्तुं न विप्रो राज्यमर्हति ॥तस्माद्गच्छ निजं राज्यं परिपालय पार्थिव ॥ ॥सूत उवाच ॥एवं विसर्जितस्तेन जगाम स महापतिः ॥स्वं देशं हर्षसंयुक्तः कृतकृत्यो द्विजोत्तमाः ॥१०६॥सोऽपि सर्वैः परित्यक्तो ब्राह्मणैः पुरवासिभिः ॥देवशर्मा समुद्दिश्य दोषं श्राद्धसमुद्भवम् ॥१०७॥ततो नागह्रदे तस्मिन्स कृत्वा निजमन्दिरम् ॥निवासमकरोत्तत्र स्वाध्यायनिरतः शुचिः ॥१०८॥तत्रस्थस्य निरस्तस्य ये पुत्राः स्युर्द्विजोत्तमाः ॥तेषां संततयो ऽद्यापि ते प्रोक्ता बाह्यवासिनः ॥१०९॥एतद्वः सर्वमाख्यातं नागतीर्थसमुद्भवम् ॥माहात्म्यं ब्राह्मणश्रेष्ठाः सर्वपातकनाशनम् ॥११०॥यश्चैतत्पठते भक्त्या संप्राप्ते पंचमीदिने ॥शृणुयाद्वा न वंशेऽपि तस्य स्यात्सार्पजं भयम् ॥१११॥तथा विमुच्यते पापाद्भक्षजातान्न संशयः ॥कृतादज्ञानतो विप्राः सत्यमेतन्मयोदितम् ॥११२॥तस्मात्सर्वप्रयत्नेन नागतीर्थमनुत्तमम् ॥माहात्म्यं पठनीयं वा श्रोतव्यं वा समाहितैः ॥११३॥श्राद्धकाले तु संप्राप्ते यश्चैतत्पठते द्विजः ॥स प्राप्नोति फलं कृत्स्नं गयाश्राद्धसमुद्भवम् ॥११४॥तथा ये कीर्तिता दोषाः श्राद्धे द्रव्यसमुद्भवाः ॥व्रतवैक्लव्यजाश्चापि तथा ब्राह्मणसंभवाः ॥११५॥ते सर्वे नाशमायांति कीर्त्यमाने समाहितैः ॥नागह्रदस्य माहात्म्ये श्राद्धकाल उपस्थिते ॥११६॥तथा विनिहता गोभिर्ब्राह्मणैः श्वापदैरपि ॥एतस्मिन्पठिते श्राद्धे गच्छंति परमां गतिम् ॥११७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां षष्ठे नागरखण्डे हाटकेश्वरक्षेत्रमाहात्म्ये नागह्रदमाहात्म्यवर्णनंनामैकत्रिंशोऽध्यायः ॥३१॥ N/A References : N/A Last Updated : December 21, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP