संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः १४ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः १४ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता कालियोपाख्यान वर्णनम् Translation - भाषांतर वैदेह उवाच -राजोवाच -द्वीपे रमणके ब्रह्मन् सर्पान् अन्यान्विना कथम् ।एतन्मे ब्रूहि सकलं कालियस्याभवद्भयम् ॥१॥श्रीनारद उवाच -तत्र नागान्तको नित्यं नागसंघं जघान ह ।गतक्षोभं चैकदा ते तार्क्ष्यं प्राहुर्भयातुराः ॥२॥नागाः ऊचुः -हे गरुत्मन् नमस्तुभ्यं त्वं साक्षाद्विष्णुवाहनः ।अस्मानत्सि यदा सर्पान् कथं नो जीवनं भवेत् ॥३॥तस्माद्बलिं गृहाणाशु मासे मासे गृहात्पृथक् ।वनस्पतिसुधान्नानां उपचारैर्विधानतः ॥४॥गरुड उवाच -एकः सर्पस्तु मे देयोभवद्भिर्वा गृहात्पृथक् ।कथं पचामि तमृते बलिं वीटकवत्परम् ॥५॥श्रीनारद उवाच -तथास्तु चोक्तास्ते सर्वे गरुडाय महात्मने ।गोपीथायात्मजो राजन् नित्यं दिव्यं बलिं ददुः ॥६॥कालियस्य गृहस्यापि समयोऽभूद्यदा नृप ।तदा तार्क्ष्यबलिं सर्वं बुभुजे कालियो बलात् ॥७॥तदाऽऽगतः प्रकुपितो वेगतः कालियोपरि ।चकार पादविक्षेपं गरुडश्चंडविक्रमः ॥८॥गरुडांघ्रिप्रहारेण कालियो मूर्छितोऽभवत् ।पुनरुत्थाय जिह्वाभिः प्रावलीढन् मुखं श्वसन् ॥९॥प्रसार्य स्वं फणशतं कालियः फणिनां वरः ।व्यदशद्गरुडं वेगाद्दद्भिर्विषमयैर्बली ॥१०॥गृहीत्वा तं च तुंडेन गरुडो दिव्यवाहनः ।भूपृष्ठे पोथयामास पक्षाभ्यां ताडयन्मुहुः ॥११॥तुण्डाद्विनिर्गतः सर्पः तत्पक्षान्विचकर्ष ह ।तत्पादौ वेष्टयंस्तुद्यन् फूत्कारं व्यदधन्मुहुः ॥१२॥तेषां तु दर्शनं पुण्यं सर्वकामफलप्रदम् ।शुक्लपक्षे मैथिलेंद्र दशम्यामाश्विनस्य तत् ॥१३॥कुपितो गरुडस्तं वै नीत्वा तुंडेन कालियम् ।निपात्य भूम्यां सहसा तत्तनुं विचकर्ष ह ॥१४॥तदा दुद्राव तत्तुंडात् कालियो भयविह्वह्लः ।तमन्वधावत् सहसा पक्षिराट् चंडविक्रमः ॥१५॥सप्त द्वीपान् सप्तखंडान् सप्तसिंधूंस्ततः फणी ।यत्र यत्र गतस्तार्क्ष्यं तत्र तत्र ददर्श ह ॥१६॥भूर्लोकं च भुवर्लोकं स्वर्लोकं प्रगतः फणी ।महर्लोकं ततो धावन् जनलोकं जगाम ह ॥१७॥यत्रैव गरुडे प्राप्तेऽ धोऽधो लोकं पुनर्गतः ।श्रीकृष्णस्य भयात्केऽपि रक्षां तस्य न संदधुः ॥१८॥कुत्रापि न सुखे जाते कालियोऽपि भयातुरः ।जगाम देवदेवस्य शेषस्य चरणांतिके ॥१९॥नत्वा प्रणम्य तं शेषं परिक्रम्य कृतांजलिः ।दीनो भयातुरः प्राह दीर्घपृष्ठ प्रकंपितः ॥२०॥कालिय उवाच -हेभूमिभर्तर्भुवनेश भूमन्भूभारहृत्त्वं ह्यसि भूरिलीलः ।मां पाहि पाहि प्रभविष्णुपूर्णःपरात्परस्त्वं पुरुषः पुराणः ॥२१॥श्रीनारद उवाच -दीनं भयातुरं दृष्ट्वा कालियं श्रीफणीश्वरः ।वाचा मधुरया प्रीणन् प्राह देवोजनार्दनः ॥२२॥शेष उवाच -हे कालिय महाबुद्धे श्रृणु मे परमं वचः ।कुत्रापि न हि ते रक्षा भविष्यति न संशयः ॥२३॥आसीत्पुरा मुनिः सिद्धः सौभरिर्नाम नामतः ।वृन्दारण्ये तपस्तप्तो वर्षाणामयुतं जले ॥२४॥मीनराजविहारं यो वीक्ष्य गेहस्पृहोऽभवत् ।स उवाह महाबुद्धिः मांधातुस्तनुजाशतम् ॥२५॥तस्मै ददौ हरिः साक्षात् परां भागवतीं श्रियम् ।वीक्ष्य तां नृप मांधाता विस्मितोऽभूद्गतस्मयः ॥२६॥यमुनांतर्जले दीर्घं सौभरेस्तपतस्तपः ।पश्यतस्तस्य गरुडो मीनराजं जघान ह ॥२७॥मीनान्सुदुःखितान् दृष्ट्वा दुःसहा दीनवत्सलः ।तस्मिन् शापौ ददौ क्रुद्धः सौभरिर्मुनिसत्तमः ॥२८॥सौभरिरुवाच -मीनानद्यतनाद् अत्र यद्यत्सि त्वं बलाद्विराट् ।तदैव र्पाणनाशस्ते भूयान्मे शापतस्त्वरम् ॥२९॥शेष उवाच -तद्दिनात्तत्र नायाति गरुडः शापविह्वलः ।तस्मात् कालिय गच्छाशु वृंदारण्ये हरेर्वने ॥३०॥कालिंद्यां च निजं वासं कुरु मद्वाक्यनोदितः ।निर्भयस्ते भयं तार्क्ष्यान् न भविष्यति कर्हिचित् ॥३१॥श्रीनारद उवाच -इत्युक्तः कालियो भीतः सकलत्रः सपुत्रकः ।कालिंद्यां वासकृद् राजन् श्रीकृष्णेन विवासितः ॥३२॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे कालियोपाख्यान वर्णनं नाम चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP