वृन्दावनखण्डः - अध्यायः १०

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


श्रीनारद उवाच -
गोपेच्छया रामकृष्णौ गोपालौ तौ बभूवतुः ।
गाश्चारयन्तौ गोपालैः वयस्यैश्चेरतुर्वने ॥१॥
अग्रे पृष्ठे तदा गावः चरन्त्यः पार्श्वयोर्द्वयोः ।
श्रीकृष्णस्य बलस्यापि पश्यन्त्यः सुंदरं मुखम् ॥२॥
घंटामंजीरझंकारं कुर्वन्त्यस्ता इतस्ततः ।
किंकिणीजालसंयुक्ता हेममालालसद्‌गलाः ॥३॥
मुक्तागुच्छैर्बर्हिपिच्छैः लसत्पुच्छाच्छकेसराः ।
स्फुरतां नवरत्‍नानां मालाजालैर्विराजिताः ॥४॥
शृङ्गयोरन्तरे राजन् शिरोमणिमनोहराः ।
हेमरश्मिप्रभास्फूर्ज्जत् शृङ्गपार्श्वप्रवेष्टनाः ॥५॥
आरक्ततिलकाः काश्चित्पीतपुच्छारुणांघ्रयः ।
कैलासगिरिसंकाशाः शीलरूपमहागुणाः ॥६॥
सवत्सा मन्दगामिन्य ऊधोभारेण मैथिल ।
कुंडोध्न्यः पाटलाः काश्चित् लक्षन्त्यो भव्यमूर्तयः ॥७॥
काश्चित्पीता विचित्राश्च श्यामाश्च हरितास्तथा ।
ताम्रा धूम्रा घनश्यामा घनश्यामे गतेक्षणाः ॥८॥
लघुशृङ्ग्यो दीर्घशृङ्ग्य उच्चशृङ्ग्यो वृषैः सह ।
मृगशृङ्ग्यो वक्रशृङ्ग्यः कपिला मंगलायनाः ॥९॥
शाद्वलं कोमलं कान्तं वीक्षन्त्योऽपि वने वने ।
कोटिशः कोटिशो गावश्चरन्त्यः कृष्णपार्श्वयोः ॥१०॥
पुण्यं श्रीयमुनातीरं तमालैः श्यामलैर्वनम् ।
नीपैर्निम्बैः कदम्बैश्च प्रवालैः पनसैर्द्रुमैः ॥११॥
कदलीकोविदाराम्रैः जम्बुबिल्वैर्मनोहरैः ।
अश्वत्थैश्च कपित्थैश्च माधवीभिश्च मंडितम् ॥१२॥
बभौ वृन्दावनं दिव्यं वसन्तर्तुमनोहरम् ।
नन्दनं सर्वतोभद्रं क्षिपच्चैत्ररथं वनम् ॥१३॥
यत्र गोवर्धनो नाम सुनिर्झरदरीयुतः ।
रत्‍नधातुमयः श्रीमान् मन्दारवनसंकुलः ॥१४॥
श्रीखंडबदरीरंभा देवदारुवटैर्वृतः ।
पलाशप्लक्षाशोकैश्चारिष्टार्जुनकदम्बकैः ॥१५॥
पारिजातैः पाटलैश्च चंपकैः परिशोभितः ।
करंजजालकुञ्जाढ्यः श्यामैरिन्द्रयवैर्वृतः ॥१६॥
कलकंठैः कोकिलैश्च पुंस्कोकिलमयूरभृत् ।
गाश्चारयन् तत्र कृष्णो विचचार वने वने ॥१७॥
वृन्दावने मधुवने पार्श्वे तालवनस्य च ।
कुमुद्वने बाहुले च दिव्यकामवने परे ॥१८॥
बृहत्सानुगिरेः पार्श्वे गिरेर्नन्दीश्वरस्य च ।
सुंदरे कोकिलवने कोकिलध्वनिसंकुले ॥१९॥
रम्ये कुशवने सौम्ये लताजालसमन्विते ।
महापुण्ये भद्रवने भांडीरोपवने नृप ॥२०॥
लोहार्गले च यमुनातीरे तीरे वने वने ।
पीतवासःपरिकरो नटवेषो मनोहरः ॥२१॥
वेत्रभृद्वादयन्वंशीं गोपीनां प्रीतिमावहन् ।
मयूरपिच्छभृन्मौली स्रग्वी कृष्णो बभौ नृप ॥२२॥
अग्रे कृत्वा गवां वृन्दं सायंकाले हरिः स्वयम् ।
रागैः समीरयन्वंशीं श्रीनन्दव्रजमाविशत् ॥२३॥
वेणुवंशीध्वनिं श्रुत्वा श्रीवंशीवटमार्गतः ।
गोरजोभिर्नभो व्याप्तं वीक्ष्य गेहाद्‌विनिर्गताः ॥२४॥
दूरीकर्तुं ह्याधिबाधामाहर्तुं सुखमुत्तमम् ।
विस्मर्तुं न समर्थास्तं द्रष्टुं गोप्यः समाययुः ॥२५॥
संकोचवीथीषु न संगृहीतः
शनैश्चलन् गोगणसंकुलासु ।
सिंहावलोको गजबाललीलै-
र्वधूजनैः पंकजपत्रनेत्रः ॥२६॥
सुमंडितं मैथिलगोरजोभि-
र्नीलं परं कुन्तलमादधानः
हेमाङ्गदी मौलिविराजमान
आकर्णवक्रीकृतदृष्टिबाणः ॥२७॥
गोधूलिभिर्मंडितकुन्दहारः
कर्णोपरि स्फूर्जितकर्णिकारः ।
पीतांबरो वेणुनिनादकारः
पातु प्रभुर्वो हृतभूरिभारः ॥२८॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे श्रीकृष्ण गोचारणवर्णनं नाम दशमोऽध्यायः ॥१०॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP