संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|मथुराखण्डः| अध्यायः ०८ मथुराखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ मथुराखण्डः - अध्यायः ०८ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कंसवधम् Translation - भाषांतर श्रीनारद उवाच -आर्द्रचित्तं नंदराजं वनितानां मनोरथम् ।स्मृत्वा शत्रून् हन्तुकामः चक्रे युद्धं बलाद्धरिः ॥१॥गृहीत्वा भुजदंडाभ्यां चाणूरं गगने बलात् ।चिक्षेप सहसा कृष्णो वातः पद्ममिवोद्धृतम् ॥२॥आकाशात्पतितः सोऽपि तारकेव ह्यधोमुखः ।उत्थाय मुष्टिना कृष्णं ताडयामास वेगतः ॥३॥तस्य मुष्टिप्रहारेण न चचाल परात्परः ।सद्यो गृहीत्वा चाणूरं पातयामास भूतले ॥४॥भिन्नदंतस्तु चाणूरः क्रोधयुक्तो मदोत्कटः ।मुष्टिद्वयेन श्रीकृणं तताड हृदि मैथिल ॥५॥गृहीत्वा करयोस्तं वै कराभ्यां भगवान्स्वयम् ।कंसस्याग्रे भ्रामयित्वा सर्वेषां पश्यतां नृप ॥६॥पातयामास भूपृष्ठे कमंडलुमिवार्भकः ।श्रीकृष्णस्य प्रहारेण चाणूरो भिन्नमस्तकः ॥७॥उद्वमन् रुधिरं राजन्सद्यो वै निधनं गतः ।तथैव मुष्टिकं मल्लं मुष्टिभिर्युधि दुर्गमम् ॥८॥धृत्वांघ्रौ भ्रामयित्वा खे बलदेवो महाबलः ।पातयामास भूपृष्ठे फणिनं गरुडो यथा ।मुष्टिको निधनं प्राप प्रोद्वमन् रुधिरं मुखात् ॥९॥कूटं समागतं वीक्ष्य बलदेवो महाबलः ।मुष्टिना पातयामास वज्रेणेन्द्रो यथा गिरिम् ॥१०॥प्राप्तं शलं नन्दसूनुर्लत्तया तं तताड ह ।तीक्ष्णया तुंडया राजन्कद्रुजं गरुडो यथा ॥११॥गृहीत्वा तोशलं कृष्णो मध्यतः संविदार्य्य च ।प्राक्षिपत्कंसमंचाग्रे विटपं सिन्धुरो यथा ॥१२॥एते निपातिता रंगे सद्यो वै निधनं गताः ।तेषां ज्योतींषि वैकुण्ठे विविशुः पश्यतां सताम् ॥१३॥एवं श्रीरामकृष्णाभ्यां मल्लेषु निहतेषु च ।शेषाः प्रदुद्रुवुर्मल्ला भयार्ता जीवनेच्छया ॥१४॥श्रीदामादीन् वयस्यांश्च गोपानाकृष्य माधवः ।तै सार्द्धं युद्धमारेभे सर्वेषां पश्यतां सताम् ॥१५॥किरीटकुण्डलधरौ रामकृष्णौ सहार्भकैः ।विहरंतौ वीक्ष्य रंगे विसिस्मुः पुरवासिनः ॥१६॥कंसं विना सर्वमुखाज्जयशब्दो विनिर्गतः ।साधु साध्विति वादोऽभून्नेदुर्दुंदुभयस्ततः ॥१७॥स्वस्याजयं वीक्ष्य कंसो महाक्रोधसमाकुलः ।वर्जयित्वा तूर्यघोषं प्राह प्रस्फुरिताधरः ॥१८॥कंस उवाच -दुर्बुद्धियुक्तौ वसुदेवनंदनौप्रसह्य निःसारयताशु मत्पुरात् ।हरंतु सर्वं व्रजवासिनां धनंबध्नीत नंदं सहसाऽतिदुर्मतिम् ॥१९॥अद्योग्रसेनस्य पितुः कुबुद्धेःशौरेः शिरश्चाशु हि छिंधि छिंधि ।कौ यत्र तत्रापि तथाऽत्र वृष्णि-जातान्सुरांशान् किल सूदयध्वम् ॥२०॥श्रीनारद उवाच -एवं विकत्थमानस्य कंसस्य यदुनंदनः ।सहसोत्पत्य तं मञ्चमारुहत्क्रोधपूरितः ॥२१॥मृत्युं स्मागतं वीक्ष्य मञ्चादुत्थाय सत्वरम् ।मदोद्धतो भर्त्सयंस्तं जगृहे खड्गचर्म्मणी ॥२२॥अग्रहीत्सहसा कंसं दोर्भ्यां चर्मासिसंयुतम् ।यथा तुण्डविभागाभ्यां सविषं फणिनं विराट् ॥२३॥पतत्खड्गश्चलच्चर्मा भुजबंधाद्बलाद्बली ।विनिर्ययौ तार्क्ष्यतुण्डात्पुण्डरीको यथा फणी ॥२४॥मंचे तौ बलिनौ वेगान्मर्दयंतौ परस्परम् ।शैलशृङ्गे यथा सिंहौ शुशुभाते यथातथम् ॥२५॥उत्पतंतं बलात्कंसं शतहस्तं महांबरे ।अग्रहिच्चोत्पतन् कृष्णः श्येनं श्येनो यथांबरे ॥२६॥गृहीत्वा भुजदण्डाभ्यां प्रचंडं दैत्यपुंगवम् ।त्रैलोक्यबलधृग्देवो भ्रामयित्वा त्वितस्ततः ॥२७॥आकाशात्पातयामास मंचोपरि रुषान्वितः ।भग्नदण्डोऽभवन्मञ्चस्तडित्पाते यथा द्रुमः ॥२८॥पतितोऽपि स वज्राङ्ग किंचिद्व्यायाकुलमानसः ।सहसोत्थाय युयुधे श्रीकृष्णेन महात्मना ॥२९॥नीत्वा तं भुजदण्डाभ्यां मंचे क्षिप्त्वा पुनः प्रभुः ।आरुह्य हृदयं तस्य मौलिं जग्राह माधव ॥३०॥सद्यः प्रगृह्य केशेषु रंगोपरि हरिः स्वयम् ।मंचात्तं पातयामास शैलाद्गंडशिलामिव ॥३१॥तस्योपरिष्ठाच्छ्रीकृष्णः सर्वाधारः सनातनः ।निपपात स्वयं वेगादनन्तोऽनंतविक्रमः ॥३२॥इत्थं द्वयोर्निपातेन निम्नं भूखंडमंडलम् ।स्थालीव सहसा राजञ्चकंपे घटिकाद्वयम् ॥३३॥संपरेतं भोजराजं भूमौ तं विचकर्ष ह ।यथा मृगेन्द्रो नागेन्द्रं सर्वेषां पश्यतां नृप ॥३४॥हाहाकारस्तदैवासीद्धावतां भूभुजां नृप ।वैरभावेन देवेशं भजन्कंसो महाबलः ॥३५॥जगाम तस्य सारूप्यं भृंगिणः कीटको यथा ।कंसं प्रपतितं दृष्ट्वा भ्रातरोऽष्टौ महाबलाः ।सुनामसृष्टिन्यग्रोधतुष्टिमद्राष्ट्रपालकाः ॥३६॥सुहुना कंकशंकुभ्यां क्रोधप्रस्फुरिताधराः ।खड्गचर्मधरा योद्धुं कृष्णोपरि समाययुः ॥३७॥वीक्ष्य तान्मुद्गरं नीत्वा रोहिणीनंदनो बलः ।आराच्चकार हुंकारं यथा सिंहो मृगान्प्रति ॥३८॥हुंकारेणैव शस्त्राणि तेषां हस्तेभ्य आभयात् ।पेतुराम्रफलानीव दण्डघातैश्च मैथिल ॥३९॥निःशस्त्रास्ते महावीरा मुष्टिभिः सर्वतो बलम् ।तेडुः शैलं यथा नागा शुंडादण्डैरितस्ततः ॥४०॥सृष्टिं तथा सुनामानं मुद्गरेण बलोऽहनत् ।न्यग्रोधं भुजवेगेन कंकं वामकरेण वै ॥४१॥शंकुं सुहुं तुष्टिमंतं वामपादेन माधवः ।राष्ट्रपालं दक्षिणेन पादेनाभिजघान ह ॥४२॥अष्टौ निपेतुः सहसा वृक्षा वातहता इव ।तेषां ज्योतिर्भगवति लीनं जातं विदेहराट् ॥४३॥देवदुन्दुभयो नेदुर्जयध्वनिरभूत्तदा ।सद्यो वै ववृषुर्देवाः पुष्पैर्नंदनसंभवैः ॥४४॥विद्याधर्यश्च गंधर्व्यो ननृतुर्हर्षविह्वलाः ।विद्याधरश्च गंधर्वाः किन्नरास्तद्यशो जगुः ॥४५॥ब्रह्माद्या मुनयः सिद्धा विमानैर्द्रष्टुमागताः ।तुष्टुवू रामकृष्णौ तौ वाग्भिः श्रुतिपरायणाः ॥४६॥ताडयंत्य उरो हस्तैः अस्तिप्राप्त्यादयः स्त्रियः ।विनिर्गतास्ता रुरुदुर्जातवैधव्यदुःखिताः ॥४७॥स्त्रिय ऊचुः -हा नाथ हे युद्धपते क्व गतोऽसि महाबल।त्रैलोक्यविजयी साक्षाद्देवानामपि दुर्जयः ॥४८॥जातमात्राः स्वसुः पुत्रा निर्घृणेन त्वया हताः ।अनिर्दशा निर्दशाश्चापरेऽपि निहता बलात् ॥४९॥तेन पापेन घोरेण दशामेतादृशीं गतः ॥५०॥श्रीनारद उवाच -एवमश्रुमुखीर्दीना आश्वास्य नृपयोषितः ।विधाय यमुनातीरे चिताः श्रीखंडसंयुताः ॥५१॥हतानां कारयित्वाऽसौ क्रियां वै पारलौकिकीम् ।सर्वान्संबोधयामास भगवाँल्लोकभावनः ॥५२॥इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे कंसवधो नाम अष्टमोऽध्यायः ॥८॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP