संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः ०३ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः ०३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता गिरिराजोत्पत्तिकथनम् Translation - भाषांतर सन्नन्द उवाच -गोलोके हरिणाऽऽज्ञप्ता कालिन्दी सरितां वरा ।कृष्णं प्रदक्षिणीकृत्य गन्तुमभ्युद्यताभवत् ॥१॥तदैव विरजा साक्षाद्गङ्गा ब्रह्मद्रवोद्भवा ।द्वे नद्यौ यमुनायां तु संप्रलीने बभूवतुः ॥२॥परिपूर्णतमां कृष्णां तस्मात् कृष्णस्य नन्दराट् ।परिपूर्णतमस्यापि पट्टराज्ञीं विदुर्जनाः ॥३॥ततो वेगेन महता कालिन्दी सरितां वरा ।बिभेद विरजावेगं निकुंजद्वारनिर्गता ॥४॥असंख्यब्रह्मांडचयं स्पृष्ट्वा ब्रह्मद्रवं गता ।भिन्दन्ती तज्जलं दीर्घं स्ववेगेन महानदी ॥५॥वामपादांगुष्ठनखभिन्नब्रह्मांडमस्तके ।श्रीवामनस्य विवरे ब्रह्मद्रवसमाकुले ॥६॥तस्मिन् श्रीगंगया सार्धं प्रविष्टाऽभूत्सरिद्वरा ।वैकुंठं चाजितपदं संप्राप्य ध्रुवमंडले ॥७॥ब्रह्मलोकमभिव्याप्य पतन्ती ब्रह्ममंडलात् ।ततः सुराणां शतशो लोकाल्लोकं जगाम ह ॥८॥ततः पपात वेगेन सुमेरुगिरिमूर्धनि ।गिरिकूटानतिक्रम्य भित्त्वा गंडशिलातटान् ॥९॥सुमेरोर्दक्षिणदिशं गन्तुमभ्युदिताभवत् ।ततः श्रीयमुना साक्षाच्छ्रीगंगायां विनिर्गता ॥१०॥गंगा तु प्रययौ शैलं हिमवन्तं महानदी ।कृष्णा तु प्रययौ शैलं कलिन्दं प्राप्य सा तदा ॥११॥कालिंदीति समाख्याता कालिंदप्रभवा यदा ।कलिंदगिरिसानूनां गंडशैलतटान् दृढान् ॥१२॥भित्त्वा लुठन्ती भूखंडे कृष्णा वेगवती सती ।देशान्पुनन्ती कालिन्दी प्राप्तवान् खांडवे वने ॥१३॥परिपूर्णतमं साक्षाच्छ्रीकृष्णं वरमिच्छती ।धृत्वा वपुः परं दिव्यं तपस्तेपे कलिन्दजा ॥१४॥पित्रा विनिर्मिते गेहे जलेऽद्यापि समाश्रिता ।ततो वेगेन कालिन्दी प्राप्ताभूद्व्रजमंडले ॥१५॥वृन्दावनसमीपे च मथुरानिकटे शुभे ।श्रीमहावनपार्श्वे च सैकते रमणस्थले ॥१६॥श्रीगोकुले च यमुना यूथीभूत्वातिसुंदरी ।श्रीकृष्णचंद्ररासार्थं निजवासं चकार ह ॥१७॥अथो व्रजाद्व्रजंती सा व्रजविक्षेपविह्वला ।प्रेमानन्दाश्रुसंयुक्ता भूत्वा पश्चिमवाहिनी ॥१८॥ततस्त्रिवारं वेगेन नत्वाथो व्रजमंडले ।देशान् पुनन्ती प्रययौ प्रयागं तीर्थसत्तमम् ॥१९॥पुनः श्रीगंगया सार्धं क्षीराब्धिं सा जगाम ह ।देवाः सुवर्षं पुष्पाणां चक्रुर्दिवि जयध्वनिम् ॥२०॥कृष्णा श्रीयमुना साक्षात् कालिन्दी सरितां वरा ।समुद्रमेत्य श्रीगंगां प्राह गद्गदया गिरा ॥२१॥यमुनोवाच -हे गंगे त्वं तु धन्याऽसि सर्वब्रह्माण्डपावनी ।कृष्णपादाब्जसंभूता सर्वलोकैकवन्दिता ॥२२॥ऊर्ध्वं यामि हरेर्लोकं गच्छ त्वमपि हे शुभे ।त्वत्समानं हि दिव्यं च न भूतं न भविष्यति ॥२३॥गंगोवाच -सर्वतीर्थमयी गंगा तस्मात्त्वां प्रणमाम्यहम् ।यत्किंचिद्वा प्रकथितं तत्क्षमस्व सुमंगले ॥२४॥हे कृष्णे त्वं तु धन्याऽसि सर्वब्रह्माण्डपावनी ।कृष्णवामांससंभूता परमानन्दरूपिणी ॥२५॥परिपूर्णतमा साक्षात्सर्वलोकैकवन्दिता ।परिपूर्णतमस्यापि श्रीकृष्णस्य महात्मनः ॥२६॥पट्टराज्ञीं परां कृष्णे कृष्णां त्वां प्रणमाम्यहम् ।तीर्थैर्देवैर्दुर्लभा त्वं गोलोकेऽपि च दुर्घटा ॥२७॥अहं यास्यामि पातालं श्रीकृष्णस्याज्ञया शुभे ।त्वद्वियोगातुराऽहं वै पानं कर्तुं न च क्षमा ॥२८॥यूथीभूत्वा भविष्यामि श्रीव्रजे रासमंडले ।यत्किंचिन्मे प्रकथितं तत्क्षमस्व हरिप्रिये ॥२९॥इत्थं परस्परं नत्वा द्वे नद्यौ ययतुर्द्रुतम् ।लोकान् पवित्रीकुर्वन्ती पाताले स्वःसरिद्गता ॥३०॥सापि भोगवतीनाम्ना बभौ भोगवतीवने ।यज्जलं सत्रिनयनः शेषो मूर्ध्ना बिभर्ति हि ॥३१॥अथ कृष्णा सवेगेन भित्त्वा सप्ताधिमंडलम् ।सप्तद्वीपमहीपृष्ठे लुठन्ती वेगवत्तरा ॥३२॥गत्वा स्वर्णमयीं भूमिं लोकालोकाचलं गता ।तत्सानुगण्डशैलानां तटं भित्त्वा कलिन्दजा ॥३३॥तन्मूर्ध्नि चोत्पपाताशु स्फारवज्जलधारया ।उद्गच्छन्ती तदूर्ध्वं सा ययौ स्वर्गं तु नाकिनाम् ॥३४॥आब्रह्मलोकं लोकांस्तानभिव्याप्य हरेः पदम् ।ब्रह्माडरंध्रं श्रीब्रह्म द्रवयुक्तं समेत्य सा ॥३५॥पुष्पवर्षं प्रवर्षत्सु देवेषु प्रणतेषु च ।पुनः श्रीकृष्णगोलोकमारुरोह सरिद्वरा ॥३६॥कलिन्दगिरिनन्दिनीनवचरित्रमेतत् शुभंश्रुतं च यदि पाठितं भुवि तनोति सन्मंगलम् ।जनोऽपि यदि धारयेत्किल पठेच्च यो नित्यशःस याति परमं पदं निजनिकुंजलीलावृतम् ॥३७॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे नंदसन्नन्दसंवादे कालिन्द्यागमनवर्णनं नाम तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP