मथुराखण्डः - अध्यायः ०५

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
हरिरक्रूरामाभ्यां मथुरोपवनं गतः ।
यमुनानिकटं स्थित्वा वारि पीत्वा रथं ययौ ॥१॥
अक्रूरस्तावनुज्ञाप्य स्नातुं श्रीयमुनां गतः ।
नित्यनैमित्तिकं कर्तुं विवेश विमले जले ॥२॥
जले चागाधगंभीरे महावर्तसमाकुले ।
ददर्श रामकृष्णौ तौ वदंतौ गांदिनीसुतः ॥३॥
विस्मतस्तौ रथेऽपश्यत्पुनर्वारि स्थितौ नृप ।
ददर्श तत्र सर्पेन्द्रं कुंडलीभूतमास्थितम् ॥४॥
तस्योत्संगे महालोकं गोलोकं लोकवन्दितम् ।
गोवर्धनाद्रिं यमुनां वृन्दारण्यं मनोहरम् ॥५॥
असंख्यकोटिमार्तण्डज्योतिषां मंडलं प्रभुम् ।
परिपूर्णतमं साक्षाच्छ्रीकृष्णं पुरुषोत्तमम् ॥६॥
कोटिमन्मथलावण्यं रासमंडलमध्यगम् ।
राधया सहितं देवं तत्राक्रूरो ददर्श ह ॥७॥
ज्ञात्वा कृष्णं परं ब्रह्म नत्वा नत्वा पुनः पुनः ।
कृताञ्जलिपुटोऽक्रूरः स्तुतिं चक्रेऽतिहर्षितः ॥८॥
अक्रूर उवाच -
नमः श्रीकृष्णचंद्राय परिपूर्णतमाय च ।
असंख्यांडाधिपतये गोलोकपतये नमः ॥९॥
श्रीराधापतये तुभ्यं व्रजधीशाय ते नमः ।
नमः श्रीनंदपुत्राय यशोदानंदनाय च ॥१०॥
देवकीसुत गोविंद वासुदेव जगत्पते ।
यदूत्तम जगन्नाथ पाहि मां पुरुषोत्तम ॥११॥
वाणी सदा ते गुणवर्णने स्यात्
कर्णौ कथायां मम दोश्च कर्मणि ।
मनः सदा त्वच्चरणारविंदयो-
र्दृशौ स्फुरद्धामविशेषदर्शने ॥१२॥
श्रीनारद उवाच -
एवं संस्तुवतस्तस्य पश्यतो विस्मितस्य च ।
तत्रैवान्तर्दधे कृष्णः सलोको भगवान्प्रभुः ॥१३॥
नत्वा तं च तदाक्रूरः कृत्वा नैमित्तिकं विधिम् ।
ज्ञात्वा कृष्णं परं ब्रह्म विस्मितो रथमाययौ ॥१४॥
दिनात्यये रामकृष्णावानयद्‌गांदिनीसुतः।
रथेन वायुवेगेन स्निग्धगंभीरनादिना ॥१५॥
पुरस्योपवने तत्र वीक्ष्य नंदं यदूत्तमः ।
अक्रूरं प्राह विहसन्मेघगंभीरया गिरा ॥१६॥
श्रीभगवानुवाच -
मथुरायां हि गंतव्यं भवता स्वरथेन वै ।
गोपालैः सहितः पश्चादागमिष्यामि मानद ॥१७॥
अक्रूर उवाच -
देवदेव जगन्नाथ गोविंद पुरुषोत्तम ।
सहाग्रजः सगोपालो गच्छ मे मंदिरं प्रभो ॥१८॥
पादारविंदरजसा पवित्रीकुरु मद्‍गृहम् ।
त्वां विना न गमिष्यामि मंदिरं स्वं जगत्पते ॥१९॥
श्रीभगवानुवाच -
गृहं तवागमिष्यामि हत्वा वै यादवाहितम् ।
सबलो बांधवैः सार्द्धं करिष्यामि तव प्रियम् ॥२०॥
श्रीनारद उवाच -
अथ तत्र स्थिते कृष्णे सोऽक्रूरो मथुरां गतः ।
निवेद्य चेदं कंसाय ततः स्वभवनं ययौ ॥२१॥
अथापराह्णे सबलं गोविन्दं बालकैः पुरीम् ।
द्रष्टुमभ्युदितं वीक्ष्य नंदो वाक्यमथाब्रवीत् ॥२२॥
आर्जवेन पुरीं वीक्ष्यागन्तव्यं भवता किल ।
न गोकुलं विद्धि चैनां कंसराज्ये महाभये ॥२३॥
तथाऽस्तु चोक्त्वा भगवान् वृद्धैर्नन्दप्रणोदितैः ।
गोपालैर्बालकैः सार्द्धं सबलो गतवान्पुरीम् ॥२४॥
प्रासादैर्गगनस्पर्शैर्हेमरत्‍नखचिद्‍गृहैः ।
शोभितां दुर्गसंयुक्तां देवधानीमिव स्थिताम् ॥२५॥
कालिंदीं रत्‍नसोपानैश्चलदूर्मिकुतूहलैः ।
अलकामिव शोभाढ्यां दिव्यनारीनरैर्युताम् ॥२६॥
प्रेक्षञ्छ्रीमथुरां कृष्णो धनिनां मंदिराणी च ।
पश्यन् गोपालकैः सार्द्धं राजमार्गं विवेश ह ॥२७॥
श्रुत्वाऽऽगतं तं वसुदेवनंदनं
बहुश्रुता वै मथुरापुरांगनाः ।
त्यक्त्वाऽथ कर्माणि विसृज्य ताः शिशून्
द्रष्टुं व्यधावन्नुदधिं यथाऽऽपगाः ॥२८॥
काश्चित्तु हर्म्यात्किल जालदेशात्
कुड्यात्तु काश्चित्पटतो गवाक्षात् ।
विनिर्गता द्वारकपाटदेशात्
तच्चत्वरात्तं ददृशुः पुरंध्र्यः ॥२९॥
एकं चलत्कुन्तलमानने स्वे
किमग्रगानां तु मनांसि हर्तुम् ।
पश्चात्कृतं मौलितले दधानं
किं पृष्ठगानां हरणं द्वितीयम् ॥३०॥
पीतांबरार्द्धं बलिनं स्फुरत्कटा-
वर्द्धं तदंसे जलदे यथा तडित् ।
पद्मं करे स्वे हृदि वैजयंतीं
स्रजं दधानं वसुदेवनन्दनम् ॥३१॥
विलोक्य सर्वा मुमुहुः पुरस्त्रियो
विलोलपाठिननवीनकुण्डलम् ।
बालार्कहेमांगदबाहुमंडलं
राजन्नसंख्यांडपतिं परात्परम् ॥३२॥
पुरंध्र्य उचुः -
अहो वृदावनं रम्यं यत्र सन्निहितो ह्ययम् ।
धन्या गोपगणाः सर्वे पश्यंत्येनं मनोहरम् ॥३३॥
धन्या गोपरमण्यस्तास्ताभिः किं सुकृतं कृतम् ।
पिबंति या रासरंगे मुहुश्चास्याधरामृतम् ॥३४॥
श्रीनारद उवाच -
राजमार्गे रंगकारं रजकं यांतमुन्मदम् ।
गोपालानुमतेनैव प्राह तं मधुसूदनः ॥३५॥
देहि नो मित्र वासांसि रुचिराणि महामते ।
दातुस्ते हि परं श्रेयो भविष्यति न संशयः ॥३६॥
प्रज्वलन्कृष्णवाक्येन धृतेनाग्निर्यथा भृशम् ।
कंसभृत्यो महादुष्टः प्राहेदं पथि माधवम् ॥३७॥
रजक उवाच -
ईदृशान्येव वस्त्राणि पितृभिर्वः पितामहैः ।
धारितानि किमुद्‍वृत्तास्ते तु कौपीनधारकाः ॥३८॥
याताशु वन्या नगरात्सर्वे वै जीवितेच्छया ।
कारागारे कारयामि युष्मान् वस्त्रहरानहम् ॥३९॥
श्रीनारद उवाच -
एवं प्रवदतस्तस्य रजकस्य यदूत्तमः ।
जहार मस्तकं सद्यः कराग्रेणैव लीलया ॥४०॥
तज्ज्योतिः श्रीघनश्यामे लीनं जातं विदेहराट् ।
सद्यस्तदनुगाः सर्वे वासःकोशान् विसृज्य वै ॥४१॥
दुद्रुवुः सर्वतो राजन् शरत्काले यथा घनाः ।
गृहित्वाऽऽत्मप्रिये वस्त्रे स्थितयो रामकृष्णयोः ॥४२॥
जगृहुर्गोपबालास्ते राजमार्गजना अपि ।
तद्धारणविदो बाला वासांसि रुचिराणि च ।
अस्तव्यस्तं परिदधुः श्रीकृष्णस्य प्रपश्यतः ॥४३॥
वीक्ष्य तौ वायकः कश्चिच्छ्रीकृष्णबलदेवयोः ।
विचित्रवर्णैर्वासोभिर्दिव्यं वेषं चकार ह ॥४४॥
तथाऽन्येषां शिशूनां च यथायोग्यं विधाय सः ।
राजन्परमया भक्त्या पुनः कृष्णं ददर्श ह ॥४५॥
प्रसन्नो भगवांस्तस्मै प्रादात्सारूप्यमात्मनः ।
बलं श्रियं तथैश्वर्यं बलदेवो ददौ पुनः ॥४६॥

इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे मथुरायां श्रीकृष्णप्रवेशो नाम पञ्चमोऽध्यायः ॥५ ॥

N/A

References : N/A
Last Updated : May 20, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP