संस्कृत सूची|संस्कृत साहित्य|संहिता|धनुर्वेदसंहिता| ततो व्यूहादिभिर्युद्धकथनम् धनुर्वेदसंहिता प्रणाम अथाचार्य्यलक्षणम् अथ वेधविधिः अथ चापप्रमाणम् अथ शुभचापलक्षणम् अथ वर्ज्जितधनुः अथ गुण लक्षणानि अथ शरलक्षणानि अथ फललक्षणम् अथैतेषां कर्म्माणि अथ पायनम् अथ स्थानमुष्ट्याकर्षणलक्षणानि अथ गुणमुष्टिः अथ धनुर्मुष्टिसन्धानम् अथ धनुर्व्यायाः अथ लक्ष्यम् अथ लक्ष्याभ्यासस्वरूपाणि अथानध्यायः अथ श्रमक्रिया अथ लक्ष्यस्खलनविधिः अथ शीघ्र सन्धानम् अथ दूरपातित्वं हीनगतिसमूहः अथ बाणलक्ष्यस्खलनगतिसमूहः अथ पूर्वोक्त गतिसमूहोदाहरणम् अथ शुद्धगतयः अथ दृढचतुष्कम् अथ काष्ठछेदनम् अथ धावल्लक्ष्यम् अथ विधिः अथ शब्दवेधित्वम् अथ प्रत्यागमनम् अथ अस्त्राणि पाशुपतास्त्रम् अथौषधिः अथ संग्रामविधिः अथ राहुयुक्ता योगिनीबलयुद्धं व्याख्यास्यामः ततो व्यूहादिभिर्युद्धकथनम् पृष्ठतो भये शकटव्यूहम् अथ सेनानयः अथ पदातिक्रमः अथ हस्तिक्रमः अथ शिक्षा धनुर्वेदसंहिता - ततो व्यूहादिभिर्युद्धकथनम् धनुर्वेदसंहिता Tags : dhanurveddhanurved samhitasamhitaधनुर्वेदधनुर्वेद संहितासंहिता ततो व्यूहादिभिर्युद्धकथनम् Translation - भाषांतर ये राजपुत्राः सामन्ता आप्ताः सेवकजातयःतान् सर्वानात्मनः पाश्वे रक्षायै स्थापयेन्नृपः ॥३५॥परस्परानुरक्ता ये योधा शर्ङ्गधनुर्धराःयुद्धज्ञास्तुरगारूढास्ते जयन्ति रणे रिपुन् ॥३६॥एकः कापुरुषो दीर्णो दारयेन्महतीञ्चनुम्तद्दीर्णानु दीर्य्यन्ते योधाः शूरतमा अपि ॥३७॥अतो वै कातरं राजा बलेनैव नियोजयेत्द्वाविमौ पुरुषो लोके सूर्य्यमण्डलभेदिनौ ॥३८॥परिव्राड्योगयुक्तश्च रणे चाभिमुखो हतःयत्र यत्र हतः शूरः शत्रुभिः परिवेष्टितः ॥३९॥अक्षयं लभते लोकं यदि क्लीबं न भाषते ॥४०॥मूर्छितं नैव विकलं नाशस्त्रं नान्ययोधिनम्पलायमानं शरणं गतञ्चैव न हिंसयेत् ॥४१॥भीरुः पलायमानोऽपि नान्वेष्टव्यो बलीयसाकदाचिच्छूरतां याति शरणेऽकृतनिश्चयःसंभृत्य महतीं सेनां चतुरङ्गां महीपतिः ॥४२॥व्यूहयित्वाग्रतः शूरान् स्थापयेज्जयलिप्सयापृष्ठेन वायवो वान्ति पृष्ठे भानुवयांसि च ॥४३॥अनुप्लवते मेघाश्च यस्य तस्य रणे जयःअपूर्णेनैव मर्त्तव्यं सम्पूर्णेनैव जीवनम् ॥४४॥तस्माद्धैर्य्यं विधायैव हन्तव्या परवाहिनीजिते लक्ष्मीर्मृते स्वर्गः कीर्त्तिश्च धरणीतले ॥४५॥तस्माद्धैर्य्यं विधायैव हन्तव्या परवाहिनीअधर्म्मः क्षत्रियस्यैषः यद् व्याधिं मरणं गृहेयदाजौ निधनं याति सोऽस्य धर्म्मः सनातनः ॥४६॥==अथ व्यूहानाहयुवास्वरे मध्यसेना युद्धं कुर्य्यादतन्द्रिताद्वेसेने पार्श्वयोश्चैका पृष्ठतो रक्षयेत् सदाएकां विकटसेनान्तु दूरस्थां भ्रामयेद् युधि ॥४७॥दण्डव्यूहश्च शकटो वराहो मकरस्तथासूचीव्यूहोऽथ गरुडः पद्मव्यूहादयो मताः ॥४८॥एतान् व्यूहान् परिव्यूह्य सेनापतिर्वसेत् सदाबला ध्यक्षादिकान् सर्वान् सर्वदिक्षु नियोजयेत्ततो दण्डव्यूहःसर्वतो भये दण्डव्यूहर् रचनाकार्य्या ॥४९॥ N/A References : N/A Last Updated : May 14, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP