संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|मथुराखण्डः| अध्यायः ०६ मथुराखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ मथुराखण्डः - अध्यायः ०६ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता मालाकारगृहगमनं कुब्जा-विकुब्जीकरणं कंसधनुर्भङ्गं च Translation - भाषांतर श्रीनारद उवाच -अथ गोपालकैः सार्द्धं श्रीकृष्णो नंदनंदनः ।गृहं जगाम सबलः सुदाम्नो दाममालिनः ॥१॥दृष्ट्वा तौ स समुत्थाय नमस्कृत्य कृताञ्जलिः ।पुष्पसिंहासने स्थाप्य प्राह गद्गदया गिरा ॥२॥सुदामोवाच -धन्यं कुलं मे भवनं च जन्मत्वयय्यागते देवकुलानि सप्त ।मातुः पितुः सप्त प्रिययावैकुण्ठलोकं गतवंति मन्ये ॥३॥भूभारमाहर्तुमलं यदोः कुलेजातौ युवां पूर्णतमौ परेश्वरौ ।नमो युवाभ्यां मम दीनदीनंगृहं गताभ्यां जगदीश्वरौ परौ ॥४॥श्रीनारद उवाच -इत्युक्त्वा पुष्परचनालंकारान् मधुपध्वनीन् ।निवेद्य मकरंदांश्च मालाकारो ननाम ह ॥५॥धृत्वा तत्पुष्पनिचयं सबलो भगवान् हरिः ।दत्त्वा गोपेभ्य आरात्तं प्राह प्रहसिताननः ॥६॥गरीयसी मत्पदाब्जे भक्तिर्भूयात्सदा तव ।मद्भक्तानां तु संगः स्यान्मत्स्वरूपमिहैव हि ॥७॥बलदेवो ददौ तस्मै श्रियं चान्वयवर्धिनीम् ।उत्थाय तौ ततो राजन्नन्यां वीथीं प्रजग्मतुः ॥८॥यांतीं स्त्रियं पद्मनेत्रां पाटीरालेपभाजनम् ।विभ्रतीं युवतीं कुब्जां पथि पप्रच्छ माधवः ॥९॥श्रीभगवानुवाच -का त्वं कस्य प्रिया सुभ्रु कस्यार्थं चंदनं त्विदम् ।देह्यावयोर्येन तव चिरं श्रेयो भविष्यति ॥१०॥सैरंध्र्युवाच -दास्यस्मि सुन्दरवर कुब्जानाम महामते ।मद्धस्तोत्थं च पाटीरं जातं भोजपतेः प्रियम् ॥११॥अद्यापि कंसदास्यस्मि सांप्रतं तव चाग्रतः ।हस्तिशुण्डादण्डसमे भुजदण्डेऽस्ति मे मनः ॥१२॥युवां विना कोऽन्यतमोऽनुलेपं कर्तुमर्हति ।युवयोस्तु समं रूपं त्रैलोक्ये न हि विद्यते ॥१३॥श्रीनारद उवाच -उभाभ्यां सा ददौ सांद्रं हर्षिता ह्यनुलेपनम् ।अथ तावंगरागेण रामकृष्णौ विरेजतुः ॥१४॥जगृहुश्चन्दनं दिव्यं किंचित्किंचिद्व्रजार्भकाः ।त्रिवक्रामथ तां कृष्णो ऋज्वीं कर्तुं मनो दधे ॥१५॥आक्रम्य पद्भ्यां प्रपदेऽङ्गुलिद्वयंप्रोत्तानहस्तेन विभुः परेश्वरः ।प्रगृह्य नॄणां चुबुके प्रपश्यतांवक्रां तनुं तामुदनीनमद्धरिः ॥१६॥तदैव सा यष्टिसमानविग्रहादीप्त्या च रंभां क्षिपतीव रूपिणी ।भूत्वा गृहीत्वाऽऽह हरिं तु वाससिशुचिस्मिता जातमनोजविह्वला ॥१७॥सैरंध्र्युवाच -गच्छाशु हे सुन्दरवर्य मद्गृहंत्यक्तुं भवंतं किल नोत्सहेऽहम् ।प्रसीद सर्वज्ञ रसज्ञ मानदत्वया भृशं प्रोन्मथितं मनो मम ॥१८॥श्रीनारद उवाच -तदैव गोपा जहसुः परस्पर-महो किमेतत्करतालनिःस्वनैः ।प्रहस्य रामस्य हरिः प्रपश्यत-स्तद्याच्यमानो ह्यवदत्परं वचः ॥१९॥श्रीभगवानुवाच -अहोऽतिधन्या मथुरा पुरीयंवसंति यत्रैव जनास्तु सौम्याः ।येऽज्ञातपान्थान्स्वगृहं नयंतिदृष्ट्वा पुरीं धाम तवागमिष्ये ॥२०॥श्रीनारद उवाच -एवमुक्त्वोत्तरीयांतं समाकृष्य गिरार्द्रया ।राजमार्गं व्रजन्कृष्णो वैश्यानाढ्यान्ददर्श ह ॥२१॥पुष्पताम्बूलगंधाढ्यैः फलैर्दुग्धफलैर्हरिम् ।सम्पूज्य स्वासने स्थाप्य नेमुरग्र्यधियो विशः ॥२२॥वैश्या उचुः -भवेच्चेदत्र ते राज्यं तावकान्सरतात्तदा ।वयं तव प्रजा देव राज्ये प्राप्ते न कः स्मरेत् ॥२३॥श्रीनारद उवाच -पप्रच्छ सुस्मितो वैश्यान्कोदण्डस्थानमच्युतः ।न ते तमूचुः सुधियः कोदण्डे भंगशंकया ॥२४॥तद्रूपगुणमाधुर्यमोहिता ये च माथुराः ।कुमार पश्यैहि धनुरित्यूचुस्तद्दिदृक्षवः ॥२५॥तैर्दृष्टेन पथा कृष्णः प्रविष्टो धनुषः स्थलम् ।मैत्रीं कुर्वन् वयस्यैश्च माथुरैः पुरबालकैः ॥२६॥यथैद्रं हेमचित्राढ्यं कोदण्डं सप्ततालकम् ।पुरुषैः पञ्चसाहस्रैर्नेतुं योग्यं बृहृद्भरम् ॥२७॥अष्टधातुमयं क्लिष्टं लक्षभारसमं परम् ।चतुर्दश्यां पौरजनैरर्चितं यज्ञमण्डपे ॥२८॥भार्गवेण पुरा दत्तं यदुराजाय माधवः ।ददर्श कुण्डलीभूतं साक्षाच्छेषमिव स्थितम् ॥२९॥वार्यमाणो नृभिः कृष्णः प्रसह्य धनुराददे ।पश्यतां तत्र पौराणां सज्जं कृत्वाऽथ लीलया ॥३०॥आकृष्य कर्णपर्यंतं दोर्दंडाभ्यां हरिर्धनुः ।बभंज मध्यतो राजन्निक्षुदंडं गजो यथा ॥३१॥भज्यमानस्य धनुषष्टङ्कारोऽभूत्तडित्स्वनः ।ननाद तेन ब्रह्मांडं सप्तलोकैर्बिलैः सह ॥३२॥विचेलुर्दिग्गजास्तारा राजद्भूखण्डमंडलम् ।तदैव बधिरीभूता पृथिव्यां जनमंडली ॥३३॥कंसस्य हृदयं शब्दो विददार घटीद्वयम् ।तद्रक्षिणः प्रकुपिता उत्थिता आततायिनः ॥३४॥गृहीतुकामाः श्रीकृष्णं प्रत्यूचुर्बध्यतामिति ।अथ तानागतान् वीक्ष्य सशस्त्रान्बलकेशवौ ॥३५॥कोदण्दशकले नीत्वा जघ्नतुर्दुर्मदान्भृशम् ।शकलातिप्रहारेण केचिद्वीरास्तु मूर्छिताः ॥३६॥भिन्नपादा भिन्ननखाः केचिच्छिन्नांसबाहवः ।वीराः पञ्च सहस्राणि निपेतुर्भूमिमण्डले ॥३७॥विचेलुर्माथुराः सर्वे दुद्रुवुस्तद्दिदृक्षवः ।पुर्यां कोलाहले जाते नृणां जातं महद्भयम् ॥३८॥भोजराजसभाछत्रमकस्मान्निपपात ह ।गोपालैः सबलः कृष्णो धावञ्चापस्थलान्नृप ।आययौ नन्दनिकटे सन्ध्याकालेऽतिभीतवत् ॥३९॥निरीक्ष्य गोविंदसुरूपमद्भुतंविमोहिता वै मथुरापुरांगनाः ।विस्रस्तवासःकबराः स्मराधयःपरस्परं प्राहुरिदं सखीजनम् ॥४०॥पुरंध्र्य ऊचुः -कंदर्पकोटिद्युतिमाहरंस्त्वरंस्वैरं चरन्वै मथुरापुरे हरिः ।निरीक्ष्यते याभिरतीव साक्षा-दङ्गेषु सर्वेष्वपि नः समाविशत् ॥४१॥कुशला ऊचुः -क्रूराः स्त्रियः किं न हि संति पत्तनेनिरीक्ष्यते याभिरनंगमोहनः ।अंगेषु सर्वेष्वपि सर्वसुन्दरोनास्माभिरानन्दमयो निरीक्ष्यते ॥४२॥कस्यैकदेशे मधुरत्वमीक्ष्यतेतत्रास्ति नेत्रं प्रपतत्पतंगवत् ।यस्त्वेव सर्वांगमनोहरः सखिस एव नेत्रेण कथं समीक्ष्यते ॥४३॥अंगे ह्यंगे सुन्दरे नंदसूनोःप्राप्तं प्राप्तं यत्र यत्रापि नेत्रम् ।तस्मात्तस्मान्नामवल्लब्धसौख्यंलावण्याब्धौ मग्नवल्लग्नचित्तम् ॥४४॥श्रीनारद उवाच -दृष्ट्वा दिने यं व्रजराजनन्दनंस्वप्नेऽपि तद्ददृशुः पुरस्त्रियः ।गोप्यः कथं तं मधुरं न सस्मरु-र्याभिः कृतं मैथिल रासमंडलम् ॥४५॥इति श्रीगर्गसंहितायां मथुराखंडे श्रीनारदबहुलाश्वसंवादे श्रीमथुरादर्शनं नाम षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : May 20, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP