संस्कृत सूची|संस्कृत साहित्य|संहिता|गर्ग संहिता|वृन्दावनखण्डः| अध्यायः २३ वृन्दावनखण्डः अध्यायः ०१ अध्यायः ०२ अध्यायः ०३ अध्यायः ०४ अध्यायः ०५ अध्यायः ०६ अध्यायः ०७ अध्यायः ०८ अध्यायः ०९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ वृन्दावनखण्डः - अध्यायः २३ गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे. Tags : gargagarga samhitasamhitaगर्गगर्ग संहितासंहिता रासक्रीडायां शंखचूडवधः Translation - भाषांतर श्रीनारद उवाच -अथ कृष्णो गोपिकाभिः लोकजंघवनं ययौ ।वसन्तमाधवीभिश्च लताभिः संकुलं नृप ॥१॥तत्पुष्पदामनिचयैः स्फुरत्सौगंधिशालिभिः ।सर्वासां हरिणा तत्र कबर्यो गुंफितास्ततः ॥२॥भ्रमरध्वनिसंयुक्ते सुगंधानिलवासिते ।कालिन्दीनिकटे कृष्णो विचचार प्रियान्वितः ॥३॥करिल्लैः पीलुभिः श्यामैः तमालैः संकुलद्रुमैः ।महापुण्यवनं कृष्णो ययौ रासेश्वरो हरिः ॥४॥तत्र रासं समारेभे रासेश्वर्या समन्वितः ।गीयमानश्च गोपीभिरप्सरोभिः स्वराडिव ॥५॥तत्र चित्रमभूद्राजन् शृणु त्वं तन्मुखान्मम ।शंखचूडो मान यक्षो धनदानुचरो बली ॥६॥भूतले तत्समो नास्ति गदायुद्धविशारदः ।मन्मुकादौग्रसेनेश्च बलं श्रुत्वा महोत्कटम् ॥७॥लक्षभारमयीं गुर्वीं गदामादाय यक्षराट् ।स्वसकाशान्मधुपुरीमाययौ चण्डविक्रमः ॥८॥सभायामास्थितं प्राह कंसं नत्वा मदोद्धतः ।गदायुद्धं देहि मह्यं त्रैलोक्यविजयी भवान् ॥९॥अहं दासो भवेयं वै भवांश्च विजयी यदि ।अहं जयी चेद्भवन्तं दासं शीघ्रं करोम्यहम् ॥१०॥तथास्तु चोक्त्वा कंसस्तु गृहीत्वा महतीं गदाम् ।शंखचूडेन युयुधे रंगभूमौ विदेहराट् ॥११॥तयोश्च गदया युद्धं घोररूपं बभूव ह ।ताडनाच्चट्चटाशब्दं कालमेघतडिद्ध्वनि ॥१२॥शुशुभाते रंगमध्ये मल्लौ नाट्ये नटाविव ।इभेन्द्राविव दीर्घांगौ मृगेन्द्राविव चोद्भटौ ॥१३॥द्वयोश्च युध्यतो राजन् परस्परजिगीषया ।विस्फुलिंगान् क्षरन्त्यौ द्वे गदे चूर्णीबभूवतुः ॥१४॥कंसः प्रकुपितं यक्षं मुष्टिनाभिजघान ह ।शंखचूडोऽपि तं कंसं मुष्टिना तं तताड च ॥१५॥मुष्टामुष्टि तयोरासीद्दिनानां सप्तविंशतिः ।द्वयोरक्षीणबलयोर्विस्मयं गतयोस्ततः ॥१६॥शंखचूडं संगृहीत्वा कंसो दैत्याधिपो बली ।बलाच्चिक्षेप सहसा व्योम्नि तं शतयोजनम् ॥१७॥शंखचूडः प्रपतितः किंचिद्व्याकुलमानसः ।कंसं गृहीत्वा नभसि चिक्षेपायुतयोजनम् ॥१८॥आकाशात्पतितः कंसः किंचिद्व्याकुलमानसः ।यक्षं गृहीत्वा सहसा पातयामास भूतले ॥१९॥शंखचूडस्तं गृहीत्वा पोथयामास भूतले ।एवं युद्धे संप्रवृत्ते चकंपे भूमिमंडलम् ॥२०॥मुनीन्द्रः सर्ववित्साक्षाद्गर्गाचार्यः समागतः ।रंगेषु वन्दितस्ताभ्यां कंसं प्राहोर्जया गिरा ॥२१॥श्रीगर्ग उवाच -युद्धं मा कुरु राजेंद्र विफलोऽयं रणोऽत्र वै ।त्वत्समानो ह्ययं वीरः शङ्खचूडो महाबलः ॥२२॥तव मुष्टिप्रहारेण भृशमैरावतो गजः ।जानुभ्यां धरणीं स्पृष्ट्वा कश्मलं परमं ययौ ॥२३॥अन्येऽपि बलिनो दैत्या मुष्टिना ते मृतिं गताः ।शंखचूडो न पतितः संदेहो नास्ति तच्छृणु ॥२४॥परिपूर्णतमो यो वै सोऽपि त्वां घातयिष्यति ।तथैनं शंखचूडाख्यं शिवस्यापि वरोर्जितम् ॥२५॥तस्मात्प्रेम प्रकर्तव्यं शंखचूडे यदूद्वह ।यक्षराट् च त्वया कंसे कर्तव्यं प्रेम निश्चितम् ॥२६॥श्रीनारद उवाच -गर्गेणोक्तौ तदा तौ द्वौ मिलित्वाऽथ परस्परम् ।परमां चक्रतुः प्रीतिं शंखचूडयदूद्वहौ ॥२७॥अथ कंसं सनुज्ञाप्य गृहं गन्तुं समुद्यतः ।गच्छन् मार्गेऽशृणोद्रात्रौ रासगानं मनोहरम् ॥२८॥तालशब्दानुसारेण संप्राप्तो रासमंडले ।रासेश्वर्या समं रासेऽपश्यद्रासेश्वरं हरिम् ॥२९॥श्रीराधयाऽलंकृतवामबाहुंस्वच्छंदवक्रीकृतदक्षिणांघ्रिम् ।वंशीधरं सुंदरमंदहासंभ्रूमंडलैर्मोहितकामराशिम् ॥३०॥व्रजांगनायूथपतिं व्रजेश्वरंसुसेवितं चामरछत्रकोटिभिः ।विज्ञाय कृष्णं ह्यतिकोमलं शिशुंगोपीं समाहर्तुमलं मनोऽकरोत् ॥३१॥बहुलाश्व उवाच -किं बभूव ततो रासे शंखचूडे समागते ।एतन्मे भ्रूहि विप्रेंद्र त्वं परावरवित्तमः ॥३२॥श्रीरानद उवाच -व्याघ्राननं कृष्णवर्णं तालवृक्षदशोच्छ्रितम् ।भयंकरं ललज्जिह्वं दृष्ट्वा गोप्योऽतितत्रसुः ॥३३॥दुद्रुवुः सर्वतो गोप्यो महान् कोलाहलोऽभवत् ।हाहाकारस्तदैवासीह् शंखचूडे समागते ॥३४॥शतचंद्राननां गोपीं गृहीत्वा यक्षराट् खलः ।दुद्रावाशूत्तरामाशां निःशंकः कामपीडितः ॥३५॥रुदन्तीं कृष्ण कृष्णेति क्रोशन्तीं भयविह्वलाम् ।तमन्वधावच्छ्रीकृष्णः शालहस्तो रुषा भृशम् ॥३६॥यक्षो वीक्ष्य तमायान्तं कृतान्तमिव दुर्जयम् ।गोपीं त्यक्त्वा जीवितेच्छुः प्राद्रवद्भयविह्वहः ॥३७॥यत्र यत्र गतो धावन् शंखचूडो महाखलः ।तत्र तत्र गतः कृष्णः शालहस्तो भृशं रुषा ॥३८॥हिमाचलतटं प्राप्तः शालमुद्यम्य यक्षराट् ।तस्थौ तत्संमुखे राजन् युद्धकामो विशेषतः ॥३९॥तस्मै चिक्षेप भगवान् शालवृक्षं भुजौजसा ।तेन घातेनन पतितो वृक्षो वातहतो यथा ॥४०॥पुनरुत्थाय वैकुंठं मुष्टिना तं जघान ह ।जगर्ज सहसा दुष्टो नादयम् मंडलं दिशाम् ॥४१॥गृहीत्वा तं हरिर्दोर्भ्यां भ्रामयित्वा भुजौजसा ।पातयामास भूपृष्ठे वातः पद्ममिवोद्धृतम् ॥४२॥शंखचूडस्तं गृहीत्वा पोथयामास भूतले ।एवं युद्धे संप्रवृत्ते चकंपे भूमिमण्डलम् ॥४३॥मुष्टिना तच्छिरश्छित्वा तस्माच्चूडामणिं हरिः ।जग्राह माधवः साक्षात्सुकृती शेवधिं यथा ॥४४॥तज्ज्योतिर्निर्गतं दीर्घं द्योतयन्मण्डलं दिशाम् ।श्रीदाम्नि श्रीकृष्णसखे लीनं जातं व्रजे नृप ॥४५॥एवं हत्वा शंखचूडं भगवान् मधुसूदनः ।मणिपाणिः पुनः शीघ्रमाययौ रासमंडलम् ॥४६॥चंद्राननायै च मणिं दत्त्वा तं दीनवत्सलः ।पुनर्गोपीनणैः सार्धं रासं चक्रे हरिः स्वयम् ॥४७॥इति श्रीगर्गसंहितायां वृन्दावनखण्डे रासक्रीडायां शंखचूडवधोनाम त्रयोविंशोऽध्यायः ॥२३॥ N/A References : N/A Last Updated : May 19, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP