संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः ०५ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः ०५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता बकासुरमोक्षः Translation - भाषांतर एकदा चारयन् वत्सान् सरामो बालकैर्हरिः ।यमुनानिकटे प्राप्तं बकं दैत्यं ददर्श ह ॥१॥श्वेतपर्वतसंकाशो बृहत्पादो घनध्वनिः ।पलायितेषु बालेषु वज्रतुंडोऽग्रसद्धरिम् ॥२॥रुदन्तो बालकाः सर्वे गतप्राणा इवाभवन् ।हाहाकारं तदा कृत्वा देवाः सर्वे समागताः ॥३॥इंद्रो वज्रं तदा नीत्वा तं तताड महाबलम् ।तेन घातेन पतितो न ममार समुत्थितः ॥४॥ब्रह्मापि ब्रह्मदंडेन तं तताड महाबकम् ।तेन घातेन पतितो मूर्छितो घटिकाद्वयम् ॥५॥विधुन्वन् स्वतनुं वेगातज्जृम्भितः पुनरुत्थितः ।न ममार तदा दैत्यो जगर्ज घनवद्बली ॥६॥त्रिलोचनस्त्रिशूलेन तं जघान महासुरम् ।छिन्नैकपक्षो दैत्योऽपि न मृतोऽतिभयंकरः ॥७॥वायव्यास्त्रेण वायुस्तं संजघान बकमतः ।उच्चचाल बकस्तेन पुनस्तत्र स्थितोऽभवत् ॥८॥यमस्तं यमदण्डेन ताडयामास चाग्रतः ।तेन दण्डेन न मृतो बको वै चण्डविक्रमः ॥९॥दण्डोऽपि भग्नतां प्रागात् स क्षतो नाभवद् बकः ।तदैव चाग्रतः प्राप्तश्चण्डांशुश्चण्डविक्रमः ॥१०॥शतबाणैर्बकं दैत्यं संजघान धनुर्धरः ।तीक्ष्णैः पक्षगतैर्बाणैर्न ममार बकस्ततः ॥११॥धनदस्तं च खड्गेन सुतीक्ष्णेन जघान ह ।छिन्नद्वितीयपक्षोऽभूतन्न मृतो दैत्यपुंगवः ॥१२॥नीहारास्त्रेण तं सोमः संजघान महाबकम् ।शीतार्त्तो मूर्छितो दैत्यो न मृतः पुनरुत्थितः ॥१३॥आग्नेयास्त्रेण तं ह्यग्निः सन्तताड महाबकम् ।भस्मरोमाभवद्दैत्यो न ममार महाखलः ॥१४॥अपां पतिस्तं पाशेन बद्ध्वा कौ विचकर्ष ह ।कर्षणात्स महापापः छिन्नोऽभूतन्न मृतश्च वै ॥१५॥तताड गदया तं वै भद्रकाली तरस्विनी ।मूर्छितस्तत् प्रहारेण परं कश्मलतां ययौ ॥१६॥क्षतमूर्धा समुत्थाय विधुन्वन् स्वतनुं पुनः ।जगर्ज घनवद्वीरो बको दैत्यो महाखलः ॥१७॥तदा शक्तिधरः शक्तिं तस्मै चिक्षेप सत्वरः ।तयैकपादो भग्नोऽभून्न मृतः पक्षिणां वरः ॥१८॥तदा क्रोधेन सहसा धावन् दैत्यस्तडित्स्वनः ।देवान् विद्रावयामास स्वचंच्वा तीक्ष्णतुण्डया ॥१९॥अग्रे पलायितान् देवानन्वधावद्बकोऽम्बरे ।पुनस्तत्र गतो दैत्यो नादयन्मंडलं दिशाम् ॥२०॥तदा देवर्षयः सर्वे सर्वे ब्रह्मर्षयो द्विजाः ।श्रीनन्दनन्दनायाशु सफलां चाशिषं ददुः ॥२१॥तदैव कृष्णस्तन्मध्ये ततान वपुरुज्ज्वलम् ।चच्छर्द कृष्णं सहसा क्षतकंठो महाबकः ॥२२॥पुनः कृष्णं समाहर्तुं तीक्ष्णया तुंडयाऽगतम् ।पुच्छे गृहीत्वा तं कृष्णः पोथयामास भूतले ॥२३॥पुनरुत्थाय तुण्डं स्वं प्रसार्य्यावस्थितं बकम् ।ददार तुंडे हस्ताभ्यां कृष्णः शाखां गजो यथा ॥२४॥तदा मृतस्य दैतस्य ज्योतिः कृष्णे समाविशत् ।देवता ववृषुः पुष्पैः जयारावैः समन्विताः ॥२५॥गोपाला विस्मिताः सर्वे कृष्णं संश्लिष्य सर्वतः ।ऊचुस्त्वं कुशलीभूतो मुक्तो मृत्युमुखात्सखे ॥२६॥एवं कृष्णो बकं हत्वा सबलो बालकैः सह ।गोवत्सैर्हर्षितो गायन्नाययौ राजमंदिरे ॥२७॥परिपूर्णतमस्यास्य श्रीकृष्णस्य महात्मनः ।जगुर्गृहे गता बालाः श्रुत्वेदं तेऽतिविस्मिताः ॥२८॥श्रीबहुलाश्व उवाच -कोऽयं दैत्यः पूर्वकाले कस्मात्केन बकोऽभवत् ।पूर्णब्रह्मणि सर्वेशे श्रीकृष्णे लीनतां गतः ॥२९॥श्रीनारद उवाच -हयग्रीवसुतो दैत्य उत्कलो नाम हे नृप ।रणेऽमरान् विनिर्जित्य शक्रछत्रं जहार ह ॥३०॥तथा नृणां नृपाणां च राज्यं हृत्वा महाबलः ।चकार वर्षाणि शतं राज्यं सर्वविभूतिमत् ॥३१॥एकदा विचरन् दैत्यः सिंधुसागरसंगमे ।जाजलेर्मुनिसिद्धस्य पर्णशालासमीपतः ॥३२॥जले निक्षिप्य बडिशं मीनानाकर्षयन् मुहुः ।निषेधितोऽपि मुनिना नामन्यत स दुर्मतिः ॥३३॥तस्मै शापं ददौ सिद्धो जाजलिर्मुनिसत्तमः ।बकवत्त्वं झषानत्सि त्वं बको भव दुर्मते ॥३४॥तत्क्षणाद्बकरूपोऽभूद्भ्रष्टतेजा गतस्मयः ।पतितः पादयोस्तस्य नत्वा प्राह कृतांजलिः ॥३५॥उत्कल उवाच -न जाने ते तपश्चंडं मुने मां पाहि जाजले ।साधुनां भवतां संगं मोक्षद्वारं परं विदुः ॥३६॥मित्रे शत्रौ समा मानेऽपमाने हेमलोष्टयोः ।सुखे दुःखसमा ये वै त्वादृशाः साधवश्च ते ॥३७॥किं किं न जातं महतां दर्शनात्कौ मुने नृणाम् ।पारमेष्ठ्यं च साम्राज्यमैन्द्रयोगपदं लभेत् ॥३८॥जाजले मुनिशार्दूल त्रैवर्ग्यं किमभूज्जनैः ।साधूनां कृपया साक्षात्पूर्णं ब्रह्मापि लभ्यते ॥३९॥श्रीनारद उवाच -तदा प्रसन्नः स मुनिर्जाजलिस्तमुवाच ह ।वर्षषष्टिसहस्राणि तपस्तप्तं च येन वै ॥४०॥वैवस्वतान्तरे प्राप्ते ह्यष्टाविंशतिमे युगे ।द्वापरान्ते भारतेऽपि माथुरे व्रजमंडले ॥४१॥परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम् ।वृंदावने गवां वत्सान् चारयन् विचरिष्यति ॥४२॥तदा तन्मयतां कृष्णे यास्यसि त्वं न संशयःहिरण्याक्षादयो दैत्या वैरेणापि परं गताः ॥४३॥इत्थं बकासुरो दैत्य उत्कलो जाजलेर्वरात् ।श्रीकृष्णे लीनतां प्राप्तः सत्सम्गात्किं न जायते ॥४४॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे बकासुरमोक्षो नाम पञ्चमोऽध्यायः ॥५॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP