संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः १५ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः १५ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता राधाकृष्णप्रेमोद्योगवर्णनम् Translation - भाषांतर श्रीनारद उवाच -इदं मया ते कथितं कालियस्यापि मर्दनम् ।श्रीकृष्णचरितं पुण्यं किं भूयः श्रोतुमिच्छसि ॥१॥बहुलाश्व उवाच -श्रीकृष्णस्य कथां श्रुत्वा भक्तस्तृप्तिं न याति हि ।यथाऽमरः सुधां पीत्वा यथालिः पद्मकर्णिकाम् ॥२॥रासं कर्तुं हरौ जाते शिशुरूपे महात्मनि ।भांडीरे देववागाह श्रीराधां खिन्नमानसाम् ॥३॥शोचं मा कुरु कल्याणि वृंदारण्ये मनोहरे ।मनोरथस्ते भविता श्रीकृष्णेन महात्मनि ॥४॥इत्थं देवगिरा प्रोक्तो मनोरथमहार्णवः ।कथं बभूव भगवान् वृंदारन्ये मनोहरे ॥५॥कथं श्रीराधया सार्धं रासक्रीडां मनोहराम् ।चकार वृन्दकारण्ये परिपूर्णतमः स्वयम् ॥६॥श्रीनारद उवाच -साधु पृष्टं त्वया राजन् भगवच्चरितं शुभम् ।गुप्तं वदामि देवैश्च लीलाख्यानं मनोहरम् ॥७॥एकदा मुख्यसख्यौ द्वे विशाखाललिते शुभे ।वृषभानोर्गृहं प्राप्य तां राधां जग्मतू रहः ॥८॥सख्यावूचतुः -यं चिन्तयसि राधे त्वं यद्गुणं वदसि स्वतः ।सोऽपि नित्यं समायाति वृषभानुपुरेऽर्भकैः ॥९॥प्रेक्षणीयस्त्वया राधे दर्शनीयोऽतिसुन्दरः ।पश्चिमायां निशीथिन्यां गोचारणविनिर्गतः ॥१०॥राधोवाच -लिखित्वा तस्य चित्रं हि दर्शयाशु मनोहरम् ।तर्हि तत्प्रेक्षणं पश्चात्करिष्यामि न संशयः ॥११॥श्रीनारद उवाच -अथ सख्यौ व्यलिखतां चित्रं नंदशिशोः शुभम् ।नवयौवनमाधुर्यं राधायै ददतुस्त्वरम् ॥१२॥तद्दृष्ट्वा हर्षिता राधा कृष्णदर्शनलालसा ।चित्रं करे प्रपश्यन्ती सुष्वापानंदसंकुला ॥१३॥ददर्श कृष्णं भवने शयानानृत्यन्तमाराद्वृषभानुपुत्री ॥१४॥तदैव राधा शयनात्समुत्थितापरस्य कृष्णस्य वियोगविह्वला ।संचिन्तयन्ती कमनीयरूपिणंमेने त्रिलोकीं तृणवद्विदेहराट् ॥१५॥तर्ह्याव्रजन्तं स्ववनाद्व्रजेश्वरंसंकोचवीथ्यां वृषाभानुपत्तने ।गवाक्षमेत्याशु सखीप्रदर्शितंदृष्ट्वा तु मूर्च्छां समवाप सुंदरी ॥१६॥कृष्णोऽपि दृष्ट्वा वृषभानुनन्दिनींसुरूपकौशल्ययुतां गुणाश्रयाम् ।कुर्वन्मनो रन्तुमतीव माधवोलीलातनुः स प्रययौ स्वमन्दिरम् ॥१७॥एवं ततः कृष्णवियोगविह्वलांप्रभूतकामज्वरखिन्नमानसाम् ।संवीक्ष्य राधां वृषभानुनन्दिनींउवाच वाचं ललिता सखी वरा ॥१८॥ललितोवाच -कथं त्वं विह्वला राधे मूर्च्छिताऽतिव्यथां गता ।यदीच्छसि हरिं सुभ्रु तस्मिन् स्नेहं दृढं कुरु ॥१९॥लोकस्यापि सुखं सर्वमधिकृत्यास्ति सांप्रतम् ।दुःखाग्निहृत्प्रदहति कुंभकाराग्निवत् शुभे ॥२०॥श्रीनारद उवाच -ललितायाश्च ललितं वचं श्रुत्वा व्रजेश्वरी ।नेत्रे उन्मील्य ललितां प्राह गद्गदया गिरा ॥२१॥राधोवाच -व्रजालंकारचरणौ न प्राप्तौ यदि मे किल ।कदचिद्विग्रहं तर्हि न हि स्वं धारयाम्यहम् ॥२२॥श्रीनारद उवाच -इति श्रुत्वा वचस्तस्या ललिता भयविह्वला ।श्रीकृष्णपार्श्वं प्रययौ कृष्णातीरे मनोहरे ॥२३॥माधवीजालसंयुक्ते मधुरध्वनिसंकुले ।कदम्बमूले रहसि प्राह चैकाकिनं हरिम् ॥२४॥ललितोवाच -यस्मिन् दिने च ते रूपं राधया दृष्टमद्भुतम् ।तद्दीनात्स्तंभतां प्राप्ता पुत्रिकेव न वक्ति किम् ॥२५॥अलंकारस्त्वर्चिरिव वस्त्रं भर्जरजो यथा ।सुगंधि कटुवद्यस्या मन्दिरं निर्जनं वनम् ॥२६॥पुष्पं बाणं चंद्रबिंबं विषकंदमवेहि भोः ।तस्यै संदर्शनं देहि राधायै दुःखनाशनम् ॥२७॥ते साक्षिणं किं विदितं न भूतलेसृजस्यलं पासि हरस्यथो जगत् ।यदा समानोऽसि जनेषु सर्वतःतथापि भक्तान् भजसे परेश्वर ॥२८॥श्रीनारद उवाच -इति श्रुत्वा हरिः साक्षाल्ललितं ललितावचः ।उवाच भगवान् देवो मेघगंभीरया गिरा ॥२९॥श्रीभगवानुवाच -सर्वं हि भावं मनसः परस्परंनह्येकतो भामिनि जायते तअतः ।प्रेमैव कर्तव्यमतो मयि स्वतःप्रेम्णा समानं भुवि नास्ति किंचित् ॥३०॥यथा हि भाण्डीरवने मनोरथोबभूव तस्या हि तथा भविष्यति ।अहैतुकं प्रेम च सद्भिराश्रितंतच्चापि सन्तः किल निर्गुणं विदुः ॥३१॥ये राधिकायां मयि केशवे मनाक्भेदं न पश्यन्ति हि दुग्धशौक्लवत् ।त एव मे ब्रह्मपदं प्रयान्तितदहैतुकस्फूर्जितभक्तिलक्षणाः ॥३२॥ये राधिकायां मयि केशवे हरौकुर्वन्ति भेदं कुधियो जना भुवि ।ते कालसूत्रं प्रपतन्ति दुःखितारम्भोरु यावत्किल चंद्रभास्करौ ॥३३॥श्रीनारद उवाच -इत्थं श्रुत्वा वचः कृत्स्नं नत्वा तं ललिता सखी ।राधां समेत्य रहसि प्राह प्रहसितानना ॥३४॥ललितोवाच -त्वमिच्छसि यथा कृष्णं तथा त्वां मधुसूदनः ।युवयोर्भेदरहितं तेजस्त्वैकं द्विधा जनैः ॥३५॥तथापि देवि कृष्णाय कर्म निष्कारणं कुरु ।येन ते वांछितं भूयाद्भक्त्या परमया सति ॥३६॥श्रीनारद उवाच -इति श्रुत्वा सखीवाक्यं राधा रासेश्वरी नृप ।चंद्राननां प्राह सखीं सर्वधर्मविदां वराम् ॥३७॥श्रीकृष्णस्य प्रसन्नार्थं परं सौभाग्यवर्धनम् ।महापुण्यं वांछितदं पूजनं वद कस्यचित् ॥३८॥त्वया भद्रे धर्मशास्त्रं गर्गाचार्यमुखाच्छ्रुतम् ।तस्माद्व्रतं पूजनं वा ब्रूहि मह्यं महामते ॥३९॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे राधाकृष्णप्रेमोद्योगवर्णनं नाम पञ्चदशोऽध्यायः ॥१५॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP