वृन्दावनखण्डः - अध्यायः ०२

गर्ग संहिता ही गर्ग मुनिंची रचना आहे. ह्या संहितेत श्रीकृष्ण आणि राधाच्या माधुर्य-भाव असलेल्या लीलांचे वर्णन आहे.


नन्द उवाच -
हे सन्नन्द महाप्राज्ञ सर्वज्ञोऽसि बहुश्रुतः ।
व्रजमंदलमाहात्म्यं वदतस्ते मुखाच्छ्रुतम् ॥१॥
गिरिर्गोवर्धनो नाम तस्योत्पत्तिंच मे वद ।
कस्मादेनं गिरिवरं गिरिराजं वदन्ति हि ॥२॥
यमुनेयं नदी साक्षात्कस्मात्लोकात्समागताः ।
तन्माहात्म्यं च वद मे त्वमसि ज्ञानिनां वरः ॥३॥
सन्नन्द उवाच -
एकदा हस्तिनपुरे भीष्मं धर्मभृतां वरम् ।
पप्रच्छ पाण्डुरित्थं तं जनानां चानुशृण्वताम् ॥४॥
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम् ।
असंख्यब्रह्मांडपतिः गोलोकाधिपतिः प्रभुः ॥५॥
भुवो भारावताराय गच्छन् देवो जनार्दनः ।
राधां प्राह प्रिये भीरु गच्छ त्वमपि भूतले ॥६॥
राधोवाच -
यत्र वृंदावनं नास्ति न यत्र यमुना नदी ।
यत्र गोवर्धनो नास्ति तत्र मे न मनःसुखम् ॥७॥
सन्नन्द उवाच -
वेदनागक्रोशभूमिं स्वधाम्नः श्रीहरिः स्वयम् ।
गोवर्धनं च यमुनां प्रेषयामास भूपरि ॥८॥
वेदनागक्रोशभूमिः सापि चात्र समागता ।
चतुर्विंशद्‌वनैर्युक्ता सर्वलोकैश्च वन्दिता ॥९॥
भारतात्पश्चिमदिशि शाल्मलीद्वीपमध्यतः ।
गोवर्धनो जन्म लेभे पत्‍न्यां द्रोणाचलस्य च ॥१०॥
गोवर्धनोपरि सुराः पुष्पवर्षं प्रचक्रिरे ।
हिमालयसुमेर्वाद्याः शैलाः सर्वे समागताः ॥११॥
नत्वा प्रदक्षिणीकृत्य पूजां कृत्वा विधानतः ।
गोवर्धनस्य परमां स्तुतिं चक्रुर्महाद्रयः ॥१२॥
शैला ऊचुः -
त्वं साक्षात्कृष्णचंद्रस्य परिपूर्णतमस्य च ।
गोलोके गोगणैर्युक्ते गोपीगोपालसंयुते ॥१३॥
त्वं हि गोवर्धनो नाम वृंदारण्ये विराजसे ।
त्वन्नो गिरीणां सर्वेषां गिरिराजोऽसि सांप्रतम् ॥१४॥
नमो वृंदावनाङ्काय तुभ्यं गोलोकमौलिने ।
पूर्णब्रह्मातपत्राय नमो गोवर्धनाय च ॥१५॥
सन्नन्द उवाच -
इति स्तुत्वाथ गिरयो जग्मुः स्वं स्वं गृहं ततः ।
शैलो गिरिवरः साक्षाद्‌गिरिराज इति स्मृतः ॥१६॥
एकदा तीर्थयायी च पुलस्त्यो मुनिसत्तमः ।
द्रोणाचलसुतं श्यामं गिरिं गोवर्धनं वरम् ॥१७॥
माधवीलतिकापुष्पं पलभारसमन्वितम् ।
निर्झरैर्नादितं शान्तं कंदरामंगलायनम् ॥१८॥
तपोयोग्यं रत्‍नमयं शतशृङ्गं मनोहरम् ।
चित्रधातुविचित्रांगं सटंकं पक्षिसंकुलम् ॥१९॥
मृगैः शाखामृगैर्व्याप्तं मयूरध्वनिमंडितम् ।
मुक्तिप्रदं मुमुक्षूणां तं ददर्श महामुनिः ॥२०॥
तल्लिप्सुर्मुनिशार्दूलो द्रोणपार्श्वं समागतः ।
पूजितो द्रोणगिरिणा पुलस्त्यः प्राह तं गिरिम् ॥२१॥
पुलस्त्य उवाच -
हे द्रोण त्वं गिरिन्द्रोऽसि सर्वदेवैश्च पूजितः ।
दिव्यौषधिसमायुक्तः सदा जीवनदो नृणाम् ॥२२॥
अर्थी तवांतिके प्राप्तः काशीस्थोऽहं महामुनिः ।
गोवर्धनं सुतं देहि नान्यैर्मेऽत्र प्रयोजनम् ॥२३॥
विश्वेश्वरस्य देवस्य काशीनाम्ना महापुरी ।
यत्र पापी मृतः सद्यः परं मोक्षं प्रयाति हि ॥२४॥
यत्र गंगाऽऽगता साक्षाद्‌विश्वनाथोऽपि यत्र वै ।
तत्रैव स्थापयिष्यामि जातोऽयं मे मनोरथः ॥२६॥
सन्नन्द उवाच -
पुलस्त्यवचनं श्रुत्वा स्वसुतस्नेहविह्वलः ।
अश्रुपूर्णो द्रोणगिरिस्तं मुनिं वाक्यमब्रवीत् ॥२७॥
द्रोण उवाच -
पुत्रस्नेहाकुलोऽहं वै पुत्रो मेऽयमतिप्रियः ।
ते शापभयभीतोऽहं वदाम्येनं महामुने ॥२८॥
हे पुत्र गच्छ मुनिना भारते कर्मके शुभे ।
त्रैवर्ग्यं लभ्यते यत्र नृभिर्मोक्षमपि क्षणात् ॥२९॥
गोवर्धन उवाच -
मुने कथं मां नयसि लंबितं योजनाष्टकम् ।
योजनद्वयमुच्चांगं पंचयोजनविस्तृतम् ॥३०॥
पुलस्त्य उवाच -
उपविश्य करे मे त्वं गच्छ पुत्र यथासुखम् ।
वाहयामि करे त्वां वै यावत्काशीं समागतः ॥३१॥
गोवर्धन उवाच -
मुने यत्र स्थले भूम्यां स्थापनां मे करिष्यसि ।
करिष्यामि न चोत्थानं तद्‌भूम्याः शपथो मम ॥३२॥
पुलस्त्य उवाच -
अहमाशाल्मलिद्वीपान् मर्यादीकृत्य कौसलम् ।
न स्थापनां करिष्यामि शपथस्तेऽपि मे पथि ॥३३॥
सन्नन्द उवाच -
मुनेः करतले तस्मिन्नारुरोह महाचलः ।
प्रणम्य पितरं द्रोणमश्रुपूर्णाकुलेक्षणः ॥३४॥
मुनिस्तं दक्षिणकरे धृत्वा गच्छन् शनैः शनैः ।
स्वतेजो दर्शयन् नॄणां प्राप्तोऽभूद्‌व्रजमंडले ॥३५॥
जातिस्मरो गिरिस्तत्र प्राहेदं पथि चिंतयन् ।
परिपूर्णतमः साक्षाच्छ्रीकृष्णो भगवान् स्वयम् ॥३६॥
अखंडब्रह्माण्डपतिर्व्रजेऽत्रावतरिष्यति ।
बाललीलां च कैशोरीं चेष्टां गोपालबालकैः ॥३७॥
दानलीलां मानलीलां हरिरत्र करिष्यति ।
तस्मान्मया न गन्तव्यं भूमिश्चेयं कलिन्दजा ॥३८॥
गोलोकाद्‌राधया सार्धं श्रीकृष्णोऽत्रागमिष्यति ।
कृतकृत्यो भविष्यामि कृत्वा तद्दर्शनं परम् ॥३९॥
एवं विचार्य मनसा भूरि भारं ददौ करे ।
तदा मुनिश्च श्रांतोऽभूद्‌भूतपूर्वं गतस्मृतिः ॥४०॥
करादुत्तार्य तं शैलं निधाय व्रजमंडले ।
लघुशंकाजयार्थं हि गतोऽभूद्‌भारपीडितः ॥४१॥
कृत्वा शौचं जले स्नात्वा पुलस्त्यो मुनिसत्तमः ।
उत्तिष्ठेति मुनिः प्राह गिरिं गोवर्धनं परम् ॥४२॥
नोत्थितं भूरिभाराढ्यं कराभ्यां तं महामुनिः ।
स्वतेजसा बलेनापि गृहीतुमुपचक्रमे ॥४३॥
मुनिना संगृहीतोऽपि गिरिराजो गिराऽऽर्द्रया ।
न चलालांगुलिं किंचित् तदपि द्रोणनन्दनः ॥४४॥
सन्नन्द उवाच -
गच्छ गच्छ गिरिश्रेष्ठ भारं मा कुरु मा कुरु ।
मया ज्ञातोऽसि रुष्टस्त्वमभिप्रायं वदाशु मे ॥४५॥
गोवर्धन उवाच -
मुनेऽत्र मे न दोषोऽस्ति त्वया मे स्थापना कृता ।
करिष्यामि न चोत्थानं पूर्वं मे शपथः कृतः ॥४६॥
सन्नन्द उवाच -
पुलस्त्यो मुनिशार्दूलः क्रोधात् प्रचलितेन्द्रियः ।
स्फुरदोष्ठो द्रोणपुत्रं शशाप विगतोद्यमः ॥४७॥
सन्नन्द उवाच -
गिरे त्वयातिधृष्टेन न कृतो मे मनोरथः ।
तस्मात्तु तिलमात्रं हि नित्यं त्वं क्षीणतां व्रज ॥४८॥
सन्नन्द उवाच -
काशीं गते पुलस्त्यर्षावयं गोवर्धनो गिरिः ।
नित्यं संक्षीयते नन्द तिलमात्रं दिने दिने ॥४९॥
यावद्‌भागीरथी गंगा यावद्‌गोवर्धनो गिरिः ।
तावत्कलेः प्रभावस्तु भविष्यति न कर्हिचित् ॥५०॥
गोवर्धनस्य प्रकटं चरित्रं
नृणां महापापहरं पवित्रम् ।
मया तवाग्रे कथितं विचित्रं
सुमुक्तिदं कौ रुचिरं न चित्रम् ॥५१॥

इति श्रीगर्गसंहितायां वृन्दावनखण्डे नारदबहुलाश्वसंवादे गिरिराजोत्पत्तिकथनं नाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : May 19, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP