संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|मथुराखण्डः| अध्यायः २० मथुराखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ मथुराखण्डः - अध्यायः २० गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता राधाकृष्णकृतं ऋभुऋषि-मुक्तिदानम् Translation - भाषांतर बहुलाश्व उवाच -अग्रे चकार किं साक्षाद् भगवान् व्रजमण्डले ।राधायै गोपिकाभ्यश्च कथंस्विद्दर्शनं ददौ ॥१॥गोपीमनोरथं कृत्वा मथुरामाजगाम ह ।एतन्मे ब्रूहि विप्रेंद्र त्वं परावरवित्तमः ॥२॥श्रीनारद उवाच -संध्यायां राधयाऽऽहूतः श्रीकृष्णो भगवान्स्वयम् ।एकांते शीतलं शश्वज्जगाम कदलीवनम् ॥३॥स्फारस्फुरनमेघगृहं रंभाचन्दनचर्चितम् ।कृष्णागरुत्सीकरं च सुधारश्मिगलत्सुधम् ॥४॥एतादृशं वनं राधा वियोगानलवर्चसा ।भस्मीभूतं हि सततं कृष्णाशा तां हि रक्षति ॥५॥तत्रैव सर्वे गोपीनां शतयूथाः समागताः ।तस्यै निवेदनं चक्रुर्माधवागमनस्य हि ॥६॥उत्थाय सहसा साक्षाद्वृषभानुवरात्मजा ।आनेतुमाययौ कृष्णं सखीभिः परिवारिता ॥७॥ददावासनपाद्यार्घानुपचारान्मनोहरान् ।वदंती सादरं वाक्यं कुशलं कुशलाधिका ॥८॥युवकंदर्पकोटीनां माधुर्य्यहारिणं हरिम् ।दृष्ट्वा राधा जहौ दुःखं ब्रह्म ज्ञात्वा गुणं यथा ॥९॥प्रसन्ना तत्र शृङ्गारमकरोत्कीर्तिनंदिनी ।तया नोऽकारि श्रृंगारः पांथे कृष्णे गते सति ॥१०॥न चन्दनं च तांबूलं भोजनं च सुधासमम् ।न कृतं दिव्यशयनं हास्यं वा न कृतं क्वचित् ॥११॥परिपूर्णतमं कृष्णं परिपूर्णतमप्रिया ।आनंदाश्रूणि मुंचंती प्राह गद्गदया गिरा ॥१२॥राधोवाच -कियद्दूरे यदुपुरी नागतं किं करोषि हि ।किं वदेऽहं रहो दुःखं भवतोऽशेषसाक्षिणः ॥१३॥सौदासराजमहिषी दमयंती च मैथिली ।नास्त्यत्र कां पुरस्कृत्य वदेऽहं विरहं रिपुम् ॥१४॥मत्समानाश्रया गोप्यो गदितुं न क्षमाः क्वचित् ।शरच्चन्द्रचकोरीव मयूरीव घनं नवम् ॥१५॥श्रीवृन्दावनचंद्रं त्वां घनश्यामं समुत्सहे ।तव सख्योद्धवेनाशु धन्येन त्वं प्रदर्शितः ।अन्यः कोऽपि व्रजे नास्ति यस्य प्रेम्णा त्वमागतः ॥१६॥श्रीनारद उवाच -एवं वदन्ती सततं रुदन्तींपरां प्रियां वीक्ष्य घृणातुराङ्ग ।आश्वासयामास नयेन सद्यःप्रगृह्य दोर्भ्यां स्रवदंबुनेत्रः ॥१७॥श्रीभगवानुवाच -मा शोकं कुरु राधे त्वं त्वत्प्रीत्याऽहं समागतः ।आवयोर्भेदरहितं तेजश्चैकं द्विधा जनैः ॥१८॥यथा हि दुग्धधावल्ये तथाऽऽवां सर्वदा शुभे ।यत्राहं त्वं सदा तत्र विश्लेषो न हि चावयोः ॥१९॥पूर्ण ब्रह्म परं चाहं तटस्था त्वं जगत्प्रसूः ।विश्लेष आवयोर्मध्ये मृषा ज्ञानेन पश्य सत् ॥२०॥यथाकाशस्थितो नित्यं वायु सर्वत्रगो महान् ।तथा जलं सूक्ष्मरूपं तेजो व्याप्तं यथैधसि ॥२१॥अन्तर्बहिर्यथा पृथ्वी पृथग्भूता वरानने ।तथा विकाररहितो मलवत्त्रिगुणैरहम् ॥२२॥तथा त्वं पश्य मद्भावं सदानंदो भवेत्ततः ।अहं ममेति भावेन द्वितीयोऽस्ति वरानने ॥२३॥यावद्वनो मध्यगतस्तदुत्थितःस्वं रूपमर्कं न हि दृक् प्रपश्यति ।तावत्परात्मानमसौ प्रधानजै-र्गुणैस्तथा तेषु गतेषु पश्यति ॥२४॥गुणेषु सक्तं किल बन्धनायरक्तं मनः पुंसि च मुक्तये स्यात् ।मनो द्वयोः कारणमाहुरारा-ज्जित्वाऽथ तत्कौ विचरेदसंगः ॥२५॥सर्व हि भावं मनसः परस्परंन ह्येकतो भामिनि जायते ततः ।प्रेमैव कर्तव्यमतो मयि स्वतःप्रेम्णा समानं भुवि नास्ति किंचित् ॥२६॥श्रीनारद उवाच -इति वाक्यं हरेः श्रुत्वा प्रसन्ना कीर्तिनंदिनी ।गोपिकाभिः समं कृष्णं पूजयामास माधवम् ॥२७॥अथ रात्र्यां हरिः साक्षात्कार्तिक्यां रासमंडले ।गत्वा ननाद मुरलीं गोपीभी राधया सह ॥२८॥यमुनानिकटे राजन् राधया राधिकापतिः ।रामाभिः सुन्दरीभिश्च रासरंगे रराज ह ॥२९॥यावतीर्गोपिका रासे तावद्रूपधरो हरिः ।रेमे वृंदावने दिव्ये हरिर्वृन्दावनेश्वरः ॥३०॥क्वणन्नूपुरमंजीरो वनमालाविराजितः ।पीतांबरः पद्मधारी प्रभातार्ककिरीटधृक् ॥३१॥विद्युल्लतास्फुरत्प्रोद्यद्धेमकुण्डलमण्डितः ।वेत्रभृद्वादयन्वंशीं नटवेषो घनद्युतिः ॥३२॥स्फुरत्कौस्तुभरत्नाढ्यः प्रचलत्स्निग्धकुण्डलः ।रराज राधया रासे यथा रत्या रतीश्वरः ॥३३॥शच्या शक्रो यथा स्वर्गे घनश्चंचलया यथा ।वृन्दया वृन्दकारण्ये तथा वृन्दावनेश्वरः ॥३४॥वृन्दावनं च पुलिनं वनान्युपवनानि च ।पश्यन् गोपीगणैः सार्द्धं गिरिं गोवर्धनं ययौ ॥३५॥गोपीनां शतयूथानां मानं वीक्ष्य व्रजेश्वरः ।भगवान् राधया साकं तत्रैवांतरधीयत ॥३६॥अथ गोवर्धनाद्दूरे सुंन्दरं योजनत्रयम् ।श्रीखण्डगंधसंयुक्तं स ययौ रोहिताचलम् ॥३७॥लताकुञ्जनिकुञ्जाश्च पश्यञ्जल्पंस्तया सह ।विचचार गिरौ रम्ये काञ्चनीलतिकालये ॥३८॥तत्र देवसरो रम्यं बद्रिनाथेन निर्मितम् ।पाठीनकूर्मनक्रादिहंस सारससङ्कुलम् ॥३९॥सहस्रदलपद्मैश्च मण्डितं तदितस्ततः ।भ्रमरध्वनिसंयुक्तं पुंस्कोकिलरुतव्रतम् ॥४०॥विकसत् पद्मगंधाढ्यं तत्तीरं मन्दमारुतम् ।रमया राधया सार्द्धं माधवो निषसाद ह ॥४१॥तत्तीरं प्रतपस्यंतं ऋभुं नाम महामुनिम् ।पदैकेन स्थितं शश्वत् श्रीकृष्णध्यानतत्परम् ॥४२॥षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।निरन्नं निर्जलं शांतं श्रीकृष्णस्तं ददर्श ह ॥४३॥पप्रच्छ वीक्ष्य तं राधा हसन्ती प्राह माधवम् ।माहात्म्यं कुरु भक्तोऽयं पश्य भक्तिं महामुनेः ॥४४॥हे ऋभो इति कृष्णेन प्रोक्तमुच्चैर्वचः शुभम् ।न श्रुतं तेन किञ्चिद्वा चरमं प्रापितेन वै ॥४५॥हरिस्तदा तद्धृदयाद् बभूवाशु तिरोहितः ।ध्यानाद्गतं हरिं वीक्ष्य मुनींद्रश्चातिविस्मितः ॥४६॥नेत्रे उन्मील्य ददृशे श्रीकृष्णं राधयाऽऽगतम् ।घनं चंचलयेवाढ्यं रञ्जयन्तं दिशो दश ॥४७॥उत्थात सद्यो हरिभक्तितत्परःप्रदक्षिणीकृत्य हरिं सराधिकम् ।प्रणम्य मूर्ध्ना निपपात पादयो-रुवाच कृष्णं बहुगद्गदाक्षरः ॥४८॥श्रीऋभुरुवाच -नमः कॄष्णाय कृष्णायै राधायै माधवाय च ।परिपूर्णतमायै च परिपूर्णतमाय च ॥४९॥घनश्यामाय देवाय श्यामायै सततं नमः ।रासेश्वराय सततं रासेश्वर्यै नमो नमः ॥५०॥गोलोकातीत लीलाय लीलावत्यै नमो नमः ।असंख्यांडाधिदेव्यै च असंख्यांडनिधये नमः ॥५१॥भूभारहाराय भुवं गताभ्यांमच्छांतये चात्र समागताभ्याम् ।परस्परं संधितविग्रहाभ्यांनमो युवाभ्यां हरिराधिकाभ्याम् ॥५२॥श्रीनारद उवाच -इत्युक्त्वा कृष्णपादाब्जे प्रक्षरद् बाष्पलोचनः ।प्रेमानन्दसमायुक्तो जहौ प्राणान्महामुनिः ॥५३॥तदैव निर्गतं ज्योतिर्दशसूर्यसमप्रभम् ।परिभ्रमद् दशदिशः श्रीकृष्णे लीनतां गतम् ॥५४॥भक्तस्य भक्तिं श्रीकृष्णो वीक्ष्य वै प्रेमलक्षणाम् ।आनंदाश्रुकलां मुंचन् प्रेम्णा तं चाजुहाव ह ॥५५॥पुनः श्रीकृष्णपादाब्जात्कृष्णसारूप्यवान्मुनिः ।निर्गतः कोटिकंदर्पसन्निभोऽतिनताननः ॥५६॥दोर्भ्यां प्रगृह्य हृदये तं निधाय कृपाकरः ।आश्वास्य कल्याणकरं करं दिव्यं दधार ह ॥५७॥प्रदक्षिणीकृत्य हरिं च राधिकांप्रणम्य चारुह्य रथं मनोहरम् ।गोलोकलोकं प्रययावृभुर्मुनि-र्विरञ्जयन्मैथिल मण्डलं दिशाम् ॥५८॥श्रीराधिका विस्मयमागता भृशंदृष्ट्वा परां मुक्तिमृभोर्महामुनेः ।आनन्दवारीणि विमुञ्चती चिरंजगाद कृष्णं वृषभानुनंदिनी ॥५९॥इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे रासोत्सवे ऋभुमोक्षो नाम विंशोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP