संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः २४ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः २४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता रासक्रीडायां आसुरि उपाख्यानम् Translation - भाषांतर श्रीनारद उवाच -अथ गोपीगणैः सार्धं पश्यन् श्रीयमुनातटम् ।विहर्तुमामयौ कृष्णो वृंदारण्यं मनोहरम् ॥१॥वृंदावने चौषधयो लीना जाता हरेर्वरात् ।ताः सर्वाश्चांगना भूतवा यूथीभूत्वा समाययुः ॥२॥लतागोपीसमूहेन चित्रवर्णेन मैथिल ।रेमे वृंदावने राजन् हरिर्वृंदावनेश्वरः ॥३॥कालिन्दनन्दिनीतीरे कदंबाच्छादिते शुभे ।त्रिविधेन समीरेण सर्वतः सुरभीकृते ॥४॥विलसत्पुलिने रम्ये वंशीवटविराजिते ।स्थितोऽभूद्राधया सार्धं रासश्रमसमन्वितः ॥५॥वीणातालमृदंगादि मुरुयष्टियुतानि च ।वादितत्राण्यंबरे नेदुः सुरैर्गोपीगणौः सह ॥६॥देवेषु पुष्पं वर्षत्सु जयध्वनियुतेषु च ।तोषयन्त्यो हरिं गोप्यो जगुस्तद्यश उत्तमम् ॥७॥काश्चिद्वै मेघमल्लारं दीपकं च तथापराः ।मालकोशं भैरवं च श्रीरागं च तथैव च ॥८॥हिंदोलं च जगुः काश्चित् राजन् सप्तस्वरैः सह ।काश्चित्तासां प्रमुग्धाश्च काश्चिन्मुग्धाः स्त्रियो नृप ॥९॥काश्चित् प्रौढा प्रेमपराः श्रीकृष्णे लग्नमानसाः ।जारधर्मेण गोविंदं काश्चिद्गोप्यो भजन्ति हि ॥१०॥काश्चिच्छ्रीकृष्णसहिताः कन्दुकक्रीडने रताः ।काश्चित् पुष्पैश्च हरिणा क्रीडां चक्रुः परस्परम् ॥११॥काश्चिल्लतासु धावन्त्यः क्वणन् नूपुरमेखलाः ।काश्चित् पिबंति सततं बलात्कृष्णाधरामृतम् ॥१२॥काचिद्भुजाभ्यां श्रीकृष्णं योगिनामपि दुर्लभम् ।संगृहीत्वा प्रहस्याराच्चक्रुरालिंगनं महत् ॥१३॥मनोज्ञो यदुराजा च गोपीनां भगवान् हरिः ।काश्मीरमुद्रितो रेमे वने वृंदावनेश्वरः ॥१४॥काश्चिद्वीणां वादयन्त्यः समं वंशीधरेण वै ।काश्चित् मृदंगं वादयन्त्यो गायन्त्यो भगवद्गुणम् ॥१५॥काश्चिद्वै मधुरं तालं ताडयन्त्यो हरेः पुरः ।मुरयष्टिं संगृहीत्वा हरिणा माधवीतले ॥१६॥गायन्त्यः सुस्थिरा भूमौ विस्मृत्य जगतः सुखम् ।काश्चिल्लतासु श्रीकृष्णं भुजे बाहुं निधाय च ॥१७॥वृन्दावनस्य पश्यन्त्यो शोभां राजन्नितस्ततः ।लताजालैः संवलितं गोपीनां हारसंचयम् ॥१८॥पृथक्चकार गोविंदः स्पृष्ट्वा तासामुरःस्थलम् ।गोपीनां नासिकामुक्तावलिं तत्कुंतलं स्वयम् ॥१९॥शनैः शनैः शोभनं तच्चक्रे श्रीनंदनंदनः ।तांबूलं चर्वितं ह्यर्धं नीत्वा सद्योऽथ गोपिकाः ॥२०॥चर्वयन्त्यः सुगंधाढ्य महो तासां तपो महत् ।काश्चिच्छामकपोलेषु द्व्यंगुलेन शनैः शनैः ॥२१॥हसन्त्यस्ताडयन्त्यस्ताः कदंबेषु बलात्पृथक् ।पुंवेषनायकाः काश्चिन्मौलिकुंडलमंडिताः ॥२२॥नृत्यन्तः कृष्णपुरतः श्रीकृष्ण इव मैथिल ।राधावेषधरा गोप्यः शतचंद्राननप्रभाः ॥२३॥तोषयन्त्यश्च राधां तां तथा राधापतिं जगुः ।काश्चित्ताः सात्त्विकैर्भावैः संयुक्ता प्रेमविह्वलाः ॥२४॥योगीव चास्थिता भूमौ परमानंदसंप्लुताः ।काश्चिल्लतासु वृक्षेषु भूम्यां वै विदिशासु च ॥२५॥पश्यन्त्यः श्रीपतिं देवं स्वस्मिन् वा मौनमास्थिताः ।एवं रासे गोपवध्वः सर्वाः पूर्णमनोरथाः ॥२६॥बभूवुरेत्य गोविंदं सर्वेशं भक्तवत्सलम् ।यत्प्रसादस्तु गोपीनां प्राप्तो राजन् महामते ॥२७॥ज्ञानिनामपि नास्त्येवं कर्मिणां तु कुतश्च सः ।एवं श्रीकृष्णचंद्रस्य हरे राधापतेः प्रभोः ॥२८॥रासे चित्रं यद्बभूव तच्छृणुष्व महामते ।मुनीन्द्र आसुरिर्नाम श्रीकृष्णेष्टो महातपाः ॥२९॥नारदाद्रौ तपस्तेपे हरौ ध्यानपरायणः ।हृत्पुंडरीके श्रीकृष्णं ज्योतिर्मंडलमास्थितम् ॥३०॥मनोज्ञं राधया सार्धं नित्यं ध्याने ददर्श ह ।एकदा ध्यानमध्ये तु रात्रौ कृष्णो न चागतः ॥३१॥वारं वारं कृतं ध्यानं खिन्नो जातो महामुनिः ।ध्यानादुत्थाय स मुनिः कृष्णदर्शनलालसः ॥३२॥नारायणाश्रमं प्रागाद्बदरीखण्डमंडितम् ।न ददर्श हरिं देवं नरनारायणं मुनिः ॥३३॥तदातिविस्मितो विप्रो लोकालोकगिरिं ययौ ।सहस्रशिरसं देवं न ददर्श स तत्र वै ॥३४॥पप्रच्छ पार्षदान् तत्र क्व गतो भगवानितः ।न विद्मो भो वयं चोक्तो मुनिः खिन्नमनास्तदा ॥३५॥श्वेतद्वीपं ययौ दिव्यं क्षीरसागरशोभितम् ।तत्रापि शेषपर्यंके न ददर्श हरिं पुनः ॥३६॥तदा मुनिः खिन्नमनाः प्रेम्णा पुलकिताननः ।पप्रच्छ पार्षदांस्तत्र क्व गतो भगवानितः ॥३७॥न विद्मो भो वयं चोक्तो मुनिश्चिन्तापरायणः ।किं करोमि क्व गच्छामि दर्शनं तत्कथं भवेत् ॥३८॥एवं ब्रुवन्मनोयायी वैकुंठं प्राप्तवांस्ततः ।नापश्यत्तत्र देवेशं रमां वैकुंठवासिनीम् ॥३९॥न दृष्टस्तत्र भक्तेषु मुनिनाऽसुरिणा नृप ।ततो मुनीन्द्रो योगीन्द्रो गोलोकं स जगाम ह ॥४०॥वृंदावने निकुंजेऽपि न ददर्श परात्परम् ।तदा मुनिः खिन्नमनाः श्रीकृष्णविरहातुरः ॥४१॥पप्रच्छ पार्षदांस्तत्र क्व गतो भगवानितः ।ऊचुस्तं पार्षदा गोपा वामनाण्डे मनोहरे ॥४२॥पृश्निगर्भो यत्र जातः तत्रैव भगवान् स्वयम् ।इत्युक्त आसुरिस्तस्मादस्मिन्नण्डे समागतः ॥४३॥हरिं ह्यपश्यन्प्रचलन् कैलासं प्राप्तवान्मुनिः ।तत्र स्थितं महादेव कृष्णध्यानपरायणम् ॥४४॥नत्वा पप्रच्छ तद्रात्रौ खिन्नचेता महामुनिः ।आसुरिरुवाच -भगवन् सर्व ब्रह्माण्डं मया दृष्टमितस्ततः ॥४५॥आवैकुण्ठाश्च गोलोकाद्भ्रमता तद्दिद्रुक्षुणा ।कुत्रापि देवदेवस्य दर्शनं न बभूव मे ॥४६॥श्रीमहादेव उवाच -धन्यस्त्वमासुरे ब्रह्मन् कृष्णभक्तोऽस्यहैतुकः ।दिदृक्षुणा त्वयाऽऽयासं कृत्वं वेद्मि महामुने ॥४७॥कर्मेन्द्रियाणीह यथा रसादीन्तथा सकामा मुनयः सुखं यत् ।मनाङ्न जानन्ति जनैरपेक्ष्यंगूढं परं निर्गुणलक्षणं तत् ॥४८॥हंसं मुनिं दुःखगतं महोदधौयः सर्वतो मोचयितुं गतस्त्वरम् ।सोऽद्यैव वृंदाविपिने सखीजनैःकरोति रासं रसिकेश्वरः स्वयम् ॥४९॥षाण्मासिकी चाद्य कृता निशीथिनीस्वमायया देववरेण भो मुने ।अहं गमिष्यामि तदेव द्रष्टुंत्वमेव गच्छाशु मनोरथं यथा ॥५०॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे रासक्रीडायां आसुर्युपाख्यानं नाम चतुर्विंशोऽध्यायः ॥२४॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP