संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|मथुराखण्डः| अध्यायः १४ मथुराखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ मथुराखण्डः - अध्यायः १४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता नन्देन सह उद्धवस्य मिलनं कृष्णस्य कुशलवर्णनम् Translation - भाषांतर श्रीनारद उवाच -एवं प्रेमभरान् गोपान् श्रीकृष्णविरहातुरान् ।उवाच प्रेमसंयुक्त उद्धवो गतविस्मयः ॥१॥उद्धव उवाच -अहं श्रीकृष्णोदासोऽस्मि तत्प्रियस्तद्रहस्करः ।भवतां कुशलं द्रष्टुं प्रेषितो हरिणा त्वरम् ॥२॥पुरीं गत्वाऽथ हरये निवेद्य विरहं तु वः ।तं प्रसन्नं करिष्यामि तदङ्घ्रौ नेत्रवारिभिः ॥३॥नात्वा हरिं हि भवतां समीपं हे व्रजौकसः ।आगमिष्याम्यहं शीघ्रं शपथो न मृषा मम ॥४॥यूयं प्रसन्ना भवत मा शोकं कुरुताथ वै ।अस्मिन्व्रजेऽपि गोपाला द्रक्ष्यथ श्रीपतिं हरिम् ॥५॥श्रीनारद उवाच -एवमाश्वास्य गोपालान् रथस्थो यदुनन्दनः ।श्रीदामाद्यैश्व गोपालैः सहितो हर्षपूरितः ॥६॥विवेश नन्दनगरं सूर्ये सिन्धुगते सति ।आगतं ह्युद्धवं श्रुत्वा नन्दराजो महामतिः ।परिरभ्य मुदा शीघ्रं पूजयामास हर्षितः ॥७॥कशिपुस्थं स्थितं शांतमुद्धवं कृतभोजनम् ।कशिपुस्थो नंदराजः प्राह गद्गदया गिरा ॥८॥नन्द उवाच -कच्चित्सखा मे पुरि शूरसेनआस्ते स्वपुत्रैः कुशली महामते ।कंसे मृते यादवपुंगवानांजातं सखे सौख्यमतः परं भुवि ॥९॥कच्चित्कदाचित्सबलो हि माधवःस्मरत्यसौ वा जननीं यशोमतीम् ।गोपालगोवर्धनगोगणान्व्रजंवृन्दावनं वा पुलिनं तरंगिणीम् ॥१०॥हा दैव कस्मिन्समये स्वनन्दनंबिंबाधरं सुन्दरमंबुजेक्षणम् ।द्रक्ष्याम्यहं मन्दिरचत्वाराजिरेऽर्भकैर्लुठंतं सबलं मुहुर्मुहुः ॥११॥कुंजो निकुंजो यमुना महानदीगोवर्धनोऽरण्यमिदं वनानि ।गृहैर्लतावृक्षगवां गणैः सहविना मुकुंदं विषवत्त्विदं जगत् ॥१२॥धिग्जीवनं मे शयनं च भोजनंकृष्णं विना पद्मदलायतेक्षणम् ।चन्द्रं विना भूमितले चकोरव-ज्जीवामि तस्यागमनाशया भृशम् ॥१३॥हर्तुं भुवो भरमतीव दैवतैःसंप्रार्थितं पूर्णतमं महामते ।जातं सतां रक्षणतत्परं स्वयंमन्ये हि कृष्णं सबलं परात्परम् ॥१४॥श्रीनारद उवाच -संस्मृत्य संस्मृत्य हरिं परेशंबभूव तूष्णीं नवनन्दराजः ।शिरो निधायाप्युपबर्हणे स्वेह्युत्कंठरोमांचितविह्वलांगः ॥१५॥श्रीनन्दनेत्रांबुजवारिसंततीराजंस्तदा कृष्णसखस्य पश्यतः ।शय्यां सवस्त्रामुपबर्हणांतांकृत्वाऽऽर्द्रतां प्रांगण आचचाल ॥१६॥श्रुत्वोद्धवं श्रीमथुरापुरागतंकपाटमेत्याशु यशोमती सती ।शृण्वंत्यलं स्वस्य सुतस्य वर्णनंस्नेहस्रवत् सुस्तननेत्रपंकजा ॥१७॥विहाय लज्जां घृणया सुतस्यसा पप्रच्छ सर्वं कुशलं तदोद्धवम् ।आप्रोक्ष्य वस्त्रेण दृगश्रुतसंततिंस्थिते च नन्दे हरिभावविह्वले ॥१८॥श्रीयशोदोवाच -क्वचित्स्मरति मां कृष्णो नन्दराजमथापि वा ।भ्रातरं नंदराजस्य सन्नन्दं दर्शनोत्सुकम् ॥१९॥नंदानवोपनन्दांश्च वृषभानून् व्रजेषु षट् ।येषामारोहमास्थाय बालकेलिर्वने वने ॥२०॥कंदुकक्रीडया रेमे सानन्दं नन्दनन्दनः ।तान्गोपान् स्नेहसंयुक्तान्कदाचित्स्मरति स्वतः ॥२१॥एकोऽयं मे सुतः प्राप्तो न सुता बहवश्च मे ।सोऽपि मां जननीं दीनां ययौ त्यक्त्वा दिगंतरम् ॥२२॥अहो कष्टं स्नेहवतां दुर्निवारं महामते ।किं करोमि विना पुत्रं कथं जीवामि मानद ॥२३॥मातर्मह्यं देहि दधि मातर्हैयंगवं नवम् ।एवं वदन्स मधुरं हठं चक्रे सदा गृहे ॥२४॥मध्याह्ने स कथं कृष्णो भोजनं कर्तुमर्हति ।ममात्मजोऽयं श्रीकृष्णो जीवनं व्रजवासिनाम् ।व्रजे धनं कुले दीपो मोहनो बाललीलया ॥२५॥लालनैः पालनैस्तस्य दिनं मे क्षणवद्गतम् ।तद्दिनं कल्पवज्जातं विनाऽहो नन्दनन्दनम् ॥२६॥वत्सान्वारयितुं कृष्णो ग्रामसीम्नि नदीतटे ।न कारितोऽर्भकैः सार्द्धं स चाहो मथुरां गतः ॥२७॥हे मोहनेति दूरात्तमंकं नीत्वाऽथ लालनम् ।चकार नंदराजोऽयं तं विना खिन्नतां गतः ॥२८॥अहो दाम्ना मया बद्धो निर्मोहिन्यैकदा शिशुः ।भांडे भग्नीकृते दध्नः शोचमि चरितं च तत् ॥२९॥तत्प्राङ्गणं सर्वसभा च मन्दिरंद्वारश्च वीथीर्व्रजहर्म्यपृष्ठयः ।शून्यं समस्तं मम जीवनं धि-ग्विना मुकुंदं विषवत्विदं जगत् ॥३०॥श्रीनारद उवाच -यशोदानन्दयोर्वीक्ष्य परमं प्रेमलक्षणम् ।उद्धवो नितरां राजन् विस्मितोऽभूद्गतस्मयः ॥३१॥उद्धव उवाच -रोममात्रं मम तनौ जिह्वा चेज्जायते त्वहो ।युवयोस्तदपि श्लाघां कर्तुं नालं महाप्रभू ॥३२॥परिपूर्णतमे साक्षाच्छ्रीकृष्णे पुरुषोत्तमे ।ईदृशी च कृता भक्तिर्युवाभ्यां प्रेमलक्षणा ॥३३॥तीर्थाटनतपोदानसाङ्ख्ययोगैश्च दुर्लभा ।शाश्वती युवयोः प्राप्ता या भक्तिः प्रेमलक्षणा ॥३४॥मा शोकं कुरु हे नन्द हे यशोदे व्रजेश्वरि ।पत्रद्वयं गृहाणाशु कृष्णदत्तं न संशयः ॥३५॥सहाग्रजो नन्दसूनुः कुशल्यास्ते यदोः पुरि ।यादवानां महत्कार्यं कृत्वाऽथ सबलः प्रभुः ॥३६॥ह्रस्वकालेन चात्रापि भगवानागमीष्यति ।परिपूर्णतमं विद्धि श्रीकृष्णं नन्दनन्दनम् ।कंसादीनां वधार्थाय भक्तानां रक्षणाय च ॥३७॥ब्रह्मणा प्रार्थितः कृष्णोऽवततार गृहे तव ।जातमात्रोऽद्भुतां लीलां चकार सबलो हरिः ॥३८॥पूतनाप्राणहरणं शकटस्य निपातनम् ।तृणावर्तनिपातश्च यमलार्जुनभंजनम् ॥३९॥स्वमुखे च यशोदायै विश्वरूपस्य दर्शनम् ।वृन्दावने च भगवान् गोवत्सांश्चारयन् प्रभुः ॥४०॥वधं चकार गोपानां पश्यतां बकवत्सयोः ।अघासुरस्य च वधो धेनुकस्य विमर्दनम् ॥४१॥मर्दनं कालियस्यापि वह्निपानं चकार ह ।प्रलंबस्य वधं पश्चाद्बलदेवश्चकार ह ॥४२॥गोवर्धनं समुत्पाट्य हस्तेनैकेन लीलया ।युष्माकं पश्यतां बिभ्रत्पुष्करं गजराडिव ॥४३॥चूडामणिं शंखचूडाज्जहार जगतां पतिः ।अरिष्टस्य वधं कृत्वा केशिनं निजघान ह ॥४४॥व्योमासुरं महादैत्यं मुष्टिना तं ममर्द ह ।तथा वै मथुरायां तु चक्रे चित्रं महामते ॥४५॥विकथ्यमानं रजकं करेणाभिजघान तम् ।प्रचंडं कंसकोदंडं मध्यतस्तद्बभंज ह ।इक्षुदंडं यथा नागः सर्वेषां पश्यतां नृणाम् ॥४६॥द्विपं कुवलयापीडं नागायुतसमं बले ।शुंडादंडे संगृहीत्वा पातयामास भूतले ॥४७॥चाणूरं मुष्टिकं कूटं शलं तोशलमेव च ।पातयामास भूपृष्ठे मल्लयुद्धेन माधवः ॥४८॥कसं मदोत्कटं दैत्यं नागलक्षसमं बले ।मंचाद्गृहीत्वा तं कृष्णो भ्रामयित्वा भुजौजसा ॥४९॥पातयामास भूपृष्ठे कमंडलुमिवार्भकः ।इभोपरि यथा सिंहस्तस्योपरि पपात सः ॥५०॥कंसानुजांश्च कंकादीन् बलदेवो महाबलः ।ममर्द मुद्गरेणाशु मृगान्वै मृगराडिव ॥५१॥गुरवे दक्षिणां दातुं समुत्पत्य महार्णवे ।शंखरूपं पंचजनं निजघान हरिः स्वयम् ॥५२॥अद्भुतानि चरित्राणि चैतानि श्रीहरिं विना ।कः करोति महानंद तस्मै श्रीहरये नमः ॥५३॥इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे नंदराजोद्धवमेलनं नाम चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP