वृन्दावनखण्डः - अध्यायः २२

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
अथ कृष्णगुणान् रम्यान् समेताः सर्वयोषितः ।
जगुस्तालस्वरैः रम्यैः कृष्णागमनहेतवे ॥१॥
गोप्य ऊचुः -
लोकाभिराम जनभूषण विश्वदीप
कंदर्पमोहन जगद्‌वृजिनार्तिहारिन् ।
आनंदकंद यदुनंदन नंदसूनो
स्वच्छन्दपद्ममकरंद नमो नमस्ते ॥२॥
गोविप्रसाधुविजयध्वज देववंद्य
कंसादिदैत्यवधहेतुकृतावतार ।
श्रीनंदराजकुलपद्मदिनेश देव
देवादिमुक्तजनदर्पण ते जयोऽस्तु ॥३॥
गोपालसिंधुपरमौक्तिक रूपधारिन्
गोपालवंशगिरिनीलमणे परात्मन् ।
गोपालमंडलसरोवरकञ्जमूर्ते
गोपालचन्दनवने कलहंसमुख्य ॥४॥
श्रीराधिकावदनपंकज षट्पदस्त्वं
श्रीराधिकावदनचंद्रचकोररूपः ।
श्रीराधिकाहृदयसुन्दरचन्द्रहार
श्रीराधिकामधुलताकुसुमाकरोऽसि ॥५॥
यो रासरंगनिजवैभवभूरिलीला
यो गोपिकानयनजीवनमूलहारः ।
मानं चकार रहसा किल मानवत्यां
सोऽयं हरिर्भवतु नो नयनाग्रगामी ॥६॥
यो गोपिकासकलयूथमलंचकार
वृंदावनं च निजपादरजोभिरद्रिम् ।
यः सर्वलोकविभवाय बभूव भूमौ
तं भूरिलीलमुरगेंद्रभुजं भजामः ॥७॥
चंद्रं प्रतप्तकिरणज्वलनं प्रसन्नं
सर्वं वनांतमसिपत्रवनप्रवेशम् ।
बाणं प्रभंजनमतीव सुमन्दयानं
मन्यामहे किल भवन्तमृते व्यथार्ताः ॥८॥
सौदासराजमहिषीविरहादतीव
जातं सहस्रगुणितं नलपट्टराज्ञ्याः ।
तस्मात्तु कोटिगुणितं जनकात्मजायाः
तस्मादनंतमतिदुःखमलं हरे नः ॥९॥
श्रीउद्धवः सकलभक्तशिरोमणीशः
त्वत्पादपद्मवरमुख्यधिकारकारी ।
तस्माद्वयं च चरणौ शरणं गताः स्मः
श्रीमन् कृपां क्रु शण्यपदे शरण्ये ॥१०॥
श्रीनारद उवाच -
इत्थं राज रुदन्तीनां गोपीनां कमलेक्षणः ।
आविर्बभूव सहसा स्वयमर्थमिवात्मनः ॥११॥
स्फुरत्किरीटकेयूर कुंडलांगदभूषणम् ।
स्निग्धामलसुगन्धाढ्यनीलकुंचितकुंतलम् ॥१२॥
आगतं वीक्ष्य युगपत् समुत्तस्थुर्व्रजांगनाः ।
तन्मात्राणि च यं दृष्ट्वा यथा ज्ञानेंद्रियाणि च ॥१३॥
हरिर्ननर्त तन्मध्ये वंशीवादनतत्परः ।
राधया सहितो राजन् यथा रत्या रतीश्वरः ॥१४॥
यावतीर्गोपिकाः सर्वास्तावद्‌रूपधरो हरिः ।
गच्छन् ताभिर्व्रजे रेमे स्वावस्थाभिर्मनो यथा ॥१५॥
वनोद्देशे स्थितं कृष्णं गतदुःखा व्रजांगनाः ।
कृतांजलिपुटा ऊचुर्गिरा गद्‌गदया हरिम् ॥१६॥
गोप्य ऊचुः -
क्व गतस्त्वं वद हरे त्यक्त्वा गोपीगणो महान् ।
सर्वं जगत्तृणीकृत्य त्वत्पादे प्राप्तमानसम् ॥१७॥
श्रीभगवानुवाच - हे गोप्यः पुष्करद्वीपे हंसो नाम महामुनिः ।
समुद्रे दधिमंडोदे ततापान्तर्गतस्तपः ॥१८॥
चकाराहैतुकीं भक्तिं मम ध्यानपरायणः ।
व्यतीतं तस्य तपतो गोप्यो मन्वन्तरद्वयम् ॥१९॥
तमद्यैवाग्रसन्मत्स्यो योजनार्धवपुर्धरः ।
तन्निर्जगार पौंड्रस्तु मत्स्यरूपधरोऽसुरः ॥२०॥
एवं संप्राप्तकष्टस्य हंसस्यापि मुनेरहम् ।
गत्वाऽथ शीघ्रेण तयोः शिरश्छित्वाऽरिणा मुनिम् ॥२१॥
मोचयित्वाऽथ गतवान् श्वेतद्वीपे व्रजांगनाः ।
क्षीराब्धौ शेषपर्यंके शयनं तु मया कृतम् ॥२२॥
दुःखिता भवतीर्ज्ञात्वा निद्रां त्यक्त्वा ततः प्रियाः ।
सहसा भक्तवश्योऽहं पुनरागतवानिह ॥२३॥
जानन्ति सन्तः समदर्शोनि ये
दान्ता महान्तः किल नैरपेक्ष्याः ।
ते नैरपेक्ष्यं परमं सुखं मे
ज्ञानेन्द्रियादीनि यथा रसादीन् ॥२४॥
गोप्य ऊचुः -
क्षीराब्दौ शेषपर्यंके यद्‌रूपं च त्वया धृतम् ।
तद्‌रूपदर्शनं देहि यदि प्रीतोऽसि माधव ॥२५॥
श्रीनारद उवाच -
तथाऽस्तु चोक्त्वा भगवान् गोपीव्यूहस्य पश्यतः ।
दधाराष्टभुजं रूपं श्रीराधारूपमेव च ॥२६॥
तत्र क्षीरसमुद्रोऽभूल्लोलकल्लोलमण्डितः ।
दिव्यानि रत्‍नसौधानि बभूवुर्मंगलानि च ॥२७॥
तत्र शेषो बिसश्वेतः कुण्डलीभूतसंस्थितः ।
बालार्कमौलिसाहस्रफणाच्छत्रविराजितः ॥२८॥
तस्मिन् वै शेषपर्यङ्के सुखं सुष्वाप माधवः ।
तस्य श्रीरूपिणी राधा पादसेवां चकार ह ॥२९॥
तद्‌रूपं सुंदरं दृष्ट्वा कोटिमार्तण्डसन्निभम् ।
नत्वा गोपीगणाः सर्वे विस्मयं परमं गताः ॥३०॥
गोपीभ्यो दर्शनं दत्तं यत्र कृष्णेन मैथिल ।
तत्र क्षेत्रं महापुण्यं जातं पापप्रणाशनम् ॥३१॥
अथ गोपीगणैः सार्धं यमुनामेत्य माधवः ।
कालिन्दीजलवेगेषु जलकेलिं चकार ह ॥३२॥
राधाकराल्लक्षदलं पद्मं पीताम्बरं तथा ।
धावन् जलेषु गतवान् प्रहसन् माधवः स्वयम् ॥३३॥
राधा हरेः पीतपटं वशीवेत्रस्फुरत्‌प्रभम् ।
गृहीत्वा प्रसहन्ती सा गच्छन्ती यमुनाजले ॥३४॥
वंशीं देहीति वदतः श्रीकृष्णस्य महात्मनः ।
राधा जगाद कमलं वासो देहीति माधव ॥३५॥
कृष्णो ददौ राधिकायै पद्ममंबरमेव च ।
राधा ददौ पीतपटं वेत्रं वंशीं महात्मने ॥३६॥
अथ कृष्णः कलं गायन् मालामाजानुलंबिताम् ।
वैजन्तीमादधानः श्रीभाण्डीरं गजाम ह ॥३७॥
प्रियायास्तत्र शृङ्गारं चकार कुशलेश्वरः ।
पत्रावलीयावकाग्रैः पुष्पैः कंजलकुंकुमैः ॥३८॥
चंदनागुरुकस्तूरी केसराद्यैर्हरेर्मुखे ।
पत्रं चकार शृङ्गारे मनोज्ञं कीर्तिनन्दिनी ॥३९॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे रासक्रीडावर्णनं नाम द्वाविंशोऽध्यायः ॥२२॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP