संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता|
अथ शुद्धगतयः

धनुर्वेदसंहिता - अथ शुद्धगतयः

धनुर्वेदसंहिता


लक्ष्यबाणाग्रदृष्टिनां सङ्गतिस्तु यदा भवेत्
तदानीं मुञ्चितो बाणो लक्ष्यान्न स्खलति ध्रुवम् ॥१४३॥
निर्दोषः शब्दहीनश्च सममुष्टिद्वयोऽङ्कितः
भिनक्ति दृढभेद्यानि सायको नास्ति संशयः ॥१४४॥
स्वाकृष्टस्तेजितोयश्च सुशुद्धो गाढमुष्टितः
नरनागाश्व कायेषु न तिष्ठति स मार्गणः ॥१४५॥
यस्य तृणसमा बाणाः यस्येन्धनसमं धनुः
यस्य प्राणसमा मौर्वी स धन्वी धन्विनां वरः ॥१४६॥

N/A

References : N/A
Last Updated : May 14, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP