संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|मथुराखण्डः| अध्यायः १७ मथुराखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ मथुराखण्डः - अध्यायः १७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता राधिकाप्रमुख-गोपीगणानां विरह-खेदोक्तिः - Translation - भाषांतर श्रीनारद उवाच -श्रुत्वा श्रीकृष्णसंदेशं प्रसन्ना गोपवल्लभाः ।अश्रुमुख्यो बाष्पकंठ्य उचुरौपगविं नृप ॥१॥गोलोकवासिन्य उचुः -विदेशं गतवान्कृष्णस्त्यक्त्वा पूर्वप्रियाञ्जनान् ।तदुपर्यलिखद्योगमहो निर्मोहताबलम् ॥२॥द्वारपालिका ऊचुः -चकोरे ग्लौः पंकजेऽर्को भ्रमरे पंकजं यथा ।चातके च घनः प्रीतिं न करोति कदाचन ॥३॥शृंगारप्रकरा ऊचुः -चंद्रमित्रं चकोरोऽस्ति सख्यो वह्निकणः सदा ।विधात्रा यद्विलिखितं तन्न्यूनं न भवेदिह ॥४॥शय्योपाकरिका ऊचुः -व्याधोऽपि हत्वा हि मृगान् स्मरति त्वरमातुरः ।कटाक्षैः स्वप्रियान्हत्वा निर्मोही न स्मरेदहो ॥५॥पार्षदाख्या ऊचुः -जातं विरहजं दुःखं नान्यो वेत्ति कदाचन ।यथा कंटकविद्धांगो विद्वान्वा विद्धकंटकः ॥६॥वृन्दावनपालिका ऊचुः -अनिमित्तं प्रेमसौख्यमनिमित्तो हि वेत्ति तत् ।सनिमित्तो न जानाति रसं कर्मेंद्रियं यथा ॥७॥गोवर्धनवासिन्य ऊचुः -पुरंध्रीप्रेमकृद्यो वै सैरंध्रीनायकोऽभवत् ।शैलौकोभिस्तु किं तस्य बहुना कथितेन किम् ॥८॥कुञ्जविधायिका ऊचुः -हा माधवीकुञ्जपुञ्जे गुञ्जन्मत्तमधुव्रते ।स्वदृग्लक्षीकृतो यो वै तस्येयं श्रूयते कथा ॥९॥निकुञ्जवासिन्य ऊचुः -वृन्दावने मत्तमिलिन्दपुञ्जेकलिन्दजातीरकदम्बकुञ्जे ।शनैश्चलंतं सबलं सगोपंसगोधनं नंदसुतं भजामः ॥१०॥जाह्नवीयूथ उवाच -कदा तथाऽस्मत्समयो भविष्यतियथा पुरंध्रीसमयः प्रदृश्यते ।शोकं परं मा कुरुत व्रजांगनाःसदा न कस्यापि जयः पराजयः ॥११॥यमुनायूथ उवाच -विधातुर्न दया किंचिद्युनक्ति वियुनक्ति यः ।भूतानि सकलान्येव क्रीडनानि यथाऽर्भकः ॥१२॥रमायूथ उवाच -कुब्जापुराद्यर्जुसमानविग्रहादासी त्विदानीं तु कुलीनतां गता ।कुरूपिणी रूपवती बभावहोचतुर्दिनैर्दुन्दुभिनादकारिणी ॥१३॥विरजायूथा ऊचुः -सदा न कस्यापि भुजा प्रियांसेसदा वसंतो न सदा युवा स्यात् ।इन्द्रो न राज्यं कुरुते सदाऽयंचतुर्दिनैर्मानमलंकरोतु ॥१४॥ललितायूथ उवाच -रामाभिषेकं विनिवार्य मंथराचकार विघ्नं किल कोसले पुरे ।कुब्जैव सेयं मथुरापुरे गताकुब्जैव किं किं न करोति गोपिकाः ॥१५॥विशाखायूथ उवाच -गोचारणायानुचरैर्व्रजंतंप्रबोधयंतं स्वपुरं विरावैः ।मत्तेभयानं हि विडंबयंतंश्रीनन्दसूनुं न हि विस्मरामः ॥१६॥मायायूथ उवाच -संकोचवीथीषु पटे प्रगृह्यप्रसह्य दोर्भ्यां हृदये निधाय ।अन्योन्यमाकर्षणहर्षभीति-र्गृहान् हरिं तं हि कदा नयामः ॥१७॥अष्टसख्य ऊचुः -वीक्ष्य नन्दसुतमंग सुन्दरंनेत्रमद्य न जगद्विपश्यति ।नन्दराजतनये पुरीं स्थितेकिं भविष्यति वदाशु नस्त्वरम् ॥१८॥षोडशसख्य ऊचुः -वेणुनादमधुरध्वनिं वनेसंनिश्यम्य कुसुमेषुवर्धनम् ।श्रोत्रयुग्ममिह नः शृणोति नोविश्वगीतमुत वा यशः परम् ॥१९॥द्वात्रिंशत्सख्य ऊचुः -प्रीत्या स्वमित्रं हि रिपुं नयेनलुब्धं धनैश्च द्विजमादरेण ।गुरुं प्रणामै रसिकं रसेननिर्मोहिनं केन वशीकरोति ॥२०॥श्रुतिरूपा ऊचुः -यज्जागरादिषु भवेषु परं ह्यतेर्हेतु-स्विदस्य विचरंति गुणाश्च येन ।नैतद्विशंति महदिंद्रियदेवसंघा-स्तस्मै नमोऽग्निमिव विस्तृतविस्फुलिंगाः ॥२१॥ऋषिरूपा ऊचुः -नैवेशितुं प्रभुरयं बलिनां बलिया-न्माया न शब्द उत नो विषयीकरोति ।तद्ब्रह्म पूर्णममृतं परमं प्रशांतंशुद्धं परात्परतरं शरणं गताः स्मः ॥२२॥देवांगना ऊचुः -अंशांशकांशककलाद्यवतारवृन्दै-रावेशपूर्णसहिताश्च परस्य यस्य ।सर्गादयः किल भवंति तमेव कृष्णंपूर्णात्परं तु परिपूर्णतमं नताः स्मः ॥२३॥यज्ञसीता ऊचुः -श्रीमन्निकुञ्जलतिकाकुसुमाकरोऽयंश्रीराधिका हृदयकण्ठविभूषणोऽयम् ।श्रीरासमंडलपतिर्व्रजमंडलेशोब्रह्मांडमंडलमहीपरिपालकोऽयम् ॥२४॥रमावैकुण्ठनिवासिन्य ऊचुः -यो गोपिका सकलयूथमलंचकारवृन्दावनं च निजपादरजोभिरद्रिम् ।यः सर्वलोकविभाय बभूव भूमौतं भूरिलीलमुरगेन्द्रभुजं भजामः ॥२५॥श्वेतद्वीपसखीजना ऊचुः -यथा शिलींध्रं शिशुरश्रमो गजःस्वपुष्करेणैव च पुष्करं गिरिम् ।धृत्वा बभौ श्रीव्रजराजनन्दनःकृपाकरोऽसौ न हि विस्मृतः क्वचित् ॥२६॥ऊर्ध्ववैकुण्ठवासिन्य ऊचुः -श्यामवर्णमये नेत्रे जगच्छ्यामं विपश्यतः ।न द्वैतं दृश्यते यासां ताभिः किं योगसेवनम् ॥२७॥अजितपदाश्रिता ऊचुः -स्नेहपाशो दृढच्छिन्नो न च्छिन्नो हरिणा विना ।छित्वा तं मथुरां प्रागान्नागपाशं यथा खगः ॥२८॥लोकाचलवासिन्य ऊचुः -कृष्णे लग्नं नेत्रयुग्मं धावद्दशदिशांतरम् ।अहो न लग्नं कुत्रापि पद्मलग्नो यथा ह्यलिः ॥२९॥श्रीसख्य ऊचुः -कार्पण्येन यशो हंति क्रुधा गुणगणोदयम् ।धनानि व्यसनैर्लोकः कपटेनैव मित्रताम् ॥३०॥मैथिला ऊचुः -धनं दत्वा तनुं रक्षेत्तनुं दत्वा त्रपां व्यधात् ।धनं तनुं त्रपां दद्यान्मित्रकार्यार्थमेव हि ॥३१॥कौशला ऊचुः -न कोपि जानाति वियोगजां दशांजीवं विना वक्तुमलं न सापि हि ।भूयादूरोबाणविभिन्नमारा-न्माभूत्कदापि प्रियविप्रयोजनम् ॥३२॥अयोध्यापुरवासिन्य ऊचुः -कृत्वा निराशां विनिधाय चाशांजगाम चाशां मथुरापुरस्य ।योगं च तस्योपरि चालिखन्नोनिर्मोहिनां चित्तमहो विचित्रम् ॥३३॥पुलिंदिका ऊचुः -एनं वरं कर्तुमतीव विह्वलांसमागतां शूर्पणखां पुरा वने ।यः कारयामास विरूपिणीं बला-त्सौमित्रिणा तेन तु वः कृपा कथम् ॥३४॥सुतलवासिन्य ऊचुः -भक्तं बलिं सत्यपरं भूरिदंनीत्वा बलिं यः कुपितो बबन्ध ह ।अहो कथं तस्य करोति सेवनंमायावटोर्वामनरूपधारीणः ॥३५॥जालंधर्य ऊचुःपुरातिकष्टं प्रगतेऽसुरोत्तमेकायाधवे भक्तवरे ततो ह्ययम् ।भूत्वा नृसिंहः कृतवान्सहाय-महो परा निष्ठुरता प्रदृश्यते ॥३६॥भूमिगोप्य ऊचुः -अहोऽतिनिर्मोहिजनस्य चित्रंपरं चरित्रं गदितुं न योग्यम् ।मुखेन चान्यद्धृदि भाव्यमन्य-द्देवो न जानाति कुतो मनुष्यः ॥३७॥इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे गोपीवाक्यं नाम सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP