संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः १७ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः १७ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता राधाकृष्णसंगमः Translation - भाषांतर श्रीबहुलाश्व उवाच -राधाकृष्णस्य चरितं शृण्वतो मे मनो मुने ।न तृप्तिं याति शरदः पंकजे भ्रमरो यथा ॥१॥रासेश्वर्या कृष्णपत्न्या तुलसीसेवने कृते ।यद्बभूव ततो ब्रह्मन् तन्मे ब्रूहि तपोधन ॥२॥श्रीनारद उवाच -राधिकायाश्च विज्ञाय तुलसीसेवने तपः ।प्रीतिं परीक्षन् श्रीकृष्णो वृषभानुपुरं ययौ ॥३॥अद्भुतं गोपिकारूपं चलज्झंकारनूपुरम् ।किंकिणीघण्टिकाशब्दमंगुलीयकभूषितम् ॥४॥रत्नकंकणकेयूर मुक्ताहारविराजितम् ।बालार्कताटंकलसत्कबरीपाशकौशलम् ॥५॥नासामौक्तिकदिव्याभं श्यामकुन्तलसंकुलम् ।धृत्वाऽसौ वृषभानोश्च मन्दिरं सन्ददर्श ह ॥६॥प्राकारपरिखायुक्तं चतुर्द्वारसमन्वितम् ।करीन्द्रैः कंजलाकारैर्द्वारि द्वारि मनोहरम् ॥७॥वायुवेगैर्मनोवेगैश्चित्रवर्णैस्तुरंगमैः ।हारचामरसंयुक्तं प्रोल्लसन्मण्डपाजिरम् ॥८॥गवां गणैः सवत्सैश्च वृषैर्धर्मधुरन्धरैः ।गोपाला यत्र गायन्ते वंशीवेत्रधरा नृप ॥९॥वृषभानुवरस्यैवं पश्यन् मन्दिरकौशलम् ।मायायुवतिवेषोऽसौ ततो ह्यन्तःपुरं ययौ ॥१०॥यत्र कोटिरविस्फूर्जत्कपाटस्तम्भपंक्तयः ।रत्नाजिरेषु शोभन्ते ललनारत्नसंयुताः ॥११॥वीणातालमृदंगादीन् वादयन्त्यो मनोहराः ।पुष्पयष्टिसमायुक्ता गायन्त्यो राधिकागुणम् ॥१२॥तस्मिन्नन्तःपुरे दिव्यं भ्राजच्चोपवनं महत् ।दाडिमीकुन्दमन्दारनिंबून्नतद्रुमावृतम् ॥१३॥केतकीमालतीवृंदैः माधवीभिः विराजितम् ।तत्र राधानिकुंजोऽस्ति कल्पवृक्षसुगन्धिभृत् ॥१४॥पतन्ति यत्र भ्रमरा मधुमत्ता नृपेश्वर ।गन्धाक्तः शीतलो वायुर्मन्दगामी वहत्यलम् ॥१५॥सहस्रदलपद्मानां रजो विक्षेपयन्मुहुः ।पुंस्कोकिला कोकिलाश्च मयूराः सारसाः शुकाः ॥१६॥कूजन्ते मधुरं नादं निकुंजशिखरेषु च ।पुष्पशय्यासहस्राणि जलकुल्याः सहस्रशः ॥१७॥प्रोच्छलन्ति स्फुरत्स्फारा यत्र वै मेघमन्दिरे ।बालार्ककुण्डलधराः चित्रवस्त्राम्बराननाः ॥१८॥वर्तन्ते कोटिशो यत्र सख्यस्तत्कर्मकौशलाः ।तन्मध्ये राधिका राज्ञी भ्रमन्ती मन्दिराजिरे ॥१९॥काश्मीरपंकसंयुक्ते सूक्ष्मवस्त्रविराजिते ।शिरीषपुष्पक्षितिजदलैरागुल्फपूरके ॥२०॥मालतीमकरन्दानां क्षरद्भिर्बिन्दुभिर्वृते ।कोटिचंद्रप्रतीकाशा तन्वी कोमलविग्रहा ।शनैः शनैः पादपद्मं चालयन्ती च कोमलम् ॥२१॥समागतां तां मणिमन्दिराजिरेददर्श राधा वृषभानुनन्दिनी ।यत्तेजसा तल्ललनाहृतत्विषोजातास्त्वरं चंद्रमसेव तारकाः ॥२२॥विज्ञाय तद्गौरवमुत्तमं मह-दुत्थाय दोर्भ्यां परिरभ्य राधिका ।दिव्यासने स्थाप्य सुलोकरीत्याजलादिकं चार्हणमारभच्छुभम् ॥२३॥राधोवाच -स्वागतं ते सखि शुभे नामधेयं वदाशु मे ।भूरिभाग्यं ममैवाद्य भवत्याऽऽगतया स्वतः ॥२४॥त्वत्समानं दिव्यरूपं दृश्यते न हि भूतले ।यत्र त्वं वर्तसे सुभ्रु पत्तनं धन्यमेव तत् ॥२५॥वद देवि सविस्तारं हेतुमागमनस्य च ।मम योग्यं च यत्कार्यं वक्तव्यं तत्त्वया खलु ॥२६॥कटाक्षेण सुदीप्त्या च वचसा सुस्मितेन वै ।गत्या कृत्या श्रीपतिवद्दृश्यते सांप्रतं मया ॥२७॥नित्यं शुभे मे मिलनार्थमाव्रजन चेत् स्वसंकेतमलं विधेहि ।येनैव संगो विधिना भवेद्धिविधिर्भवत्या स सदा विधेयः ॥२८॥अयि त्वदात्माऽतिपरं प्रियो मेत्वदाकृतिः श्रीव्रजराजनन्दनः ।येनैव मे देवि हृतं तु चेत-स्त्वय ननान्देव वधूर्दधामि तम् ॥२९॥श्रीनारद उवाच -एवं राधावचः श्रुत्वा मायायुवतिवेषधृक् ।उवाच भगवान् कृष्णो राधां कमललोचनाम् ॥३०॥श्रीभगवानुवाच -रम्भोरु नन्दनगरे नन्दगेहस्य चोत्तरे ।गोकुले वसतिर्मेऽस्ति नाम्नाऽहं गोपदेवता ॥३१॥त्वद्रूपगुणमाधुर्यं श्रुतं मे ललितामुखात् ।तद्द्रष्टुं चंचलापाङ्गि त्वद्गृहेऽहं समागता ॥३२॥श्रीमल्लवंगलतिकास्फुटमोदिनीनांगुञ्जानिकुञ्जमधुप- ध्वनिकुञ्जपुञ्जम् ।दृष्टं श्रुतं नवनवं तव कंजनेत्रेदिव्यं पुरंदरपुरेऽपि न यत्समानम् ॥३३॥श्रीनारद उवाच -एवं तयोर्मेलनं तद्बभूव मिथिलेश्वर ।प्रीतिं परस्परं कृत्वा वने तत्र विरेजतुः ॥३४॥हसन्त्यौ ते च गायन्त्यौ पुष्पकन्दुकलीलया ।पश्यन्त्यौ वनवृक्षांश्च चेरतुर्मैथिलेश्वर ॥३५॥कलाकौशल संपन्नां राधां कमललोचनाम् ।गिरा मधुरया राजन् प्राहेदं गोपदेवता ॥३६॥गोपदेवतोवाच -दूरे वै नन्दनगरं सन्ध्या जाता व्रजेश्वरि ।प्रभाते चागमिष्यामि त्वत्सकाशं न संशयः ॥३७॥श्रीनारद उवाच -श्रुत्वा वचस्तस्य तु तद्व्रजेश्वरींनिक्षिप्य सद्यो नयनांबुसन्ततिम् ।रोमांचहर्षोद्गमभावसंवृतारंभेव भूमौ पतिता मरुद्धता ॥३८॥शंकागतास्तत्र सखीगणास्त्वरंसुवीजयन्त्यो व्यजनैर्व्यवस्थिताः ।श्रीखण्डपुष्प द्रवचर्चितांऽशुकांजगाद राधां नृप गोपदेवता ॥३९॥गोपदेवतोवाच -प्रभाते आगमिष्यामि मा शोकं कुरु राधिके ।गोश्च भ्रातुर्गोरसस्य शपथो मे न चेदिदम् ॥४०॥श्रीनारद उवाच -एवमुक्त्वा हरी राधां समाश्वास्य नृपेश्वर ।मायायुवतिवेषोऽसौ ययौ श्रीनन्दगोकुलम् ॥४१॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे राधाकृष्णसंगमो नाम सप्तदशोऽध्यायः ॥१७॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP