संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|मथुराखण्डः| अध्यायः ०७ मथुराखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ मथुराखण्डः - अध्यायः ०७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कृष्णकृतं कुवलयापीडवधं तथा कंस-मल्लगण-युद्धम् Translation - भाषांतर श्रीनारद उवाच -रजकस्य शिरश्छेदं कंसो वै रक्षिणां वधम् ।धनुर्भंगं ततः श्रुत्वा परं त्रासमुपागमत् ॥१॥तत्क्षणाद्दुर्निमित्तानि वामाङ्गस्फुरणानि च ।प्रपश्यन्नङ्गभङ्गानि न निद्रां प्राप दैत्यराट् ॥२॥स्वप्ने प्रेतैः समायुक्तस्तैलाभ्यक्तो दिगंबरः ।जपास्रङ्महिषारुढो दक्षिणाशां जगाम सः ॥३॥प्रातःकाले समुत्थाय कार्यभारकराञ्जनान् ।आहूय कारयामास मल्लक्रीडामहोत्सवम् ॥४॥विशालाजिरसंयुक्ते हेमस्तंभसमन्विते ।सभामण्डपदेशाग्रे रंगभूमिर्बभूव ह ॥५॥वितानैर्हेमसंकाशैर्मुक्तादामविलंबिभिः ।सोपानैर्हेममञ्चैश्च रंगभूमिर्बभौ नृप ॥६॥राजमञ्चे रत्नमये मकरन्दार्चिते शुभे ।शक्रसिंहासनं तत्र सोपबर्हणमण्डलम् ॥७॥आतपत्रेण दिव्येन चंद्रमण्डलचारुणा ।हंसाभैर्व्यजनैर्युक्तश्चामरैर्वज्रमुष्टिभिः ॥८॥दशहस्तोच्छ्रितं शश्वद्विश्वकर्मविनिर्मितम् ।तदारुह्य बभौ कंसोऽद्रिशृङ्गे मृगराडिव ॥९॥गायकाः प्रजगुस्तत्र ननृतुर्वारयोषितः ।नेदुर्मृदंगपटहतालभेर्यानकादयः ॥१०॥राजानो मंडलेशाश्च पौरा जानपदा नृप ।ददृशुर्मल्लयुद्धं ते मञ्चे मञ्चे समास्थिताः ॥११॥चाणूरो मुष्टिकः कूटः शलस्तोशल एव च ।व्यायाममुद्गरैर्युक्ता युयुधुस्ते परस्परम् ॥१२॥नन्दराजादयो गोपाः कंसाहूता नताननाः ।दत्वा बलिं परं तस्मा एकस्मिन्मञ्च आश्रिताः ॥१३॥बाणासुरजरासन्धनरकाणां पुरान्नृप ।अन्येषां शंबरादीनां सकाशाद्भूभुजां तथा ॥१४॥बलयश्चाययू राजन् यदुराजाय तत्र वै ।अथ तौ रामकृष्णौ द्वौ मायाबालकविग्रहौ ॥१५॥मल्ललीलादर्शनार्थं ययतू रंगमंडपम् ।गोमूत्रचयसिंदूरकस्तूरीपत्रभृन्मुखम् ।स्रवन्मदमहामत्तं रत्नकुण्डलमंडितम् ॥१६॥गजं कुवलयापीडं रंगद्वारमवस्थितम् ।वीक्ष्य कृष्णो महामात्रं प्राह गंभीरया गिरा ॥१७॥आकर्षयांग नागेन्द्रं मार्गं कुरु ममेच्छया ।नोचेत्वां पातयिष्यामि सनागं भूमिमंडले ॥१८॥महामात्रस्तदा क्रुद्धो नोदयामास तं गजम् ।चीत्कारमुत्कटं दिक्षु कुर्वन्तं नन्दसूनवे ॥१९॥गृहीत्वा तं हरिं सद्यः शुंडादण्डेन नागराट् ।उज्जहार ततस्तस्मान्निर्गतो भारभृद्धरिः ॥२०॥तत्पादेषु विलीनोऽभूत्प्रभ्रन्सन्नितस्ततः ।वृन्दावननिकुञ्जेषु वृक्षेषु च यथा हरिः ॥२१॥करे जग्राह तं नागः शुण्डादण्डेन चांघ्रिषु ।निष्पीड्य शुण्डां हस्तभ्यां हरिः पश्चाद्विनिर्गतः ॥२२॥तिर्यग्भूतश्च तं नागो गृहीतुमुपचक्रमे ।मुष्टिना तं घातयित्वा पुरो दुद्राव माधवः ॥२३॥तमन्वधावन्नागेन्द्रो मथुरायां विदेहराट् ।कोलाहले तदा जाते हरिस्तस्मादितो ययौ ॥२४॥पुच्छे गृहीत्वा तं नागं बलदेवो महाबलः ।चकर्ष भुजदंडाभ्यां फणिनं गरुडो यथा ॥२५॥प्रहसन्भगवान्कृष्णो गृहीत्वा तं करे बलात् ।चकर्ष भुजदण्डाभ्यां कूपरज्जुं यथा नरः ॥२६॥द्वयोराकर्षणान्नागो विह्वलोऽभून्नृपेश्वर ।महामात्रास्तदा सप्त रुरुहुस्तं गजं बलात् ॥२७॥नीता गजास्तथा चान्यैः कृष्णं हंतुं शतत्रयम् ।अंकुशास्फालनात्क्रुद्धं मत्तेभं पुनरागतम् ॥२८॥श्रीकृष्णो भगवान्साक्षाद्बलदेवस्य पश्यतः ॥२९॥शुंडादंडे संगृहीत्वा भ्रामयित्वा त्वितस्ततः ।पातयामास भूपृष्ठे कमंडलुमिवार्भकः ॥३०॥दूरे प्रपतितास्तस्य महामात्रा इतस्ततः ।सतां प्रपश्यतां नागः सद्यो वै निधनं गतः ॥३१॥तज्ज्योतिः श्रीघनश्यामे लीनं जातं विदेहराट् ।दंतावुत्पाट्य तस्यापि रामकृष्णौ महाबलौ ।निजघ्नतुर्महामात्रान् मृगान्केसरिणो यथा ॥३२॥द्विपे हतेऽपि ये चान्ये महामात्रा इतस्ततः ।विदुद्रुवुर्यथा मेघा वर्षाकाले गते सति ॥३३॥एवं हत्वा द्विपं गोपैः शेषैस्तैः प्रेक्षणोत्सुकैः ।जयारावै रामकृष्णौ श्रमवारिमदांकितौ ॥३४॥परिश्रमारुणमुखौ रंगं विविशतुस्त्वरम् ।दंतपाणी महावेगौ यथाशामनिलानलौ ॥३५॥मल्लाश्च मल्लं च नरा नरेंद्रंस्त्रियः स्मरं गोपगणा व्रजेशम् ।पिता सुतं दंडधरं ह्यसंतोमृत्यं च कंसो विवुधा विराजम् ॥३६॥तत्त्वं परं योगिवराश्च भोजादेवं तदा रंगगतं बलेन ।पृथक् पृथग्भावनया ह्यपश्य-न्सर्वे जनास्तं परिपूर्णदेवम् ॥३७॥हतं द्विपं वीक्ष्य च तौ महाबलौकंसो मनस्वी भयमाप चेतसि ।मंचस्थिता हर्षितमानसाश्चचंद्रं चकोरा इव ते सुखं ययुः ॥३८॥कर्णे च कर्णं विनिधाय नागरामहोत्सुकास्ते ह्यवदन्परस्परम् ।एतौ हि साक्षात्परमेश्वरौ परौबभूवतुर्वै वसुदेवनंदनौ ॥३९॥अहोऽतिरम्यं व्रजमंडलं परंयत्रैष साक्षाद्विचचार माधवः ।कृत्वा हि यद्दर्शनमद्य दुर्लभंवयं कृतार्थास्तु भवेम सर्वतः ॥४०॥श्रीनारद उवाच -वदत्सु पौरलोकेषु नदत्तूर्येषु मैथिल ।चाणुरस्तावुपव्रज्य रामकृष्णावुवाच ह ॥४१॥चाणूर उवाच -हे राम हे कृष्ण युवां महाबलौराज्ञः पुरो वै कुरुतं मृधं बलात् ।प्रहर्षिते राजनि चेद्यदूत्तमेकिं कीं न भद्रं भवतीह वश्च नः ॥४२॥श्रीभगवानुवाच -पुरैव भद्रं नृपतेः प्रसादतोबाला वयं तुल्यबलैश्च बालकैः ।भूयान्मृधो नो बलवान् यथोचित-मधर्मयुद्धं किल मा भवेदिह ॥४३॥चाणूर उवाच -भवान्न बालो न च वा किशोरोबलश्च साक्षाद्बलिनां बलीयान् ।सहस्रमत्तेभबलं दधानोद्विपो भवद्भ्यां निहतः सलीलम् ॥४४॥श्रीनारद उवाच -एवं तस्य वचः श्रुत्वा भगवान्वृजिनार्दनः ।चाणूरेणापि युयुधे मुष्टिकेन बलो बली ॥४५॥आकर्षणं नोदनं च भुजाभ्यां भुजदण्डयोः ।चक्रतुः पश्यतां नॄणां गजाविव जिगीषया ॥४६॥हस्ताभ्यां वपुरुत्थाप्य चाणूरस्य हरिः स्वयम् ।अतोलयद्देहभारं पुण्यभारं यथा विधिः ॥४७॥चाणूरस्तं हरिं देवं करणैकेन लीलया ।उज्जहार महावीरो भूखंडं नागराडिव ॥४८॥ग्रीवायां किल चाणूरं भुजवेगेन माधवः ।कट्यां चोद्धृत्य सहसा पातयामास भूतले ॥४९॥हस्तैश्च जानुभिः पादैर्भुजोरोऽङ्गुलिमुष्टिभिः ।जघ्नतुः कृष्णचाणूरौ तथैव बलमुष्टिकौ ॥५०॥श्रमवारियुते दृष्ट्वा श्रीमुखे रामकृष्णयोः ।सानुकंपास्तदा प्राहुर्गवाक्षस्था नृपस्त्रियाः ॥५१॥स्त्रिय उचुः -अहो अधर्मः सुमहत्सभायांजातः पुरो राजनि वर्तमाने ।क्व वज्रतुल्यांगवृतौ हि मल्लौक्व पुष्पतुल्यौ बत रामकृष्णौ ॥५२॥अहो ह्यभाग्यं हि पुरौकसां नोयुद्धे तयोर्दर्शनमद्य जातम् ।अहोऽतिधन्यं बत भूरि भाग्यंवनौकसां रासरसेन जातम् ॥५३॥अहो स्थिते राजनि दुष्टचित्तेन कोऽपि वक्तुं क्षम एव सख्यः ।तस्माद्धि नः पुण्यबलेन चेत्तौत्वरं मृधे वै जयतामरीन्स्वान् ॥५४॥इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे कुवलयापीडवधो नाम सप्तमोऽध्यायः ॥७॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP