संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः २१ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः २१ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता रासक्रीडा वर्णनम् Translation - भाषांतर श्रीनारद उवाच -इत्थं कुंदवने रम्ये मालतीनां वने शुभे ।आम्राणां नागरंगाणां निंबूनां सघने वने ॥१॥दाडिमीनां च द्राक्षाणां बदामानां वने नृप ।कदम्बानां श्रीफलानां कुटजानां तथैव च ॥२॥वटानां पनसानां च पिप्पलानां वने शुभे ।तुलसीकोविदाराणां केतकीकदलीवने ॥३॥करिल्लकुञ्जबकुलमन्दाराणां वने हरिः ।चरन्कामवनं प्रागाद्राजन् व्रजवधूवृतः ॥४॥तत्रैव पर्वते कृष्णो ननाद मुरली कलम् ।मूर्च्छिता विह्वला जातास्तन्नादेन व्रजांगनाः ॥५॥मनोजबाणभिन्नांगाः श्लथन्नीव्यः सुरैः सह ।कश्मलं प्रययू राजन् विमानेष्वमरांगनाः ॥६॥चतुर्विधा जीवसंघाः स्थावरैर्मोहमास्थिताः ।नद्यो नदाः स्थिरीभूताः पर्वता द्रवतां गताः ॥७॥तत्पादचिह्नसंयुक्तो गिरिः कामवनेऽभवत् ।तस्य दर्शनमात्रेण नरो याति कृतार्थताम् ॥८॥अथ गोपीगणैः साकं श्रीकृष्णो राधिकापतिः ।नंदीश्वरबृहत्सानुतटे रासं चकार ह ।तत्र गोप्योऽतिमानिन्यो बभूवुर्मैथिलेश्वर ।तास्त्यक्त्वा राधया सार्धं तत्रैवान्तर्दधे हरिः ॥१०॥गोप्यश्च सर्वा विरहातुरा भृशंकृष्णं विना मैथिल निर्जने वने ।ता बभ्रमुश्चाश्रुकलाकुलाक्ष्योयथा हरिण्यश्चकिता इतस्ततः ॥११॥कृष्णं ह्यपश्यन्त्य इति व्यथां गतायथा करिण्यः करिणं वने वने ।यथा कुरर्यः कुररं व्रजांगनाःसर्वा रुदन्त्यो विरहातुरा भृशम् ॥१२॥उन्मत्तवद्वृक्षलताकदम्बकंसर्वा मिलित्वा च पृथग्वने वने ।पप्रच्छुरारान्नृप नंदनंदनंकुत्र स्थितं तं वदताशु भूरुहाः ॥१३॥श्रीकृष्ण कृष्णेति गिरा वदन्त्यःश्रीकृष्णपादांबुजलग्नमानसाः ।श्रीकृष्णरूपास्तु बभूवुरंगनाःचित्रं न पेशस्कृतमेत्य कीटवत् ॥१४॥श्रीपादुकाधःस्थलगोपिगोप्यःश्रीपादुकाब्जं शरनं प्रपन्नाः ॥१५॥ततस्तु तत्प्रसादेन तत्पदार्चनदर्शनात् ।ददृशुर्गां तदा गोप्यो भगवत्पाद चिह्निताम् ॥१६॥श्रीबहुलाश्व उवाच -राधेशो राधया सार्धं संकेतवटमाविशत् ।प्रियायाः कबरीपुष्परचनां स चकार ह ॥१७॥श्रीनारद उवाच -श्रीकृष्णो राधया सार्धं संकेतवटमाविशत् ।चित्रपत्रावलीः कृष्ण पूर्णेन्दुमुखमंडले ॥१९॥एवं कृष्णो भद्रवनं खदिराणां वनं महत् ।बिल्वानां च वनं पश्यन् कोकिलाख्यं वनं गतः ॥२०॥गोप्यः कृष्णं विचिन्वन्त्यो ददृशुस्तत्पदानि च ।यवचक्रध्वजच्छत्रैः स्वस्तिकाङ्कुशबिन्दुभिः ॥२१॥अष्टकोणेन वज्रेण पद्मेनाभियुतानि च ।नीलशङ्खघटैर्मत्स्यत्रिकोणेषूर्ध्वधारकैः ॥२२॥धनुर्गोखुरचन्द्रार्द्धशोभितानि महात्मनः ।तत्पदान्यनुसारेण व्रजन्त्यो गोपिकास्ततः ॥२३॥तद्रजः सततं नीत्वा धृत्वा मूर्ध्नि व्रजांगनाः ।पदान्यन्यानि ददृशुरन्यचिह्नान्वितानि च ॥२४॥केतुपद्मातपत्रैश्च यवेनाथोर्ध्वरेखया ।चक्रचंद्रार्धांकुशकैर्बिंदुभिः शोभितानि च ॥२५॥लवंगलतिकाभिश्च विचित्राणि विदेहराट् ।गदापाठीनशंखैश्च गिरिराजेन शक्तिभिः ॥२६॥सिंहासनरथाभ्यां च बिंदुद्वययुतानि च ।वीक्ष्य प्राहू राधिकया गतोऽसौ नंदनंदनः ॥२७॥पश्यत्यस्तत्पादपद्मं कोकिलाख्यं वनं गताः ।गोपीकोलाहलं श्रुत्वा राधिकां प्राह माधवः ॥२८॥कोटिचंद्रप्रतीकाशे राधे सर्प त्वरं प्रिये ।आगता गोपिकाः सर्वास्त्वां नेष्यन्ति हि सर्वतः ॥२९॥तदा मानवती राधा भूत्वा प्राह रमापतिम् ।रूपयौवनकौशल्यशीलगर्वसमन्विता ॥३०॥राधोवाच -चलितुं न समर्थाऽहं मन्दिरान्ना विनिर्गता ।सुकुमारी स्वेदयुक्ता कथं मां नयसि प्रिय ॥३१॥नारच उवाच -इति वाक्यं ततः श्रुत्वा श्रीकृष्णो राधिकेश्वरः ।पीतांबरेण दिव्येन वायुं तस्यै चकार ह ॥३२॥हस्तं गृहीत्वा तामाह गच्छ राधे यथासुखम् ।कृष्णेनापि तदा प्रोक्ता न ययौ तेन वै पुनः ॥३३॥पृष्ठं दत्त्वाऽथ हरये तूष्णींभूता स्थिता पुनः ।प्रियां मानवतीं राधां प्राह कृष्णः सतां प्रियः ॥३४॥श्रीभगवानुवाच -विहाय गोपीरिह कामयानाभजाम्यहं मानिनि चेतसा त्वाम् ।यत्ते प्रियं तत्प्रकरोमि राधेमे स्कंधमारुह्य सुखं व्रजाशु ॥३५॥श्रीनारद उवाच -एवं प्रियां प्रियतमः स्कंधयानेप्सितां नृप ।विहायान्तर्दधे कृष्णो स्वच्छन्दगतिरीश्वरः ॥३६॥गतमाना कीर्तिसुता भगवद्विरहातुरा ।उच्चै रुरोद राजेन्द्र कोकिलाख्ये वने परे ॥३७॥तदैव यूथाः संप्राप्ता गोपीनां मैथिलेश्वर ।तद् रोदनं दुःखतरं श्रुत्वा जग्मुस्त्रपातुराः ॥३८॥काश्चित्तां मकरंदैश्च स्नापयांचक्रुरीश्वरीम् ।चंदनागुरु कस्तूरी कुङ्कुमद्रवसीकरैः ॥३९॥वायुं चक्रुस्तदंगेषु व्यजनान्दोलचामरैः ।आश्वास्य वाग्भिः परमां नानाऽनुनयकोविदैः ॥४०॥तन्मुखान्मानिनो मानं श्रुत्वा कृष्णस्य गोपिकाः ।मानवंत्यो मैथिलेन्द्र विस्मयं परमं ययुः ॥४१॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे रासक्रीडावर्णनं नामैकविंशोऽध्यायः ॥२१॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP