संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः ०९ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः ०९ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता ब्रह्मणः कृष्णस्तुतिः Translation - भाषांतर ब्रह्मोवाच -कृष्णाय मेघवपुषे चपलाम्बरायपियूषमिष्टवचनाय परात्पराय ।वंशीधराय शिखिचंद्रिकयान्वितायदेवाय भ्रातृसहिताय नमोऽस्तु तस्मै ॥१॥कृष्णस्तु साक्षात्पुरुषोतमः स्वयंपूर्णः परेशः प्रकृतेः परो हरिः ।यस्यावतारांशकला वयं सुरासृजाम विश्वं क्रमतोऽस्य शक्तिभिः ॥२॥स त्वं साक्षात्कृष्णचन्द्रावतारोनन्दस्यापि पुत्रतामागतः कौ ।वृन्दारण्ये गोपवेशेन वत्सान्गोपैर्मुख्यैश्चारयन् भ्राजसे वै ॥३॥हरिं कोटिकन्दर्पलीलाभिरामंस्फुरत्कौस्तुभं श्यामलं पीतवस्त्रम् ।व्रजेशं तु वंशीधरं राधिकेशंपरं सुन्दरं तं निकुंजे नमामि ॥४॥तं कृष्णं भज हरिमादिदेवमस्मिन्क्षेत्रज्ञं कमिव विलिप्तमेघमेव ।स्वच्छाङ्गं परमधियाज्ञचैत्यरूपंभक्त्याद्यैर्विशदविरागभावसंघैः ॥५॥यावन्मनश्च रजसा प्रबलेन विद्वन्संकल्प एव तु विकल्पक एव तावत् ।ताभ्यां भवेन्मनसिजस्त्वभिमानयोग-स्तेनापि बुद्धिविकृतिं क्रमतः प्रयान्ति ॥६॥विद्युद्द्युतिस्त्वृतुगुणो जलमध्यरेखाभूतोल्मुकः कपटपान्थरतिर्यथा च ।इत्थं तथाऽस्य जगतस्तु सुखं मृषेतिदुःखावृतं विषयघूर्णमलातचक्रम् ॥७॥वृक्षा जलेन चलतापि चला इवात्रनेत्रेण भूरिचलितेन चलेव भूश्च ।एवं गुणः प्रकृतिजैर्भ्रमतो जनस्थंसत्यं वदेद्गुणसुखादिदमेव कृष्ण ॥८॥दुःखं सुखञ्च मनसा प्रभवञ्च सुप्तेमिथ्या भवेत्पुनरहो भुवि जागरेऽस्य ।इत्थं विवेकघटितस्य जनस्य सर्वंस्वप्नभ्रमादृतजगत्सततं भवेद्धि ॥९॥ज्ञानी विसृज्य ममतामभिमानयोगंवैराग्यभावरसिकः सततं निरीहः ।दीपेन दीपकशतञ्च यथा प्रजातंपश्येत् तथाऽऽत्मविभवं भुवि चैकतत्त्वम् ॥१०॥भक्तो भजेदजपतिं हृदि वासुदेवंनिर्धूमवह्निरिव मुक्तगुणस्वभावः ।पश्यन् घटेषु सजलेषु यथेन्दुमेकंएतादृशः परमहंसवरः कृतार्थः ॥११॥स्तुवन्ति वेदाः सततञ्च यं सदाहरेर्महिम्नः किल षोडशीं कलाम् ।कदापि जानन्ति न ते त्रिलोकेवक्तुं गुणांस्तस्य जनोऽस्ति कः परः ॥१२॥वक्त्रैश्चतुर्भिस्त्वहमेव देवःश्रीपञ्चवक्त्रः किल पञ्चवक्त्रैः ।सहस्रशीर्षास्तु सहस्रवक्त्रैःय स्तौति सेवां कुरुते च तस्य ॥१३॥विष्णुश्च वैकुण्ठनिवासकृच्चक्षिरोदवासी हरिरेव साक्षात् ।नारायणो धर्मसुतस्तथापिगोलोकनाथं भजते भवन्तम् ॥१४॥अहोऽतिधन्यो महिमा मुरारे-र्जानन्ति भूमौ मुनयो न मानवाः ।सुरासुरा वा मनवो बुधाः पुनःस्वप्नेऽपि पश्यन्ति न तत्पदद्वयम् ॥१५॥वरं हरिं गुणाकरं सुमुक्तिदं परात्परम् ।रमेश्वरं गुणेश्वरं व्रजेश्वरं नमाम्यहम् ॥१६॥ताम्बूलसुन्दरमुखं मधुरं ब्रुवन्तंबिम्बाधरं स्मितयुतं सितकुन्ददन्तम् ।नीलालकावृतकपोलमनोहराभंवन्दे चलत्कनककुण्डलमण्डनार्हम् ॥१७॥सुन्दरं तु तव रूपमेव हिमन्मथस्य मनसो हरं परम्आविरस्तु मम नेत्रयोः सदाश्यामलं मकरकुण्डलावृतम् ॥१८॥वैकुण्ठलीलाप्रवरं मनोहरंनमस्कृतं देवगणैः परं वरम् ।गोपाललीलाभियुतं भजाम्यहंगोलोकनाथं शिरसा नमाम्यहम् ॥१९॥युक्तं वसन्तकलकण्ठविहंगमैश्चसौगन्धिकं त्वरणपल्लवशाखिसंगम् ।वृन्दावनं सुधितधीरसमीरलीलंगच्छन् हरिर्जयति पातु सदैव भक्तान् ॥२०॥हरति कमलमानं लोलमुक्ताभिमानंधरणिरसिकदानं कामदेवस्य बाणम् ।श्रवणविदितयानं नेत्रयुग्मप्रयाणंभज यदुत समक्षं दानदक्षं कटाक्षम् ॥२१॥शरच्चन्द्राकारं नखमणिसमूहं सुखकरंसुरक्तं हृत्पूर्णं प्रकटिततमःखण्डनकरम् ।भजेऽहं ब्रह्माण्डेसकलनरपापाभिदलनंहरेर्विष्णोर्देवैर्दिवि भरतखण्डे स्तुतमलम् ॥२२॥महापद्मे किं वा परिधिरिव चाभाति सततंकदादित्यस्फूर्जद्रथचरण इत्थं ध्वनिधरः ।यथा न्यस्तं चक्रं शतकिरणयुक्तं तु हरिणास्फुरच्छ्रीमञ्जीरं हरिचरणपद्मे त्वधिगतम् ॥२३॥कट्यां पीताम्बरं दिव्यं क्षुद्रघण्टिकयाऽन्वितम् ।भजाम्यहं चित्तहरं कृष्णस्याक्लिष्टकर्मणः ॥२४॥भजे कृष्णक्रोडे भृगुमुनिपदं श्रीगृहमलंतथा श्रीवत्साङ्कं निकषरुचियुक्तं द्युतिपरम् ।गले हीराहारान् कनकमणिमुक्तावलिधरान्स्फुरत् ताराकारान् भ्रमरवलिभारान् ध्वनिकरान् ॥२५॥वंशीविभूषितमलं द्विजदानशीलंसिंद्रूरवर्णमतिकीचकरावलीलम् ।हेमांगुलीयनिकरं नखचंद्रयुक्तंहस्तद्वयं स्मर कदम्बसुगन्धपृक्तम् ॥२६॥शनैश्चलन् मानसराजहंस-ग्रीवाकृतौ कन्धर उच्चदेशे ।कादम्बिनीमानहरौ करौ चभजामि नित्यं हरिकाकपक्षौ ॥२७॥कलदर्पणवद्विशदं सुखदंनवयौवनरूपधरं नृपतिम् ।मणिकुण्डलकुन्तलशालिरतिंभज गण्डयुगं रविचन्द्ररुचिम् ॥२८॥खचितकनकमुक्ता रक्तवैदूर्यवासंमदनवदनलीला सर्वसौन्दर्यरासम् ।अरुणविधुसकाशं कोटिसूर्यप्रकाशंघटितशिखिसुवीटं नौमि विष्णोः किरीटम् ॥२९॥यद्द्वारिदेशे न गतिर्गुहेन्द्रगणेशतारीरेशदिवाकराणाम् ।आज्ञां विना यान्ति न कुञ्जमण्डलंतं कृष्णचन्द्रं जगदीश्वरं भजे ॥३०॥(अनुष्टुप्)इति कृत्वा स्तुतिं ब्रह्मा श्रीकृष्णस्य महात्मनः ।पुनः कृताञ्जलिर्भूत्वा स्वविज्ञप्तिं चकार ह ॥३१॥अपराधं तु पुत्रस्य मातृवत्त्वं क्षमस्व च ।अहं त्वन्नाभिकमलात्सम्भवोऽहं जगत्पते ॥३२॥काहं लोकपतिः क्व त्वं कोटिब्रह्माण्डनायकः ।तस्माद्व्रजपते देव रक्ष मां मधुसूदन ॥३३॥मायया यस्य मुह्यन्ति देवदैत्यनरादयः ।स्वमायया तन्मोहाय मूर्खोऽहं ह्युद्यतोऽभवम् ॥३४॥नारायणस्त्वं गोविन्द नाहं नारायणो हरे ।ब्रह्माण्डं त्वं विनिर्माय शेषे नारायणः पुरा ॥३५॥यस्य श्रीब्रह्मणि धाम्नि प्राणं त्यक्त्वा तु योगिनः ।यत्र यास्यन्ति तस्मिंस्तु सकुला पूतना गता ॥३६॥वत्सानां वत्सपानाञ्च कृत्वा रूपाणि माधव ।विचचार वने त्वं तु ह्यपराधान्मम प्रभो ॥३७॥तस्मात्क्षमस्व गोविन्द प्रसीद त्वं ममोपरि ।अगणय्यापराधं मे सुतोपरि पिता यथा ॥३८॥त्वदभक्ता रता ज्ञाने तेषां क्लेशो विशिष्यते ।परिश्रमात्कर्षकाणां यथा क्षेत्रे तुषार्थिनाम् ॥३९॥त्वद्भक्तिभावे निरता बहवस्त्वद्गतिं गताः ।योगिनो मुनयश्चैव तथा ये व्रजवासिनः ॥४०॥द्विधा रतिर्भवेद्वरा श्रुताच्च दर्शनाच्च वा ।अहो हरे तु मायया बभूव नैव मे रतिः ॥४१॥इत्युक्त्वाऽश्रुमुखो भूत्वा नत्वा तत्पादपंकजौ ।पुनराह विधिः कृष्णं भक्त्या सर्वं क्षमापयन् ॥४२॥घोषेषु वासिनामेषां भूत्वाऽहं त्वत्पदाम्बुजम् ।यदा भजेयं सुगतिस्तदा भूयान्न चान्यथा ॥४३॥वयं तु गोपदेहेषु संस्थिताश्च शिवादयः ।सकृत्कृष्णं तु पश्यन्तस्तस्माद्धन्याश्च भारते ॥४४॥अहोभाग्यं तु कृष्णस्य मातापित्रोस्तव प्रभो ।तथा च गोपगोपीनां पूर्णस्त्वं दृश्यसे व्रजे ॥४५॥मुक्ताहारः सर्वविश्वोपकारःसर्वाधारः पातु मां विश्वकारः ।लीलागारं सूरिकन्याविहारःक्रीडापारः कृष्णचन्द्रावतारः ॥४६॥श्रीकृष्ण वृष्णिकुलपुष्कर नन्दपुत्रराधापते मदनमोहन देवदेव ।संमोहितं व्रजपते भुवि तेऽजया मांगोविन्द गोकुलपते परिपाहि पाहि ॥४७॥करोति यः कृष्णहरेः प्रदक्षिणांभवेज्ज्गत्तीर्थफलं च तस्य तु ।ते कृष्णलोकं सुखदं परात्परंगोलोकलोकं प्रवरं गमिष्यति ॥४८॥श्रीनारद उवाच -इत्यभिष्टूय गोविन्दं श्रीमद्वृन्दावनेश्वरम् ।नत्वा त्रिवारं लोकेशश्चकार तु प्रदक्षिणम् ॥४९॥तत्र चालक्षितो भूत्वा नेत्रेणाज्ञां ददौ हरिः ।पुनः प्रणम्य स्वं लोकमात्मभूः प्रत्यपद्यत ॥५१॥अथ कृष्णो वनाच्छीघ्रमानयामास वत्सकान् ।यत्रापि पुलिने राजन् गोपानां राजमंडली ॥५२॥गोपार्भकाश्च श्रीकृष्णं वत्सैः सार्धं समागतम् ।क्षणार्धं मेनिरे वीक्ष्य कृष्णमायाविमोहिताः ॥५३॥त ऊचुर्वत्सकैः कृष्ण त्वरं त्वं तु समागतः ।कुरुष्व भोजनं चात्र केनापि न कृतं प्रभो ॥५४॥ततश्च विहसन् कृष्णोऽभ्यवहृत्यार्भकैः सह ।दर्शयामास सर्वेभ्यश्चर्माजगरमेव च ॥५५॥सायंकाले सरामस्तु कृष्णो गोपैः परावृतः ।अग्रे कृत्वा वत्सवृन्दं ह्याजगाम शनैर्व्रजम् ॥५६॥गोवत्सकैः सितसितासितपीतवर्णैरक्तादिधूम्रहरितैर्बहुशीलरूपैः ।गोपालमण्डलगतं व्रजपालपुत्रंवन्दे वनात् सुखदगोष्ठकमाव्रजन्तम् ॥५७॥आनन्दो गोपिकानां तु ह्यासीत्कृष्णस्य दर्शने ।यासां येन विना राजन् क्षणो युगसमोऽभवत् ॥५८॥कृत्वा गोष्ठे पृथग्वत्सान् बालाः स्वं स्वं गृहं गताः ।जगुश्चाघासुरवधमात्मनो रक्षणं हरे ॥५९॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे ब्रह्मस्तुतिः नाम नवमोऽध्यायः ॥९॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP