संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः १९ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः १९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता रासक्रीडा वर्णनम् Translation - भाषांतर बहुलाश्व उवाच -राधायै दर्शनं दत्त्वा कृत्वा प्रेमपरीक्षणम् ।अग्रे चकार कां लीलां भगवानात्मलीलया ॥१॥श्रीनारद उवाच -माधवो माधवे मासि माधवीभिः समाकुले ।वृंदावने समारेभे रासं रासेश्वरः स्वयम् ॥२॥वैशाखमासि पंचम्यां जाते चन्द्रोदये शुभे ।यमुनोपवने रेमे रासेश्वर्या मनोहरः ॥३॥पुरा मैथिल गोलोकाद् भूमिर्या कौ समागता ।सर्वा बभूव सौवर्णपद्मरागमयी त्वरम् ॥४॥वृन्दावनं दिव्यवपुः दधत् कामदुघैर्द्रुमैः ।माधवीभिर्लताभिश्च प्राक्षिपन्नन्दनन्दनम् ।रत्नसोपानसंपन्ना स्फुरत्सौवर्णतोलिका ।रराज यमुना राजन् हंसपद्मादिसंकुला ॥६॥रत्नधातुमयः श्रीमद्रत्नशृङ्गस्फुरद्द्युतिः ।सपक्षिगणसंयुक्तो लतापुष्पमनोहरः ॥७॥निर्झरैः सुन्दरीभिश्च दरीभिर्भ्रमरीवृतः ।रेजे गोवर्धनो नाम गिरिराजः करीन्द्रवत् ॥८॥सर्वे निकुंजाः परितो रेजुर्दिव्यवपुर्धराः ।सभामण्डपवीथीभिः प्रांगणस्तंभपंक्तिभिः ॥९॥पतत्पताकैर्दिव्याभैः सौवर्णैः कलशैर्नृप ।स्वेतारुणैः पुष्पदलैः पुष्पमन्दिरवर्तिभिः ॥१०॥वसन्तमाधुर्यधराः कूजत्कोकिलसारसाः ।पारावतैर्मयूरैश्च यत्र तत्र निकूजिताः ॥११॥राधाकृष्णकथां पुण्यां गायमानैर्मधुव्रतैः ।पतद्भिर्मधुमत्तैश्च कुंजाः सर्वे विराजिताः ॥१२॥पुलिने शीतलो वायुः मन्दगामी वहत्यलम् ।सहस्रदलपद्मानां रजो विक्षेपयन्मुहुः ॥१३॥काश्चिद्गोलोकवासिन्यः काश्चिच्छय्योपकारिकाः ।शृङ्गारप्रकराः काश्चित्काश्चित्वै द्वारपालिकाः ॥१४॥पार्षदाख्याः सखिजनाः छत्रचामरपाणयः ।पुष्पाभरणकारिण्यः श्रीवृन्दावनपालिकाः ॥१५॥गोवर्धननिवासिन्यः काश्चित्कुंजविधायिकाः ।तन्निकुंजनिवासिन्यो नर्तक्यो वाद्यतत्पराः ॥१६॥सर्वा वै चन्द्रवदनाः किशोरवयसा नृप ।आसां द्वादशयूथाश्चा जग्मुः श्रीकृष्णसन्निधिम् ॥१७॥तथैव यमुना साक्षाद्यूथीभूत्वा समाययौ ।श्वेताम्बरा श्वेतवर्णा मुक्ताभरणभूषिता ॥१८॥तथाऽऽययौ कृष्णपत्नी नाम्ना या मधुमाधवी ।पद्मवर्णा पुष्पभूषा यूथीभूत्वा शुभांबरा ॥२१॥तथैव विरजा साक्षाद्यूथीभूत्वा समाययौ ।हरिद्वस्त्रा गौरवर्णा रत्नालंकारभूषिता ॥२२॥ललिताया विशाखाया मायायूथः समाययौ ।एवं स्वष्टसखीनां च सखीनां किल षोडश ॥२३॥द्वात्रिंशच्च सखीनां च यूथा सर्वे समाययुः ।रराज भगवान् राजन् स्त्रीगणै रासमण्डले ॥२४॥वृन्दावने यथाऽऽकाशे चंद्रस्तारागणैर्यथा ।पीतवासःपरिकरो नटवेषो मनोहरः ॥२५॥वेत्रभूद्वादयन् वंशीं गोपीनां प्रीतिमावहन् ।मयूरपक्षभृन्मौली स्रग्वी कुण्डलमण्डितः ॥२६॥राधया शुशुभे रासे यथा रत्या रतीश्वरः ।एवं गायन् हरिः साक्षात्सुन्दरीगणसंवृतः ॥२७॥यमुनापुलिनं पुण्यमाययौ राधया युतः ।गृहीत्वा हस्तपादेन पद्माभं स्वप्रियाकरम् ॥२८॥निषसाद हरिः कृष्णातीरे नीरमनोहरे ।पुनर्जल्पन् सुमधुरं पश्यन् वृन्दावनं प्रियम् ॥२९॥चलन् हसन् राधिकया कुंजं कुंजं चचार ह ।कुंजे निलीयमानं तं त्वरं त्यक्त्वा प्रियाकरम् ॥३०॥विलोक्य शाखान्तरितं राधा जग्राह माधवम् ।राधा दुद्राव तद्धस्ताज्झंकारं कुर्वती पदे ॥३१॥निलीयमाना कुंजेषु पश्यतो माधवस्य च ।धावन् हरिर्गतो यावत्तावद्राधा ततो गता ॥३२॥वृक्षपार्श्वे हस्तमात्रादितश्चेतश्च धावती ।तमालो हेमवल्ल्येव घनश्चंचलया यथा ॥३३॥हेमखन्येव नीलाद्री रेजे राधिकया हरिः ।राधया विश्वमोहिन्या बभौ मदनमोहनः ॥३४॥वृन्दावने रासरंगे रत्येव मदनो यथा ।धृत्वा रूपाणि तावन्ति यावन्ति व्रजयोषितः ॥३५॥ननर्त रासरंगेऽसौ रंगभूम्यां नटो यथा ।गायन्त्यश्चापि नृत्यन्त्यः सर्वा गोप्यो मनोहराः ॥३६॥विरेजुः कृष्णचन्द्रैश्च यथा शक्रैः सुरांगनाः ।वारां विहारं कृष्णायां चकार मधुसूदनः ॥३७॥सर्वैर्गोपीगणैः सार्धं यक्षीभिर्यक्षराडिव ।कबरीकेशपाशाभ्यां प्रसूनैः प्रच्युतैः शुभैः ।चित्रवर्णैर्बभौ कृष्णो यथोष्णिङ्मुद्रिता तथा ॥३८॥मृदंगतालैर्मधुरध्वनिस्वनै-र्जगुर्यशस्ता मधुसूदनस्य ।प्रापुर्मुदं पूर्णमनोरथाश्चल-त्प्रसूनहारा हरिणा गतव्यथाः ॥३९॥श्रीहस्तसंताडितवारिबिंदुभिःस्फारासमस्फूर्जितशीकरद्युभिः ।वृन्दावनेशो व्रजसुंदरीभीरेजे गजीभिर्गजराडिव स्वयम् ॥४०॥विद्याधर्यो देवगंधर्वपत्न्यःपश्यन्त्यस्ता रासरंगं दिविस्थाः ।देवैः सार्धं चक्रिरे पुष्पवर्षंमोहं प्राप्ताः प्रश्लथद्वस्त्रनीव्यः ॥४१॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे रासक्रीडावर्णनं नामैकोनविंशोऽध्यायः ॥१९॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP